आचार्यलक्षणम् ।
अतः परं प्रवक्ष्यामि आचार्यो लक्षणं परम् ।
गोचर सत्यवादि च पूर्वाचारप्रयोगवित् ॥ १ ॥
शास्त्रज्ञः शिवमन्त्रज्ञः शिवदीक्षाभिषेचकः ।
मन्त्रज्ञः शब्दभेदज्ञः गुरुदेवाग्निपूजकः ॥ २ ॥
सिद्धान्ति निपुणो दक्षः श्रीमान् भक्तजनप्रियः ।
नक्तभोजि जितेन्द्रज्ञश्च व्यक्ताचार प्रियंवदः ॥ ३ ॥
नहीनगोहिशुद्धात्मदीक्षतः प्रतिपातकः ।
पञ्चयज्ञपरो नित्यं शूद्रान्नं परिवर्जयेत् ॥ ४ ॥
ऋग्यजुस्सामथर्वज्ञ शिवशास्त्रज्ञ सूक्ष्मवान् ।
निष्कलात्सकलो जात तद्वदाचार्यपुत्रकः ॥ ५ ॥
आचार्यपुत्रो पौत्रो वा दौहित्रो वा विशेषतः ।
तेषामभावेणाचार्यपुत्रेणैव कृतं यदि ॥ ६ ॥
प्। १११)
पुष्पे नष्टे फलं नास्ति उषरे सस्यवत्फलम् ।
परद्रव्यं न गृह्नीयात् भक्तानुग्राहकारणः ॥ ७ ॥
परशास्त्रमविज्ञेयं परदीक्षाविवर्जयेत् ।
चातुर्णामपि वर्णानां ब्राह्मणेभ्यो विशिष्यते ॥ ८ ॥
ब्राह्मणानामलाभे तु क्षत्रियाणां विशेषतः ।
ब्रह्मणक्षत्र्यकन्यायाः जातो वै क्षत्रियोत्तराः ॥ ९ ॥
ब्रह्मणात् किञ्चिदूनश्च क्षत्रियान्किञ्चिदुत्तमम् ।
ब्राह्मणान् क्षत्रियाणामलाभे तु वैश्यानां तु विशेषतः ॥ १० ॥
एवमेव क्रमं प्रोक्तं शैवार्चस्य व्यवस्थिति ।
आनुलोमस्तथाचार्य प्रतिलोमस्तु वर्जिता ॥ ११ ॥
वैश्यकान्यायां जातो वै वैश्यशूद्रस्तथोत्तमः ।
क्षत्रियस्य प्रसूतोऽपि वैश्यात्किञ्चिदिवोत्तमः ॥ १२ ॥
प्रतिष्ठाशिवदीक्षायां सर्वलक्षणलक्षितः ।
क्षत्र्यासु वैश्यकन्यायां जातो वैश्योत्तमो भवेत् ॥ १३ ॥
वैश्यस्तु शूद्रकन्यायां जातः शूद्रस्य चोत्तमः ।
सर्वलक्षणसम्पन्ना दीक्षितः शिवगोचरः ॥ १४ ॥
एवमेव गुणेनैव शैवसन्तानमुख्यवान् ।
शैवं पाशुपतं सोमं त्रयस्सिद्धान्तभेदिने ॥ १५ ॥
केवलं शैवसिद्धान्तं शिवलीलात् प्रसङ्गगात् ।
अष्टप्रदानामुख्येत अष्टसन्दर्शनप्रिये ॥ १६ ॥
प्। ११२)
मुख्यवान् परवीरज्ञः सर्वशास्त्रस्य पाठकः ।
स्मिङ्ग्धाङ्गो ललिताङ्गश्च सर्वावयवशोभितः ॥ १७ ॥
शिखि वा बन्धसंयुक्तो भस्मरुद्राक्षधारकः ।
सूत्रत्यागि शिखात्यागि मन्त्रसाध्यादिभिः शुभः ॥ १८ ॥
सर्वागमेषु निपुणः सर्वसङ्गविवर्जितः ।
सोऽपि वै नैष्टिको नाम आचार्य श्रेष्ठ उच्यते ॥ १९ ॥
तस्य पुत्रेण शास्त्रज्ञः सोऽपि कर्मार्हको भवेत् ।
इत्येवाकृतिसंयुतो वस्त्राभरणशोभितः ॥ २० ॥
शुद्धरूपमिदं शैवम् आचार्यस्य विधीयते ।
दीर्घाङ्गि चैव ह्रस्वाङ्गि शठो दधि गुणं सरम् ॥ २१ ॥
विमलं कृपणश्चैव अहनाकुलोद्भवः ।
विटपद्वैव धूर्तश्च दृतोमत्तप्रमत्तवान् ॥ २२ ॥
गुल्मश्च रोगिकुष्टश्च शिपिविष्टश्च मुष्टिवान् ।
अन्धकं तनुकाश्चैव अङ्गहीनोऽपि कोपवान् ॥ २३ ॥
मुचकि वेदविक्रितो मुस्थितोन्मुञ्चभस्मया ।
अष्टाशौचो व्रतहीनो नामधारक विप्रकः ॥ २८ ॥
परप्रेष्यरभोनित्यं देवाग्निगुरुनिन्दकः ।
अनाचार्यस्य पुत्रो वा मुग्धस्य हृदहार्यते ॥ २५ ॥
धातुक्षयविकाराङ्गि सत्वनष्टो ह्यबुद्धिमान् ।
व्यपारि देवविक्रीत विद्यानष्टश्च नष्टवान् ॥ २६ ॥
प्। ११३)
दुर्जनो दोषसंयुक्तो मण्डितः पतितस्तथा ।
स्वकर्मणि फलं तत स्यात् प्रतिष्ठादिषु यस्तु सः ॥ २७ ॥
एवमेव समायुक्त स्थापनाद्यां विसर्जयेत् ।
आदिशैवेन कर्तव्यं प्रतिष्ठापनादिकम् ॥ २८ ॥
अनुशैवादयः सर्वे आत्मार्थविषयेत् क्रमात् ।
सकलः सर्वदेशेषु गतागतविनिश्चियः ॥ २९ ॥
आचार्यलक्षणं प्रोक्तं शिष्यादेर्लक्षणं शृणु ॥ २९� ॥
इति सूक्ष्मतन्त्रे आचार्यलक्षणं नाम सप्तविंशतिपटलः ॥