अथातः सम्प्रवक्ष्यामि नित्यबलिविधिक्रमम् ।
यस्मिन् ग्रामे बलिः शब्दस्तस्मिन् स्त्राराक्षसादयः ॥ १ ॥
श्रुत्वा गमन्ति सहसा ग्रामं वृद्धिकरं भवेत् ।
तस्मात्सर्वप्रयत्नेन कुर्यान्नित्यबलिं क्रमम् ॥ २ ॥
शिवस्य भोजनान्ते तु अन्तै नित्याग्निकर्मणि ।
नित्यं बलिं क्रमं कुर्याद्राजाविजयमिछति ॥ ३ ॥
उत्तमं मणिलिङ्गं स्यान्मध्यमं प्रतिमा भवेत् ।
अधमं गोलकं ज्ञेयम् अथवा पुष्पान्नतण्डुलैः ॥ ४ ॥
प्रतिमा भावयेल्लिङ्गं तस्याभावे तु गोलकम् ।
तेषामभावे मन्नादीन् कुर्यासम्यक् सदा बुधः ॥ ५ ॥
पूर्वान्ने पुष्पलिङ्गेन प्रतिमा ब्राह्मणप्रियम् ।
मध्यान्ने चान्नलिङ्गेन मणिलिङ्गशिवप्रयम् ॥ ६ ॥
साये तण्डुललिङ्गेन गोलका केशवप्रयम् ।
सौवर्णं रजतं ताम्रं कांस्यपात्रचतुर्विधम् ॥ ७ ॥
प्। १०७)
अष्टाङ्गुलं तु विस्तारं चतुरङ्गुलमुच्छ्रयम् ।
पात्रस्य मध्यमे पद्मं कल्पयेत् तु दलाष्टकम् ॥ ८ ॥
मण्डपं दक्षिणे भागे मण्डलं चतुरश्रकम् ।
गोमयेनोपलिप्याथ पात्रं संस्थाप्य तत्र तु ॥ ९ ॥
शिवमन्त्रं समुच्चार्य शिवस्तं शिवमावहेत् ।
ईशानमन्त्रमुच्चार्य बलिलिङ्गे शिवं न्यसेत् ॥ १० ॥
सर्वगन्धैस्तथा पुष्पै धूपैर्दीपैस्तथार्घ्यकैः ।
हृदयाद्यस्त्रपर्यन्तैः मन्त्रैरभ्यर्चयेत् क्रमात् ॥ ११ ॥
ब्रह्मचारिगृहस्थो वा भस्मोद्धुलितविग्रहः ।
सहोष्णीषोत्तरीयेण लिङ्गं शिरसि धारयेत् ॥ १२ ॥
सद्योजातं समुच्चार्य प्रतिमाद्यैः सह व्रजेत् ।
पाशुपदास्त्रमूत्तिर्वा चन्द्रशेखरमेव च ॥ १३ ॥
सर्वेषां पुरतो गच्छेन्मणिभिः स्तदनुव्रजेत् ।
पुष्पान्नं तण्डुलं लिङ्गं तस्य लिङ्गं तनुव्रजेत् ॥ १४ ॥
वितानध्वजसंयुक्तं च्छत्रचामरसंयुतम् ।
वाद्यध्वनिसमायुक्तं गणिकाद्यैरलङ्कृतम् ॥ १५ ॥
प्रथमप्रदक्षिणं कुर्यात् प्रासादपीठिका सहा ।
गोपुरात्पुरतो गच्छेच्छङ्खध्वनिसमन्वितम् ॥ १६ ॥
चितीर्या द्वारपाश्वाभ्यां पादुकास्थानमिष्यते ।
तस्य पश्चिमभागे तु प्रतिमास्थानमुच्यते ॥ १७ ॥
प्। १०८)
पश्चिमे प्रतिमायास्तु मग्रेण स्थानमुच्यते ।
मणिलिङ्गस्य पश्चाभ्यां गोलकास्थानमिष्यते ॥ १८ ॥
त्रयाणां पृष्ठभागे तु अन्तादे स्थानमिष्यते ।
प्रदक्षिणक्रमेणैव प्रतिमादीनि स्थापयेत् ॥ १९ ॥
प्रतिष्ठा प्रतिमादीनां बलिलिङ्गं तु स्थापयेत् ।
प्रतिमाद्य इति प्रोक्ता प्रति च मणिगोलका ॥ २० ॥
पुष्पान्नत्तण्डुलं लिङ्गं बलिलिङ्गमिति स्मृतम् ।
पूर्वाभिमुखमास्थाप्य प्रतिमाग्रस्य पादुकम् ॥ २१ ॥
स्थलिकोपरि संस्थाप्य पादुकद्वयमर्चयेत् ।
पात्रगन्धैः स्तथा पुष्पैः धूपदीपैरधोर्घ्यकै ॥ २२ ॥
षडङ्गैः क्रमशोऽभ्यर्च्य अर्घ्यं दत्वा यथाक्रमम् ।
चतुर्णप्रथमादीनाम्मर्घ्यं शिरसि विन्यसेत् ॥ २३ ॥
पादप्रक्षालनं कृत्वा प्रासादं सम्प्रवेशयेत् ।
स्वस्थाने स्थाप्य वाराद्यै पूजयेद्ब्रह्मपञ्चभिः ॥ २४ ॥
पूर्वस्मिन् मण्डले स्थाप्य बलिलिङ्गं तु देशिकः ।
द्वारादिभिसमभ्यर्च्य पञ्चभिः ब्रह्मभि क्रमात् ॥ २५ ॥
शिवमन्त्रसमुच्चार्य बलिलिङ्गस्थमीश्वरम् ।
मूललिङ्गे तु संस्थाप्य शिमन्त्रे समुच्चरेत् ॥ २६ ॥
बलिलिङ्गादिकान् सर्वान् गर्भगेहे तु स्थापयेत् ।
बलिलिङ्गविसृज्याथ पादुकानर्चयेद्बुधः ॥ २७ ॥
प्। १०९)
पादप्रक्षालनं कृत्वा प्रासादाभ्यन्तरं विशेत् ।
पूर्वोक्तविधिना सर्वं कारयेद्देशिकोत्तमः ॥ २८ ॥
संस्थानं च पाशुपदं मूर्तिर्वा चन्द्रशेखरम् ।
योरभावे मणिशिवं गोलकां हि विशेषतः ॥ २९ ॥
तेषां वा चान्नलिङ्गं तु पुष्पमर्घ्यं हि वा पुनः ।
तस्मात्सर्वप्रयत्नेन नित्यं कुर्यात् फलेच्छुता ॥ ३० ॥
षडङ्गमूर्तिमभ्यर्च्य षड्भिर्वादिभिं क्रमात् ।
एवमभ्यर्च्य विधिना स्वस्थाने च प्रवेशयेत् ॥ ३१ ॥
हृदयेन चरुं दद्यात् ताम्बूलं दापयेत् ततः ।
पश्चान्नीराजनं कुर्यात् प्रासादेन तु मन्त्रतः ॥ ३२ ॥
प्रभूतहविष दद्यात् भक्तान् सर्वान् प्रपूजयेत् ।
द्रोणहीनं न कर्तव्यं कर्तव्यं मन्दिरे क्रमात् ॥ ३३ ॥
नित्यहोमवसाने तु बल्यर्थं होमयेद्धृदा ।
पञ्चाशत् पञ्चविंशद्भिः घृताक्ते नवकं हुनेत् ॥ ३४ ॥
एवं स्याद् बुधवारे तु मन्दवारे तथैव च ।
तैलाभ्यङ्गं हृदा कुर्यात् च्छेषं पूर्ववदाचरेत् ॥ ३५ ॥
पूर्वरात्राधिवासञ्च गन्धतैल विशेषतः ।
प्रातःकाले च मभ्यङ्गं मूलं च बलि बिम्बके ॥ ३६ ॥
स्नात्वा राजोपचारेण सुगन्धामलकादिभिः ।
पश्चात् चरुं प्रदद्यात् तु प्रत्येकं हृदिना बुधः ॥ ३७ ॥
प्। ११०)
पश्चाद्वारोत्सं कुर्यात् सर्वालङ्कारशोभितम् ।
अन्यथा कारयेद् यस्तु तत्कलं न्निष्फलं भवेत् ॥ ३८ ॥
वारोत्सवमिदं प्रोक्त तस्मिन् मन्त्रे विशेषतः ॥ ३८� ॥
इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे वारोत्सवं नामा षड्विंशतिपटलः ॥