प्। ११६)
प्रतिमालक्षणम् ।
अतः परं प्रवक्ष्यामि प्रत्रिमालक्षणं * * ।
सर्वलोकहितार्थाय सर्वशान्तिकराय च ॥ १ ॥
देवतानां पृथग्रूपं तस्मात् प्रतिममुच्यते ।
सकलं निष्कलं चैव द्विविधं प्रतिमुच्यते ॥ २ ॥
निष्कलं तु निराकारं सकलं तु स्वरूपकम् ।
द्वात्रिंशदङ्गसम्पूर्णं सकलं तु प्रभेदतः ॥ ३ ॥
प्रतिमा कारये पश्चाद् यथाविभवविस्तरैः ।
सौवर्णं राज्यकामीनां राजितं वैश्यवृद्धिदम् ॥ ४ ॥
त्राम्रं विप्रसमृध्यर्थं शूद्राणां विभवं भवेत् ।
यथा न * * द्रव्येण प्रतिमा कारयेद् बुधः ॥ ५ ॥
उत्तमं मध्यमं चैव अधमं त्रिविधं भवेत् ।
एकैकं त्रित्रिभेदुनि नवदा भेदमुच्यते ॥ ६ ॥
उत्सवं प्रतिमां चैव उमास्कन्दमहेश्वरः ।
एकविंशत्प्रभेदं तु षोडशैव प्रभेदतः ॥ ७ ॥
द्वादशैव प्रभेदं तु त्रिविधं भेदमुच्यते ।
ईशमानं प्रकर्तव्यम् उत्तमोत्तममुच्यते ॥ ८ ॥
गर्भगृहं तदेव स्यात् स्तम्भमानं तमेव च ।
रशितिरङ्गुलं मानम् उत्तमं तु विधीयते ॥ ९ ॥
तन्मानं नवधा कृत्वा एकैकं तु प्रभेदतः ।
एवं मानप्रभेदं तु शिल्पिशास्त्रोक्तमाचरेत् ॥ १० ॥
प्। ११७)
प्रथमं सुखासनं प्रोक्तं वैवाह्यं तु द्वितीयकम् ।
तृतीयं मुमययुक्तं वृषारूढं चतुर्थकम् ॥ ११ ॥
पञ्चमं त्रिपुरान्तं तु नृत्तरूपं तु षष्ठकम् ।
चन्द्रशेखरमेवोक्तं सप्तमं तु विशेषतः ॥ १२ ॥
अष्टमं चार्धनारिशं नवमं हरिरर्धकम् ।
चण्डेश्वरप्रसादं तु दशमं परिकीर्तितम् ॥ १३ ॥
कामार्येकादशं प्रोक्तं द्वादशं कालनाशनम् ।
त्रयोदशं दक्षाणमूर्तिं भिक्षाटनमतः परम् ॥ ११४ ॥
सदाशिवं पञ्चदशं लिङ्गोत्पत्तिस्तु षोडशा ।
एवं षोडशमूर्तिनां भेदं वैवक्ष्यतेऽधुना ॥ १५ ॥
सुखासनं महाशान्तं कल्याणं सोमधारिणम् ।
गङ्गाधरं च पञ्चैते सृष्टिमूर्तिरिहोच्यते ॥ १६ ॥
अर्धनारि त्रिरात्रं च विरेशं वृषवाहनम् ।
भिक्षाटनं च पञ्चैते स्थितिमूर्तिरुदाहृदम् ॥ १७ ॥
कालहाकामदाहश्च महात्रिपुरनाशनम् ।
गजोद्भवं मन्वहारि जलन्धरवधस्तथा ॥ १८ ॥
चण्डेशं चैव चाष्टौ तु संहारमूर्तिरुच्यते ।
त्रिणेत्राश्च चतुर्बाहुं बालेन्दुकृतशेखरः ॥ १९ ॥
व्याघ्रचर्माम्बरश्चैव हारकेयूरभूषिताः ।
यज्ञोपवीतसंयुक्ता कुण्डलाभ्यमलङ्कृतम् ॥ २० ॥
प्। ११८)
जटामकुटसंयुक्ता सर्वपुष्पैरलङ्कृताः ।
वरदाभयहस्ताभ्यां कृष्णापरशुधारिणः ॥ २१ ॥
एवं षोडशमूर्तिनां सामान्यमिदमीरितम् ।
विशेषं तु प्रवक्ष्यामि उमास्कन्दमहेश्वरे ॥ २२ ॥
सौम्यं रौद्रं तथा मिश्रं त्रिविधं भेदमुच्यते ।
पूर्वोक्तेन प्रमाणेन पञ्चासन समायुतम् ॥ २३ ॥
आयव्ययर्क्षवारांश योनिनां तु विशेषतः ।
शुभाशुभं निरीक्षन्तु सम्यक्कृत्वं तु बुद्धिमान् ॥ २४ ॥
ईशस्य बाहमानेन मुमायमानमुच्यते ।
मुमाय बाहुमानेन स्कन्दमानं प्रचक्षते ॥ २५ ॥
उमाशङ्करयोर्मध्ये स्कन्द वै बालरूपिणम् ।
देवस्याद्यप्रमाणेन आसनं तु विशेषतः ॥ २६ ॥
पञ्चभागं त्रिभागं तु मध्यक्षं चैव कारयेत् ।
त्रिभागेरधमं विद्यात् त्रिविधमासनस्मृतम् ॥ २७ ॥
एकासनसमायुक्तं पूर्वोक्तेन प्रमाणतः ।
मुखभागं विनिश्चित्य चतुर्विंशच्छताङ्गुलैः ॥ २८ ॥
मध्यमं दशतालेन देवीरूपं तु कारयेत् ।
नुवाद्धकालमानेन स्कन्दरूपं तु कारयेत् ॥ २९ ॥
देवीनां तु तथैवं स्यात् दसने सह योजयेत् ।
एकवक्त्रं महाबाहु निलशिव महद्युतिः ॥ ३० ॥
प्। ११९)
जटामकुटसंयुक्तं पाश्वेन्दकृतसंयुतम् ।
त्रियक्षं चतुर्भुजं सौम्यं व्याघ्रचर्म —- बरप्रभुम् ॥
३१ ॥
वरदाभयहस्तं च कृष्णं परशुधारिणम् ।
दक्षिणे लम्बितं पदं वामपादं समासनम् ॥ ३२ ॥
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
सपुष्पवरदं हस्तं गौरिसम्यग्विशेषतः ॥ ३३ ॥
स्कन्ददेवनमेवोक्तम् एवमेवं विशेषतः ।
इदं सौम्यप्रकारेण सर्वसिद्धिकरं शुभम् ॥ ३४ ॥
कृष्णापरशुसंयुक्तम्मभयं कटकं भवेत् ।
नानालङ्कारसंयुक्तं नानाभरणभूषितम् ॥ ३५ ॥
रौद्रं कटकहस्तं स्यात् स्कन्दं वा पुष्पहस्तकम् ।
रौद्रमेवासमाख्यातं पाशुपतादिमूर्तिना ॥ ३६ ॥
मिश्रं तु कटकं हीनं वामपाद प्रलम्बितम् ।
दक्षिणं पादमासिनं मुमादेवीं तथैव च ॥ ३७ ॥
षण्मुखं पर्वमेवोक्तं वरदाभयहस्तकम् ।
एवमिश्रं समाख्यातं लाकुले नैव कारयेत् ॥ ३८ ॥
सौम्यं तु शूलशैवं स्यादष्टाविंशत् त्रिभेदतः ।
ततः शास्त्रोक्तमार्गेण पशुपदादि कारयेत् ॥ ३९ ॥
एकैकसङ्करं कुर्यात् कर्ताभर्ता विनश्यति ।
तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् ॥ ४० ॥
प्। १२०)
एवं त्रिविधभेदं तु तत्र मार्गेण कारयेत् ।
प्रतिमालक्षणं प्रोक्तं मनोन्मनि विधि शृणु ॥ ४१ ॥
इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे प्रतिमालक्षणं नाम एकोन्नत्रिंशत् पटलः ॥