१५

अतः परं प्रवक्ष्यामि कौतुकस्योत्सवं क्रमात् ।
कौतुकं बलिदानान्ते कुर्याद् ग्रामप्रदक्षिणम् ॥ १ ॥

प्। ६९)

रथे वा शिबिकायां वा सुखासीनादि विन्यसेत् ।
यन्त्ररङ्गैः समायुक्तं नानाभिन्नैरनेकशः ॥ २ ॥

नानाजनपदैर्युक्तं नानाध्वजसमायुतम् ।
नानाविधसमायुक्तं नानापिञ्छैः समायुतम् ॥ ३ ॥

नानाखड्गसमायुक्तं नानाश्वेतपताकया ।
एकं वापि त्रयं वापि चतुर्थं पञ्चधा पुरा ॥ ४ ॥

अग्रतो यजमानश्च आचार्यस्तदनु व्रजेत् ।
नानागेयसमायुक्तं नानानृत्तसमायुतम् ॥ ५ ॥

नास्तोत्रसमायुक्तं नानामङ्गलवाचकैः ।
एवमेव प्रकारेण कारयेत् उत्सवं शुभम् ॥ ६ ॥

ग्रामान्तरं न कर्तव्यं बिम्बं चैव तु बुद्धिमान् ।
ग्रामैके चैव कर्तव्यम् उत्सवार्थं हि वर्त्मनि ॥ ७ ॥

आस्थानमण्डपे चैव देवतां स्थपयेत् क्रमात् ।
यथावाचकबिम्बेन कारयेदुत्सवं बुधः ॥ ८ ॥

देवस्य पादशुध्यर्थं पादौ पाद्यं प्रदापयेत् ।
रक्षादीपं शिवं दद्याद् बलिपीठे विसर्जयेत् ॥ ९ ॥

दृरवास्ते विमाने तु दिवा वास्तुप्रदक्षिणम् ।
यज्ञादि दीक्षितं बिम्बम् अङ्कुरस्यादि रात्रकैः ॥ १० ॥

ग्रामे मनोरमे देशे तीर्थान्तं स्थापयेद् बुधः ।
नवयात्रा परे चाह्नि आलये सम्प्रवेशयेत् ॥ ११ ॥

प्। ७०)

एवमेव विधानेन कारयेद् देशिकोत्तमः ।
अवभृतस्य पूर्वेद्युः नृत्तबिम्बं समाचरेत् ॥ १२ ॥

कौतुकं पूर्वरात्रौ तु बन्धयेद् देशिकोत्तमः ।
ग्रामप्रदक्षिणं कुर्यात् कौतुकं मन्दिरेऽपि वा ॥ १३ ॥

देवं देवीं स्वमन्त्रेण दक्षिणे चापरे करे ॥
पुण्याहं वाचयेत् तत्र ब्राह्मणान् भोजयेत् ततः ॥ १४ ॥

रक्षाबन्धविधानेन कारयेद् देशिकोत्तमः ।
देवस्य दक्षिणे हस्ते कुर्यात् सूत्रादिभिर्बुधः ॥ १५ ॥

आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ।
प्रातःकाले समभ्यर्च्य आनीया मण्डपे शुभे ॥ १६ ॥

यथाशक्ति विधानेन स्नपनं कारयेद्बुधः ।
त्रियम्बकेन मन्त्रेण अर्चयेन्नृत्तबिम्बकम् ॥ १७ ॥

सौवर्णं च घृतं चैव दृष्ट्या चैव महेश्वरम् ।
पश्चाद् देव्यास्तथा दृष्ट्या आचार्याय प्रदापयेत् ॥ १८ ॥

पश्चाद्दानादि सर्वाणि कारयेच्छक्तितः क्रमात् ।
पुण्याहं वाचयेत् तत्र ब्राह्मणान् भोजयेत् ततः ॥ १९ ॥

पञ्चवर्णं हविर्दद्यात् प्रासादेनैव मन्त्रतः ।
गन्धयुक्तिविधानेन कारयेद्गन्धमुत्तमम् ॥ २० ॥

अथवा शुद्धदेशे तु गन्धं सङ्ग्राह्य बुद्धिमान् ।
हृदयेनैव मन्त्रेण प्रोक्षयेद् गन्धवारिणा ॥ २१ ॥

प्। ७१)

पश्चाद् देवं तथा देवीं तत् तन् मूलेन लेपयेत् ।
अस्त्रस्य दीक्षितस्यैव मूललिङ्गस्य दापयेत् ॥ २२ ॥

पश्चाच्चण्डेश्वरस्यैव भक्तानां चैव दापयेत् ।
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ २३ ॥

नानागेयसमायुक्तं नानानृत्तसमन्वितम् ।
शनैः प्रदक्षिणं कुर्यान्नदूरं न समीपतः ॥ २४ ॥

ग्रामस्याभिमुखं चैव तेनैव च निवर्तनम् ।
संहिते संहितं कुर्याद् भिन्ने भिन्नं समाचरेत् ॥ २५ ॥

मध्याह्नात् पुरतो नास्ति अथवा विंशते क्रमात् ।
पश्चाद्धोमं बलिं कुर्यादुत्सवं तदनु व्रजेत् ॥ २६ ॥

यज्ञार्थदीक्षितं बिम्बं दिवाकाले तथा भवेत् ।
रात्रावेवं प्रकर्तव्यमुदयादपरेन हि ॥ २७ ॥

पश्चाद् भक्तजनैः सार्धमभिषेकोदकं नयेत् ।
देवस्य विसृजेदृक्षां गन्धं चैव तु वर्जयेत् ॥ २८ ॥

स्नपयेद् देवदेवेशं महाव्योमेति मन्त्रतः ।
देव्यां च कारयेत् तद्वच्छक्तिमन्त्रेण बुद्धिमान् ॥ २९ ॥

पावमानेन सम्प्रोक्ष्य गन्धपुष्पादिभिर्यजेत् ।
पश्चान्निरञ्जनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥ ३० ॥

अपूपादि तदा दद्याद्यथाविभवविस्तरैः ।
प्रभूतं च हविर्दद्यात् सहसर्वोपदंशकैः ॥ ३१ ॥

प्। ७२)

नृत्तं हि कारयेत् पश्चात् सर्वालङ्कारसंयुतम् ।
परिवेषक्रमं कुर्यात् साये चैव विशेषतः ॥ ३२ ॥

यागेशं पूर्वतो गत्वा पश्चान्नृत्तेशकं व्रजेत् ।
पश्चाच्छण्डेशकं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ३३ ॥

ग्रामप्रदक्षिणं कुर्यात् सन्ध्यां सन्ध्यां हि नृत्तकः ।
आलयं प्रविशेद्धीमान् ब्राह्मै चैव मुहूर्तके ॥ ३४ ॥

परिवेष्मण्डपे स्थाप्य पादौ पाद्यं हि कारयेत् ।
पश्चाद्विसृज्य निर्माल्यम् अभिषेकं हि कारयेत् ॥ ३५ ॥

गन्धपुष्पादिभिः पूज्य देवं देवं विशेषतः ।
पश्चानिरञ्जनं कुर्यात् प्रभूतं हविषन्ददेत् ॥ ३६ ॥

पश्चाद्भक्तजनानां तु भोजयेद् देशिकोत्तमः ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ ३७ ॥

सर्वालङ्कारसंयुक्तं प्रासादे स्थापयेद् बुधः ।
मूलबिम्बं विशेषेण पूजयेत् पूर्वमार्गतः ॥ ३८ ॥

आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ३८� ॥

इति सूक्ष्मशास्त्रे कौतुकोत्सवं नाम पञ्चदशः पटलः ॥