अतः परं प्रवक्ष्यामि पार्वतीलक्षणं परम् ।
सर्वलोकहितार्थाय सर्वोपद्रविनाशनम् ॥ १ ॥
अङ्गनानां हितार्थाय सर्वमङ्गलहेतवे ।
मूललिङ्गस्य शोभार्थं लीलार्थं वा विशेषतः ॥ २ ॥
प्। १६६)
शयनाङ्गाना यथा मस्तु मूलधामस्य शाङ्करे ।
पावके नै-ऋते चैव वेसरं कल्पयेद् बुधः ॥ ३ ॥
अन्तर्मण्डलबाह्ये तु अन्तर्हारा सुपाश्वके ।
मध्यमस्य तु हाराया मन्तो बाह्यं न कारयेत् ॥ ४ ॥
प्रासादमण्डपं वापि गोपुराकारमेव हि ।
मालिकाकारमेवं स्याद् ब्राह्मणादि क्रमेण तु ॥ ५ ॥
सर्वेषामेव जातीनां द्राविडं धाममुच्यते ।
प्रकारभित्तिबाह्ये वा भ्यन्तरे वा विशेषतः ॥ ६ ॥
मूलप्रासादबाह्ये तु प्रासादाभ्यन्तरेथवा ।
सूत्रबन्धौ तु कर्तव्यं शत्रुनाशनम् ॥ ७ ॥
प्राकारचलनं नेष्टम् इष्टं चैत् सर्वदोषदम् ।
यजमानाय तदेदाषं सर्वथा तु न कारयेत् ॥ ८ ॥
इषुहस्तप्रमाणेन प्रासादादीन् प्रकल्पयेत् ।
नवहस्तात्समारभ्य विंशद्धस्तं तमेव च ॥ ९ ॥
ब्राह्मणादि क्रमेणैव वर्द्धयेत् तु त्रयं त्रयम् ।
पञ्चहस्तात् समारभ्य पञ्चदशकरान्तकम् ॥ १० ॥
अन्तराणां तु जातिनाम् उक्तम्मेन्द्रकनियसम् ।
त्रिहस्तं तु समारभ्य रुद्रहस्तान्तमेव च ॥ ११ ॥
सर्वेषां जातियुक्तश्चेन्मानं चैव प्रकिर्तितम् ।
विस्तारद्विगुणोत्सेधं पादो न तु तदर्थकम् ॥ १२ ॥
प्। १६७)
अग्रतो मण्डपं कुर्यात् प्रासादार्थप्रमाणतः ।
प्रासादपरितः कुर्यात् समीपे तथैव च ॥ १३ ॥
सालकर्मं न कर्तव्यं न समीपे बुधोनरः ।
अग्रमण्डपबाह्ये तु नृत्तमण्डपमुच्यते ॥ १४ ॥
तस्याग्रे बलिपीठं तु पञ्चाङ्गसहितं ततः ।
शिल्पशास्त्रोक्तमार्गेण पीठं कुर्यात् सलक्षणम् ॥ १५ ॥
वीरे सम्यक् समाख्यातं योगे क्रमेण कल्पयेत् ।
स्वयमुद्भूतलिङ्गस्य दैविकार्षयकोरपि ॥ १६ ॥
असुरस्य तु बाणस्य प्रासादाः शेनधामकम् ।
पौरुषस्य तु लिङ्गस्य धामं गर्तेन कारयेत् ॥ १७ ॥
प्रासादस्य समं तारं पादोनं वार्धमेव वा ।
पादं वापि प्रकर्तव्यं मुत्सेधं पूर्ववद्भवेत् ॥ १८ ॥
एवमेव विधानेन कुर्याद् देवालयं बुधः ।
पौरुषस्य तु लिङ्गस्य धामङ्गत्तेन कारयेत् ॥ १९ ॥
प्रासादस्य समं तारम् आलयं दक्षिणे दिशि ।
स्वयमुद्भूतलिङ्गस्य आलयञ्चाष्टदिक्ष्वपि ॥ २० ॥
कारयेत् तु विशेषेण कुर्यादि सहितं बुधः ।
सौवर्णाद्यैर्विशेषेण कारयेत् च्छयनाङ्गनाम् ॥ २१ ॥
तेषामभावे शुद्धेन नाश्मना दारुणाथवा ।
तेषामभावे भित्तौ तु निद्राशक्तिं च कारयेत् ॥ २२ ॥
प्। १६८)
पटे वा फलकायां वा पार्वति कारयेद्बुधः ।
तस्मात् सर्वप्रयत्नेन शयनार्थं मनोन्मनि ॥ २३ ॥
कारयेत् सूत्रलिङ्गस्य मानं मानाङ्गुलेन तु ।
पञ्चाशद् द्व्यङ्गुणेनैव कारयेदुत्तमं बुधः ॥ २४ ॥
तस्मात् पञ्चाङ्गुलं हिना नवप्रत्येकदानकम् ।
एकत्रंशाङ्गुलारभ्य अश्वन्यगुल हीनकम् ॥ २५ ॥
प्रत्येकं नवमानं स्याद् दशपञ्चान्तकं क्रमात् ।
मात्राङ्गुलेन वा कुर्याद् यजमानाङ्गुलेन वा ॥ २६ ॥
एवमङ्गुलमानेन नवमानां दशाधिकम् ।
मूललिङ्गसमं दैर्घ्यं मुत्तमामानमिष्यते ॥ २७ ॥
तदर्थं कन्न्यसं प्रोक्तं तयोर्मद्येष्टभाजिते ।
प्रत्येकं नवमानं स्याद् उत्तमादि त्रयत्रयम् ॥ २८ ॥
यस्य लिङ्गस्य चायामं नवांशं भजेयेत्समम् ।
प्रत्येकं नवमानं स्यात् पूजांशं सदृशं कुरु ॥ २९ ॥
उत्तमाननमेवं स्यात् पूजाशार्थं हि कन्यसम् ।
तयोर्मध्येऽष्टभागे तु प्रत्येकं नवमानकम् ॥ ३० ॥
पीठोत्सेधं समं दीर्घं द्विगुणत्रिगुणं तु वा ।
उत्तमं मध्यमं चैव अधमञ्चेति कथ्यते ॥ ३१ ॥
पीठविस्तारमानं तु पञ्चांशं भाजयेत् ततः ।
एकाशाधिकमानेन उत्तमं दीर्घमुच्यते ॥ ३२ ॥
प्। १६९)
पञ्चांशकन्यसं विद्यात् तयोर्मध्येऽष्टभाजिते ।
प्रत्येकं नर्ममानस्यात् कर्णमानं तथैव च ॥ ३३ ॥
एवं पौरुषलिङ्गस्य आयामं देवि तुगकम् ।
लिङ्गमानादिभिर्मानैर्मानैः कुर्यात् तु तां प्रति ॥ ३४ ॥
प्रासादस्य तु विस्तारं नवाशं भजयेत् ततः ।
उत्तमं मध्यमं चैव अधमं तु त्रिधा पुनः ॥ ३५ ॥
प्रासादस्य तु विस्तारं सप्तभागैर्विभाजयेत् ।
पञ्चांशमुत्तमं विद्यात्रियंशं कन्न्यसं भवेत् ॥ ३६ ॥
श्रेष्ठं कन्न्यसयोध्ये उत्तमं भाजयेत् समम् ।
प्रत्येकं नवमानं स्याद्वारस्तम्भो विशेषतः ॥ ३७ ॥
यस्य गर्भगृहं तारं नावाशं भजयेत्समम् ।
एकैक तुङ्गमानं स्यान्नवधा भेदमुच्यते ॥ ३८ ॥
गर्भार्द्धं कन्यसं विद्यात् पञ्चांशं तुर्यथांशकम् ।
उत्तमं मानमाख्यातं तयोर्मध्येऽष्ट भाजिते ॥ ३९ ॥
तानि प्रत्येकमानस्यात् कर्णमानं तथैव च ।
स्वायम्भुवादिलिङ्गानां पूजांशं द्विगुणोच्छ्रयम् ॥ ४० ॥
पूजांशं त्रिशमाधिक्यम् उत्तमं मानमुच्यते ।
मध्यमं द्विगुणं दैर्घ्यं तत्समं दैर्घ्यमुच्यते ॥ ४१ ॥
मध्यमं चोत्तमं चैव अधमं चेति कत्थ्यते ।
पूजांशं नवधा भज्य एकैकं मानमुच्यते ॥ ४२ ॥
प्। १७०)
यस्य लिङ्गस्य पूजांशं दशांशं भजयेत्समम् ।
तस्मात् त्रियंशमधित्यमुत्तमोत्तममुच्यते ॥ ४३ ॥
मध्यमं द्वादशांशं तु तस्मादेकांशहीनकम् ।
अधमं मानमेवोक्तं क्षुद्रलिङ्गस्य चोच्यते ॥ ४४ ॥
यस्य लिङ्गस्य चायामे षोडशांशं विभाजिते ।
तेषु मुख्या नवांशस्याच्छेषांशं कन्यसत्रयम् ॥ ४५ ॥
लिङ्गस्य परिणाहं स्यात् समं स्याद् देवि तुङ्गकम् ।
द्विगुणं मध्यमं चैव त्रिगुणं चोत्तमं स्मृतम् ॥ ४६ ॥
अंशं तु विभजेत् तेषु पूर्ववत् कारयेत् क्रमाद् बुधः ।
विष्कभं त्रिगुणं तुङ्गं द्विगुणं तत्समं तु वा ॥ ४७ ॥
उत्तमं मध्यमं चैव अधमं च त्रिधा भवेत् ।
लिङ्गस्य कर्णमानेन पूर्ववत् प्रारभेत्सुधिः ॥ ४८ ॥
पौरुषस्य तु लिङ्गस्य सूत्रमानेन कारयेत् ।
आयव्यय क्षवाराष्टौ योन्यंशकशुभं नयेत् ॥ ४९ ॥
यजमानानुकूलेन नक्षत्रेण समन्वितम् ।
सशक्त्यैस्सर्व सम्पत्यै राजाराष्ट्राभिवर्धये ॥ ५० ॥
तस्मात् सर्वप्रयत्नेन आयादिसहितं कुरु ।
निश्चित्य पार्वतितुङ्गं मानां शूलेन भजयेत् ॥ ५१ ॥
वसुनन्दगुणैर्वृद्धि कुर्यात् मानाङ्गुलाद् बुधः ।
भानुनाडि हृदे सम्यक् शेषमायादिकं भवेत् ॥ ५२ ॥
प्। १७१)
तेन पीठं पीथं प्रविस्तारं पूर्वत् कारयेत् सुधिः ॥
अष्टाभिवृद्धिते तच्च सप्तविंशतिभूषिते ॥ ५३ ॥
शेषं नक्षत्रमेवं स्याल्लोकसन्तान कारणे ।
नवभिवृद्धितं चैव सप्तभिर्भाजयेद् बुधः ॥ ५४ ॥
शेषं वारमिति प्रोक्तं नक्षत्रं च चतुर्गुणम् ।
नवभिस्तु हदे तत्र शेषमंशकमादिशेत् ॥ ५५ ॥
सूर्यभौमार्किकाकृष्टशेषा वै शोभनास्मृता ।
आयाधिक्यं शुभं विद्याद् व्ययाधिक्यमशोभनम् ॥ ५६ ॥
धूमश्वान खरौ काकनग्राह्यच्छभमिच्छताम् ।
एवं प्रकारमार्गेण पीठोत्सधं तु दक्षिणे ॥ ५७ ॥
पीठक्ष शक्तिरक्षं तु परस्परशुभं भवेत् ।
प्रतिकुलं न कर्तव्यम् अनुकूलाच्छुशुभं भवेत् ॥ ५८ ॥
एवमेव प्रकारेण प्रतिमारम्भकालके ।
लक्षयेत् षट्शुभं सम्यग् यथा तत्र न कारयेत् ॥ ५९ ॥
रक्षगणं च महेन्द्रं योनिस्त्रिराक्षमेव तु ।
वेधं रज्जुं च राशीं च वश्यं राश्याधिपं तथा ॥ ६० ॥
तेषां शुभाशुभं विद्याद्बिम्बक्षेण परिक्षयेत् ।
यजमानस्य रक्षेण शुभाशुभं परिक्षयेत् ॥ ६१ ॥
शुभाधिक्या व्ययाहिनं सा शक्तिः सर्वसम्पदा ।
शुभहिनं व्ययधित्यं सा गौरि सर्वदोषदा ॥ ६२ ॥
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ।
अन्यथा कारयेद् बिम्बं राजा राष्ट्रं विनिश्यति ॥ ६३ ॥
प्। १७२)
देवतार्चनसान्निध्यं तस्मात् तान् लक्षयेत् सदा ।
इदमन्यप्रकारेण विशेषं चोच्यते मया ॥ ६४ ॥
पार्वत्युत्सवमानं तु एकत्रिंशति भाजयेत् ।
तानि भागानि सङ्गण्य द्वादशेन तु दण्डयेत् ॥ ६५ ॥
अष्टभिर्जायते शेषमायं तत्र विधीयते ।
षोडशैर्गुणितं कृत्वा तानि भागानि पूर्ववत् ॥ ६६ ॥
आधिक्ये तुङ्गमानं स्याच्छुभं तत्र विधीयते ।
प्राप्तोत्सेधस्य मानं तु एकोनत्रिंशदङ्गुलम् ॥ ६७ ॥
कृत्वासम्यग् विशेषेण गणये दशवायुना ।
तानि सर्वाणि संहृत्य सप्तभिः शेषकं व्ययम् ॥ ६८ ॥
नवभिर्गुणितं तानि षड्भिस्सम्यक् हृदे पुनः ।
शेषो व्यय इति ख्यातो व्ययहीनं शुभं भवेत् ॥ ६९ ॥
प्रकृतस्सप्तविशद्भिगुणितं वा विशेषतः ।
तानि भागानि गणयेद्वारेण मतिमान्नरः ॥ ७० ॥
सप्तविंशतिभिर्भृत्वा शेषं नक्षत्रमादीशेत् ।
गणयेद्दशभिस्तानि सप्तविंशतिभिर्हृदे ॥ ७१ ॥
शेषनक्षत्रकं विद्यात् पूर्वलक्षण लक्षयेत् ।
उत्सेधं भूमिभिर्गण्यं तानि चाष्टानि वर्धयेत् ॥ ७२ ॥
मुनिभिर्भाजयेच्छेषं वारं तत्र विधीयते ।
भानितानि च सङ्गण्य द्वादशेन विशेषतः ॥ ७३ ॥
प्। १७३)
सप्तभि भोजयेत् च्छेषं सूर्यादेर्वारमुच्यते ।
आवर्त्तो सेत्थमानं तु तुर्भिगुणयेत् क्रमात् ॥ ७४ ॥
अष्टाभिर्हासकं कुर्यात् शेषं योनिरिति स्मृतम् ।
आस्तोत् सेधस्य भागानि गुणेन गुणितं यथा ॥ ७५ ॥
अष्टभिर्भाजयेत् च्छेषं योनिरत्र विधीयते ।
पूर्वोक्तविधिमार्गेण शुभाशुभं हि लक्षयेत् ॥ ७६ ॥
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ।
आयाधिक्ये व्ययाहीने मानं तत्समपात्पदम् ॥ ७७ ॥
आयं हीनं व्ययं मुख्यं मानं तत्सर्वदोषदम् ।
तस्मात् सर्वप्रयत्नेन आयाधिख्येन योजयेत् ॥ ७८ ॥
तेषां नक्षत्रकं मुख्यं सर्वहितावहम् * * ।
नक्षत्राधिपति चन्द्रः तस्मात् प्राधान्यकं शुभम् ॥ ७९ ॥
अंशवारौ तथैव स्याद् देवतामय तत्फलम् ।
एवं बहुप्रकारेण कारयेद् देशिकोत्तमः ॥ ८० ॥
येनमानेन निर्माण तेन मानेन कारयेत् ।
प्रधामारम्भकाले तु शुभाशुभं विचारयेत् ॥ ८१ ॥
यस्य संस्थापितं गर्भं तस्य मेवं तु कारयेत् ।
गृहितोत्सेथमानं तु पञ्चांशं भाजयेत् ततः ॥ ८२ ॥
एकांशं पीठककोत्सेधं चतुर्भागैक भागिकम् ।
त्रियंशे कांशमुत्सेथं षडिधं पीठिकोच्छ्रयम् ॥ ८३ ॥
प्। १७४)
उत्सेथं त्रिगुणोन्तारं द्विगुणन्तरमेव वा ।
चतुर्गुण नवा कुर्यात् पञ्चाङ्गं सहितं पुनः ॥ ८४ ॥
मङ्गलाप्रतिमारम्भे शुभाशुभानि लक्षयेत् ।
तेन रूपेण मार्गेण न्यस्त्वा सङ्ग्राह्ययेद्बुधः ॥ ८५ ॥
तरूपं लोपयेत् तत्र मनोशुद्धि मा विच्छरेत् ।
सुमुहूर्त्ते सुलग्ने तु प्रतिमारम्भयेत् सुधि ॥ ८६ ॥
मन्त्रेण स्थापितं गर्भं ब्रह्मसूत्रसमन्वितम् ।
येन द्रव्येण निर्माणं तेन द्रव्येण कारयेत् ॥ ८७ ॥
लोहादिभिः कृतं बिम्बं लक्षणेन विना कृतम् ।
स्तत्बिम्ब स्थापयेन्मोहात् पूजानाशमवाप्नुयात् ॥ ८८ ॥
प्रतिष्ठार्चन कर्तव्यं स्थानन्तरनिवेशयेत् ।
स्थानान्तरविधानेन क्षेपयेत् प्रतिमं बुधः ॥ ८९ ॥
प्रतिष्ठां तत्र कर्तव्यं भक्त्या तत्रैव पूजयेत् ।
देवानां तु कृता लोहं साङ्गोपाङ्गं विशेषतः ॥ ९० ॥
किञ्चिल्लक्षणसंयुक्तं त्वमेवस्थापयेद् बुधः ।
द्रव्यनामं न कुर्यात् तु द्रव्यनामं न लेपयेत् ॥ ९१ ॥
तस्मात् सर्वप्रयत्नेन लब्वादौ तु प्रकल्पयेत् ।
एवं वै दानवादीनां च्छत्रादीनां तथैव च ॥ ९२ ॥
लोपक्रिय न कर्तव्यं कर्तव्यं चेन्महद्भयम् ।
लोके तु कलहं रूपं सम्भ्रान्तं सकृतं यदि ॥ ९३ ॥
प्। १७५)
तेन कारणमार्गेण रूपं सर्वत्र हानि च ।
लोके मानुषरूपं स्यात् र्त्याम्या यदि बन्धवाः ॥ ९४ ॥
किमिदं देवरूपं तु ह्रासकार्यं न सर्वथा ।
पुराणान्निजबिम्बं च पुनं सन्धानमाचरेत् ॥ ९५ ॥
ब्रह्मकायादि नक्त्यानि कारयेद् विधिना बुधः ।
शिलारूपं न कर्तव्यं कर्तव्यं दोषदं भवेत् ॥ ९६ ॥
एवं परीक्ष्य विधिना कारयेद् देशिकोत्तमः ।
मध्यमं दशतालेन निन्द्रारूपं हि कारयेत् ॥ ९७ ॥
उष्णिषमङ्गुलं प्रोक्तं त्र्यङ्गुलं शिर उच्यते ।
त्रयोदशाङ्गुलं वक्त्रम् अर्द्धाङ्गुलगलस्मृतम् ॥ ९८ ॥
तस्मात् त्र्यङ्गुलार्द्धं तु हि काकमेढ्रन्तमेव च ।
मुखद्वयमिति प्रोक्तम् ऊरुमान मुखद्वयम् ॥ ९९ ॥
द्विकोलजानुमानं तु जङ्घा द्विमुखमुच्यते ।
भागं पादतलं प्रोक्तं पूर्वोक्तेन तु विस्तरम् ॥ १०० ॥
उष्णीवात्भ्रूध्वये मध्ये नास्योष्णीष हनुमध्यमे ।
अङ्गुले नाभिवामे तु गुल्पवामे द्वयङ्गुलम् ॥ १०१ ॥
नेत्रान्तं तु तथैवं स्यात् पञ्चमायात्रितिभृवा ।
तन्मध्ये द्विविधं प्रोक्तम्मग्रमर्द्धयवं स्मृतम् ॥ १०२ ॥
यवद्वयमयं चास्यात् उत्तराधरचर्मणा ।
यवं किनीनिकायामं विस्तारं च तथैव च ॥ १०३ ॥
प्।१७६)
येन यामत्रिभागं स्यान्मध्यमं कृष्णमण्डलम् ।
कर्णयोर्मध्यमे पृष्ठे द्वादशाङ्गुलविस्मृताम् ॥ १०४ ॥
तुण्डाग्राच्छिखिपालयन्तं चतुर्यवं च पाकृतिः ।
केशान्तं चर्भपश्चान्तं द्वयङ्गुलं द्वयवाधिकम् ॥ १०५ ॥
दृष्टियूनं समानं स्यात् तथैव मुनिनामकम् ।
कृष्णानि पक्ष्मरोमाणि प्राहुन्नवति सङ्ख्यया ॥ १०६ ॥
धनुरुत्पलमत्स्याभं लोचनादूरमुच्यते ।
द्वयवं तु भ्रुवोर्मध्ये पदमें मुनिपुङ्गवा ॥ १०७ ॥
गोजिमूलादिनासाग्रं भागषड्यवमुच्यते ।
त्रियङ्गुलं तु विस्तारं भ्रूवोच्छ्रायोर्यवद्वयम् ॥ १०८ ॥
पदपञ्चपटोज्ञेया षड्यवं पुष्करोच्छ्रयम् ।
एवमेवोच्छ्रयं कुर्याद्विस्तारस्य तथैव च ॥ १०९ ॥
पुनयोरुच्छयोर्मात्रषड्यवं स्यात् स उच्यते ।
तिलप्रसूनमानं स्यात् दर्द्धैकद्वयहत्रिकम् ॥ ११० ॥
यवलम्बं तु नासाग्रं क्रमेण परिकल्पयेत् ।
आधारान्तं पुटं सूत्रं यवोपेतद्विमात्रकम् ॥ १११ ॥
चतुर्मात्रयेवोपेतामस्यायामं प्रवक्ष्यते ।
विस्तारं चोत्तरोष्ठस्याः यवत्रितियमिष्यते ॥ ११२ ॥
पालिका यवामेस्यात् त्रिवक्त्रं तथैव इष्यते ।
यवार्धं गोजिनिम्बं स्यादुत्सेधं तु चतुर्थवम् ॥ ११३ ॥
प्। १७७)
यवद्वयं तदर्धं वा गोजिमूलस्य विस्तरा ।
विस्तारमधरोष्टस्या विद्युमात्रयवाधिकम् ॥ ११४ ॥
प्रवातस्य तु विस्तारं यवसप्तकमिष्यते ।
अर्धाधिकं यवं प्रोक्तं मधरस्य तु पालिका ॥ ११५ ॥
अङ्कुरद्वियवायामं पक्वं बिम्बफलोत्तमम् ।
हरेस्तस्योन्नति विद्यात् षडव्यं दर्शना न तु ॥ ११६ ॥
द्वात्रिंशत् त्रियवं तेषां मुच्छ्रायोगेन ता परम् ।
अधो दन्तस्तधाष्टांशं हि न मूर्धे तु षोडशा ॥ ११७ ॥
जिह्वा षड्यवविस्तारं तथा यामं गुलोच्छ्रयम् ।
त्रिमात्रं ह्यनुक्रमं कुर्याद् द्वियवत्रयमुन्नति ॥ ११८ ॥
यवनिम्नान्तदूर्ध्वं स्यात् त्रिमात्रं निर्गतिर्गति ।
भव्यसोहनुव्र * स्यादेकमात्रं द्वियन्तिति ॥ ११९ ॥
एकाकारं ततज्ञेयो पूर्णेन्दु सदृशें मुखम् ।
ऊर्ध्वं पद्मभ्रुवोर्मध्ये यवाधिकयवत्रयम् ॥ १२० ॥
कर्णस्य सुषिरं मात्रं विस्तारं तु चतुर्यवम् ।
द्वियवं कर्णपाल्यं तत्समं कर्णस्य पट्टिका ॥ १२१ ॥
कर्णपालार्धमात्रं स्यात् कर्णनालं तु मात्रकम् ।
लकार सदृशं कर्णं पूर्वाचार्येण भाषितम् ॥ १२२ ॥
अर्धमात्रिक्तारोच्चं पिच्छिष्टि चतुरङ्गुलम् ।
पूर्वौ परौ तु नालौ तु स्वयमेव विलम्बनौ ॥ १२३ ॥
प्। १७८)
अङ्गुलेन बिलम्बित्वं भवेत् कर्णविलम्बिना ।
अपाङ्गात्कर्णमूलान्तं सप्तमात्रयवत्रयम् ॥ १२४ ॥
ललाटस्य तु तारं स्यान्नवमात्रार्धमीरितम् ।
पूर्वकेशान्तमुष्णीषात्प्रभृत्याष्टाङ्गुलं भवेत् ॥ १२५ ॥
दन्तादिपाश्वकेशान्तं त्रयोदश्याङ्गुलंष्यते ।
त्रयोदशार्धमेवं स्यात् पृष्ठकेशायवस्मृतः ॥ १२६ ॥
भ्रुवपृष्ठे चतुर्मात्रं शूर्पाकारं तदिष्यते ।
कुकुटा कटिसन्धिं स्यात् सप्तविंशतिमात्रकम् ॥ १२७ ॥
मध्ये पक्षांशमित्याहुयोनिमध्ये यवान्ततः ।
समण्डलस्य विस्तारमुपस्थं तु दशाङ्गुलम् ॥ १२८ ॥
त्रयोदशार्धमात्र स्यात् कटिपृष्ठान्तमध्यमम् ।
नवमात्रार्धविस्तारं चतुरङ्गुलमुद्गमम् ॥ १२९ ॥
पृष्ठमण्डलमध्यस्तं वै मारुतं तदर्धकम् ।
भ्रुवमूलाग्रविस्तारं रेखात्रयसमन्वितम् ॥ १३० ॥
षोडशाङ्गुलविस्तारमुपबाह्याङ्गुलं भवेत् ।
हिक्का सूत्रादि कक्षान्तं दशमात्रार्धमिष्यते ॥ १३१ ॥
चतुर्मात्र द्विमात्रं च क्रमादेकार्धमात्रकम् ।
हिक्कसूत्रोपरि स्कन्धग्रीवमूलाद् भुजो विधि ॥ १३२ ॥
सप्तविंशति मात्रं स्यात् हिका सूत्रात् प्रभृत्यथा ।
भुजयामा तथा मात्रं कोर्परस्य त्रमात्रकम् ॥ १३३ ॥
प्। १७९)
प्रकोष्ठमेकविम्शद्विश्छतलस्यात् सप्तमात्रकम् ।
अर्धार्धमर्धमात्रार्धं मध्यमाङ्गुलमिष्यते ॥ १३४ ॥
षट्सूत्रा तर्जनिप्राहुयवाधिकमनामिकम् ।
अर्धाधिक चतुर्मात्रात् कनिष्ठाङ्गुष्ठयोर्विद ॥ १३५ ॥
नवमात्रं भवेद् भाहुम् ऊरूनागस्य विस्तरम् ।
विस्तारं बाहुमात्रं स्यात् तथा वै कारयेद् बुधः ॥ १३६ ॥
कोर्परस्य तु विस्तारम् अष्टमात्रं विदुर्बुधः ।
प्रकोष्ठस्य तु मूलं स्यादर्धमात्रं यवाधिकम् ॥ १३७ ॥
तन्मध्ये मध्यविस्तारं षड्यवं पञ्चषट् ङ्गुलम् ।
विस्तारे मणिबन्धस्य चतुर्मात्रं तु षड्यवम् ॥ १३८ ॥
तस्य नाहस्य विस्तारं त्रिगुणं पञ्चभागिकम् ।
अध्यर्धमधिकं कृत्वा परिणाहं विदुर्बुधः ॥ १३९ ॥
तलं तस्य तु विस्तारम् अग्रमध्यर्धसन्निभम् ।
अनामिकाग्र संविद्यात् कनिष्ठामूलविस्तरम् ॥ १४० ॥
अग्रं तस्यष्ट भागेन अङ्गुष्ठादिक पर्वत ।
अग्रपर्वार्धमायामं विस्तारं नवमिष्यते ॥ १४१ ॥
तलमूलाग्रमध्यानि त्रिमात्रं तु द्विमात्रकम् ।
तलरेखातयोगेन मध्ये वै पद्मशङ्खकम् ॥ १४२ ॥
उक्तं वक्ष्यन्तरं द्वाभ्याम्मर्धविंशतिमात्रकम् ।
स्थनं हिककान्तरं सार्धत्रयोदशाङ्गुलन्निभम् ॥ १४३ ॥
प्। १८०)
स्तनं तदा द्वियवाभ्यां द्विसप्ताङ्गुलमिष्यते ।
स्तनमण्डलविस्तारं नवमात्रं प्रकीर्तितम् ॥ १४४ ॥
तदर्धं तु स्तनोत्सेधं सुवृत्तं रमणीयकम् ।
चूचुकं द्वियवर्धोच्चं व्यालं कोलकमण्डलम् ॥ १४५ ॥
मध्योदरविशालं स्यादेकादश्याङ्गुलं तथा ।
पञ्चार्धद्वियवैसार्धं निम्नभागै प्रकीर्तितम् ॥ १४६ ॥
नाभिः प्रदक्षिणावृत्यो तिर्यग्रेखसमन्वितम् ।
श्रोणिप्रदेशविपुलं सप्तदश्याङ्गुलं भवेत् ॥ १४७ ॥
कटिप्रदेशविस्तारं विंशमात्रमिति स्मृतम् ।
योनिमूलस्यविस्तारं पञ्चाङ्गुलमिति स्मृतम् ॥ १४८ ॥
अश्वत्थ पत्र सदृशम् अनुपूर्वात् कृशं तथा ।
स्थानक्षप्रभृतैः पृष्ठं कक्षात्पञ्चदशाङ्गुलम् ॥ १४९ ॥
कुक्षिमध्यस्य विस्तारं महासप्तदशाङ्गुलम् ।
अष्टादशाहमात्रं स्यात् श्रोणिदेशस्य विस्तरम् ॥ १५० ॥
एकविंशतिमात्रं स्याद् ऊरुमध्यस्य विस्तरम् ।
दशमात्रार्धमात्रस्याज्जानुमध्ययवाधिकम् ॥ १५१ ॥
जङ्घमूलस्य विस्तारं दशमात्रं तु विस्तरम् ।
नवमाकं भवेदग्राण्मात्रं त्रिवयवाधिकम् ॥ १५२ ॥
नालकं तु चतुर्मात्रं षड्यवाधिकमिष्यते ।
पाष्णीविस्तारकोत् सेधम् उदयं तत्समं विदुः ॥ १५३ ॥
प्। १८१)
गुल्फाणां विस्तरौ ज्ञेयौ सप्त पञ्च यवा क्रमात् ।
अनुक्तं यद्भवेत् किञ्चित् शिल्पिशास्त्रोक्तमार्गतः ॥ १५४ ॥
लोहेन कल्पयेद् देविं शैल लिङ्गस्य बुद्धिमान् ।
लोहशैलं न कर्तव्यं लोहे लोहसमं तथा ॥ १५५ ॥
दारुवादिषु लिङ्गेषु सौवर्णादिनि योजयेत् ।
मिण्मये भित्तिचित्रे तु सौवर्णाद्यैश्च कारयेत् ॥ १५६ ॥
द्विबाहुकद्विनेत्रा च श्यामाभां कमलेक्षणाः ।
दक्षिणेनोत्पलं हस्तं वामहस्तं प्रलम्बितम् ॥ १५७ ॥
सर्वालङ्कारसंयुक्तां सर्वाभरणभूषिताम् ।
उत्तमं चतुरङ्गुल्यं दीर्घमष्टाङ्गुलं भवेत् ॥ १५८ ॥
सुस्तनां चारुवदनां पादौ नूपुरसंयुताम् ।
पद्मासनस्थितां देवीं बालचन्द्र प्रभूषिताम् ॥ १५९ ॥
किञ्चित्रिभङ्गिकां सम्यगुक्षारूढमथापि वा ।
एवमेव विधानेन कारयेच्छयनाम्बिकाम् ॥ १६० ॥
उमा च चण्डिका मौक्तितन्मानेन मुखद्वयम् ।
पञ्चमानसमायुक्तं कारयेत् पार्वति शुभाम् ॥ १६१ ॥
द्व्यङ्गुलं द्वियवं चैव हीनाधिक्यं तु दोषदम् ।
अधिकं चैव हीनं च वर्जयेत् तु प्रयत्नतः ॥१६२ ॥
मूलबेरप्रमाणेन उमाचै कारयेद् यदि ।
आयादि षट्शुभं सम्यक् कुर्याद् देविममानखे ॥ १६३ ॥
प्। १८२)
अन्येषामपि मनानामायादीन् लक्षयेत् सदा ।
अदूषाद्यस्तु लिङ्गादे लिङ्गानां सर्वलक्षणम् ॥ १६४ ॥
अनश्चकरणार्धेतोस्तेषामानक्रियां स्तिचेत् ।
तेषामारब्धकाले तु नक्षत्रादीनि लक्षयेत् ॥ १६५ ॥
पौषारम्भकाले तु षट्शुभं तु परिक्षयेत् ।
एवमेव विधानेन सर्वमानेष्ठकल्पयेत् ॥ १६६ ॥
ऐन्द्रे तु पार्वति स्थाप्य सर्वसम्पत्करं नृणाम् ।
आग्नेर्यां पुत्रदं कुर्याद्याम्य सौभाग्य सिद्धिदम् ॥ १६७ ॥
निनृतौ जयकं कुर्याद् वारुणं शत्रुनाशनम् ।
वायव्यां धनदं कुर्यात् सोमे सूनुविवर्धनम् ॥ १६८ ॥
ऐशान्यां धनवृद्ध्यर्थं प्रत्येकं फलमुच्यते ।
पश्चिमद्वारहम्ये तु आग्नेर्यां वा सशङ्करे ॥ १६९ ॥
अथवा वायवे चैव स्थापयेच्छयनाङ्गताम् ।
प्राक्द्वारस्य तु लिङ्गस्य तस्य दक्षिण भागिके ॥ १७० ॥
शयनाङ्गना प्रकल्पैव आरुषे चाष्टदिक्षु च ।
मूलप्रासादवद्वारमथवा चोत्तराननम् ॥ १७१ ॥
शक्त्यालयस्य मूलस्य अन्तरे भवनेऽपि च ।
देवतास्थापनं चैव इषश्चेत् सूनुनालयम् ॥ १७२ ॥
मूललिङ्गप्रमाणेन पुष्यद्रं कारयेद्रमाम् ।
प्रासादस्य प्रमाणेन प्रजावृध्यर्थ कारणम् ॥ १७३ ॥
प्। १८३)
गर्भगृहप्रमाणेन आयुष्यं तु बलार्थकम् ।
मूलबिम्बप्रमाणेन नारिणामभिवृद्धयेत् ॥ १७४ ॥
मूलसूत्रप्रमाणेन गोगजादिविवर्धनम् ।
मात्राङ्गुलविधानेन नृपराष्ट्राभिवृद्धयेत् ॥ १७५ ॥
एवं परिक्ष्य विधिना कारयेदुत्तमं बुधः ।
एवमुक्तप्रकारेण अन्येषामपि कारयेत् ॥ १७६ ॥
एन द्रव्येण आरम्भं नेत्रद्रव्येण कारयेत् ।
परिसमाप्तौ वस्येततस्य समक्क्रतेन तु ॥ १७७ ॥
एवं प्रकारं कर्तव्यं लोहादिषु विशेषतः ।
शिलादिषु यथेष्टं स्यादङ्गलेपं न कारयेत् ॥ १७८ ॥
शिल्पकर्मवसाने तु देशिकस्थापतिस्सहा ।
शुभौ प संलक्ष्य पश्चाद्बिम्ब पश्चात् प्रतिष्ठयेत् ॥ १७९ ॥
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ।
एवं विधप्रकारेण बहुमार्गेण कारयेत् ॥ १८० ॥
इति सूक्ष्मशास्त्रे देव्यालक्षणं नाम सप्तत्रिंशः पटलः ॥