२४


प्। १०१)

सकलस्नानम् ।

स्नानं सकललिङ्गस्य प्रवक्ष्यामि समासतः ।
सर्वपापहरं चैव सर्वदोषहराणि च ॥ १ ॥

सर्वदानफलं चैव मलशुध्यर्थमेव च ।
उत्सवे च प्रतिष्ठायां ग्रहणे सङ्क्रमेऽपि च ॥ २ ॥

नृपजन्मर्क्षभे युक्ते अभिषेकदिनेऽपि च ।
अन्यत्पुण्यदिने कुर्याद् दोषयुक्ते विशेषतः ॥ ३ ॥

शैलजानां तु सर्वेषां तैलेनाभ्यञ्जने कुरु ।
तिलतैलं तु कर्तव्यं मन्यतैलं तु वर्जयेत् ॥ ४ ॥

अभ्यञ्जनात्ये मलकम्मगोपाङ्गानि लेपयेत् ।
मद्देयेदृक्तचूर्णैस्तु स्नापयेत् शुद्धवारिणा ॥ ५ ॥

तदन्तकृष्णचूर्णैस्तु लेपयेत् तु विशेषतः ।
पुनर्गन्धोदकेनैव स्नापये तु महेश्वरम् ॥ ६ ॥

वस्त्रेण मार्जनं कुर्यात् शनैः शनैः विशेषतः ।
ततो वस्त्रादिभिर्भूष्या सर्वालङ्कारसंयुतम् ॥ ७ ॥

सौवर्णादेसमाख्यातं मृण्मयस्य विधि शृणु ।
अभिषेकं न कर्तव्यं प्रोक्षणं चैव तद्धृदा ॥ ८ ॥

अभिचित्रे पटे चैव प्रोक्षणं तु समाचरेत् ।
स्थापयेद्युक्तमार्गेण सर्वसम्पत्कराय च ॥ ९ ॥

प्। १०२)

अन्यथा स्थापयेत् तत्र अभिचाराय चैव हि ।
स्नानान्ते चार्चनं कुर्याद् गन्धपुष्पादिभिः क्रमात् ॥ १० ॥

हविर्निवेदयेत् पश्चात् द्यथ विभवविस्तरैः ॥ १०� ॥

इति सूक्ष्मशास्त्रे सकलस्नानं नाम चतुर्विंशतिपटलः ॥