देशिकप्रायश्चित्तम् ।
प्रायश्चित्तं प्रवक्ष्यामि देशिकस्य विशेषतः ।
प्रायप्रविणमित्युक्तं चित्तं मुद्भवमुच्यते ॥ १ ॥
प्रविणस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् ।
पापशुद्धिर्यादा सम्यक् ज्ञानमुत्पद्यते यदा ॥ २ ॥
पापशुद्धिं न चेत् पुंसः क्रियास्सर्वा च निष्फला ।
तस्मात्सर्वप्रयत्नेन कर्तव्यं पापशोधनम् ॥ ३ ॥
आत्मार्थयजने हीने द्विगुणं चान्यहीनके ।
प्रासादेनैव मन्त्रेण द्विगुणं तु यजेद् बुधः ॥ ४ ॥
रोगे पुष्पाञ्जलीं कुर्यात् प्रासादेन तु मन्त्रतः ।
अवगाहनहीने तु घटस्नानं हि कारयेत् ॥ ५ ॥
घटस्नानमशक्तश्चेद्भस्मस्नानं तु कारयेत् ।
आद्रवस्त्रेण हृदिना मार्जनं तदभावतः ॥ ६ ॥
तेषामभावतो मन्त्रि भस्मस्नानं तु कारयेत् ।
तेष्वशक्तश्च रोगोऽपि तूष्णी पुष्पाञ्जलिं ददेत् ॥ ७ ॥
प्। ९१)
तस्याभावे तु तं दृष्ट्वा अथवा गुन्मदर्शनम् ।
रोगमुक्तस्य काले तु स्नपनं कारये महत् ॥ ८ ॥
अयुतं तु भवेन्मूलं होमं तु तद्वदेव हि ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ ९ ॥
शिवदीक्षनियुक्ता ये ते सर्वे तेन मार्गतः ।
कारयेत् तु चतुर्वर्णप्रतिलोमस्तधाचरेत् ॥ १० ॥
स्वजात्यदूषितं स्पृष्ट्वा भस्मस्नानं तु कारयेत् ।
पश्चाद्वै मूलमन्त्रेण पञ्चाशत्तु जपेच्छुचि ॥ ११ ॥
स्वजात्यदीक्षितानां तु भूत्वा कामेन वै बुधः ।
दशाक्षरेण मन्त्रेण पञ्चाशत्तु जपेच्छुचि ॥ १२ ॥
शूद्रान्नं भुञ्जते कामान् कृच्छ्रचान्द्रायणं चरेत् ।
तेषां कामे विशुध्यन्तु पूर्वोक्तस्य विधानतः ॥ १३ ॥
प्रतिलोमानुकं भुक्त्वा कामाद्राकमतोऽपि वा ।
उपवासं चरेद्विद्वान् महान् व्योमन् जपेच्छतम् ॥ १४ ॥
पञ्चाङ्गैश्च षडङ्गैश्च सहस्रं कामतो जपेत् ।
निर्माल्यलशुनं मांसं मत्स्यं चैव विसर्जयेत् ॥ १५ ॥
अकामान् भक्षयित्वा तु ईशानेन शतं जपेत् ।
स्नेहेन यदि भुञ्जीत कृछ्रं सन्तापनं चरेत् ॥ १६ ॥
निर्माल्यं लङ्घने दाने स्नानद्वयं तु कारयेत् ।
चण्डालस्पर्शने काले शिवमन्त्रशतं जपेत् ॥ १७ ॥
प्। ९२)
प्रमादास्पर्शने काले सचेलस्नानमाचरेत् ।
महाव्योमेन मन्त्रेण पञ्चगव्यं पिबेच्छुचि ॥ १८ ॥
शिवाग्निगुरुनिन्द्यानां यदि निन्द्या शृणोति यः ।
हृदिना कर्णमाबध्य सचेल स्नानमाचरेत् ॥ १९ ॥
उपवासं चरेत् तत्र प्रासादेन शतं जपेत् ।
कृच्छ्रं सन्तापनं कुर्याद् द्विगुणं पूजयेत् तदा ॥ २० ॥
स्वजात्यदीक्षितशवं स्पृष्ट्वा कामदकामदः ।
सचेलस्नानकं कुर्याद् घृतं प्राश्य हृदा ततः ॥ २१ ॥
अघोरेण शिखा चैव सहस्रं तु जपेच्छुचि ।
स्नानद्वयं प्रकुर्यात् तु शिवमन्त्रशतं जपेत् ॥ २२ ॥
अकामादेव * * * त् त्रिंशत्साहस्रकं हृदा ।
अदीक्षितस्य विप्रस्य शवं स्पृष्ट्वा प्रमादतः ॥ २३ ॥
स्नानं तन्त्र प्रकुर्यात् तु प्रासादेन शतं जपेत् ।
स्नानं तु पूर्ववत् कृत्वा कामात् सहस्रकं जपेत् ॥ २४ ॥
दर्शनाद्भस्मना शुद्धिं कामात् सद्यशतं जपेत् ।
अदीक्षिताश्शवाद्धेतो अनुगमनं यदा भवेत् ॥ २५ ॥
स्नानं पूर्वोक्तवत् कृत्वा व्योमव्यापिशतं जपेत् ।
अकामाच्छिवमन्त्रेण सहस्रं तु जपेच्छुचि ॥ २६ ॥
तयोरर्धविधानेन दीक्षितस्य शवं प्रति ।
दीक्षितस्य शवं स्पृष्ट्वा भस्मस्नानेन शुध्यति ॥ २७ ॥
प्। ९३)
दीक्षितस्य नृपस्यैव शवं स्पृष्ट्वा प्रमादतः ।
समुद्रस्नानकं कृत्वा एकरात्रोपवासयेत् ॥ २८ ॥
प्रातर्गव्यं पिबेमन्त्रि प्रासादेन सहस्रकम् ।
अघोरास्त्रेण मन्त्रेण त्रिस्सहस्रं जपेच्छुचि ॥ २९ ॥
क्रमात् स्नानद्वयं कुर्याद् अघोरेण सहस्रकम् ।
गोत्रासं तु ददेन्मन्त्रि सामान्यादि गुणं चरेत् ॥ ३० ॥
अनुगमनं तयोर्यद्यत् सचेलस्नानमाचरेत् ।
गोमयालेपनं कृत्वा जपं पूर्वोक्तमार्गतः ॥ ३१ ॥
कामान् स्नानं चरित्वा तु त्रिरात्रमुपवासयेत् ।
प्रासादेनैव मन्त्रेण शतं चैव जपेच्छुचि ॥ ३२ ॥
तयोदर्शनमस्ति स्यात् स्नानं पूर्ववदाचरेत् ।
हृदयेन तु मन्त्रेण द्विगुणं त्रिगुणं चरेत् ॥ ३३ ॥
अदीक्षितनृपस्याध शवं स्पृष्ट्वा प्रमादतः ।
स्नानं च पूर्ववत् कृत्वा त्रिरात्रं चोपवासयेत् ॥ ३४ ॥
पञ्चगव्य पिबेन् मन्त्रि प्रासादेन शतं जपेत् ।
अकामद्विगुणं कृत्वा गोग्रासं च ददेच्छुचि ॥ ३५ ॥
अकामात् कामतो वापि अनुगमनं तु सम्भवेत् ।
स्नानद्वयं प्रकुर्वित घृतं प्राश्यं हृदां बुधः ॥ ३६ ॥
अघोरास्त्रेण मन्त्रेण अयुतं तु जपेच्छुचि ।
स्नानं तु पूर्ववत् कृत्वा गोमयेन तु लिप्य च ॥ ३७ ॥
प्। ९४)
पुनः स्नानं प्रकुर्यात् तु सहस्रं तु जपेच्छुचि ।
अदीक्षितस्य वैश्यस्य शवं स्पृष्ट्वा तु कामदः ॥ ३८ ॥
समुद्रस्नानकं कुर्याद् गोमयलेपनं हृदा ।
अघोरास्त्रेण मन्त्रेण सहस्रं तु जपेच्छुचि ॥ ३९ ॥
अदीक्षितस्य वैश्यस्य क्रमादेवं विधीयते ।
दीक्षितस्य च वैश्यस्य शवानुगमनं यदि ॥ ४० ॥
स्नानं तु पूर्ववत् कृत्वा त्रिगुणं तु जपेच्छुचि ।
प्रमादादर्शनं कृत्वा स्नानद्वयं च कारयेत् ॥ ४१ ॥
अदीक्षितस्य वैश्यस्य शवं स्पृष्ट्वा तु कामतः ।
स्नानं कुर्याद् विशेषेण घृतं वै प्रशयेच्छुचि ॥ ४२ ॥
एकरात्रोपवासस्य गव्यं वै प्राशयेद्धृदा ।
तप्तकृच्छ्रं चरित्वा तु सावित्रं तु जपेत् सदा ॥ ४३ ॥
अघोरास्त्रेण मन्त्रेण त्रिसहस्रं जपेच्छुचि ।
ब्राह्मणान् भोजयेत् तत्र स्नपनं कारयेच्छिवम् ॥ ४४ ॥
पश्चाद् वै देहशुद्धिं स्यानियमं कारयेत् तदा ।
अन्तराणां च शैवानां शवं स्पृष्ट्वा तु कामतः ॥ ४५ ॥
समुद्रस्नानकं कुर्याद् घृतं प्राश्य हृदा पुनः ।
गोमयेन तु सर्वाङ्गं मूलमन्त्रेण लेपयेत् ॥ ४६ ॥
पश्चात् स्नानं प्रकुर्यात् तु ईशानेन जपेच्छतम् ।
अघोरास्त्रेण मन्त्रेण शतं सम्यग् जपेच्छुचि ॥ ४७ ॥
प्। ९५)
अदीक्षितस्य शूद्रस्य शवं स्पृष्ट्वा प्रमादतः ।
स्नानद्वयं प्रकुर्यात् तु घृतं प्राश्य हृदा पुनः ॥ ४८ ॥
एकाहमुपवासस्यात् गव्यं वै प्राशयेद्धृदा ।
सद्योजातेन मन्त्रेण सहसं तु जपेच्छुचि ॥ ४९ ॥
अदीक्षितस्य शवं स्पृष्ट्वा प्रमादास्नानकद्वयम् ।
गोग्रासं तु ददेत् पश्चाद् ग्रामान्तर चसेतच्छुचि ॥ ५० ॥
अनूगमनं तयो स्याच्चेत् क्रमाद् वै देशिकोत्तमः ।
स्नानं तु पूर्ववत् कृत्वा कृच्छ्रं सन्तापनं चरेत् ॥ ५१ ॥
ब्राह्मणान् भोजयेत् तत्र यथाविभवविस्तरैः ।
अघोरेण शिवास्त्रेण प्रत्येकं तु जपेच्छतम् ॥ ५२ ॥
कामादेव समाख्यातम् अकामात् कृच्छ्रकापिना ।
अदीक्षितप्रकारोऽयं तयोरर्धप्रकारतः ॥ ५३ ॥
अकामात् कमतो दृष्ट्वा दीक्षितस्य शवं यदि ।
स्नानं तत्र प्रकुर्यात् तु मूलमन्त्रं जपेच्छुचि ॥ ५४ ॥
कामा स्नानद्वयं कुर्यात् प्रासादे शतमन्त्रतः ।
दीक्षितस्य शवं स्पृष्ट्वा तयो द्विगुणमाचरेत् ॥ ५५ ॥
शिवदीक्षाभियुक्तं तु शूद्रः शूद्रशवं स्पृशेत् ।
सचेलस्नानकं कुर्यात् प्रासादेन शतं जपेत् ॥ ५६ ॥
अनुगमनं तथा कुर्याद् द्विगुणं तु जपेच्छुचि ।
प्रतिलोमं शवं स्पृष्ट्वा कामाद्वाकामतोपि वा ॥ ५७ ॥
प्। ९६)
स्नानद्वयं प्रकुर्यात् तु प्रासादेन तु मन्त्रतः ।
घृतं प्राश्य हृदा कुर्यात् कृच्छ्रचान्द्रायणं चरेत् ॥ ५८ ॥
ब्राह्मणान् भोजयेद् विद्वान् यथाविभवविस्तरैः ।
अरोणे च मन्त्रेण अयुतं तु जपेच्छुचि ॥ ५९ ॥
अनुगमनं द्यथा तेषाम् अधिकस्नपनं शिवे ।
कामदेवं समाख्यातम् अकाम स्नानकद्वयम् ॥ ६० ॥
कुर्याद् वै हृदयेनैव तप्तकृच्छ्रं चरेच्छुचि ।
अनुगमनं तथा तेषाम् अधिकं स्नपं शिवे ॥ ६१ ॥
कामदेवं समाख्यातं कामान् सन्तापनं चरेत् ।
वामदेवेन मन्त्रेण त्रिसहस्रं जपेच्छुचि ॥ ६२ ॥
तेषां तु दीक्षितानां तु शवं स्पृष्ट्वा तु कामतः ।
स्नपनं पूर्ववत् कृत्वा गव्यं वै प्राशयेद्ध्रुवम् ॥ ६३ ॥
एकरात्रमुपोषित्वा प्रभाते स्नानमाचरेत् ।
अघोरास्त्रेण मन्त्रेण त्रिसहस्रं जपेच्छुचि ॥ ६४ ॥
अनुगमनं तदेवं स्यात् अधिकं जपमाचरेत् ।
प्रमादगमनं यद्यात् स्नानं पूर्वोक्तवच्चरेत् ॥ ६५ ॥
प्रासादेन तु मन्त्रेण विंशत् सहस्रकं जपेत् ।
प्रतिलोमे नराणां च शवं स्पृष्ट्वा प्रमादतः ॥ ६६ ॥
पूर्वोक्तेन विधानेन द्विगुणं कारयेच्छुचि ।
कामानुपूर्ववत् ख्यातम् अनुगच्छन्ति योर्यदा ॥ ६७ ॥
प्। ९७)
स्नानं तु पूर्ववत् कृत्वा द्विगुणत्रिगुणं चरेत् ।
सपुत्रस्य शवं स्पृष्ट्वा शिवमन्त्रशतं जपेत् ॥ ६८ ॥
पश्चात् स्नानं प्रकुर्यात् तु घृतं प्राश्या विशुध्यति ।
दीक्षापुत्रं शवं स्पृष्ट्वा सचेलस्नानमाचरेत् ॥ ६९ ॥
प्राणायमं शतं जप्त्वा प्रासादेन तु तं जपेत् ।
शिव सन्न्धीनं पश्चाद् ये पुत्रा सम्भवन्ति हि ॥ ७० ॥
तेषां शवादिकं सर्वं चीतावत् संस्थिता भवेत् ।
शिवसंस्कार तत्पूर्वं यो जातावंशवच्चरेत् ॥ ७१ ॥
नैष्टिकाचारयुक्तस्तु सद्यः शौचं समाचरेत् ।
स्नानं तु पूर्ववत् कृत्वा प्रासादेन शतं जपेत् ॥ ७२ ॥
आदिशैवो महाशैवस्त्रियाहं शौचमाचरेत् ।
अनुशैवस्तथा षट् च अपरक्षैव रन्ध्रकः ॥ ७३ ॥
भानवो चान्तरं शैवम् इतरे चञ्चत्शन्द्रिका ।
एवमेव क्रमेणैव कारयेद् देशिकोत्तमः ॥ ७४ ॥
सूतकेषु तथा कुर्याद् गृहस्था एव कारयेत् ।
तेषु काले शिवं दृष्ट्वा गुणां पूजयेच्छिवम् ॥ ७५ ॥
अन्यथा यदि भुञ्जीता महादोषमवाप्नुयात् ।
तस्मात् सर्वप्रयत्नेन शिवदृष्ट्वा तु भोजयेत् ॥ ७६ ॥
देशिकाचारयुक्तस्तु नित्यपूजासमन्वितम् ।
सोऽपि पूर्वोक्त नक्षत्रे सूतकं प्रेतकं चरेत् ॥ ७७ ॥
प्। ९८)
अनाचर्यकुले जाता शिवशास्त्र न बोधकः ।
नित्यपूजाविहीनञ्च दशाहं सम्म्यगाचरेत् ॥ ७८ ॥
शैवसम्बन्धहीना ये ते सर्वे चोत्तरान्निके ।
दशाहे पश्चत् शाहे विंशत् त्रिंशदिनेऽपि च ॥ ७९ ॥
एतेषु दिवसेष्वेव ब्राह्मणाद्या क्रमाचरेत् ।
प्रेतयुक्तगृहे वास प्रातस्नानं समाचरेत् ॥ ८० ॥
पञ्चगव्य पिबेन्मन्त्रि प्रासादेन तु मन्त्रतः ।
नृपवैश्य च शूद्रे च प्रेतयुक्तो गृहो वसेत् ॥ ८१ ॥
स्नानं तु पूर्ववत् कृत्वा व्योमव्यापि शतं जपेत् ।
द्वयोर्वै तेन मन्त्रेण द्विगुणं त्रिगुणं चरेत् ॥ ८२ ॥
सूतकं च यदा स्पृष्ट्वा विप्रस्य स्नानमाचरेत् ।
नृपस्य सूतकं स्पृष्ट्वा स्नानाद्वै च समाचरेत् ॥ ८३ ॥
महाव्योमेन मन्त्रेण वैश्यस्य सूतकं स्पृशेत् ।
शूद्रस्य सूतकं स्पृष्ट्वा द्विगुणं तेन मन्त्रतः ॥ ८४ ॥
शूद्रेतराणामाशौचं स्पृष्ट्वा स्नानं तु पूर्ववत् ।
कुर्याद् वै तेन मन्त्रेण द्विगुणं तु जपेच्छुचि ॥ ८५ ॥
रजस्वलां च या नारीं देशिको संस्पृशेद् यदि ।
सद्यस्नानं प्रकुर्यात् तु अघोरेण शतं जपेत् ॥ ८६ ॥
रजस्वला द्वितीयां च तृतीयां च चतुर्थका ।
स्पृशेद्वै देशिको धीमान् स्नानं गव्यं च कारयेत् ॥ ८७ ॥
प्। ९९)
क्रमा च द्विगुणं जप्त्वा तु अघोरास्त्रेण मन्त्रतः ।
देशिको भोजने काले आर्तवान् सम्यग् दर्शयेत् ॥ ८८ ॥
भुक्तशेषं त्यजित्वा तु स्नानं पूर्वोक्तवच्चरेत् ।
उपवासं चरेदेकं प्रतगव्यं पिबेद्धृदा ॥ ८९ ॥
अघोरास्त्रेण मन्त्रेण सहस्रं तु जपेच्छुचि ।
तस्य भोजनकाले तु तासां वसं शृणोति चेत् ॥ ९० ॥
अन्नशेषं त्यजेन्मन्त्रि भस्मस्नानं समाचरेत् ।
प्रासादेनैव मन्त्रेण शतं चैव जपेच्छुचि ॥ ९१ ॥
द्विगुणस्य तु जातेस्तु प्रासादेन जपेद् बुधः ।
लोषाद्यां सम्भवे ह्यन्ते भुक्तशेषं त्यजेद्बुधः ॥ ९२ ॥
आचमनं ततः कुर्याद् घृतं प्रश्य हृदां बुधः ।
पश्चात् तु भोजनं कुर्यात् दिच्छ चे देशिकोत्तमः ॥ ९३ ॥
भाजनस्य तु काले तु सूतका दर्शयेद् यदि ।
अन्नशेषं त्यजित्वा तु स्नानं कुर्यात् तु देशिकः ॥ ९४ ॥
प्रासादेन तु मन्त्रेण शतं चैव जपेच्छुचि ।
प्रातःकाले तया कुर्यात् तयोर्वाक्यं शृणोति यः ॥ ९५ ॥
स्नानं तु पूर्ववत् कृत्वा गव्यं वै प्राशयेच्छुचि ।
चण्डाले भेरिका शाब्दं य शृणोति च भोजयेत् ॥ ९६ ॥
अन्नशेषं त्यजित्वा तु भस्मस्नानं तु कारयेत् ।
अथवा कर्णमाबध्वा शब्दान्ते भोजयेद् बुधः ॥ ९७ ॥
प्। १००)
प्रमादभोजनस्याचेदघोरास्त्रं शतं जपेत् ।
आशौचद्रव्यसम्बन्धौ यो देवान् अर्चयेत् तदा ॥ ९८ ॥
भक्त्या तु पूजयेत् सोऽपि दहनाप्लावनादिभिः ।
पूजान्ते शुद्धिमाप्नोति निसम्पर्के यदा शुचि ॥ ९९ ॥
द्रव्याणारेण भोक्तव्यं तस्मिन् काले विशेषतः ।
अन्यथा कारयेद् दोषं न दैवस्तत्र तिष्ठति ॥ १०० ॥
जज्ञानां दोषदस्तस्मान्महादेवार्चनाय च ।
तस्मात् सर्व प्रयत्नेन नि * हा * न्न कारयेत् ॥ १०१ ॥
नित्यार्चनाभियुक्तानामेवमेवं हि कारयेत् ।
खद्योदस्तु यथा भान्वोस्तथा पाल्पस्य दोषभाक् ॥ १०२ ॥
शवयुक्तस्य पुरुषः द्रव्याणि न च सेचयेत् ।
प्रमादात् सेचन्न यद्यत् स्नानद्वयं समाचरेत् ॥ १०३ ॥
प्रणायामसहस्रं तु अघोरास्त्रं तदेव तु ।
येवमेव विधानेन कारयेद् देशिकोत्तमः ॥ १०४ ॥
आत्मार्थयजने काले भृत्यर्थं देशिकस्य तु ।
शावन्ध्या सम्भवे काले उत्तर्क्षं वर्जयेत् क्रमात् ॥ १०५ ॥
देशिकान्तरमार्गेण नित्यपूजां करोति हि ।
प्रायश्चितं विधिं प्रोक्तं स्नपनस्य विधि शृणु ॥ १०६ ॥
इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे देशिकप्रायश्चितं नाम त्रयोविंशति पटलः