गौर्यास्थापनं वक्ष्ये योगं भिन्नं द्विधा शृणु ।
संयुतं चोमया देवमेकासनगतं चरेत् ॥ १ ॥
देव्यार्थ योगरूपं तु अर्द्धनारीश्वरं तुयम् ।
पृथग्वे स्थापितो देवो मां च स्थापितं पृथक् ॥ २ ॥
प्। १५२)
विष्णुं नोदकदत्तेन युक्तं कल्याणमार्गतः ।
एकपीठस्थिता वापि पीठादन्यस्थिता तु नाम् ॥ ३ ॥
कृतयोगद्विधा ख्यातं वृषारूढस्य दक्षिणे ।
अन्येषां चैव मूर्तिनां वामपार्श्वे तु कल्पिताम् ॥ ४ ॥
प्रधाने निष्कले तुङ्गे पूजांशं दशधा भवेत् ।
देवस्य बाहुमात्रेण देवि युक्त्या तु कल्पिताम् ॥ ५ ॥
एवं चैकादशें मानं देव्यास्तुङ्गविधिर्यते ।
मूलं तु निष्कलादेवमावाह्य क्षणिकेतनः ॥ ६ ॥
देवीं तद्विष्णुनादान्तां कल्याणं च कृते सति ।
मूलदेशे तु संयोज्य देवि स्नानान्तरं विशेत् ॥ ७ ॥
अन्तप्रकारकान्ते तु बाह्ये वा मन्दिरे कृते ।
गर्भे तु स्थापिता देवी पर्यङ्कद्यैश्च स्थापिते ॥ ८ ॥
गन्धाद्यैर्हविभिर्भुक्ष्यै ताम्बूलश्च प्रदापयेत् ।
अनेनात्रोपचारेण रात्रौ पूजावसानके ॥ ९ ॥
यामप्रदक्षिणं कृत्वा शिवस्यैवा विशेषतः ।
सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् ॥ १० ॥
नानाभक्तसमायुक्तं जयमङ्गलसंयुतम् ।
देवीं देवगृहद्वारे गन्धपुष्पादिभिर्यजेत् ॥ ११ ॥
नीराजनं ततः कृत्वा प्रविश्याभ्यन्तरगृहम् ।
देवस्य दक्षिणे पार्श्वे देव्यासनं प्रकल्पयेत् ॥ १२ ॥
प्। १५३)
पूजयेद् गन्धपुष्पाद्यै पायसान्नं हृदा ददेत् ।
पश्चानिराजनं कृत्वा सर्वालङ्कारसंयुतम् ॥ १३ ॥
पश्चात् तु यजनं सम्यक् नात्रयेवं च प्रकल्पयेत् ।
अरुणोदयवेलायां देव्यास्थानं समाचरेत् ॥ १४ ॥
सर्वालङ्कारसंयुक्तं जयशब्दादिसंयुतम् ।
यप्रधानत्वमार्गेण प्रतिष्ठां कुरु मन्दिरे ॥ १५ ॥
केवलं तां पृथक्तेन देवं देवं विना यजेत् ।
एवं मार्गविधा प्रोक्तं तस्यास्तु बहुधा शृणु ॥ १६ ॥
विशं क्रमं तथा योगं सङ्करं रौद्रमेव च ।
एवं तु पञ्चधा ज्ञेया कारयेल्लक्षणान्वितम् ॥ १७ ॥
मन्दिरे मण्डपे वापि मालिकाकारमेव वा ।
लक्षणोक्त क्रमेणैव त्रिकरादि विशेषतः ॥ १८ ॥
स्थूपि यत्र समायुक्तं पञ्चधा वापि कारयेत् ।
प्रासादस्यैशदिग्भागे पावके वारुणे तथा ॥ १९ ॥
मनोरमे यथा चान्ये प्रकाराभ्यन्तरे दिशि ।
पञ्चप्राकारमार्गेण मूलार्थं च न कारयेत् ॥ २० ॥
स्वयम्भुवस्य लिङ्गस्य विंसंयक्प्रकल्पितम् ।
दैविके चार्षके चैव क्रमं सम्यग्विधीयते ॥ २१ ॥
मानुषे बाणलिङ्गे च योगं चैव विधीरयते ।
ग्रामादीनां तु बाह्ये तु कुर्यात्सङ्करमिश्रकम् ॥ २२ ॥
शयनादि कृयात् सर्वे वीरे सम्यक् प्रपूजयेत् ।
मूललिङ्गप्रमाणेन वीरं कुर्याद् विशेषतः ॥ २३ ॥
प्। १५४)
मूलपीठप्रमाणेन क्रमं कुर्याद् विशेषतः ।
लिङ्गस्य नाहमानेन योगं सम्यग् विधियते ॥ २४ ॥
वीरस्य कण्ठमानेन मिश्रशक्तिर्विधीयते ।
अथवा गर्भमानेन मूलधामादि मानकैः ॥ २५ ॥
कुर्याद् विरादिका वापि अङ्गुलेनैव वा पुनः ।
नवाङ्गुलात् समारभ्य द्वित्र्यङ्गुलविवर्द्धनात् ॥ २६ ॥
पञ्चविंशतिमात्रान्तं नवधा देवि तुङ्गकम् ।
तस्माद्व्यङ्गुलाधिक्यं नवधा तुङ्गमुच्यते ॥ २७ ॥
चत्वारि शत्त्रिपादूर्द्धं द्विन्त्र्यंशुविवर्द्धनम् ।
एवं तु नवधा तुङ्गम् उत्तमादिनि भेदतः ॥ २८ ॥
द्विहस्तां चारुवदनां पुष्पहस्तां विशेषतः ।
पीनोन्नत शनां चैव कम्बूग्रीवां सुलोचनाम् ॥ २९ ॥
दुकालवसनां चैव पद्मासनोपरि स्थिताम् ।
सिंहासनस्थितां वापि सर्वाभरणभूषिताम् ॥ ३० ॥
उत्तराननसंयुक्तां पश्चिमाननमेव वा ।
यादृशं मूलबिम्बं च तादृशं वक्त्रमुच्यते ॥ ३१ ॥
मध्यमं दशतालेन कुर्याद् देवीं विशेषतः ।
सुखासनादि बिम्बानां तस्य तस्य प्रमाणतः ॥ ३२ ॥
प्। १५५)
नासिकान्तमधान्बान्तं कर्णमानेन वा बुधः ।
मात्रोङ्गुलेन वा कुर्यात् पूर्वोक्तेनैव सङ्ख्यया ॥ ३३ ॥
एवमेव प्रकारेणा कुर्यान्मूलादिनां बुधः ।
सङ्करं रौद्रकं वक्ष्ये स्वतन्त्रं च विशेषतः ॥ ३४ ॥
धामस्य पूर्वदेशे तु पावके दक्षिणेऽपि वा ।
अन्ये मनोरमे देशे तटाकादिस्तु पार्श्वके ॥ ३५ ॥
धामं वा मण्डपं वापि कुर्यात् प्राकारकैस्सह ।
त्रिहस्ताद्यैर्विशेषेण एकभूम्यादिकादिषु ॥ ३६ ॥
ब्राह्मिके देविके वापि मानुषे च पिशाचके ।
स्थापयेत् सङ्करं रौद्रं द्विभुजं वा चतुर्भुजम् ॥ ३७ ॥
पूर्वाभिमुखमास्थाप्य उत्तराननमेव वा ।
पश्चिमाभिमुखं वापि दक्षिनाभिमुखं विना ॥ ३८ ॥
आसनं सुस्थितं वापि शूलकर्मयुतं यदि ।
शैलं च लोहचित्रां च कुर्यात् तां च विशेषतः ॥ ३९ ॥
प्रधानं शक्तिबिम्बं तु कुर्याच्छम्भु विशेषतः ।
तस्यास्तु दक्षिणे भागे शम्भुं कुर्याद् विचक्षणः ॥ ४० ॥
द्विभुजं वा चतुर्भुजं देव्यारूपानुरूपकम् ।
देव्यास्तु पावके वापि पुरस्ताद् दक्षिणेऽपि वा ॥ ४१ ॥
तस्यैव पुरतस्थाप्यमुक्षं चैव विशेषतः ।
पश्चिमाननकं चोक्षं पूर्वाननं तथोत्तरम् ॥ ४२ ॥
प्। १५६)
स्थितं वा शयनं वापि गमनोन्मुखमेव च ।
शङ्करस्य प्रतिष्ठो या पार्श्वयोर्वा स्थितं भवेत् ॥ ४३ ॥
शङ्करस्य तु पूर्वे तु विघ्नेशं स्थापयेद्यति ।
स्थानकं चासनं वापि मूषिकोपरि चाथवा ॥ ४४ ॥
देव्यास्तस्योत्तरे वापि ऐशदेशे तथाथ वा ।
देव्यास्तु शङ्करे देशे पूर्वे वा चोत्तरेऽपि वा ॥ ४५ ॥
दुर्गायास्थापने प्रोक्तं न दूरं न समीपतः ।
तस्य प्रकारकान्ते तु पूर्वे वा चैशकेऽपि वा ॥ ४६ ॥
शास्तोश्च स्थापनं कुर्यात् स्थितं वा चासनं तु वा ।
स्थापन क्षेत्रपालं वा बाह्ये चाभ्यन्तरेऽपि वा ॥ ४७ ॥
प्रकारोऽभ्यन्तरे देशे बलिपीठं प्रकल्पयेत् ।
शिववत् परिवाराणां प्रासदस्याग्रतोऽपि वा ॥ ४८ ॥
परिवारैर्विना वापि यथाविभवविस्तरैः ।
सुखासनादि बिम्बेषु बाह्ये चाभ्यन्तरेऽपि वा ॥ ४९ ॥
एकं वापि द्विकं वापि त्रिकं सर्वत्र एव वा ।
लोहजाद्यैर्विशेषेण कुर्याद्वा चित्रकादिभिः ॥ ५० ॥
एवं सङ्करमाख्यातं रौद्रकं त्वधुनोच्यते ।
ग्रामादि स्थापनं वापि पर्वते च वनेऽपि वा ॥ ५१ ॥
नन्द्यस्तिरे च वृक्षे वा ग्रामात् क्रोशान्तरेऽपि वा ।
ग्रामदस्याननश्चाथ यथा पृष्ठं तथा कुरु ॥ ५२ ॥
प्। १५७)
नगराभिमुखं वापि कुर्याद्रौदं विशेषतः ।
यजमानानुरूपेण कुर्यात् सर्वं विशेषतः ॥ ५३ ॥
मन्दिरे मण्डपे मध्ये मन्दिरस्य तु मण्डपे ।
मन्दिरे स्थापनं शम्भुं सकलं मिश्र * * लम् ॥ ५४ ॥
पुरस्ताल्लिङ्गसंस्थाप्य चामुण्डिं तस्य दक्षिणे ।
चतुर्भुजं षड्भुजं वा अष्टौदशभुजं तु वा ॥ ५५ ॥
द्वादशं षोडशं वापि बाहुमेवं प्रकल्पयेत् ।
विनायकं तथा दुर्गां शङ्करं सवृषं यदि ॥ ५६ ॥
महाशास्ताथवा स्कन्दं तस्मिन्स्थाने प्रतिष्ठिता ।
अथवान्यप्रकारेण वक्ष्यते गौरि भेदकम् ॥ ५७ ॥
मध्यमे वा परे वापि द्विभुजं शक्तिरूपकम् ।
ऊर्ध्वजानुस्थिते गुल्फे हस्तौ जश्चस्थितोपरि ॥ ५८ ॥
तस्यस्तु पुरतो भागे दक्षिणे वाथ शाङ्करम् ।
वृषभं च समीपे तु स्थितं वा शयनं तु वा ॥ ५९ ॥
विघ्नेशं तु कुमारं वा शङ्करस्य च प्राग्दिशि ।
तयोस्तु पुरतः सम्यक् दुर्गां वाथ सरस्वतिम् ॥ ६० ॥
महामोटिकया वाथ महाशस्त परे कृतम् ।
समीबाह्य समीपे वा बाह्ये वा क्षेत्रपालकम् ॥ ६१ ॥
बलिपीठं विशेषेण कुर्याद् देव्यस्तु पूर्वके ।
उत्सवप्रतिमं कुर्याद्विभुजां च स्वरूपकम् ॥ ६२ ॥
प्। १५८)
शैव चिह्ना समायुक्तं मन्दिरे मण्डपे शुभे ।
पूर्वाननं सुसंस्थाप्य द्विभुजां च चतुर्भुजाम् ।
उद्गतो जानुसंयुक्तो पादौ पृष्ठं स भूमिके ॥ ६४ ॥
ब्राह्मिकादभरेभागे पैशाचे ब्राह्मिकेऽथवा ।
कृत्तिका स्थापयेत् सम्यग् अम्बिकानाम भावयेत् ॥ ६५ ॥
तस्यास्तु वामते पूर्वे दक्षिणे वा ततोऽपि च ।
पश्चिमेवापि कर्तव्यं कल्पयेत् सकलं विदुः ॥ ६६ ॥
द्विभुजं युग्भुजं वापि पृष्ठे गमन भावकम् ।
बिम्बानापरितश्चैव कीर्तितास्थनकस्य तु ॥ ६७ ॥
तस्यो पा पुरतो दुर्गा न दूरं न समीपतः ।
देव्यास्तथैव दिग्भागे विघ्नेशं यदि सम्भवेत् ॥ ६८ ॥
पञ्चमूर्तिरितिख्यातं सूत्रैक्येवाथ बाह्यके ।
देव्यास्तु पुरतो भागे उभयोर्वा विशेषतः ॥ ६९ ॥
शङ्करं चैव विघ्नेशं शास्ताभगवति तथा ।
अन्येषां च निरिक्ष्यन्ते तिर्यगमनमेव वा ॥ ७० ॥
त्रिदण्डाभ्यन्तरे देशे पञ्चदण्डान्तरेऽथवा ।
क्षेत्रेशं च महापीठं परितो परिवारकम् ॥ ७१ ॥
आसना मससा शक्ति शक्तेरङ्गं शिवादिकम् ।
एवमेव प्रकारेण कुर्याद् बहुविधानतः ॥ ७२ ॥
प्। १५९)
शूलमूलसमायुक्तं पार्थिवं तु विशेषतः ।
रत्नन्यासं तदादौ तु प्रत्येकं मूलदेशके ॥ ७३ ॥
शैलजस्थापनाकाले रत्नं पूर्वे तु स्थापयेत् ।
लोजहजादिषु बिम्बेषु नेत्रोत्मीलनपूर्वकम् ॥ ७४ ॥
चित्रभाव विधाने तु भूक्तोपादस्य मूलके ।
अथवा भूप्रदेशे तु नवरत्नादि क्षिपेत् ॥ ७५ ॥
दुर्गास्थापनमार्गेण प्रतिष्ठाकारयेद्बुधः ।
शास्तु स्थापनमार्गेण शास्तोश्च स्थापनं कुरु ॥ ७६ ॥
विघ्नेशस्थापने चैव विघ्नेशं स्थापयेत् क्रमात् ।
मिश्रलिङ्गविधानेन मिश्रेशं स्थापयेत् क्रमात् ॥ ७७ ॥
मूलधामादिभिर्मानेस्तेषारूपं पृथक् पृथक् ।
कुर्यादिह विशेषेण क्षेत्रेशं तस्य मार्गतः ॥ ७८ ॥
परिवाराणि सर्वाणि कुर्यात् तत्र विधानतः ।
पूर्वोक्तेन विधानेन कुर्यात् सङ्कर रौद्रयोः ॥ ७९ ॥
एवमेव प्रकारेण कुर्याच्छिल्प विधानतः ।
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ ८० ॥
स्थिरे वा मृतयोगेषु अन्यस्मिस्तु शुभे तथा ।
शुभवारे स्थिरे लग्ने शुभांशे सुमुहूर्तके ॥ ८१ ॥
यजमानानुकूलर्क्षे शक्त्येस्तु स्थापनं शुभम् ।
प्रासादाद्यस्य रूपेण मानं कुर्यात् तु शक्तिकम् ॥ ८२ ॥
प्। १६०)
शक्त्यास्तु विधिमानेन कुर्यस्तु शन्करादिकान् ।
वाहनानि च चिन्नानि आसनादि तथा बुधान् ॥ ८३ ॥
तत्तन्मार्गविधानेन कुर्यादायव्ययादिकान् ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुश्रकम् ॥ ८४ ॥
पञ्चहस्तसमायुक्तं षोडशं द्वादशं तु वा ।
षट्सप्त वसु हस्ता वा रन्ध्रहस्तमथापि वा ॥ ८५ ॥
दशहस्तान्तरं वापि चतुर्द्वारसमन्वितम् ।
नवभागैक भागे तु मध्ये वेदी प्रकल्पयेत् ॥ ८६ ॥
वेदिकायास्तु परितः नवकुण्डानि कल्पयेत् ।
गोमये लेपनं कृत्वा स्तण्डिलोद्धे परिन्न्यसेत् ॥ ८७ ॥
चतुस्तोरण संयुक्तदर्भमालां निरावृतम् ।
शक्त्यास्तु वेदिकाबाह्ये स्थापनं स्थानवेदिका ॥ ८८ ॥
त्रिहस्तं पञ्चहस्तं च विस्तृतन्नव वेदिका ।
अस्तमात्र समुत्सेथो स्तस्यास्तस्य चतुर्दशि ॥ ८९ ॥
वृत्तं वा चतुरश्रं वा कुण्डानि परितक्षिपेत् ।
प्रधानशक्तिदुर्गायां योन्याकाराणि कारयेत् ॥ ९० ॥
अचलस्थापने काले कूर्चाभिदर्पणैस्सहा ।
जलाधिवासनं कुर्यात् दक्षि मोक्षवसानके ॥ ९१ ॥
प्। १६१)
नद्यां वापि तटाके वा जलमध्ये प्रपां कुरु ।
दर्भमालाभिरावेष्ट्य वामादि शक्तिकान्न्यसेत् ॥ ९२ ॥
प्रतिमाशुद्धिं कुर्विता प्रत्येकं तु विशेषतः ।
सर्वालङ्कारसंयुक्तं वाहनादिषु बुद्धिमान् ॥ ९३ ॥
प्रत्येकं वस्त्रमावेष्ट्य बिम्बानि च विशेषतः ।
कूर्चयुक्तं विशेषेण जलमध्ये निवेशयेत् ॥ ९४ ॥
पञ्चरात्रं त्रिरात्रं वा व्योमरात्रिमथापि वा ।
दिवसार्द्धं न्तर्द्धं वा तदर्द्धर्धमथापि वा ॥ ९५ ॥
प्रत्येकं तु न्यसेत् पश्च जलादुत्तिर्य वेदिकाम् ।
पञ्चगव्येन संस्नाप्य प्रत्येकं तु विशेषतः ॥ ९६ ॥
शयनादीनि सर्वाणि प्रत्येकं विधिना बुधः ।
मध्यादीशानपर्यन्तं वर्द्धनीश्च न्यसेद्बुधः ॥ ९७ ॥
वस्त्रादिभिस्समायुक्तं गन्धपुष्पादिभिर्यजेत् ।
आर्यादिशक्तयस्सर्वे वर्द्धनीषु न्यसेत् क्रमात् ॥ ९८ ॥
महाबेरविधाने तु दर्पणे तु कृते पृथक् ।
याज्ञिकैस्तरुभिः कुर्यात्सर्वः सुच विशेषतः ॥ ९९ ॥
समिच्चरुघृतक्षीरमाषमुद्गप्रयङ्गवः ।
तिलसर्षपनीष्पावगुलमेकादशं तथा ॥ १०० ॥
तत्तद् ब्रह्माङ्गकैः मन्त्रैहोमं कुर्यात् पृथक् पृथक् ।
द्रव्यान्ते व्यहृतीं हुत्वाबिम्ब कूर्चेन संस्पृशेत् ॥ १०१ ॥
देशिकश्च पृथग्भूत्वा सुमुहूर्तेन बुद्धिमान् ।
शक्तिक्तैश्च देशिकानुज्ञां कुर्यात्सर्वे च देशिकाः ॥ १०२ ॥
प्। १६२)
दिशास्वध्यायनं कुर्यात् प्रत्येकं सर्वतो दिशि ।
आद्यावन्ते च सर्वत्र पुण्याहं वाचयेद्बुधः ॥ १०३ ॥
पवमानेन सम्प्रोक्ष्य ब्रह्मघोषसमन्वितम् ।
एवं जागरणं रत्रौ प्रभाते स्नानमाचरेत् ॥ १०४ ॥
आचार्याय शुचिभूत्वा प्रत्येकं च विशेषतः ।
शयनाद्बिम्बमुद्धृत्य बिम्बादन्यत् समर्पणम् ॥ १०५ ॥
गन्धादिभि समभ्यर्च्य मन्त्रन्यासं तदादितः ।
घृतशिरोर्पणं कुर्यात् प्रत्येकं च विशेषतः ॥ १०६ ॥
मध्यमादिनि कुम्भानि अभिषेकं समाचरेत् ।
आर्यादि भगवत्यन्तं तस्यां वै विन्यसेद् बुधः ॥ १०७ ॥
तस्यास्तु मध्यदेशेन मनोन्मनीन्मूलमन्त्रतः ।
एवमेव प्रकारेण कुर्याद् वै शङ्करादिषु ॥ १०८ ॥
प्रोक्ष्याभषेचनं कृत्वा महाबेर विशेषतः ।
दर्पणेष्वभिषेकं स्यात् तत् तन्मूले महाम्बिके ॥ १०९ ॥
आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
गोभूमिकां च नाद्यैश्च पूजयेत् तु पृथक् पृथक् ॥ ११० ॥
होतारं च हविर्दद्यात्ताम्बूलं च विशेषतः ।
अन्ते महोत्सवं कुर्यात् चलं चैव विशेषतः ॥ १११ ॥
अचल स्थापने काले दर्पणे च विशेषतः ।
अनुक्तानि च सर्वाणि कुर्यात् तत् तद्विधानतः ॥ ११२ ॥
प्। १६३)
सर्वेषां समयानां तु शैवमेव प्रधानकम् ।
ब्रह्माविष्णुश्च रुद्रश्च त्रिमूर्त्तिरिति कथ्यते ॥ ११३ ॥
तस्यादिन्द्रश्च विघ्नेश पञ्चमूर्तिरिति स्मृतम् ।
तस्मास्कन्दं तथा दुर्गासप्तमुर्तिरिति स्मृतम् ॥ ११४ ॥
असनस्था च या गौरिमिश्रे सकल शङ्करा ।
विघ्नेशं च तथा चार्याशास्तुश्चैव विशेषतः ॥ ११५ ॥
मिश्रशक्तिरिति ज्ञेया सर्वसिद्धिकराय च ।
पञ्चमूर्तिरिति ज्ञेया सदाविजय वद्धनम् ॥ ११६ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ज्येष्ठां गौरिं सरस्वतिम् ।
एकमूर्तिस्थिता सर्वे षण्मूर्तिरिति चोच्यते ॥ ११७ ॥
तेषां पुरस्तात् क्षेत्रेशं नागं वा यदि सम्भवम् ।
तन्तु सङ्कर सञ्ज्ञेयं सर्वप्राणिहितं भवेत् ॥ ११८ ॥
ऐतेष्वेतेषु भेदेषु शवमार्गेण कारयेत् ।
अन्यथा यदि कुर्याच्चेद् ग्रामादेन्न शतधृवम् ॥ ११९ ॥
तस्मात् सर्वप्रयत्नेन कुर्याद् वै कामिकादिभिः ।
तेषु तेषु च भेदेषु हरिर्वा यदि सम्भवेत् ॥ १२० ॥
तं तु शैवमितिख्यातं शैवतन्त्रेण कारयेत् ।
बौद्धादिषु च भेदेषु शेषु आस्नादेश्चैव मूर्त्तयः ॥ १२१ ॥
एकस्मिन्सम्भवे देशे तं तु शैवमिति स्मृतम् ।
पश्चिमानन विष्णोस्तु शक्त्यादीनां तु देशिकः ॥ १२२ ॥
प्। १६४)
सा शक्तिपश्चिमा वक्त्रं तदा वैष्णवमुच्यते ।
वैघानसे पाञ्चरात्रेः कुर्यादस्मिन्विशेषतः ॥ १२३ ॥
वृषभं यत्प्रदेशे तु सर्वथा सम्भवं यदि ।
शैवभेदमिति प्रोक्तं शुद्धशैवस्तु ताण्डवः ॥ १२४ ॥
एवं बहुप्रकारेण लक्षयेत् लक्षवित्तमः ।
शैवादन्यात् समायाति कुर्यदज्ञान पूजिता ॥ १२५ ॥
पश्चाञ्चैवप्रतिष्ठाया सर्वदोषहरं नृणाम् ।
अर्चनायागहीने तु चिरकालं विशेषतः ॥ १२६ ॥
अन्यमार्गप्रकारेण मोहेन तु विशेषतः ।
ग्रामानिष्टभयं चैव सर्वसत्रविवर्द्धनम् ॥ १२७ ॥
तस्मात्सर्वप्रयत्नेन शैवमार्गप्रतिष्ठितम् ।
दशसंवत्सरादूर्ध्वं पूजाहीनं हि सम्भवेत् ॥ १२८ ॥
पुनरावाहनं कुर्यात् प्रोक्षणं वा समारभेत् ।
स्थापनोक्तक्रमेणाथ प्रतिष्ठां सम्यगारभेत् ॥ १२९ ॥
प्रायश्चित्तोक्तमार्गेण एकवान् परितो भवेत् ।
स्फोटकं त्वथ जीर्णं वा एकाङ्गं सकलाङ्गकम् ॥ १३० ॥
सर्वाङ्गानां क्षयं दृष्ट्वा कुर्यात् पूर्वोक्तमार्गतः ।
प्रासादं तच्छरीरं स्यात् तस्मास्थाणुं न तिष्ठति ॥ १३१ ॥
पुनस्थापनमार्गेण कुर्यादि हि विशेषतः ।
गौरिप्रधानं वा कश्चिद् विघ्नेशस्य प्रधानकै ॥ १३२ ॥
प्। १६५)
भगवत्य प्रधानं तु शङ्करस्य प्रधानकः ।
शस्तु प्रधानतः कश्चित् कश्चित् ज्योति प्रधानके ॥ १३३ ॥
कश्चित् स्कन्दप्रधानं तु कश्चित्कालि प्रधानके ।
कश्चिद् विष्णुप्रधानं तु शङ्करस्य प्रधानकम् ॥ १३४ ॥
द्विमूर्ति त्रित्रिमूर्तिश्च पञ्चमूर्तिरतः परम् ।
सप्तमूर्ति सप्तधा चाष्टं नवमूर्तिर्दूशैव च ॥ १३५ ॥
गौरार्यादि भास्करं ताञ्च प्रधानं वाहनानि च ।
प्रधानं पास्समीपे तु पूर्वोक्तानि च देवता ॥ १३६ ॥
स्थापनं यदि लोकेषु कुर्याञ्चैव तु तदृशम् ।
एतानि सर्वभेदानि कुर्यादस्मित् विशेषतः ॥ १३७ ॥
गौर्यास्तु स्थापनं प्रोक्तं शैवभेदं शृणुष्वधा ॥ १३७� ॥
इति सूक्ष्मशास्त्रे गौरिस्थापनं नाम षट्त्रिंशपटलः ॥