महाशान्तिमहं वक्ष्ये शृणुध्वं तत्प्रभञ्जन ।
शिवलोकप्रदं नित्यं शिवप्रीतिकरं शुभम् ॥ १ ॥
सर्वशत्रुक्षयकरं सर्वपातकनाशनम् ।
प्रजावृद्धिकरं पुण्यं भोगमोक्षप्रदायकम् ॥ २ ॥
श्रावणे श्रोणनक्षत्रे प्राष्ठे तु पूर्वभाद्रके ।
आश्विने मासि चाश्वर्क्षे कार्तिके मास कार्त्तिके ॥ ३ ॥
आद्रक्षे आद्रमासे तु पुष्ये पुष्यप्रशस्यते ।
माघमासे मघर्क्षे तु फाल्गुने मासिचोत्तरे ॥ ४ ॥
प्। २०९)
चित्तमासे तु चैत्रेर्क्ष वैशाखे मासि सूर्पभे ।
मूलर्क्षे ज्येष्ठमासे तु आषाढे चोत्तराढके ॥ ५ ॥
अथवा पूर्वपञ्चम्यां मासे मासे व्रतं चरेत् ।
नद्यब्धिवापि कुले वा नगाग्रे वा महावने ॥ ६ ॥
ग्राममध्ये सभास्थाने देवागारसमीपके ।
भूमि संशोध्य विधिवत् प्रपां कृत्वा तु सुन्दरम् ॥ ७ ॥
शिवलिङ्गसमिपाद्य सहस्रं वा तदर्थकम् ।
तदर्धं वा शतं वापि तदर्धार्धमथापि वा ॥ ८ ॥
मृतदारुशैललोहैर्वधातुजै क्षणिकैस्तु वा ।
रत्नजैश्च विशेषेण पूजार्थं सम्प्रकल्पयेत् ॥ ९ ॥
यवत्रयं समारभ्य यवैकेन विवर्द्धनात् ।
यवाद्विशतसङ्ख्यान्तं मृल्लिङ्गेस्योदयं भवेत् ॥ १० ॥
क्षणिकलिङ्गम् ।
एकाङ्गुलसमारभ्य अर्द्धार्धङ्गुल्विवर्द्धनात् ।
चतुर्विंशाङ्गुलं यावद् दारुलीङ्गप्रकल्पयेत् ॥ ११ ॥
यथालाभप्रमाणेन रत्नलिङ्गं प्रकीर्तितम् ।
माषत्रयं समारभ्य माषैकेन विवर्द्धनात् ॥ १२ ॥
यावदष्टसहस्रान्तं शैललिङ्गोदयं भवेत् ।
कल्पयेत् क्षणिकं लिङ्गं यथाकामं प्रमाणकम् ॥ १३ ॥
मृन्दारुशैललोहानां विशेषं किञ्चिदस्ति हि ।
लिङ्गयामे तु वेदांशे एकाङ्गं लिङ्गविस्तृतम् ॥ १४ ॥
प्। २१०)
अथवा गुणभागैकं पञ्चांशे द्व्यंशविस्तृतम् ।
लिङ्गयामे गुणांशेंशं तन्मूले चतुरश्रकम् ॥१५ ॥
अर्चभागमिदं वृद्धि शेषं सुवृत्तरूप वा सर्वं सुवृत्तमेव वा ।
सूत्रोपेतविहीनं वा छत्रकारशिरोन्वितम् ॥ १६ ॥
एवं लक्षणसंयुक्तं प्रत्येकं लिङ्गमाहरेत् ।
एकलिङ्गेऽधवा कुर्यात् सर्वलिङ्गविशेषतः ॥ १७ ॥
लिङ्गयामत्रथा कृत्वा व्योमांश भूगतं भवेत् ।
एकांशं पीठबन्धं स्यादेकांशमर्चनार्हकम् ॥ १८ ॥
अथवा पञ्चभागे तु द्व्यंशं पीठे निवेशयेत् ।
पूजाभागं त्रिभागं स्यात् सप्तभागे त्रिकोलकम् ॥ १९ ॥
अर्चभागमिदं वृद्धिशेषं पिण्डप्रवेशनम् ।
पूजांशोदयतुङ्गं तु पञ्चविंशतिभातिजे ॥ २० ॥
एकैकं विभजेद्धीमान् चत्वारिशति सङ्ख्यकम् ।
सहस्रलिङ्गमेवं हि अयुतस्य विधि शृणु ॥ २१ ॥
लिङ्गोदये तु पञ्चाशद्भगं कृत्वा विचक्षण ।
चत्वारिंशेंश पञ्चांशं कृत्वा लिङ्गयुतं भवेत् ॥ २२ ॥
पूजांशोदयं तुङ्गं तु दशभागविभाजिते ।
एकपञ्चादशेन लिङ्गपञ्चशतं भवेत् ॥ २३ ॥
शिवोदयेत् तु वेदांशे त्वेकनक्षत्र भावये ।
अष्टोत्तरशतं लिङ्गं परितः सम्प्रकल्पयेत् ॥ २४ ॥
प्। २११)
शिवोदये तु पूजांशे त्वेके पञ्चविभाजिते ।
पञ्चविंशति लिङ्गस्यात्पञ्चाशद्विभजे सति ॥ २५ ॥
लिङ्गद्विजशतपञ्चांशं लिङ्गस्य परिकल्पितः ।
अल्पलिङ्गस्य तारार्धं पादं वाष्टांशमेव वा ॥ २६ ॥
महालिङ्गस्य विस्तारं दूर्ध्वे संयोज्य पार्श्वयोः ।
तन्मानमल्पलिङ्गस्य महालिङ्गाद्विनिर्गतः ॥ २७ ॥
लिङ्गोपरि भवेल्लिङ्गं न कर्तव्यं कदाचन ।
अन्तराल भवेल्लिङ्गं मध्य सङ्कल्पयेत् क्रमात् ॥ २८ ॥
शिरोवर्त्तनयुक्तं वा हीनं वा कल्पयेद् बुधः ।
महालिङ्गशिरोमानं मध सङ्कल्पयेत् क्रमात् ॥ २९ ॥
रत्नलिङ्गशिरोमानमध सङ्कल्पयेत् क्रमात् ।
लिङ्गानामपि सर्वेषां सूत्रहीनं प्रकल्पयेत् ॥ ३० ॥
नन्द्यावर्तशिलापीठं शिवलिङ्गं विधानवत् ।
एवं लक्षणसंयुक्तं लिङ्गं सङ्ग्राहयेद् बुधः ॥ ३१ ॥
एवं संस्थाप्य पूर्वेद्युर्नवमे सप्तमेऽपि वा ।
निश्चित्य दिवसात्पूर्व सायान्न समयेद् बुधः ॥ ३२ ॥
स्नानं कृत्वा विधानेन यजमानसमन्वितम् ।
प्रपामण्डपमाविश्या भूतशुद्धिसमाचरेत् ॥ ३३ ॥
सकलिकरणं कृत्वा प्रदक्षिणमथाचरेत् ।
लिङ्गसङ्ख्य जपेन्मूलं यजमानसमन्वितम् ॥ ३४ ॥
प्। २१२)
जपान्ते प्रङ्मुखो भूत्वा क्षीरं भुक्व जितेन्द्रिय ।
मण्डपस्योत्तरे पार्श्वे शाययेत् सैकतोपरि ॥ ३५ ॥
ब्राह्मि मुहूर्ते उद्धाया पादप्रक्षालनं कुरु ।
मुखं शुद्धिं ततः कृत्वा आचम्ये देशिकोत्तमः ॥ ३६ ॥
भस्मना तिलकं दत्वा मूलमन्त्र जपेत् ततः ।
यजमानसमोपेतो स्नानं कृत्वा यथाविधिः ॥ ३७ ॥
सन्ध्यादि वन्दनं कृत्वा नित्यकर्म समाप्य च ।
प्रपामण्डपमाविश्य सकलिकृतविग्रहः ॥ ३८ ॥
मण्डपं पूजयेद् विद्वान् मण्डपे कल्पयेत् तु वा ।
चतुर्द्वारसमभ्यर्च्य पूर्वेण विधिना सह ॥ ३९ ॥
पूजयेदथ रक्षार्थं मन्त्रराजं सशक्तिकम् ।
प्रपामण्डपमध्ये वा पश्चिमे वापिचक्षण ॥ ४० ॥
विन्यसेत् तु महा * * मन्तैर्दारुमयैस्तु वा ।
उपर्यस्तरणं कल्प्य शुद्धवस्त्रादिकैर्यथा ॥ ४१ ॥
शिवसनं च तस्योर्द्धे लिङ्गसङ्ख्या प्रकल्पयेत् ।
पुण्याहं वचयेत् तत्र पञ्चगव्यमृतं तथा ॥ ४२ ॥
सङ्कल्पलिङ्गात् सङ्गृह्य स्नानवेद्युपरि न्यसेत् ।
प्रक्षाल्य चास्त्रमन्त्रेण पञ्चगव्यमृतादिकैः ॥ ४३ ॥
लिङ्गमन्त्रेण संस्नाप्य स्थापयेच्च शिवासने ।
तत् तन् मन्त्रेण चाभ्यर्च्य गन्धपुष्पं सुधूपकम् ॥ ४४ ॥
प्। २१३)
दीपं नैवेद्यताम्बूलं दापयेत् तदनन्तरम् ।
नीलोत्पलैर्वा कल्हारै पत्रैर्वा श्वेतपङ्कजैः ॥ ४५ ॥
अर्कैरारग्वधैर्वाथ चम्पकैर्वा विचक्षणः ।
रत्नैर्वा कनकैर्वाथ कल्पुरशकलेन वा ॥ ४६ ॥
अथवा बिल्वपत्रेण पूजयेल्लिङ्गमन्त्रतः ।
पूजार्थमाहृतं पुष्पं सङ्गृह्य शुद्धपात्रके ॥ ४७ ॥
निरीक्षणादिभिः शोद्ध्य धूपदीपं प्रदापयेत् ।
यजमानमधाभूय सम्प्रोक्ष्याध्यजलेन च ॥ ४८ ॥
भस्मना तिलकं कल्प्य शिवमन्त्रेण देशिकः ।
शिवहस्तं च सङ्कल्प्य यजमानस्य मूर्धनी ॥ ४९ ॥
त संस्थाप्य जले पद्ममूलमष्टोत्तरं शतम् ।
पूजार्थमाहृतं पुष्पं शङ्खध्वनिसमन्वितम् ॥ ५० ॥
यजमानकरे दद्यादर्चयित्वा विचक्षणः ।
अङ्गं प्रतिददेत्पुष्पं तत्तन्मत्र समुच्चरन् ॥ ५१ ॥
एकलिङ्गविशेषोऽस्ति परितो पीठबाह्यके ।
त्रिहस्तं वा तदर्थं वा स्थलमानं व्यपोह्य च ॥ ५२ ॥
पूजांशोदयमानं तत् तन्मानं व्याप्यमण्डलम् ।
तद्बाह्ये वेदिकामानं सप्ततालसमुन्नतम् ॥ ५३ ॥
उत्सेधसमविस्तार तदर्द्धार्द्धमथापि वा ।
त्रिमेखलयुतं वापि द्विमेखलयुतं तु वा ॥ ५४ ॥
प्। २१४)
चतुरश्रं सुवृत्तं वा परितः कल्पयेत् क्रमात् ।
सुधायासिकतैस्तत्र पूरये शुद्धवारिणा ॥ ५५ ॥
तद्वारिमण्डले दृष्ट्वा लिङ्गं सहस्रकं बुधः ।
पूर्ववत्पूजयेद् विद्वान् लिङ्गस्य परितः क्रमात् ॥ ५६ ॥
अग्रादि मूलपर्यन्तं भक्तिमुक्तिप्रदायकम् ।
मूलादि चाग्रपर्यन्तं पूजामुक्तिफलप्रदम् ॥ ५७ ॥
लिङ्गं च वरणं यत् तत् क्रमेण वारिमण्डले ।
यजमानेन चाभ्यर्च्य पूर्ववद् देशिकोत्तमः ॥ ५८ ॥
लिङ्गं प्रत्याढकार्द्धेन नैवेद्यं परिकल्पयेत् ।
धूपदीपं ततो दत्वा लिङ्गवरणमार्गतः ॥ ५९ ॥
नृत्तान्तां पूजयेद् विद्वान् लिङ्गस्य वरणं प्रति ।
गीतनृत्यादिकं सर्वं लिङ्गस्य परितः क्रमात् ॥ ६० ॥
सङ्कल्प्य लिङ्गपूजान्ते शिवमन्त्रं शतं जपेत् ।
इष्टबन्धुजने सार्धं यजमानसमन्वितम् ॥ ६१ ॥
तद्वारिमण्डले स्नात्वा यद्देवदेवमन्त्रतः ।
अनेन विधिमार्गेण स्नात्वा तद्वारिमण्डले ॥ ६२ ॥
सोऽपि पापैर्विनिर्मुक्तः शिवसायुज्यमाप्नुयात् ।
महाशान्तिव्रत दृष्ट्वा नत्वा लिङ्गसहस्रकम् ॥ ६३ ॥
यः कुर्वच्छिवलोकेऽपि शिवेन सह मोदते ।
आचार्य पूजयेत् तत्र गोभूमिकाञ्चनादिकैः ॥ ६४ ॥
प्। २१५)
अस्य व्रतोपकाराणां नववस्त्रं प्रदापयेत् ।
महाशान्तिव्रतं प्रोक्तं गौरिव्रतमथ शृणु ॥ ६५ ॥
इति सूक्ष्मशास्त्रे क्रियापादे महाशान्तिव्रतं नाम एकचत्वारिंशत्पटलः ॥