प्। ८२)
पुष्पचूर्णविधि ।
अतः परं प्रवक्ष्यामि पुष्पचूर्णविधिक्रमम् ।
भक्तोत्सवान्तकर्तव्यं मादावपि च कारयेत् ॥ १ ॥
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
यागमण्डपमार्गेण कारयेत् पूर्वमार्गतः ॥ २ ॥
मध्यमे वेदिकां कुर्यात् पञ्चतालप्रमाणतः ।
द्वादशाङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ॥ ३ ॥
तत्पूर्वे चतुरश्रं तु कुण्डं तत्रैव कारयेत् ।
अस्त्रं च कौतुकं चैव पश्चिमे स्थापयेद् बुधः ॥ ४ ॥
श्वेतपुष्पाणि सर्वाणि स्थापयेद् देशिकोत्तमः ।
पञ्चगव्येन सम्प्रोक्ष्य पावमानेन प्रोक्षयेत् ॥ ५ ॥
पश्चात् पुष्पाणि सङ्ग्राह्य नवपात्रे विशेषतः ।
स्थण्डिलं कारयेद् वेद्यां नवकुम्भानि स्थापयेत् ॥ ६ ॥
सकूर्चान् सवस्त्रसंयुक्तान् सहैमान् वारिपूरितान् ।
गन्धपुष्पादिना पूज्य दशायुधानि विन्यसेत् ॥ ७ ॥
तोरणानि च सङ्कल्प्य द्वारकुम्भैरलङ्कृतम् ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ ८ ॥
पश्चाद्धोमं प्रकर्तव्यम् उत्सवस्यैकहोमतः ।
रात्रौ हेवं प्रकर्तव्यं प्रातःकाले शिवं यजेत् ॥ ९ ॥
पश्चात् पुष्पाणि सम्पूज्य शिवस्योपरिविन्यसेत् ।
अस्त्रं च कौतुकं चैव यथालाभं प्रमाणतः ॥ १० ॥
प्। ८३)
पुष्पाणि दापयेद् विद्वान् प्रासादेन तु मन्त्रतः ।
प्रभूतहविषं दद्याद् भक्तानां दापयेत् क्रमात् ॥ ११ ॥
अपरे दिवसे प्राप्ते पुष्पाणि च विसर्जयेत् ।
सध्यालोपं न कर्तव्यं पुष्पाह्योपरि पूजयेत् ॥ १२ ॥
पश्चात् कुम्भानि संस्थाप्य मूलं कौतुकमेव वा ।
पूर्णाहुतिं ततो दद्यात् प्रासादेन तु मन्त्रतः ॥ १३ ॥
भूपतं च हविर्दद्यात् प्रसादेन तु मन्त्रतः ।
नवाहे चैव सप्ताहे पञ्चाहे त्रियहेऽध वा ॥ १४ ॥
एकाहे कारयेद्धीमान् पुष्पचूर्णं सलक्षणम् ॥ १४� ॥
इति सूक्ष्मतन्त्रे पुष्पचूर्णविधिं नाम एकविंशतिपटलः ॥