अतः परं प्रवक्ष्यामि तीर्थारम्भाधिवासनम् ।
तीर्थादि पूर्वरात्रौ तु कौतुकं बन्धयेद्धृदा ॥ १४ ॥
प्। ७३)
विसृज्य कौतुकं पूर्वं कौतुकं च विशेषतः ।
हैमैर्वा रजतैर्वापि क्षौमकार्पासकेन वा ॥ २ ॥
आलयस्याग्रतः कुर्याद्गोमयेनानुलेपयेत् ।
स्थण्डिलं कारयेत् तत्र शालिभिश्चतुरङ्गुलम् ॥ ३ ॥
तण्डुलैः पूरयेत् पात्रं तन्मध्ये कौतुकं न्यसेत् ।
विमानप्रदक्षिणं कृत्वा पुण्याहं वाचयेद् बुधः ॥ ४ ॥
शिवगायत्रिमन्त्रेण अस्त्रबिम्बं च बन्धयेत् ।
आधिवासनं ततः कुर्याद् ब्राह्मी चैव विशेषतः ॥ ५ ॥
मण्डपं मार्जयित्वा तु गोमयालेपनं कुरु ।
वितानोपरि सम्पाद्य मुक्तादामैरलङ्कृतम् ॥ ६ ॥
अङ्कुरैः धूपदीपैश्च अष्टमङ्गलकैर्युतम् ।
तण्डुलैस्तिलदर्भैश्च सम्यगष्टदलं लिखेत् ॥ ७ ॥
तन्मध्ये विन्यसेत् कुम्भं शूलं तत्रैव विन्यसेत् ।
अष्टौ घटानि परितः स्थापयेदष्टमूर्तिकान् ॥ ८ ॥
गन्धपुष्पादिभिः पूज्य वस्त्रगन्धसमायुतम् ।
पश्चाद्बिम्बं तु संस्थाप्य मूलबिम्बं विशेषतः ॥ ९ ॥
त्रिशूलेन समायुक्तं नद्यां वापि तटाकके ।
गच्छेत् समतले सम्यक् स्थण्डिलं कारयेद्बुधः ॥ १० ॥
अस्त्रं चैव तु सम्पूज्य तस्याग्रे कलशं न्यसेत् ।
अस्त्रगन्धसमायुक्तान् सकूर्चान् सपिधानकान् ॥ ११ ॥
प्। ७४)
सप्तगङ्गादिकान् पूज्य अस्त्रप्रतिममानयेत् ।
गन्धपुष्पादिभिः पूज्य शूलगायत्रिमन्त्रतः ॥ १२ ॥
सर्वालङ्कारसंयुक्तं शूलं यागे तु वेशयेत् ॥ १२� ॥
इति सूक्ष्मतन्त्रे तीर्थसङ्ग्रहं नाम षोडशः पटलः ॥