लिङ्गस्थापनम् ।
अतः परं प्रवक्ष्यामि लिङ्गस्थापनमुत्तमम् ।
नगरादिविमानेषु किञ्चिदीशानमाश्रितम् ॥ १ ॥
तन्मध्ये स्थापयेत् स्थाणुनैवर्गस्यत् प्रचारयेत् ।
मध्याप्रचलितं लिङ्गं सर्वत्र चलितं नयेत् ॥ २ ॥
गर्भं तु नवधा कृत्वा एकैकस्य विधानतः ।
द्वारमानेन वा कुर्याद्धस्तमानेन वा पुनः ॥ ३ ॥
अस्तमानेन वा कुर्यान्नवहस्तान्तमेव च ।
त्रयत्रिंशाङ्गुलदैर्घ्यं मुत्तमं मानमुच्यते ॥ ४ ॥
एकैकत्र्यङ्गुलं हीनं मध्यमं चाधमं भवेत् ।
एकैकत्र्यङ्गुलं हीनं नवधा मानमिष्यते ॥ ५ ॥
नाहस्य त्र्यङ्गुलं हीनं कर्णमानेन वा पुनः ।
आयव्ययसमायुक्तं सर्वं कुर्याद् विशेषतः ॥ ६ ॥
प्। १०३)
व्ययहीनाधिकं चैव आयाधिक्यं विशेषतः ।
शिल्पशास्त्रेण संयुक्तामाचर्यस्य विशेषतः ॥ ७ ॥
यवहीनाधिकं चैव यजमानाय नाशकृत् ।
तस्मात् सर्वप्रयत्नेन हीनाधिक्यं न कारयेत् ॥ ८ ॥
उत्तरायणकाले तु देवानां तु दिवास्मृताः ।
आषाढादि च षाण्मासं देवानां निचि चोच्यते ॥ ९ ॥
दिवाकाले प्रकर्तव्यं लिङ्गस्थापनकर्मणि ।
पुष्ये च माघमासे च लिङ्गस्थापनमुत्तमम् ॥ १० ॥
फाल्गुने चैत्रमासे च मध्यमं कालमिष्यते ।
वैशाखे च तथा ज्येष्ठे अधमं कालमिष्यते ॥ ११ ॥
ब्राह्मणाना तु पुष्यर्थं पुष्यमासे कृतं भवेत् ।
नृपाणामभिवृद्ध्यर्थं माघमासे तु कारयेत् ॥ १२ ॥
फाल्गुने वैश्यजातीनां शूद्राणां चैत्रमासके ।
वैशाखे पशुजातीनाम् अन्येषां ज्येष्ठमासके ॥ १३ ॥
एवं मासफलं प्रोक्तं लिङ्गस्थापनकर्मणि ।
दिवाकाले तु सम्प्राप्ते तदा काले तु स्थापयेत् ॥ १४ ॥
अकाले तु यदा सम्यक् दृश्यते गरुभार्गवौ ।
मघस्वाति च सौमे दृश्रवणे अश्वयुग्भवेत् ॥ १५ ॥
पुनर्वसूश्च तिष्यश्च उत्तरत्रिणिरेव च ।
मैत्रे च रोहिणी चैव एषु ऋक्षेषु स्थापयेत् ॥ १६ ॥
प्। १०४)
जीवशुक्रबुधसोम अर्कवाराः शुभास्मृताः ।
पूर्वपक्षे तृतीये च द्वितीये पञ्चमि तथा ॥ १७ ॥
षष्ठा च सप्तमि चैव दशम्येकादशि तथा ।
त्रयोदशि तथा चैव उभयोः पक्षयोरपि ॥ १८ ॥
कृष्णपक्षे तृतीये च प्रतिपत् पञ्चमि तथा ।
षष्टि चा सप्तमि चैव दशमी च विशेषतः ॥ १९ ॥
अमृतयोगे सिद्धियोगे परयोगे विशेषतः ।
वृषभे मिथुने चैव मीने सिंहे तथैव च ॥ २० ॥
वृश्चिके च घटे चैव कन्याराशि तथैव च ।
प्रतिष्ठारम्भविधिना यजमानानुकूलकम् ॥ २१ ॥
चतुर्थे सप्तमे चैव पञ्चमे च तृतीयके ।
एषु स्थानेषु चन्द्रं स्यात् जीवशुक्रबुधोदये ॥ २२ ॥
द्वादशे च तृतीये च दशम्येकादशि तथा ।
एषु स्थानेषु शास्त्रं हि बुधस्यानुविशेषतः ॥ २३ ॥
द्वितीये पञ्चमे चैव दशमे सप्तमे तथा ।
एषु स्थानेषु शास्त्रं हि बृहस्पतिः स्थिते सति ॥ २४ ॥
षट्सप्तदशमस्थेयं भार्गवो वुभयोऽब्रवीत् ।
त्रिषडायगताः पापाः सर्वान् एकादशेऽपि च ॥ २५ ॥
सर्वे ग्रहाष्टमस्थैश्चेत् कर्तॄणां तु स्थितिं कुरु ।
तस्मात् सर्वप्रयत्नेनाशुभं चैव तु वर्जयेत् ॥ २६ ॥
प्। १०५)
स्वात्रिरोहणि संयुक्ते तृतीये शनिवारके ।
बुधद्वियुक्तो द्वितीये च अनुराध तथा युता ॥ २७ ॥
पूष्णे तु पञ्चमियुक्तगुरुवारे विशेषतः ।
एवमादिषु योगेषु अन्येषु शुभयोगकृत् ॥ २८ ॥
याथा योगेषु सम्प्राप्तेः सर्वदोषा विनिश्यति ।
एवं परिक्ष्य यत्नेन प्रतिष्ठां गुरुरारभेत् ॥ २९ ॥
लिङ्गस्थापनकाले तु कालाति क्रमणं न च ।
एकाहं पूजयेत् तत्र सर्वदोषहरं नृणाम् ॥ ३० ॥
तस्मात् सर्वप्रयत्नेन लिङ्गस्थाप्य विशेषतः ।
जङ्गमादीनि लिङ्गानां कालकालपरिक्षयेत् ॥ ३१ ॥
प्रासादमण्डपं चैव प्राकारं गोपुरं तथा ।
अन्येषां देवकार्येषु यजमानेच्छया सहा ॥ ३२ ॥
नवाहे चैव सप्ताहे पञ्चाहे वा कुरार्पणम् ।
अकुरानर्पयित्वा तु प्रतिष्ठां सम्यगाचरेत् ॥ ३३ ॥
अङ्कुरार्पणप्रथमं द्वितीयं लिङ्गशोधनम् ।
तृतीयं ब्रह्मसूत्रं तु चातुत् ग्रामप्रदक्षिणम् ॥ ३४ ॥
पञ्चमं जलमध्ये तु जलकृत्या विधानतः ।
षष्ठे मण्डपसंस्कारं सप्तमे शयनक्रय ॥ ३५ ॥
अष्टमे कुम्भसंस्कारं नवमे होमकर्मणि ।
दशमे दक्षिणाप्रोक्ता मत्रन्यासमतः परम् ॥ ३६ ॥
प्। १०६)
द्वादशं चार्चनं प्रोक्तं स्नपनं तु त्रयोदश ।
एषां क्रमेण वक्ष्यामि यथा वा मुनिपुङ्गवाः ॥ ३७ ॥
इति सूक्ष्मशास्त्रे लिङ्गस्थापनं नाम पञ्चविंशति पटलः ॥