अतः परं प्रवक्ष्यामि समुद्रस्नानमुत्तमम् ।
सर्वपापहरं चैव सर्वतीर्थफलप्रदम् ॥ १ ॥
नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् ।
पूरयेद्गन्धतोयेन कूर्चं तत्र विनिक्षिपेत् ॥ २ ॥
सर्वेषु कलशेष्वेवं चूतपल्लवशोभितम् ।
वज्रादीनायुधान् ग्राह्य कलशानभिगद्यते ॥ ३ ॥
प्। ७६)
ततः शङ्खादिनादैश्च गीतनृत्तसमाकुरु ।
भेरिमर्दलपटहं तालघोषसमायुतम् ॥ ४ ॥
ग्रामप्रदक्षिणं कुर्याच्छूलबिम्बं विशेषतः ।
समुद्रेऽपि च नद्यां वा तटाके वा नयेद्बुधः ॥ ५ ॥
जलतीरे समागम्य प्रपां कुर्याद् विशेषतः ।
पूर्वाभिमुखमास्थाप्य कौतुकं च विशेषतः ॥ ६ ॥
त्रिशूलं तस्य पुतः स्तथाग्रे कलशान् न्यसेत् ।
स्थण्डिलं कारयेत् तत्र तिलदर्भैस्समन्वितम् ॥ ७ ॥
कलशान् स्थापयेत् तस्मिन् आयुधानि च विन्यसेत् ।
अर्चये गन्धपुष्पाद्यै कलशादीन् पृथक् पृथक् ॥ ८ ॥
पुण्याहं वाचयेत् तत्र पावमानेन प्रोक्षयेत् ।
आहूय देवतां सर्वां सभृया च समाप्यध ॥ ९ ॥
मनसा पूजयेत् सर्वान् हृदयेन तु देशिकः ।
घटाभिषेकं कुर्वीत बिम्बं शूलं विशेषतः ॥ १० ॥
पश्चाज्जलान्ते शूलं तु आचार्येण सहैव तु ।
स्नानं लोकहितार्थाय तीर्थे संस्थाप्य शूलिनम् ॥ ११ ॥
रात्राधिवासितान् कुम्भान् त्रिशूले स्थापयेद् बुधः ।
चक्रवत्युपचारेण कौतुकं स्नापयेद् बुधः ॥ १२ ॥
आयुधानि जले क्षिप्त्वा अष्टमङ्गलमेव च ।
पश्चात् सम्पूज्य देवेशं मन्त्रं चैव विशेषतः ॥ १३ ॥
प्। ७७)
दूकूलपट्टदेवाङ्गैः वेष्टयेद्वस्त्रमुत्तमम् ।
त्रिशूलस्य तथैव स्यादाचार्यस्य तथैव च ॥ १४ ॥
आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
ब्रह्मघोषसमायुक्तं सर्वालङ्कारसंयुतम् ॥ १५ ॥
ग्रामप्रदक्षिणे नैव यागस्थान निवेशयेत् ।
परिवेष्मण्डपे चैव यागार्थं कौतुकं न्यसेत् ॥ १६ ॥
स्विष्टान्तं होमयेद्यागे स्वस्वमन्त्रैश्च देशिकः ।
प्रभूतं च हविर्दद्या यागादीनां विशेषतः ॥ १७ ॥
पश्चाच्छूलं च कुम्भानि सर्वालङ्कारसंयुतम् ।
विमानप्रदक्षिणं कृत्वा लिङ्गाग्रे स्थापयेद्बुधः ॥ १८ ॥
शिवमाराध्य यत्नेन कारयेदेशिकोत्तमः ।
अपरे दिवसे चैव * व यात्रां समारभेत् ॥ १९ ॥
तीर्थार्थं कौतुकं मक्त्यवनयात्रार्थ कौतुकम् ।
कारये तु विशेषेण कौतुकं बन्धयेद्धृदा ॥ २० ॥
पूर्वं दिव चतुर्दिक्षु गन्तव्यं वनयत्रकम् ।
स्थानान् स्थानान्तरं वापि अन्यथा च मनोरमम् ॥ २१ ॥
पूर्वेद्युर्वा प्रकर्तव्यं वनयात्रां च देशिकः ।
यागार्थदिक्षितं बिम्बं पूर्वस्मिन् दिवसेन च ॥ २२ ॥
अदिक्षितानां बिम्बानां कारये तीर्थपूर्वके ।
यज्ञार्थदीक्षितं बिम्बं ग्रामबाह्ये निवेशयेत् ॥ २३ ॥
प्। ७८)
वेशयेद् यदि मोहेन राक्षसाद्या विशन्ति हि ।
तस्मात्सर्वप्रयत्नेन यागबिम्बं च पूर्वकम् ॥ २४ ॥
युद्धारम्भप्रभावेन सर्वायुधवराञ्जनान् ।
देवदेवं विशेषेण दिव्यगन्धेन लेपयेत् ॥ २५ ॥
नानावद्यसमायुक्तं नानागेयसमन्वितम् ।
नानामृदङ्गसंयुक्तं नानावाहनसंयुतम् ॥ २६ ॥
एवं प्रदक्षिणं देवं कुर्याद् ग्रामादिकं ततः ।
जलाक्रिय वने कुर्यान् मृगकुम्भमलिलया ॥ २७ ॥
एवमेव विधानेन कारये तु वने बुधः ।
यात्रामण्डपमध्ये तु यात्राहोमं प्रतापयेत् ॥ २८ ।
समिदाज्यचरुन्लाजान् होमयेद्राक्षद्राक्ष सप्रयम् ।
राक्षसायेति मन्त्रेण अष्टाविंशति सङ्ख्यया ॥ २९ ॥
सकलानि च मांषानि वने चैव बलिं क्षिपेत् ।
पश्चाद् देवेशसम्पूज्य प्रभूतं च हविर्ददेत् ॥ ३० ॥
ब्राह्मणान् भोजयेत् तत्र यथाविभवविस्तरैः ।
ततो भक्तजनान् सर्वान् भोजयेद्भक्तिमान्नरः ॥ ३१ ॥
पश्चाद् देवं च देवीं च भूषयन्तु विशेषतः ।
अश्वत्पृष्ठसमास्थाय यन्त्ररूपेण निर्मितम् ॥ ३२ ॥
ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् ।
प्रासादस्य समीपे तु शम्भुशक्त्या निवारितः ॥ ३३ ॥
प्। ७९)
पश्चात् तु देव्यारूपेण प्रासादं सम्प्रवेशयेत् ।
विना ग्रामबलिं तस्मिन् होमं चैव न कारयेत् ॥ ३४ ॥
विधिं विसर्जयेत् तत्र मूलस्थाने निवेशयेत् ॥ ३४� ॥
इति सूक्ष्मशास्त्रे समुद्रस्नानं नाम अष्टादशपटलः ॥