अतः परं प्रवक्ष्यामि चूर्णोत्सवविधिक्रमम् ।
पूर्वोक्तेन विधानेन होमं बिम्बं च कारयेत् ॥ १ ॥
पश्चाच्छिवोत्सवं कुर्यात् सर्वालङ्कारसंयुतम् ।
रजनीचूर्णस्यारम्भमुत्सवान्ते विशेषतः ॥ २ ॥
प्रासादस्याग्रतो वापि कौतुकस्याग्रतोऽपि वा ।
स्थण्डिलं चतुरश्रं तु अष्टद्रोणेन शालिना ॥ ३ ॥
तिलदर्भैस्समाकीर्य स्थण्डिलं त्रीणि विन्यसेत् ।
एकस्मिन्नस्त्रसंस्थाप्य मध्ये तालं च विन्यसेत् ॥ ४ ॥
अपरे रजनिं स्थाप्य तस्मिन् च मुसलूखले ।
अर्चयेत् तु क्रमेणैव तत् तन् मन्त्रेण देशिकः ॥ ५ ॥
अस्त्रेण वेष्टयित्वा तु लूखलं मुसलं तथा ।
अर्चयेद्गन्धपुष्पाद्यै बिम्बं चास्रं विशेषतः ॥ ६ ॥
घृतं शिरोर्पणं कुर्यात् कौतुकानां विशेषतः ।
हृदा निक्षिप्य रजनिं चूर्णयेद्धृदयेन तु ॥ ७ ॥
प्। ७५)
त्रिद्वित्रियं मुसलादाया गणिकाभिश्च चूर्णयेत् ।
पशाद्भक्तजनैश्चैव कारयेत् सुमुहुर्मुहुः ॥ ८ ॥
पुनश्चूर्णं समादाय त्रिषु पात्रेषु निक्षिपेत् ।
गन्धपुष्पादिभिः पूज्य प्रासादेन तु मन्त्रतः ॥ ९ ॥
पश्चाल्लिङ्गे प्रदातव्यं तदेकं प्रतिमादिषु ।
यागमूर्तेस्तथा चैव चूर्णं तैलं च दापयेत् ॥ १० ॥
परिवारेषु कुर्यात् तु तत् तन्नामादिभिर्बुधः ।
पश्चाद् भक्तजनानां तु चूर्णं तैलं च दापयेत् ॥ ११ ॥
ग्रामप्रदक्षिणं शीघ्रं त्रिशूलेन समायुतम् ।
बलिमादिक्रमेणैव चूर्णं तैलं च दापयेत् ॥ १२ ॥
पश्चात्प्रासादमावेश्य गन्धपुष्पादिभिर्यजेत् ॥ १२� ॥
इति सूक्ष्मतन्त्रे चूर्णोत्सवं नामा सप्तदशपटलः ॥