२२

प्रायश्चित्तम् ।

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्रायप्रहिणमित्युक्तं चित्तं मुद्भवमुच्यते ॥ १ ॥

प्रहीणस्य तु सन्धानात् प्रायश्चित्तमिति स्मृतम् ।
आचार्यादि चतुर्णां तु प्रायश्चित्तं विधीयते ॥ २ ॥

नित्यस्नानादि हीने तु कुण्डे वा स्थण्डिले बुधः ।
आघोरास्त्रेण मन्त्रेण त्रिंशत्याहुतिर्भवेत् ॥ ३ ॥

प्। ८४)

सन्ध्यावन्दनहीने तु सूर्यमन्त्रं शतं जपेत् ।
ब्रह्मणान् भोजयेत् तत्र ततः कर्म समारभेत् ॥ ४ ॥

अग्निकार्यविहीने तु शिवमन्त्रशतं जपेत् ।
देशिकः शिवमन्त्रेण अष्टोत्तरशताहुतिः ॥ ५ ॥

पश्चादग्निसमभ्यर्च्य नित्यकर्मसमाचरेत् ।
निर्माल्यं लङ्घने दाने पतिते दूषिते स्वयम् ॥ ६ ॥

महाव्योमेन मन्त्रेण सहस्रवरणं जपेत् ।
निर्माल्यभक्षणं चे तु हृदयेन् शताहुतिः ॥ ७ ॥

पश्चात् सम्पूजयेत् सन्ध्यां प्रासादेन शतं जपेत् ।
पर्युषितैश्च पुष्पैश्च प्रासादात्पूजयेद्धरम् ॥ ८ ॥

तत्पुष्पं वर्जयेद्धीमान् षडङ्गैश्च विशेषतः ।
नवकुम्भानि संस्थाप्य पुनः पूजां समारभेत् ॥ ९ ॥

बीजमुख्येन मन्त्रेण अष्टोत्तरशताहुतिः ।
हीनाङ्गं चाधिकां च वर्जये देशिकं सदा ॥ १० ॥

अङ्गहीनो दुराचारो दीक्षाहीनो मदान्धकः ।
वृषलीदोषभाग् विप्रो स्पर्शनं त्वध वर्जयेत् ॥ ११ ॥

आत्मार्थं पूजयेत् तेन परार्थं न कदाचन ।
प्रमादाद्यज्ञकाले तु अङ्गहीना भवेद् यदि ॥ १२ ॥

स्नानं तत्र प्रकुर्यात् तु सहस्रकलशै क्रमात् ।
महाव्योमेन मन्त्रेण अङ्गस्य तु सर्वधा च न कारयेत् ॥ १३ ॥

प्। ८५)

अधिकायाङ्गहीने तु पुनर्योज्यं विशेषतः ।
अङ्गदोषो न दोषाया आत्मदोषं च वर्जयेत् ॥ १४ ॥

एकपादेन सदा ।
प्रमादाद्यज्ञकाले तु सुरापानं तु सम्भवेत् ।
मरणान्ताद्विशेषेण कृच्छ्रचान्द्रायणं चरेत् ॥ १५ ॥

प्रमादाद्वृषलीयोगादेकरात्रं विशेषतः ।
पञ्चगव्यं पिबेत् तत्र ब्रह्मकूर्चं विशेषतः ॥ १६ ॥

पश्चाच्छूद्रत्वमायाति प्रयश्चित्तं न विद्यते ॥ १७ ॥

सकामाद्विषलियोगादेकरात्रं विशेषतः ।
अघोरेणैव मन्त्रेण जपेत् कोष्ठे सदा व्रजेत् ॥ १८ ॥

एवं विधिप्रकारेण कारयेद् वत्सरत्रयात् ।
कृच्छ्रचान्द्रायणं कृत्वा पश्चाव्योमेन मन्त्रतः ॥ १९ ॥

तिलाक्षं तु भवेत् तत्र व्योमेन चरुणा सह ।
ब्राह्मणान् भोजयेत् तत्र पश्चादन्नम् च निष्ककम् ॥ २० ॥

एवं कुर्याद्विशेषेण ब्रह्मघ्नं चैव तत्समम् ।
महात्राह पितृहा चैव तद्वद् देवस्वहारिणम् ॥ २१ ॥

त्रिगुणं द्विगुणं दत्वा हरणद्रव्यमुत्तमम् ।
शिवदानं ततः कृत्वा देवदेवं क्षमापयेत् ॥ २२ ॥

गरुद्रव्यस्य हरणे त्रिगुणं तु ददेत् गुरौः ।
गुरोः पितृकरं कुर्यात् गुरौ नामं सदा जपेत् ॥ २३ ॥

प्। ८६)

आचार्ययाचनाद्धेतो अघोरेणैव मन्त्रतः ।
घृतेन हविषा चैव सहस्रं च हुनेत् क्रमात् ॥ २४ ॥

पश्चाज्जपं प्रकुर्वीत ब्रह्मकूर्चेन शुध्यति ।
तस्करैम्मृयते याने स्वशस्त्रेण मृदं यदि ॥ २५ ॥

परस्परविरोधेन उभयोर्त्मरणं यदि ।
गोभिर्वा मरणं यस्यात् प्रमादेनैव सम्भवेत् ॥ २६ ॥

गोदानं भूमिदानं वा अथवा स्वर्णदानकम् ।
निष्करूपेण तं कृत्वा शिवाय विनिवेदयेत् ॥ २७ ॥

महाव्योमेन मन्त्रेण दशवारम् क्रमाद्धुनेत् ।
समिधाचरुण तद्वद्धोमं चैव प्रकारयेत् ॥ २८ ॥

अष्टोत्तरशतैः कुम्भैः स्नपनं कारयेच्छिवम् ।
पश्चाद् दहन् क्रिया कुर्याच्छिवशास्त्रोक्तमानयेत् ॥ २९ ॥

मोहद्वा दहनं येन द्विगुणं कारयेत् ततः ।
तेषां पृष्ठे यथा गच्छेद् देशिकोऽपि विशेषतः ॥ ३० ॥

सचेलस्नानं कृत्वा तु त्रिरात्रं ह्युपवासयेत् ।
पञ्चगव्यं पिबेत् पश्चात् प्रासादेनैव मन्त्रतः ॥ ३१ ॥

महाव्योमेन मन्त्रेण अष्टोत्तरशतं हुनेत् ।
ब्रह्मणान् भोजयेत् पश्चाद् अष्टोत्तरशतं क्रमात् ॥ ३२ ॥

तस्य द्विगुणमार्गेण भारकादेवधीर्यते ।
गोब्राह्मणनृपस्थाय मरणं सम्भवेद्यदि ॥ ३३ ॥

प्। ८७)

तस्य पूर्वोक्त कृत्यायां कारयेद् देशिकोत्तमः ।
कामाद्वै * * * * प * * श्चात् प्रेतक्रियां कुरु ॥ ३४ ॥

दृष्टोप्येव समाख्यातम् अदृष्टे कुशया कृतम् ।
नारायणबलिं कृत्वा प्रतिरूपं हि कारयेत् ॥ ३५ ॥

दर्शनोक्तेन मार्गेण कारये ज्ञातिभिः क्रमात् ।
पाषाणे नैव पाशेन कोपाद् भीत्या मृतियति ॥ ३६ ॥

ते * * पातकं विद्यात् त्रिष्णीं बाह्ये तु खानयेत् ।
नारायणबलिं कृत्वा वत्सरं चाक्रयां चरेत् ॥ ३७ ॥

मोहेन दहनं कुर्यात् प्रायश्चित्तं च कारयेत् ।
सशीघ्रं वपनं कृत्वा कृच्छ्रं चान्द्रायणं चरेत् ॥ ३८ ॥

अघोरास्त्रेण मन्त्रेण दशसाहस्रकं जपेत् ।
पश्चाच्छुद्धित्वमाये च देशिकः कर्मकारयेत् ॥ ३९ ॥

अनुगमृन्तयोस्सोऽपि प्रमादात् स गतितं यदि ।
सचेलस्नानकं कृत्वा गोष्ठे त्रिरात्रकं वसेत् ॥ ४० ॥

पश्चाच्चान्द्रायणं कुर्यात् अघोरास्त्रेण मन्त्रतः ।
दशसाहस्रकं जप्त्वा सकामाद्विगुणं चरेत् ॥ ४१ ॥

भारकादेस्तदर्थं स्याद्रोदनस्यार्थमार्गतः ।
यस्मिन् कर्मणि संयुक्ते स्नेहलोपात् समन्वितम् ॥ ४२ ॥

तेनैव तु न कर्तव्यं कर्तव्यं चेन्महद्भयम् ।
तच्चेष सहगोत्रेण कारयेत् सहजां क्रियाम् ॥ ४३ ॥

प्। ८८)

पृथक् द्वे तमानायां तस्मिन्कालेऽन्यदेशिकः ।
करणि येन मन्त्रेण कारयेदवसानकात् ॥ ४४ ॥

अर्द्धोत्तरक्रियाकाले प्रमादासङ्गतं यदि ।
कयिकैबहुलैरर्थैः पुत्रभातृसबान्धवः ॥ ४५ ॥

तस्मिन्नाहनि कुर्याञ्चेत् तेन शेषं समारेत् ।
पापामरणसम्बन्धमोहात् कर्मकरोति चेत् ॥ ४६ ॥

स्थान नाशनमाप्नोति ग्रामादिनां च नाशनम् ।
तद्दोषगमनार्थाय महाव्योमेन मन्त्रतः ॥ ४७ ॥

शतपस्थघृतेनैव अभिषेक हि कारयेत् ।
सहस्रकलशैस्नानः कुर्याद्वे परमेश्वरे ॥ ४८ ॥

शान्तिहोमं ततः कृत्वा पुनः कर्म समाचरेत् ।
एवमेव विधानेन कारयेद् बुद्धिपूर्वके ॥ ४९ ॥

अज्ञानविषये शान्तिं कारयेद् देशिकोत्तमः ।
अगम्यगमने काले वपनं हि विशेषतः ॥ ५० ॥

चान्द्रायणं चरित्वा तु कृच्छ्रसन्तापनं चरेत् ।
अघोरास्त्रेण मन्त्रेण विंशत्सहस्रकं जपेत् ॥ ५१ ॥

निर्माल्य भक्षणं यात्तु ज्ञानतोऽज्ञानतोऽपि वा ।
सशिखं वपनं कृत्वा मांसगोष्ठे वसे निशि ॥ ५२ ॥

दिवानुगमनं गोष्ठ आमीषं च गवां ददेत् ।
पश्चाच्चान्द्रायणं कृत्वा महाव्योमेति मन्त्रतः ॥ ५३ ॥

प्। ८९)

हविषा च घृते चैव होमं कुर्यात् सहस्रकम् ।
चण्डेश्वरस्य यागान्तु कुर्यात् तस्य विशुध्यति ॥ ५४ ॥

अकालभक्षणं यस्यात् स्नपनं वै शङ्करस्य तु ।
व्योमेन घोरमन्त्रेण दशसाहस्रकं जपेत् ॥ ५५ ॥

होमं तत्र प्रकुर्यात् तु पक्षं गव्येन भक्षयेत् ।
पश्चात् शुचित् द्वमायाति देशिकः कर्ममाचरेत् ॥ ५६ ॥

श्वनशूतकमार्जालै कुक्कुटो गृद्ध्र एव वा ।
प्रमादाद्वायसं प्राप्ते त्रिरात्रमुपवासयेत् ॥ ५७ ॥

पञ्चगव्यं पिबेत् तत्र ब्राह्मणान् भोजयेच्छुचिः ।
व्यधवा गमने चैव समानेप्यसमानके ॥ ५८ ॥

तत्पातकं तु कृच्छ्रादि कृच्छ्रचान्द्रायणं चरेत् ।
अघोरास्त्रेण मन्त्रेण विंशत्सहस्रकं जपेत् ॥ ५९ ॥

होमं तत्र प्रकुर्यात् तु ब्राह्मणान् भोजयेत् शुचि ।
असमे द्विगुणं कुर्यात् शिवदानं तु कारयेत् ॥ ६० ॥

कन्यकागमने तस्मात् तदर्धं चैव कारयेत् ।
एकगोत्रे च संयोगे प्रायश्चित्तं न विद्यते ॥ ६१ ॥

प्रमादात् सम्भवे काले स्नानं कुर्यात्रिकालके ।
चान्द्रायणं चरित्वा तु कृच्छ्रसन्तापनं चरेत् ॥ ६२ ॥

लक्षं प्रसादमन्त्रेण होमं जपं च कारयेत् ।
आदिशैवादि पञ्चानाम् एवं कुर्याद् विशेषतः ॥ ६३ ॥

प्। ९०)

न भेदो नरनार्याणां समानं दोषयुक् तदा ।
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ॥ ६४ ॥

इति सूक्ष्मशास्त्रे देशिकप्रायश्चित्तं नाम द्वाविंशतिपटलः ॥