अतः परं प्रवक्ष्यामि भक्तोत्सवविधिं शुभम् ।
ध्वजारोहणं ते तु त्रिदिने पञ्चमे दिने ॥ १ ॥
पञ्चमे दशमे चैव द्वादशे पञ्चत् शह्निके ।
उत्सवार्थं च बिम्बं च त्रिशूलं च विशेषतः ॥ २ ॥
प्। ८१)
तद्दिष दिवसात्पूर्वे रक्षाबन्धं तु कारयेत् ।
प्रातःकालं तु संस्थाप्य स्नपनं पञ्चविंशति ॥ ३ ॥
स्नपनाभावे तु सम्प्रोक्ष्य बिम्बशूलं विशेषतः ।
हविर्णिवेदयेत् तत्र प्रासादेन तु मन्त्रतः ॥ ४ ॥
मूलबिम्बे तथैवं स्यात् प्रासादेन दशाष्टकम् ।
समिदाज्यचरूलाजान् प्रत्येकं च विशेषतः ॥ ५ ॥
तस्यान्तेव बलिं दद्यात् द्विमाने वापि कारयेत् ।
तस्यान्ते चेत्सवं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ६ ॥
भक्तानां परिचाराणां भोजयेद्भक्तिमार्गतः ।
सायङ्कालेऽपि कर्तव्यं प्रातःकालेऽथवा भवेत् ॥ ७ ॥
प्रासादं सम्प्रविश्याध उक्तमार्गेण चार्चयेत् ।
पश्चात् तु कारयेन्नक्तं सर्वालङ्कारसंयुतम् ॥ ८ ॥
होमं बलिं विना वाथ सामान्येनापि कारयेत् ।
एवमेव विधानेन कारयेदुत्सवान्तके ॥ ९ ॥
एवं यत् कुरुते मर्त्यः अनन्तफलमश्नुते ।
हिहैव धनवान् श्रीमान् शिवलोके महीयते ॥ १० ॥
इति सूक्ष्मतन्त्रे भक्तोत्सवं नाम विंशतिपटलः ॥