३२

प्। १३०)

शैवाचारं प्रवक्ष्यामि सामान्यर्चां विशेषतः ।
उत्तरायणगे सूर्ये क्षुरकर्मसमारभेत् ॥ १ ॥

गर्भाष्टमे द्विजनं हि वेदाभ्यासं समारभेत् ।
पञ्चादशवर्षादूर्ध्वं विवाहविषयं कुरु ॥ २ ॥

शुद्ध्यर्थं स्नपनं कुर्याद्विधि दृष्टेन कर्मणा ।

पश्चात् पूजासमारभ्य भस्मरुद्राक्षधारकः ।
तस्य सन्निधिकाले तु शिवागमविचारयेत् ॥ ४ ॥

पश्चान्निर्वाणसम्बन्धं कुर्याद्वाग्रविचारतः ।
पञ्चगोचर शुद्धात्म शिवेन परिभाषतः ॥ ५ ॥

पश्चादापाद्य कर्माणि कुर्याद् वै दीक्षिको बुधः ।
अन्यस्मिन् यदि वा कुर्या स्थानजस्यानुसारतः ॥ ६ ॥

सोऽपि मैत्रविधानाञ्च अन्यथां च न कारयेत् ।
अनादिविषयार्द्धेतो पूर्वसन्तानको गुरुः ॥ ७ ॥

ग्रामादीनादिकं कुर्याद् आदिशैवोदिको गुरुः ।
पित्रा तु यत्कृतं पूर्वं तस्य पुत्रेण तत्कृतम् ॥ ८ ॥

तस्य सन्निधिकाले तु तस्य सकलं नयेत् ।
अन्यथा करणीयञ्चेत् स्थाननाशं न संशयः ॥ ९ ॥

तयोरभावयेस्सम्यक् सन्तानश्च सगोत्रजैः ।
तेष्वसिद्धे तु कुर्यात् तु तस्य मित्रादिभिर्बुधः ॥ १० ॥

तस्य वक्त्रस्य तन्त्रेभ्यः कुर्यादिह विशेषतः ।
अन्येनाप्यनवक्त्रेण कुर्याश्चेद्दोषदम्महत् ॥ ११ ॥

प्। १३१)

कारणं किं विशेषोऽस्ति मन्त्रसम्बन्धकारणात् ।
तयोरमावयोस्सम्यक्सन्तानश्च सगोत्रभिः ॥ १२ ॥

क्रिया गर्भस्य भेन्तद्वत् गर्भात्मतं द्विचर्थकम् ।
आत्मार्थयजनं कुर्यात् परार्थं तु कदाचनात् ॥ १३ ॥

तस्मात्सर्वप्रयत्नेन तत्सर्वं मुक्तकालके ।
अन्यस्मिन् मासि कुर्याच्चेत्तत्फलं निष्फलं भवेत् ॥ १४ ॥

लिङ्गे च प्रतिमायां वा भित्तिचित्रे पटेऽपि वा ।
स्थण्डिले मण्डले चाग्नौ जले वा सूर्यमण्डले ॥ १५ ॥

नवेष्वेतेषु स्थानेषु आत्मार्थं कारयेत् सुधीः ।
लिङ्गबेरे तथा भित्तौ पटे वापि विशेषतः ॥ १६ ॥

चातुर्थेषु च स्थानेषु परार्थं कारयेद्बुधः ।
आरोहणादिनात्पूर्वे नवमे सप्तमे दिशि ॥ १७ ॥

सुमूहुर्त्ते सुलग्ने तु अङ्कुरानर्पयेद् बुधः ।
प्रासादस्याग्रतः कुर्यान्मण्डं शाङ्करे दिशि ॥ १८ ॥

षोडशं दशहस्तं वा नवहस्ताष्टहस्तकम् ।
षोडशस्तम्भसंयुक्तं चतुद्वारसमन्वितम् ॥ १९ ॥

नवभागैकभागे तु मध्यवेदीं प्रकल्पयेत् ।
अथवा पञ्चषट् सप्तताले विस्तरकं कुरु ॥ २० ॥

द्वितालेनोच्छ्रयं कुर्याद् दर्पणोदरसन्निभम् ।
पञ्चचूर्णैरलङ्कृत्य वितानध्वजशोभितम् ॥ २१ ॥

प्। १३२)

दर्भमालासमायुक्तं तोरणैश्च विभूषितम् ।
अष्टमङ्गलसंयुक्तं दशायुधानि विन्यसेत् ॥ २२ ॥

पुण्याहं वाचयेत् तत्र प्रोक्षयेन्मन्त्रवारिणा ।
षड्द्रोणै पञ्चभिद्रोणै वेदिमध्ये समर्चयेत् ॥ २३ ॥

तदर्थं तण्डुलैर्युक्तं तण्डुलार्द्धतिलैरपि ।
तन्मध्ये पद्ममालिख्य अष्टपत्रं सकर्णिकम् ॥ २४ ॥

पूर्वादीनि चतुर्दिक्षु कारयेदग्निकुण्डकम् ।
अथवा त्रीणि कुण्डं वा एकाग्निमधवापि वा ॥ २५ ॥

मण्डपस्यानुरूपेण अथवा अस्त्रमात्रकम् ।
त्रिमेखलैरलङ्कृत्य एकमेखलमेव वा ॥ २६ ॥

एवमेव क्रमेणैव कारयेन्मण्डपक्रियाम् ।
अधिवासं तु पूर्वेद्युर्दमनस्य हृदा बुधः ॥ २७ ॥

नवपात्रेषु सङ्गृह्य स्वनुगुप्ते निधापयेत् ।
देशिको मूर्त्तिपश्चैव स्नानं कुर्यास्सशिकान् ॥ २८ ॥

पञ्चाङ्गभूषणै भूष्य दिव्यगन्धानुलेपनम् ।
स्थापयेद् वेदिकामध्ये शिवकुम्भं च वर्धनि ॥ २९ ॥

अभितः कलशानष्टौ वारिपूर्णान् सहैमकान् ।
चतुर्दश्यादि षष्ठ्यन्तं पञ्चदश्यादिके परम् ॥ ३० ॥

प्रतिपद्यादि चाष्टम्यामेव मेषाधिवासयेत् ।
प्रत्येकं वस्त्रमावेष्ट्य अर्चयेद्गन्धपुष्पकैः ॥ ३१ ॥

प्। १३३)

दमनं च पृथक् शोध्य प्रोक्षयेत् तु कुशाम्भसा ।
पञ्चधाविभजेत् पुष्पं प्रत्येकं पात्रकं न्यसेत् ॥ ३२ ॥

पञ्चब्रह्म षडङ्गैश्च गन्धपुष्पादिभिर्यजेत् ।
शिवकुम्भस्य परितः स्थापयेद्धृदयेन तु ॥ ३३ ॥

समिधाज्य चरूलाजान् सर्षपाश्च यवातिलान् ।
पञ्चब्रह्मशिवाङ्गैश्च दशाक्षरेण मन्त्रतः ॥ ३४ ॥

कूर्मेण जुहुयाद् विद्वान् प्रत्येकं पञ्चविंशति ।
कुण्डं प्रति विशेषेण कुर्याद्वै देशिकज्ञया ॥ ३५ ॥

द्रव्यान्ते द्व्याहृतीं हुत्वा प्रासादेन स्पृशे बुधः ।

कुण्डं प्रतिविधानेना कुर्याद्वा शङ्करेपि वा ।
एवमेव विधानेन कारय्द् देशिकोत्तमः ॥ ३७ ॥

स्पर्शयेद्दमनान् पात्रान् चतुर्दश्यादिकानपि ।
इन्द्र ईशानयोर्मध्ये कारकुम्भं तु विन्यसेत् ॥ ३८ ॥

रतिकुम्भं तु तत्पार्श्वे प्रत्येकं वस्त्रवेष्टितम् ।
गन्धपुष्पादिभिः पूज्या स्वनाम हृदयेन तु ॥ ३९ ॥

सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् ।
गन्धदामनक दद्यात् देवदेवस्य मूर्द्धनि ॥ ४० ॥

सर्वेषां सकलादीनां स्वनामैश्चैव पूजयेत् ।
भक्तनां परिचाराणां यथा लाभेन दापयेत् ॥ ४१ ॥

प्। १३४)

हविर्निवेदये पश्चात् प्रासादेन तु मन्त्रतः ।
एवं रात्रौ प्रकुर्यात् तु प्रभाते स्नानमाचरेत् ॥ ४२ ॥

सकलीकरणं कृत्वा देशिकस्य विशेषतः ।
पावमानेन सम्प्रोक्ष्य महाव्योमेन मन्त्रतः ॥ ४३ ॥

शङ्खदुन्दुभिनिर्घोषैर्गीतवाद्यैरवैर्युतम् ।
कामकुम्भं ततोद्धृत्य रतिकुम्भं विशेषतः ॥ ४४ ॥

ग्राम प्रदक्षिणं कृत्वा द्वारपार्श्वे तु विन्यसेत् ।
नन्दिं चैव महाकालमभिषेकं क्रमेण तु ॥ ४५ ॥

गन्धपुष्पादिभिः पूज्य स्वनामसहितेन तु ।
पश्चाद् गर्भान्तिकं गत्वा निर्माल्यं तु विसर्जयेत् ॥ ४६ ॥

शिवकुम्भादिकान्कुम्भान् लिङ्गाग्रे स्थापयेद् बुधः ।
गन्धपुष्पादिभिः पूज्य पावमाने प्रोक्षयेत् ॥ ४७ ॥

महाव्योमेन मन्त्रेण अभिषेकं क्रमेण तु ।
शुद्धस्नानं प्रकुर्यात् तु प्रासादेन तु मन्त्रतः ॥ ४८ ॥

दामनकान् ततोद्धृत्य प्रासा * * प्रदक्षिणम् ।
कृत्वा चैव विशेषेण द्विपात्रं तु पृथन् न्यसेत् ॥ ४९ ॥

महाव्योमेन मन्त्रेण देवदेव * * र्धनि ।
निक्षिपे पिण्डिकायां च परं चैव विशेषतः ॥ ५० ॥

गौरिगायत्रि मन्त्रेण गन्धपुष्पादिभिर्यजेत् ।
शेषाशं सकलादीनां स्वनामैश्चैव पूजयेत् ॥ ५१ ॥

प्। १३५)

भक्तानां परिवाराणां यदा लाभेन दापयेत् ।
हविन्निवेदयेत् पश्चाच्छिवभक्ताश्च भोजयेत् ॥ ५२ ॥

देशिकं पूजयेत् पश्चात् मूर्तिपान् पूजयेत् ततः ।
आत्मार्थं पूजये काले भागं तु पूर्ववत् कुरु ॥ ५३ ॥

एकांश भास्करस्योक्तं विघ्नेशस्य ततः परम् ।
तृतीयांशं शिवस्योक्तं पिण्डिकायाश्चतुर्थकम् ॥ ५४ ॥

शेषांशं पञ्चभागं तु सम्यक् कुर्याद्विचणम् ।
एकांशं च गुरोदद्यात् दपपरं चार्चकस्य तु ॥ ५५ ॥

अग्ने तृतीयकं दद्यात् भक्तानं तु चतुर्थकम् ।
पञ्चाशं पैतृकादीनाम् एवमेव क्रमाद् ददेत् ॥ ५६ ॥

आत्मार्थे चैव होमं तु परार्थे शक्तितो भवेत् ।
विप्रक्षत्रियवैश्यनामात्मार्थे स्थापनोक्तवत् ॥ ५७ ॥

अथवा एकहोमं च यथावित्तानुसारतः ।
त्रिरात्रं च द्विरात्रं च अथवा एकरात्रकम् ॥ ५८ ॥

दिवसं दिवसार्थं च मध्यान्नात् प्राक्समारभेत् ।
प्रथमारम्भदिवसे अधिवासनमुच्यते ॥ ५९ ॥

अवरोहण कालस्तु तिथिकालं तु लक्षयेत् ।
तिथिप्रधानमारोहे ह्यवरोहे न दोषभाक् ॥ ६० ॥

नवपात्रेषु निक्षिप्य पञ्चगव्येन प्रोक्षयेत् ।
महाव्योमेन मन्त्रेण शिवाम्भसा तु प्रोक्षयेत् ॥ ६१ ॥

प्। १३६)

नित्यं सन्ध्यावसाने तु महाव्योमेन मन्त्रतः ।
दमानारोहणं कुर्याद् यथा शेषतः ॥ ६२ ॥

निर्माल्यं न भवेत् तत्र इति शास्त्रस्य निश्चयः ।
मन्त्रे विसर्जनीयं चेत् निर्माल्यं तत्र निश्चयः ॥ ६३ ॥

एवं हि चिरकाले तु कुर्याद् वै स्थापरे बुधः ।
आत्मार्थमेकरात्रं तु कुर्याद् वै सर्जयेद्बुधः ॥ ६४ ॥

अघोरास्त्रेण मन्त्रेण सङ्ख्याते वर्जयेद् बुधः ।
चण्डेश्वरस्य दातव्यं चण्डमन्त्रमनुस्मरन् ॥ ६५ ॥

स्नपनं कारयेद्धीमान् प्रासादेन तु मन्त्रतः ।
पञ्चगव्याभिषेकं तु शुद्धस्नाने कारयेत् ॥ ६६ ॥

अर्चयेद् गन्धपुष्पाद्यैः महाव्योमेन मन्त्रतः ।
यवादीनाविसर्ज्याथात वदग्निं * * * रेत् ॥ ६७ ॥

महाव्योमेन मन्त्रेण अष्टोत्तरशताहुतिः ।
घृतेन चरुणा चैव होमं कुर्याद् दिनं प्रति ॥ ६८ ॥

अवरोहणकाले तु पूर्णाहुति शिवेन तु ।
प्रभूतं हविर्दद्याद् देवदेवस्य बुद्धिमान् ॥ ६९ ॥

सकलानि तथान्येषां प्रभातं तु हविर्ददेत् ।
भक्तानां परिवाराणां यथाविभव मार्गतः ॥ ७० ॥

आचार्यपूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
भित्तिचित्रैः पटे वापि दर्पणे परिलिङ्गकम् ॥ ७१ ॥

प्। १३७)

हस्तमात्रप्रमाणेन मूलधामानुरूपतः ।
कारयेत् तु विशेषेण कुर्यदमनकं बुधः ॥ ७२ ॥

क्रिया परिसमाप्तौ तु दर्पणं दर्शयेत् च्छिवे ।
एवं विधिप्रकारेण कुर्याद् वै चित्रके बुधः ॥ ७३ ॥

स्थण्डिले मण्डले कुर्यात् द्यन्त्र मार्गेण देशिकम् ।
अग्नौ दमनकं कृत्वा जले तत्र विनिक्षिपेत् ॥ ७४ ॥

सूर्यमण्डलव्योमेन ददेद् दमनकं सुधिः ।
आत्मार्थे च परार्थे च एवमेवं हि कारयेत् ॥ ७५ ॥

अनुक्तं यदि कुर्याच्छेत् कर्तृनाशं न संशयः ।
तस्मात् सर्वप्रयत्नेन उक्तमार्गेण कारयेत् ॥ ७६ ॥

आत्मार्थविषये काले भक्तिमार्गेण वा कुरु ।
मासं पक्षं तिथिं कुम्भं भागञ्चैवा समासतः ॥ ७७ ॥

न होमकाले भेदस्यादात्मार्थे हीनजातिषु ।
अन्यसर्वसमानंस्य ब्रह्मक्षत्र्यविशां क्रमात् ॥ ७८ ॥

अन्ते महोत्सवं कुर्यात् परार्थे तु विशेषतः ।
अनुक्तं यद् भवे किञ्चित् पवित्रवत् समाचरेत् ॥ ७९ ॥

दमं च पवित्रं च पुक्रणं च तथोत्सवम् ।
शिवकुम्भं तथा शान्ति घृतस्नानं तु कम्बलम् ॥ ८० ॥

चिरकालकृतं च यत्समानं तेषु सर्वतः ।
अर्चको देशिकश्चैव ब्रह्मचारित्वमाचरेत् ॥ ८१ ॥

प्। १३८)

अक्षरालवणा शिष्याद्यावत्कालं व्रतं चरेत् ।
ग्रामान्तरं न गन्तव्यं गन्तव्यं दिशि न स्वपेत् ॥ ८२ ॥

अन्यस्मिन् सर्वकाले तु गतागतं तु दोषभाक् ।
अङ्कुरानर्पयेत् पूर्वं व्रतस्थ देशिकोत्तमः ॥ ८३ ॥

आत्मार्थ विषये काले अर्चकस्य गरुस्तथा ।
एवमेव क्रमेणैव कुर्यादारम्भके बुतिधः ॥ ८४ ॥

प्रमदादृतहीनस्सो होमं चान्नार्च कुर्यादिति ।
महाव्योति मन्त्रेण दशसाहश्रकं जपेत् ॥ ८५ ॥

दशाक्षरेण वा कुर्यात् प्रासादेनथवा पुनः ।
एवमेव प्रकारेण कुर्यादारम्भके विथेः ॥ ८६ ॥

अन्यधा यदि कुर्याच्चेत् राजारष्ट्रविनाशनम् ।
आत्मार्थेभ्यर्च्य कर्मश्च विनाशं भवनिश्चयः ॥ ८७ ॥

दमनारोपणं प्रोक्तं शैवाचारं शृणुष्वथ ॥ ८७� ॥

इति सूक्ष्मशास्त्रे दमनारोपणं नाम चतुस्त्रिंशत्पटलः ॥