आत्मार्थयजनं वक्ष्ये शृणुध्वं तत्प्रभञ्जना ।
आरोग्यमायुकीर्तिश्च विजयश्च फलप्रदम् ॥ १ ॥
प्। १३९)
ब्रह्महत्ति विनाशार्थं वीरहतिविनाशनम् ।
गोपहत्ति विनाशार्थं प्रजावृद्धिकरं परम् ॥ २ ॥
सर्वकामप्रसिद्ध्यर्थं सर्वयज्ञफलप्रदम् ।
आत्मार्थयजानात् सम्यङ् न भूतो न भविष्यति ॥ ३ ॥
शुद्धकेवलसम्मिश्रमात्मार्थं त्रिविधं स्मृतम् ।
शुद्धं वा शक्तिरहितं केवलं सक्तिसंयुतम् ॥ ४ ॥
सौरादिचण्डपर्यन्तं मिश्रं चैव प्रकीर्तितम् ।
प्रातरुत्थाय मनसा ललाटे भस्म लेपयेत् ॥ ५ ॥
शिवध्यान पुराणं च चिन्तयेच्छिवभाषणम् ।
तद्ग्रामं तु बहिर्गत्वा विण्मूत्रं च विसर्जयेत् ॥ ६ ॥
शौचमाचमनं दन्ततालु शोधनकः कुरु ।
स्नानं च दर्पणं कृत्वा प्राङ्मुखो वेदिकं चरेत् ॥ ७ ॥
आद्रवस्त्रं परित्यज्य धौतवस्त्रेण वेष्टयेत् ।
उत्तराभिमुखो भूत्वा शैवसन्धिक्रमं चरेत् ॥ ८ ॥
दक्षहस्ते जलं धार्य सेचयेदक्षरं लिखेत् ।
वस्त्रशुद्धिं तः कृत्वा एकाक्षरीति मन्त्रतः ॥ ९ ॥
आपोशनार्घ्यमन्त्रेण तत्वमन्त्रं त्रयेण च ।
विभूतिं वामहस्तेन सव्यहस्तेऽभिमन्त्रयेत् ॥ १० ॥
असुरा त्यजेद्धीमान् द्वात्रिंशैकांशराक्षसम् ।
दिग्बन्धनं ततः कृत्वा अस्त्रमन्त्र मनुस्मरन् ॥ ११ ॥
प्। १४०)
सव्यहस्ते जलं नीत्वा मर्दयेदङ्गुलिन्न्यसेत् ।
मूर्द्धि चैव ललाटे च कर्णे कर्णे तथैव च ॥ १२ ॥
हृदये चैव बाह्वोश्च नाभौ कर्णौ च मूर्ध्नि च ।
निष्कनिष्कार्थकं चैव निष्कद्वयद्वयार्धकम् ॥ १३ ॥
विप्रादिनां च वर्णानां भस्मस्नानं समाचरेत् ।
रुद्रसन्ध्यासु सन्ध्येषु ब्रह्माङ्गानि प्रकल्पयेत् ॥ १४ ॥
प्राणायामत्रयं कृत्वा दिग्बन्धं चास्त्रमन्त्रतः ।
पूर्वमेवाङ्गुलिन्यास अङ्गन्यासं च कल्पयेत् ॥ १५ ॥
सव्यहस्ते जलं धार्य वामहस्तस्थितं तु वा ।
आपोशनार्घ्यमन्त्रेण पूर्वमन्त्रत्रयान्न्यसेत् ॥ १६ ॥
द्विहस्तन्य जलं धार्य ऊर्ध्वन्ताराघ्यमन्त्रतः ।
सव्यहस्ते जलं ग्राह्य अस्त्रमन्त्रप्रदक्षिणम् ॥
तर्पणं रुद्रसङ्ख्यात ब्रह्माङ्गैनै मन्त्रतः ॥ १७ ॥
आचमनं ततः कृत्वा वैदिकं शैवमेव च ।
पादप्रक्षालनं कृत्वा ग्रहारामे शिवालये ॥ १८ ॥
नदीतीरे तटाके वा पर्वते राजथानिके ।
नवहस्तं सप्तहस्तं पञ्चहस्त त्रहस्तकम् ॥ १९ ॥
चतुरश्रायतं वृत्तं यथेष्टं मण्डपं न्यसेत् ।
मार्जनं प्रोक्षणं चैव गोमयेनानुलेपयेत् ॥ २० ॥
आधारशक्तिमभ्यर्च्य तन्मध्ये खेटकं न्यसेत् ।
तदूर्ध्वे निर्मिकां चाद्य ऊर्ध्व पीठे तु पश्चिमे ॥ २१ ॥
तदूर्ध्वे पद्मपीठस्यात् प्रभामण्डलसंयुतम् ।
वस्त्रधारं च वस्त्रं च पुष्पाधारसमन्वितम् ॥ २२ ॥
प्। १४१)
लोहजं रजतं चैव काञ्चनं रत्नसंयुतम् ।
रुद्राक्षं च प्रवालं च मुक्तामालासमन्वितम् ॥ २३ ॥
नवरत्नविचित्रेण माल्याभरणशोभितम् ।
छिद्रवस्त्रसमायुक्तं च्छित्राभरणशोभितम् ॥ २४ ॥
खण्डवस्त्रसमायुक्तं लिङ्गशोधनसंयुतम् ।
गन्धपात्रसमायुक्तं पुष्पपात्रसमन्वितम् ॥ २५ ॥
शङ्खधारं च शङ्खं च पात्राधारं च पात्रकम् ।
स्थलिका स्थलिकाधरं पानियाधारपात्रकम् ॥ २६ ॥
जलद्रोणसमायुक्तं जलोद्धारणपात्रकम् ।
गन्धं च धूपदीपं च आरात्रिकमधः परम् ॥ २७ ॥
स्नानवेदीं च पादं च स्थितदीपसमन्वितम् ।
तीर्थपात्रसमायुक्तं माज्यस्थालीं च सृक् सृवम् ॥ २८ ॥
पचान् पात्रसमायुक्तं व्यञ्जने पात्रसंयुतम् ।
व्रिहि चर्मं च दर्वीं च काष्ठा त्रिपादसंयुतम् ॥ २९ ॥
नालिकेरसमायुक्तं व्यजनं चिन्नशस्त्रकम् ।
पात्रं सम्पाद्यमेवोक्तं द्रव्यसम्पाद्यमुच्यते ॥ ३० ॥
चन्दनागरुकर्पूरं कुङ्कुमं रक्तचन्दनम् ।
हीमतोयं कृष्णगन्धं गोरचनमथ द्वयम् ॥ ३१ ॥
कुसुमं पञ्चपुष्पं च अष्टपुष्पं च पात्रकम् ।
कङ्कणं लम्बमाला च बिल्वदूर्वाक्षतं तथा ॥ ३२ ॥
प्। १४२)
जलपूरितमेवं तु जलद्रव्यसमन्वितम् ।
पाद्यद्रव्यादिसंयुक्तं धूपद्रव्यादिसंयुतम् ॥ ३३ ॥
कपिलाज्यं शुद्धतैलं शिर्षपिष्टचूर्णकम् ।
पञ्चगव्यामृतं चैव नालिकेरं प्रयत्नतः ॥ ३४ ॥
कदलीफलंसंयुक्तं स्नानद्रव्यसमन्वितम् ।
वस्त्रचिन्नानि विविधं वस्त्रन्तु प्रयत्नतः ॥ ३५ ॥
पञ्चत्रिरेकवृत्तं वा तन्तुरुद्रा च सङ्ख्यया ।
आवृतं सप्तनालिं वा पञ्चनालैकनालकम् ॥ ३६ ॥
दीपज्वालसमायुक्तं गोघृतं वसुतैलकम् ।
येधेष्टं गोघृते चैव वृक्षबीजमतैलकम् ॥ ३७ ॥
द्विप्रस्तादि चतुद्रोणं शुद्धतण्डुलसंयुतम् ।
लवणक्रमवत्वं च व्यञ्जनैरुपदंशकः ॥ ३८ ॥
मरीचि लवणं चैव जीरकं सर्षपं तथा ।
क्रमुकस्य फलं चैव पत्रं च श्वेतचूर्णकम् ॥ ३९ ॥
भस्मं च दर्पणच्छत्रं चामरं तालवृन्दकम् ।
आसनं दर्भदारुं च सारङ्गैश्चर्ममेव च ॥ ४० ॥
व्याघ्रचर्मं च रोमं च रत्नकम्बलवाससम् ।
आसनं कल्पयेद्धीमान् अर्चनाक्रममुच्यते ॥ ४१ ॥
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितम् ।
भस्मस्नानं ततः कृत्वा पूर्वोक्तविधिना सहा ॥ ४२ ॥
प्। १४३)
शिरस्ताटनमेवोक्तं दिग्बन्धनमतः कुरु ।
प्राणायामत्रयं कृत्वा भूतशुद्धिक्रमं चरेत् ॥ ४३ ॥
पञ्चग्रन्थिस्तु विच्छेदि शिरः पादान्तिकं चरेत् ।
अमृताप्लावनं कृत्वा करन्यासाङ्गुलिं न्यसेत् ॥ ४४ ॥
अङ्गन्यासाष्टत्रिंशेन श्रीकण्ठाद्यक्षरं न्यसेत् ।
शिवहस्तं तु सङ्कल्प्य हृत्पद्मेऽर्चयेच्छिवम् ॥ ४५ ॥
नाभौ होमं च कर्तव्यं हृन्मध्ये ध्याययेच्छिवम् ।
आत्मशुद्धिरिति प्रोक्तं सौरादिपूजकं शृणु ॥ ४६ ॥
खेटके भूतले वापि सौरपूजा यथाक्रमम् ।
पूर्वाशाभिमुखं प्राप्य लेखयेद्रविमण्डलम् ॥ ४७ ॥
बेरे तु चक्रलिख्ये ते यथेष्टमण्डले स्थिते ।
उदित्यं जातमन्त्रेण पात्रे तु जलपूरिते ॥ ४८ ॥
रक्तचन्दनपुष्पाद्यैरर्चयेद्धृदयेन तु ।
दक्षपाणि तलेथार्य दर्शनार्घ्यं तु सेचयेत् ॥ ४९ ॥
दण्डिनि पिङ्गले चैव गणेशं गुरुमेव च ।
प्रभूतासन सङ्कल्प्य विमलौ सौरमेव च ॥ ५० ॥
आराध्य परमं चैव मध्ये पद्मं च विन्यसेत् ।
दीप्ताति सर्वतोमुख्या अर्कासन खषोल्कक ॥ ५१ ॥
नादवन्निसमायुक्तं द्वितिर्य्यं रससंयुतम् ।
बिन्दुनादसमायुक्तम् अनन्तं रुद्र संयुतम् ॥ ५२ ॥
प्। १४४)
तृतीय्यस्वरसंयुक्तं न्नादाद्यं शिवसंयुतम् ।
नमोत्तं सूर्यमुच्चार्य सौरसम्पूजनं कुरु ॥ ५३ ॥
सूर्यं कुङ्कुमसङ्काशं सर्वाभरणभूषितम् ।
द्विनेत्रं चारुवदनं रक्तमालानुलेपनम् ॥ ५४ ॥
चतुर्भुजसमोपेतं पद्महस्ताबुजद्वयम् ।
अभयं वरदोपेतं प्रभामण्डलमण्डितम् ॥ ५५ ॥
मुपवितसमायुक्तमुषाप्रत्युष संयुतम् ।
पद्मस्थं वा रथारोहमरुणेन समन्वितम् ॥ ५६ ॥
ध्यात्वाभ्यर्च्य षडङ्गेन परिवारसमन्वितम् ।
सोमाङ्गारकसौम्याश्च गुरुशुक्रशनैश्चरान् ॥ ५७ ॥
राहुकेतुग्रहानष्टौ पूर्वादीशान्तके यजेत् ।
क्षीरान्न दापयेत् पश्चाद् धूपदीपादिकं ददेत् ॥ ५८ ॥
तेजश्चण्डेश्वरं पूज्य प्रणिपत्य क्षमापयेत् ।
पादप्रक्षालनं कृत्वा देवाग्रे मण्डलं कुरु ॥ ५९ ॥
सामान्यर्घ्यं च सङ्कल्प्य तेनैव प्रोक्ष्य भूतले ।
षोडशाङ्गुलमायामं चतुरश्रसमन्वितम् ॥ ६० ॥
वामदेवेन समृज्य सव्यहस्ते तलेन तु ।
स्थानशुद्धिं च कर्तव्यं भूमिर्भूम्नेति मन्त्रतः ॥ ६१ ॥
पञ्चगव्यामृतैः सार्घ्यस्नानद्रव्याणि विन्यसेत् ।
देवस्य दक्षिणे पार्श्वे यथेष्टं मानसं न्यसेत् ॥ ६२ ॥
प्। १४५)
उत्तराभिमुखोभूत्वा रुचिरासनं संस्थितम् ।
भस्मन्यासं करन्यासम् अङ्गन्यासं तु कारयेत् ॥ ६३ ॥
पाद्यादिद्रव्यसंयुक्तं पात्रं सम्पूजयेत् ततः ।
अथवा पात्रमेकं तु पाद्यमाचमनार्घ्यकम् ॥ ६४ ॥
पात्र प्रक्षाल्य शस्त्रेण हृदयेन निरीक्षयेत् ।
त्रिपादूर्ध्वे स्थितं शङ्खमवकुण्डनमाचरेत् ॥ ६५ ॥
जलेन पूरयेत्पात्रं ब्रह्माङ्गमनुसंस्मरन् ।
सव्यहस्ताभिमन्त्रेण शिवगायत्रिकं जपेत् ॥ ६६ ॥
सुरभिमुद्रां संस्पृश्य प्रोक्षयेत् पात्रतो विधि ।
शङ्खमूलं द्द्धरादेवि म्रक्षाणां विष्णुदेवतम् ॥ ६७ ॥
धारयेद् घोरदेवं तु वलयं सूर्यदेवतम् ।
मुखे च सप्ततीर्थानि प्रवेशेच्चन्द्रदेवता ॥ ६८ ॥
त्रिपाद्यमधिदैवत्यं ब्रह्माविष्णुमहेश्वराः ।
वृत्तमाधारशक्तिश्च इत्येते अधिदेवता ॥ ६९ ॥
पीठशुद्धिं ततः कृत्वा प्रोक्षयेदस्त्रवारिणा ।
वृषेश्वरं तथा पूर्वे वृषवामे तु भास्करे ॥ ७० ॥
महेशमग्निदेशे तु दक्षिणामूर्ति दक्षिणे ।
गणेशे नै-ऋते देशे तद्वामे कमलोद्भवे ॥ ७१ ॥
षण्मुखं वायुदेशे तु विद्यापीठं तु दक्षिणे ।
सौम्ये तु नृत्तमूर्तिं च ईशाने क्षेत्रपालकम् ॥ ७२ ॥
प्। १४६)
कुबेरानिलयोर्मध्ये लिङ्गोद्भवं तु विन्यसेत् ।
सोमशङ्करयोर्मध्ये भक्तादीन्विन्यसेत् क्रमात् ॥ ७३ ॥
भक्तानां वामपार्श्वे तु एकाक्षरी तु विन्यसेत् ।
एकाक्षर्या च वामे तु लकुलीशं तु विन्यसेत् ॥ ७४ ॥
पुष्पमूर्ध्नि तु विन्यस्य पश्चाद्वारं प्रपूजयेत् ।
पश्चिमद्वारमस्त्रेण प्रोक्षये तु शिवाम्भसा ॥ ७५ ॥
गणेशं दक्षिणेऽभ्यर्च्य वाग्देवी वामपार्श्वके ।
मध्यमे तु महालक्ष्मीं नन्दिगङ्गनं च दक्षिणे ॥ ७६ ॥
महाकालं च यमुनां वामपार्श्वे विशेषतः ।
ऊर्ध्वाध सम्प्रपूज्याथ शिवास्त्रं सुप्रपूजयेत् ॥ ७७ ॥
गणेशान् क्षेत्रपालान्तम् अर्चये स्वस्वमन्त्रतः ।
द्वारपश्चिममेवं तु नैवेद्यं पूर्ववक्त्रके ॥ ७८ ॥
लिङ्गं सङ्गृह्य हस्तेन स्नानवेद्युपरि न्यसेत् ।
अर्घ्योदकेन सम्प्रोक्ष्य वक्त्रन्न्यासं समाचरेत् ॥ ७९ ॥
अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्ममनु न्यसेत् ।
कनिष्ठानामिकामध्ये नवपुष्पं तु सङ्ग्रहेत् ॥ ८० ॥
अङ्गुष्ठतर्जनीभ्यां च निर्माल्यं च विसर्जयेत् ।
विसर्जनस्य तत्काले पुष्प मूर्ध्नि च विन्यसेत् ॥ ८१ ॥
निर्माल्यं च विसज्यैशे चण्डेशाय प्रकल्पयेत् ।
शुद्धतोयाभिषेकं च अस्त्रं पाशुपतं जपेत् ॥ ८२ ॥
प्। १४७)
मूलाधारात् समादाय ब्रह्मरन्ध्रे तु विन्यसेत् ।
गुरूपदेशं विज्ञेयं मन्त्रशुद्धिरुदाहृतम् ॥ ८३ ॥
चलासनं तु सङ्कल्प्य पुष्पमूर्ध्नि च विन्यसेत् ।
अभ्यङ्गं तु ततः कृत्वा शुद्धतोयाभिषेचनम् ॥ ८४ ॥
शरीरं पिष्ठचूर्णेन लिङ्गपीठं च मर्दयेत् ।
शुद्धतोयाभिषेकं च पुष्पं मूर्ध्नि च विन्यसेत् ॥ ८५ ॥
पञ्चगव्यामृते स्नाप्य जलैनैवाभिषेचयेत् ।
अस्त्रमन्त्रमनुस्मृत्य पुष्पमूर्द्ध्नि तु विन्यसेत् ॥ ८६ ॥
क्षीरं दधि घृतं क्षौद्रं न्नालिकेरजलं तथा ।
इक्षुसारं तु शुद्धोदं गन्धतोयाभिषेचनम् ॥ ८७ ॥
मन्त्रपुष्पं ततो दत्वा मन्त्रान्नं च निवेदयेत् ।
शुक्लवस्त्रेण सम्मृज्य पुष्पमूर्ध्नि तु विन्यसेत् ॥ ८८ ॥
पद्मपीठे तु संस्थाप्य शिवमन्त्रमनुस्मरन् ।
पञ्चासनं समभ्यर्च्य उपर्युपरि विन्यसेत् ॥ ८९ ॥
कमलासनं समभ्यर्च्य दलेभ्यो केसरोपि वा ।
कर्णिकायै नमश्चेति बिजेभ्यो सन् इत्यपि ॥ ९० ॥
शक्त्यादिशक्तिपर्यन्तमर्चयेत् तु दलाग्रके ।
पीठे मनोन्मनि न्यस्त्वा शुद्धस्फटिकसन्निभम् ॥ ९१ ॥
तन्मध्ये शिवमावाह्य पञ्चावरणमर्चयेत् ।
सद्योजातवाममघोराश्च पुरुषेशानमेव च ॥ ९२ ॥
प्। १४८)
अम्बिगणाम्बिका चैव भागिगौरि उमास्तथा ।
पश्चिमे चोत्तरे याम्ये पूर्व ईशान एव च ॥ ९३ ॥
हृच्छिरश्च शिखावर्मा नेत्रमस्त्रं तथैव च ।
वामीनीली च पाशाङ्गी खड्गिनीर्जम्बीनी तथा ॥ ९४ ॥
अग्नियादीयमस्ति रोगजावरणमर्चयेत् ।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तंश्चैकनेत्रकम् ॥ ९५ ॥
एकरुद्र त्रिमूर्तिस्तु श्रीकण्थश्च शिखण्डिना ।
भूमिस्वाहा स्वधाकान्तपुष्टि कीर्तिमेयवि ॥ ९६ ॥
विद्येशावरणं प्रोक्तम् इन्द्रादीशान्तमर्चयेत् ।
वृषनन्दिगणेशाश्च महाकालगुहौ तथा ॥ ९७ ॥
भृङ्गिणं गौरि चण्डेशम् इन्द्रादीशान्तमर्चयेत् ।
भद्रा च कुन्दलि चैव भृङ्गिणि पतिनि तथा ॥ ९८ ॥
देवयानिं च चस्तादी रूपिणिं चण्डिकिशके ।
गणेशावरणं प्रोक्तं स्वनाम्नैरर्चयेत् क्रमात् ॥ ९९ ॥
इन्द्राश्चाग्नियमश्चैव निरुतिवरुन्वायवा ।
कुबेर ईशविष्णु च पितामह्येशमेव च ॥ १०० ॥
स्वाहाशान्त्या च देहि च कालकर्णि च देहिनि ।
भोगिनि घोशशक्तैश्च गम्भिणी हर्षणि तथा ॥ १०१ ॥
लक्ष्मी वा * * रि चैव दिक्पालवरणं क्रमात् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ॥ १०२ ॥
प्। १४९)
गदा त्रिशूलं चक्रं च पद्मं चेतिर्दशायुधः ।
प्रसन्नात्मा च कोप * गुणात्मिकोमलात्मिनि ॥ १०३ ॥
वृषात्मिव्रकतात्मि च महात्मि मङ्गलात्मिनी ।
अस्त्रेशावरणं प्रोक्तं प्रक्रमेणैवमर्चयेत् ॥ १०४ ॥
वस्त्रेण गलभूषं च घृतवारिसमन्वितम् ।
गन्धपुष्पं च मकुटं कङ्कणलम्बमाल्यकम् ॥ १०५ ॥
रुद्राक्षमुपवीतं च प्रवालं मौक्तिकं स्रजम् ।
स्वर्णरत्न विचित्रेण स्वर्णमालविभूषणम् ॥ १०६ ॥
ऐन्द्रे देशे च मव्यक्तं याम्ये नियति गोचरे ।
वरुणे चैव कालाख्यम् उत्तरे तु कलाख्यकम् ॥ १०७ ॥
ऊर्ध्वश्च इमधश्चन्द्रमध्यमेमाधवन्यसेत् ।
योगासनं ततः प्रोक्तं तन्मध्ये चार्चयेच्छिवम् ॥ १०८ ॥
धूपं च ध्वजदीपं च निवेद्यं चोप * * * ।
गोमयालेपनं कृत्वा देवाग्रे मण्डलं न्यसेत् ॥ १०९ ॥
अतिपक्वमपक्वं च कृशिरं पविवर्जयेत् ।
स्थालिकाभालनं कृत्वा नैवेद्यं च प्रपूरयेत् ॥ ११० ॥
व्यजनैरावृतं चैव लवणं पक्वदंशकैः ।
फलादिगुलसंयुक्तं क्षीरं दधि च मध्यमे ॥ १११ ॥
आज्यव्रतसमायुक्तम् अभिधानां तु वाससम् ।
नैवेद्योत्थापने मार्गे मार्जनं प्रोक्षणं कुरु ॥ ११२ ॥
प्। १५०)
पाद्युर्ध्वे विन्यसेञ्चैव बेराणां च पृथक् पृथक् ।
प्रोक्षणं चास्त्रमन्त्रेण तालत्रयमथो * * ॥ ११३ ॥
दिग्बन्धनं ततः कृत्वा धेनुमुद्रां प्रदर्शयेत् ।
आपोशनार्घ्यकं दत्वा हस्तप्रक्षालनं कुरु ॥ ११४ ॥
नवपुष्पं गृहीत्वा तु गणेशस्य निवेदयेत् ।
तत्पुष्पं तु विसृज्याथ हस्तयोक्षालनादिकम् ॥ ११५ ॥
प्रभूत हविषं दत्वा पानियं तु निवेदयेत् ।
महेशप्रतिमादीनां नैवेद्यं हृदयेन तु ॥ ११६ ॥
सदाशिवस्य निर्माल्यं चण्डेशस्य समीपके ।
शेषनिर्माल्य सर्वाश्च ऐशान्ये तु विसर्जयेत् ॥ ११७ ॥
लिङ्गशुद्धिं ततः कृत्वा पुनरर्घ्यं प्रदापयेत् ।
करोद्वर्तनमेवोक्तं मुखवासं तु विन्यसेत् ॥ ११८ ॥
ताम्बूलं विन्यसेत् पश्चाद् दत्वा नित्य पवित्रकम् ।
नित्याग्नि यजनं कृत्वा अन्तर्बलिसमाचरेत् ॥ ११९ ॥
धूपदीपादिकं दत्वा आरात्रिकमतः परम् ।
भस्म दर्पणकच्छत्रं चामरं तालवृन्तकम् ॥ १२० ॥
वेदस्तोत्रसमायुक्तं नृत्तगीतं सवाद्यकम् ।
कनिष्ठानामिकामध्ये पुष्पं सङ्गृह्य बुद्धिमान् ॥ १२१ ॥
जपमाला तु नक्षत्रनायकस्तु शशिर्भवेत् ।
प्रच्छिन्नपटमुच्छाद्य मूलमन्त्रमनुस्मरन् ॥ १२२ ॥
प्। १५१)
जपान्तेनैव तत्काले पुष्पमूर्ध्नि च विन्यसेत् ।
विद्यापीठं समभ्यर्च्य प्रदक्षिण नमस्कृतम् ॥ १२३ ॥
पूजासमाप्तं विज्ञाप्य चार्चयेत् संहृदाणभिः ।
चुलुकोदकं ततः कृत्वा अर्घ्यं वैसर्जयेद् गुरुः ॥ १२४ ॥
उद्वासनं तु देवाश्च सर्वमात्मनि योजयेत् ।
पूर्ववत्सदनं कृत्वा मूललिङ्गादि सङ्ग्रहेत् ॥ १२५ ॥
स पुष्पं वस्त्रमाच्छाद्य बेराणां तु पृथक् पृथक् ।
पूजापर्युषितद्रव्यैः चण्डेशं च समर्चयेत् ॥ १२६ ॥
ध्वनिचण्डेश्वरायेति हुं फटन्तास्त्रमन्त्रतः ।
धूपदीपादिकं दत्वा अर्घ विसर्जयेद्गुरुः ॥ १२७ ॥
शिरः कण्ठे च वक्षौ च कोर्परौ हस्तयोच्छिवः ।
एवं दिने दिने पूज्य अर्चयेत् पूर्ववत् क्रमात् ॥ १२८ ॥
इति सूक्ष्मतन्त्रे आत्मार्थपूजाविधिर्नाम पञ्चत्रिंशत्पटलः ॥