अवभृतानन्त्रियेषु पञ्चमे सप्तमेऽपि वा ।
ध्वजावारोहणं कुर्याच्चण्डयागसमन्वितम् ॥ १ ॥
वनयात्रा परं चैव स्नपनं तत्र कारयेत् ।
चण्डयागस्य पूर्वेद्युः कारयेन्मण्डपं शुभम् ॥ २ ॥
नवाष्टसप्तहस्ते च कारयेत् तु विशेषतः ।
तन्मध्ये कुट्टिमं कुर्यात् पञ्चतालप्रमाणतः ॥ ३ ॥
षोडशाङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ४ ॥
अलङ्कारादिभिर्भूष्य शालिपिष्टैर्विचित्रयेत् ।
स्थण्डिलं कारयेत् तत्र तिलदर्भै परिस्तरैः ॥ ५ ॥
स्थापयेत् कलशान् मन्त्रि चण्डमन्त्रमनुस्मरन् ।
कूर्चानिक्षिपेत् तत्र वस्त्रैराच्छादयेद् बुधः ॥ ६ ॥
गन्धपुष्पादिभिः पूज्य अष्टविद्येश्वरैर्युतम् ।
चण्डेशं स्थापयेत् तत्र चण्डमन्त्रमनुस्मरन् ॥ ७ ॥
प्। ८०)
अविर्निवेदयेत् पश्चात् ताम्बूलं तत्र दापयेत् ।
ब्रह्मचारि शुचिर्भूत्वा चण्डवत्साधको चरेत् ॥ ८ ॥
ग्रामप्रदक्षिणं कृत्वा बलिं दत्व विशेषतः ।
देवतोद्वासं कुर्याद् ध्वजं तत्र विसर्जयेत् ॥ ९ ॥
रज्जुध्वजपटं चैव देशिकायां प्रदापयेत् ।
टङ्केन छेदयेद् दण्डं चतुर्दिक्षु विशेषतः ॥ १० ॥
अन्त * * * दण्डं च गृहीयाद् देशिकोत्तमः ।
पञ्चगव्येन सम्प्रोक्ष्य पश्चात् तेनैव रोपयेत् ॥ ११ ॥
एकाहे वापि कुर्याश्चे ग्रामे बलिंस्तु कारयेत् ।
पश्चाद्ध्वजं विसृज्याथ चण्डेशं पूजयेत् ततः ॥ १२ ॥
आचार्यं पूजयेत् पुर्वं पश्चाद् यागं विसर्जयेत् ।
यागोपकरणं सर्वम् आचार्याय प्रदापयेत् ॥ १३ ॥
इति सूक्ष्मतन्त्रे ध्वजारोहणं नाम एकोनविंशतिपटलः ॥