३१

प्। १२३)

अथातं सम्प्रवक्ष्यामि घृतकम्बललक्षणम् ।
सर्वलोकहितार्थाय सर्वभूतहिताय च ॥ १ ॥

गोब्राह्मणनृपादीनां शिताकुर्वन्ति घर्मके ।
माघमासे मघर्क्षे तु पौर्णमास्यां विशेषतः ॥ २ ॥

घृतकम्बलकं कुर्यादर्के वा चान्द्रमासके ।
दिवा पर्वणि सम्बन्धे रात्रौ नक्षत्रसंयुते ॥ ३ ॥

तस्मिन्दिवैव कर्तव्यं पर्वसम्बन्धकारणात् ।
सर्वपापक्षयं पुंसां सर्वकार्मार्थसाधनम् ॥ ४ ॥

स्नेहद्रव्यादि पोषार्थं माघामासे यजेत् क्रमात् ।
शिवप्रतीकरं साक्षादपमृत्युविनाशनम् ॥ ५ ॥

पादादिमूर्ध्निपर्यन्तं लेपयेद्गोघृतेन तु ।
श्वेतादीनां गवांश्चैव घृतं सङ्गृह्य बुद्धिमान् ॥ ६ ॥

लिङ्गे द्वे कम्बलं न्यस्य गन्धपुष्पादिभिर्यजेत् ।
आत्मार्थेषु परार्थेषु गोलकन्यस्य विन्यसेत् ॥ ७ ॥

निरोपाग्नियुतं शुद्धं कृमिकोटरवर्जितम् ।
ब्रह्मचारि चतुवण्यां गोक्षीरा हि च सङ्ग्रहेत् ॥ ८ ॥

सौवर्णादिषु पात्रेषु वस्त्रपूतेन बुद्धिमान् ।
हृदयेनैव मन्त्रेण अग्निकर्मादि कारयेत् ॥ ९ ॥

आर्द्रेणैव समायुक्तं यावद्वै घनतां व्रजेत् ।
तावत् पात्रेषु सम्पूज्य प्रासादेनैव मन्त्रतः ॥ १० ॥

प्। १२४)

पचनालयदेशे तु अन्यस्मिन् वा मनोरमे ।
आत्मार्थे चैशदिग्भागे पूजास्थानं तु पूर्वके ॥ ११ ॥

मण्डलं कारयेत् तत्र वृत्तं वा चतुरश्रकम् ।
तस्य मध्ये न्यसेत् पात्रं हृदयेनैव मन्त्रतः ॥ १२ ॥

तस्मादन्येषु पात्रेषु दधिसङ्ग्राह्य देशिकः ।
हृदयेन तु मन्त्रेण शिवाम्भसा तु पूरयेत् ॥ १३ ॥

वस्त्रेणैव तु हस्ताभ्यां मर्दयेत् पुरुषेण तु ।
यावद्वै भिन्नतां याति तावद्वै मथनक्रिया ॥ १४ ॥

अन्यपात्रेषु मतिमान् आनीय्य नवनीतकम् ।
पचनालयदेशे तु अग्निमन्त्रेण कारयेत् ॥ १५ ॥

शुद्धपात्रे तु मतिमान् सङ्ग्रहेद्धृदयेन तु ।
सहस्रप्रस्थकं मुख्यं शतप्रस्थान्तकं क्रमात् ॥ १६ ॥

प्रत्येकं नवधा मानं कारयेद् विभवानुगम् ।
अथवा हीनमानं तु दशप्रस्थान्तकं क्रमात् ॥ १७ ॥

तदा भावे दशप्रस्थं प्रस्थान्त व क्रमेण तु ।
एवं बहुप्रकारेण आत्मार्थे वा परार्थके ॥ १८ ॥

आत्मार्थेषु दृमार्गं स्यात् प्रभूतं स्थापने बुधः ।
गन्धपुष्पादिभिः पूज्य प्रासादेन पृथक् पृथक् ॥ १९ ॥

सर्वालङ्कारसंयुक्तं शङ्खध्वनिसमन्वितम् ।
नानावाद्यसमायुक्तं नानागेयसमन्वितम् ॥ २० ॥

प्। १२५)

ग्रामप्रदक्षिणं वापि प्रासादं वा प्रदक्षिणम् ।
सुगुप्ते मण्डपे स्थाप्य प्रासादेन तु मन्त्रतः ॥ २१ ॥

प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
द्वादशहस्तं वा नवहस्ताषहस्तकम् ॥ २२ ॥

ब्राह्मणादिक्रमेणैव प्रपां वा कारयेद् बुधः ।
चतुद्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २३ ॥

दर्भमालाभिरावेष्ट्य वितानध्वजशोभितम् ।
मण्डपस्य त्रिभागेकं मध्ये वेदिं प्रकल्पयेत् ॥ २४ ॥

उत्सेथं रत्निमात्रं स्यात् तालमात्रमथापि वा ।
वेदिकापूर्वदिग्भागे होमकुण्डं हि कारयेत् ॥ २५ ॥

वृत्तं वा चतुरश्रं वा त्रिमेखलारलङ्कृतम् ।
स्थावरे तु चतुर्दिक्षु होमं कुर्यात् तु देशिकः ॥ २६ ॥

आत्मार्थे चैकहोमं स्याद् ब्रह्मणादि क्रमेण तु ।
पुण्याहं वाचयेत् तत्र पावमानेन प्रोक्षयेत् ॥ २७ ॥

घृतकम्बलकात्पूर्वे नवके सप्तपञ्चमे ।
अङ्कुरानर्पयेद्विद्वान् शास्त्रदृष्टेनकर्मणा ॥ २८ ॥

अङ्कुरस्यार्पणं पूर्वे घृतं सङ्ग्राह्य देशिकः ।
अधिवासनरात्रौ तु पात्राणि पूरयेज्जलैः ॥ २९ ॥

सर्वगन्धसमायुक्तं पञ्चब्रह्मषडङ्गकैः ।
अथवा च जलद्रोणाघटे वा पूरयेत् क्रमात् ॥ ३० ॥

प्। १२६)

दशपात्रं पञ्चपात्रं त्रीणिपात्रमथापि वा ।
एकपात्रं हि चाल्पे तु आत्मार्थे त्रीणि चैकतः ॥ ३१ ॥

दशपात्रे दशं मूर्तिं पञ्चमूर्तिश्च पञ्चमे ।
त्रिमूर्तिश्च त्रिपात्रेषु एकपात्रे शिवस्तथा ॥ ३२ ॥

तन्तुकूर्चसमायुक्तान् सवस्त्रान्नेयसंयुतान् ।
एवमेव क्रमेणैव स्थापयेद्वेदिकाबहि ॥ ३३ ॥

नववस्त्रेण संवेष्ट्य पात्राणमस्य देशिके ।
तं जले शिववत् कृत्वा तज्जले तु घृतं क्षिपेत् ॥ ३४ ॥

कुङ्कुमागरुकर्पूरैः अरिदै चूर्णसंयुतम् ।
कर्षयेदीशमन्त्रेण देशिको तत्र बुद्धिमान् ॥ ३५ ॥

पश्चात् पिर्णत्वमायादि प्रासादेनोद्धृतः क्रमात् ।
सौवर्णेषु च पात्रेषु प्रत्येकं सङ्ग्रहेद् बुधः ॥ ३६ ॥

स्थण्डिलक्रममार्गेण वेदिकां कारयेद् बुधः ।
दशायुधानि परितः अष्टमङ्गलसंयुतम् ॥ ३७ ॥

पूर्ववत् संस्कृतान् कुम्भान्वेदिकोपरिविन्यसेत् ।
अष्टलोकाधिपान् कुम्भान् कुम्भेषु चार्चयेत् क्रमात् ॥ ३८ ॥

तेषां मध्यमदेश तु घृतपिण्डानि विन्यसेत् ।
नववस्त्रेणसंवेष्ट्या प्रासादेनर्चयेद्बुधः ॥ ३९ ॥

पुण्याहं वाचयेत् तत्र ब्रह्मघोषसमन्वितम् ।
होमं कृत्वा तदन्ते तु पञ्चब्रह्मषडङ्गकैः ॥ ४० ॥

प्। १२७)

समिधाज्यचरुलाजान् गुलक्षीरदधिर्यवम् ।
सर्षपं मुद्गमाषौ च होमद्रव्यं क्रमेण तु ॥ ४१ ॥

प्रभूतैः कबलेयद्यत्स्थावरेषु चतुष्वपि ।
देशिकस्यानुसारेण प्रत्येकं होममाचरेत् ॥ ४२ ॥

एभि होमेरशक्तश्चेद्देक एव विधियते ।
आत्मार्थे तद्वदेवोक्तं शूद्राणमेकहोमकम् ॥ ४३ ॥

एवं विधिप्रकारेण अच्चितेनैव कारयेत् ।
बलिं तत्र तु कुर्यात् तु वेदिबाह्ये बलिं क्षिपेत् ॥ ४४ ॥

पाश्चाद्देवं च देवीं च अर्चनोक्तं क्रमाद्यजेत् ।
घृतं शिरोर्पणं कुर्यात् प्रासादेन तु मन्त्रतः ॥ ४५ ॥

हविर्न्निवेदयेत् तत्र उपदंशैस्समन्वितम् ।
ताम्बूलं दापयेत् तत्र ब्राह्मणान्भोजयेत् ततः ॥ ४६ ॥

रात्रावधिवसेत् तत्र पञ्चगव्यामृतेस्सह ।
प्रभाते देशिकं स्नात्वा पश्चाद्यजनमारभेत् ॥ ४७ ॥

अलङ्कृत्यार्चयित्वा तु व्योमव्यापि दशाक्षरैः ।
एवं विधिप्रकारेण कारयेद्देशिकोत्तमः ॥ ४८ ॥

हृदयेन तु मन्त्रेण घृतकम्बलकं यजेत् ।
लोकपालान् समभ्यर्च्य स्वस्वैर्न्नामैविशेषतः ॥ ४९ ॥

होमकर्मविधिं कुर्यात् पूर्वोक्तविधिना सहा ।
अन्ते पूर्णाहुतिं दद्यात् प्रासादेन तु मन्त्रतः ॥ ५० ॥

प्। १२८)

आचार्य पूजयेत् तत्र मूर्त्तिधाराश्च पूजयेत् ।
ग्रामप्रदक्षिणं कृत्वा घृतकम्बलकं बुधः ॥ ५१ ॥

सर्वालङ्कारसंयुक्तं नृत्तगेयसमन्वितम् ।
लिङ्गमूर्तिं न्यसेत् पश्चाद्घृतकम्बलकं हृदा ॥ ५२ ॥

मूर्ध्नादिपादपर्यन्तं कम्बलं विन्यसेत् क्रमात् ।
सकलानि च सर्वाणि स्थापने विन्यसेत् क्रमात् ॥ ५३ ॥

परिवाराणि सर्वाणि स्थावरे चैव विन्यसेत् ।
महाव्योमेन मन्त्रेण कम्बलं सर्वथा न्यसेत् ॥ ५४ ॥

गन्धपुष्पादिभिः पूज्य प्रासादेन तु मन्त्रतः ।
प्रभूतहविषं दद्याद् हृदयेन तु मन्त्रतः ॥ ५५ ॥

नित्यान्ते तु प्रकर्तव्यं सन्ध्यायां तु विशेषतः ।
दिवसं दिवसार्थं च यामं यामार्थमेव च ॥ ५६ ॥

पातकश्चात् बकङ्कृत्वा पूर्ववस्नपनं तथा ।
महाव्योमेन मन्त्रेण दशाक्षरं तथैव च ॥ ५७ ॥

अर्चयेत् शास्त्रमार्गेण गन्धपुष्पादिभिः बुधः ।
परिवाराणि सर्वाणि स्नपनं कारयेत् क्रमात् ॥ ५८ ॥

तेषां हविष्यं दद्यात् तु तन्त्रमन्त्रेण दापयेत् ।
कम्बलं देवदेवस्य चण्डेशाय प्रदापयेत् ॥ ५१ ॥

चण्डमन्त्रमनुस्मृत्य कम्बलपरित्यजेत् ।
घृतकम्बलकं सर्वं गोषु चाप्सु विनिक्षिपेत् ॥ ६० ॥

प्। १२९)

अग्निना दाहयेत् तत्र चण्डमन्त्रमनुस्मरन् ।
यस्मिन् कर्मणि यन्मत्रं तस्मिन् हृदयमन्त्रतः ॥ ६१ ॥

कारयेत् तु विशेषेण मन्त्रेणैव विशेषतः ।
घृतकम्बलमात्रे तु एकरात्राद्धृतं यदि ॥ ६२ ॥

प्रत्येकं संस्कृतं गव्यं घमषा त्रीणि सप्त च ।
अतः परं न कर्तव्यम् आत्मार्थे तु परार्थके ॥ ६३ ॥

आत्मार्थे स्पटिकाद्येषु स्थण्डिले मण्डलादिके ।
घृतकम्बलकं न्यस्य भित्तिचित्रे तु दर्पणे ॥ ६४ ॥

पठेऽपि तत् तद्वत् कर्तव्यम् अग्नौ होमं च कम्बलम् ।
सूर्यमण्डलकाद्योमकम्बलं शोधयेद् बुधः ॥ ६५ ॥

जलदेशे जले न्यस्य स्वैस्वै मूलैश्च बुद्धिमान् ।
यावत् कम्बलकं यस्य तावद्बीजं न चालयेत् ॥ ६६ ॥

एवमात्मार्थकं कुर्यात् परार्थं नैव तत्क्रिया ।
एवमेव विधानेन कारयेदुक्तमार्गतः ॥ ६७ ॥

आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
घृतकम्बलकं प्रोक्तं दमनारोपणं शृणु ॥ ६८ ॥

इति सूक्ष्मशास्त्रे घृतकम्बलं नाम एकत्रिंशत्पटलः ॥