अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् ।
उत्सवारम्भपूर्वे तु रथादीन् कारयेत् क्रमात् ॥ १ ॥
देवालयमलङ्कृत्य प्राकारं परिवारकम् ।
नानाध्वजादि पिञ्च्छानि नानाचामरकानि च ॥ २ ॥
तानि सर्वाणि सङ्कल्प्य प्रोक्षयेच्छिववारिणाम् ।
उत्सवस्यादिरात्रौ तु अङ्कुरार्पणमारभेत् ॥ ३ ॥
प्रासादस्याग्रतो वापि प्रतिमा च ततोऽपि वा ।
अस्तमादपरे काले पञ्चनाड्यां सुलग्नके ॥ ४० ॥
अथवा सप्तनाड्यां वा कारयेदङ्कुरार्पणम् ।
लिङ्गं च कौतुकं चैव त्रिशूलं च विशेषतः ॥ ५ ॥
कौतुकं बन्धयेद्रात्रौ शास्त्रदृष्टेन कर्मणा ।
मण्डपं मार्जयित्वा तु गोमयेनानुलेपयेत् ॥ ६ ॥
प्। ६३)
आचार्यश्च शुचिर्भूत्वा शिष्यश्चैव तथैव च ।
स्नानं कृत्वा यथान्यासं विधिदृष्टेन कर्मणा ॥ ७ ॥
ततो यागं गृहं गत्वा पादौ हस्तौ च क्षालयेत् ।
नासमार्ग क्रमं कुर्यात् स्थितिन्यासं विशेषतः ॥ ८ ॥
नववस्त्रेण उष्णीष हेमाङ्गुलिविभूषणः ।
सर्वाभरणसम्पूर्णः सर्वलक्षणसंयुतः ॥ ९ ॥
अस्त्रराजेति मन्त्रेण जपेदष्टशतं क्रमात् ।
स्थण्डिलं कारयेद् वेद्यामष्टो द्रोणेन शालिना ॥ १० ॥
स्थण्डिलं तत्र कुर्वीत कर्णिकाकेसरैर्युतम् ।
तिलतण्डुलमिश्रं तु केसराग्रेण विन्यसेत् ॥ ११ ॥
दर्भैपरिस्तरं कुर्याद् गन्धपुष्पादिनार्चयेत् ।
कुट्टिमस्येशदिग्भागे शालिभिश्चतुरश्रकम् ॥ १२ ॥
त्रितालविस्तृतं कुर्यात् देष्टपत्रं सकर्णिकम् ।
धर्मज्ञानादि विन्यस्य आसनार्चनकर्मणि ॥ १३ ॥
राजतं हेमताम्रं वा मृण्मयं वापि कारयेत् ।
कुम्भं च वर्धनीं चैव कलशं च विचक्षणः ॥ १४ ॥
अधिवास्य च रात्रौ तु यागं कुर्याद्विशेषतः ।
वस्त्रपूतेन तोयेन पूर्णं कुर्याद् यथेप्सितम् ॥ १५ ॥
गन्धचन्दनतोयेन गन्धद्रव्यं विनिक्षिपेत् ।
कूर्चादि निक्षिपेत् तत्र पञ्चरत्नादि निक्षिपेत् ॥ १६ ॥
वस्त्रयुग्मेन संवेष्ट्य पट्टिकोपरि शोभितम् ।
तथा देव्या सहासीनं यागेशं चार्चयेत् क्रमात् ॥ १७ ॥
त्रिणेत्रं च चतुर्बाहुं सर्वाभरणभूषितम् ।
एवं ध्यात्वा तु मनसा कल्पयेदीशगोचरे ॥ १८ ॥
प्। ६४)
स्थण्डिलोपरि विन्यस्य पुष्पमाल्योपशोभितम् ।
वद्धनीं हेमसंयुक्तां कलशेषुत्तरे क्रमात् प्रभोः ॥ १९ ॥
शिवाङ्गानि न्यसेत् तत्र उमायां विन्यसेत् ततः ।
गन्धैः पुष्पैश्च धूपैश्च दीपैरारात्रिकैस्ततः ॥ २० ॥
वेदिकोपरिमध्ये तु अथवा पूर्वपश्चिमे ।
सर्वालङ्कारसंयुक्तं स्तोत्रमङ्गलवाचकैः ॥ २१ ॥
घण्टानादसमायुक्तं शूलं कृत्वा प्रदक्षिणम् ।
यागमण्डपमध्ये वा स्थापयेत्पूर्वदेशके ॥ २२ ॥
अर्चयेद् गन्धपुष्पाद्यैर्नववस्त्रेण वेष्टयेत् ।
अस्त्रं तत्रैव संस्थाप्य कौतुकं बन्धयेद्धृदा ॥ २३ ॥
अष्टौ कुम्भानि संस्थाप्य पूर्वादीनि प्रदक्षिणम् ।
पृथग्वस्त्रेण संवेष्ट्य प्रधं हेमं निक्षिपेत् ॥ २४ ॥
अनन्तादींश्च देवांश्च तेषु कुम्भेषु पूजयेत् ।
दशायुधानि परितः कल्पयेद्देशिकोत्तमः ॥ २५ ॥
मङ्गलानि च सम्पूज्य स्वैस्वैर्मन्त्रैश्च पूजयेत् ।
द्वारादि देवताभ्यर्च्य सर्वान् देवान् प्रपूजयेत् ॥ २६ ॥
पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् ।
होमस्य दक्षिणे भागे यागेशं पूजयेद् बुधः ॥ २७ ॥
कुम्भं च स्थपयेत् तत्र वस्त्रकूर्चसमन्वितम् ।
समिधाज्य चरून् लाजान् तिलसर्षपमुद्गकैः ॥ २८ ॥
प्। ६५)
अपूपेनाक्षतगुलैः क्षीरनिष्पावसक्तुकैः ।
पञ्चब्रह्मषडङ्गैश्च व्योमव्यापि दशाक्षरैः ॥ २९ ॥
क्षुरिकाबीजमुख्यैश्च प्रासादेन विशेषतः ।
यथाक्रमेण होतव्यमष्टाविंशतिरेव च ॥ ३० ॥
जयादिकाभ्यातानैश्च खिष्टान्तं होममाचरेत् ।
शिवाग्नेरग्निं सङ्ग्राह्य सर्वकुण्डेषु निक्षिपेत् ॥ ३१ ॥
होमादौ तु बलिं दद्याद् ग्रामादिषु विशेषतः ।
होमान्ते वाथ कर्तव्यम् अथवा मध्यमेऽपि वा ॥ ३२ ॥
ब्रह्मादीशानपर्यन्तम् इन्द्रादीशानमेव च ।
शुद्धान्नं दधिसंयुक्तं बलिं दद्याच्छिवद्विजः ॥ ३३ ॥
प्रथमं गणरात्रं तु द्वितीयं भूतरात्रकम् ।
ब्रह्मरात्रं तृतीयं स्याद्गान्धर्वं तु चतुर्थकम् ॥ ३४ ॥
पञ्चमम् इन्द्ररात्रं स्यात् षष्ठं तु ऋषिरात्रकम् ।
सप्तमं वैष्णवं प्रोक्तमष्टमं राक्षसं तथा ॥ ३५ ॥
नवमं शैवमित्युक्तं रात्रिदेवाः प्रकीर्तिताः ।
सप्ताहे ब्रह्मरात्रादि इन्द्ररात्रादि पञ्चमे ॥ ३६ ॥
त्रियाहे वैष्णवादि स्यादेकाहे शैवरात्रकम् ।
पक्षोत्सवे तु तिथयः रात्रिदेवाः प्रकीर्तिताः ॥ ३७ ॥
द्वात्रिंशद्देवतामासे षण्मासे पूर्ववत् पृथक् ।
आप्तोत्सवे तु तत्स्याद् देवं वै रात्रिदेवताः ॥ ३८ ॥
प्। ६६)
शुद्धान्नं दधिसंयुक्तं प्रथमेऽहनि दापयेत् ।
पद्मपुष्पं सरजनी लाजसक्तुसमन्वितम् ॥ ३९ ॥
द्वितीये च प्रदातव्यं तृतीये पायसं ददेत् ।
हरिद्रान्नं ससर्पि च नालिकेरफलैर्युतम् ॥ ४० ॥
चतुर्थेऽहनि दातव्यं पञ्चमे घृतमिश्रकम् ।
गुलोदनं घृतं मिश्रं कदलीफलसंयुतम् ॥ ४१ ॥
षष्ठेऽहनि प्रदातव्यं सप्तमे तु रसान्नकम् ।
माषान्नं घृतसंयुक्तम् अष्टमेहऽनि दापयेत् ॥ ४२ ॥
शुद्धान्नं दधिसंयुक्तं नवमेहऽनि दापयेत् ।
स्वस्वैर्नामादिभिर्मन्त्रैर्ध्वजादिषु बलिं ददेत् ॥ ४३ ॥
शूलासनादिबिम्बेषु स्वस्वैः सङ्ग्राह्य बुद्धिमान् ।
संहारेषु न कर्तव्यं कर्तव्यं चेन्महद्भयम् ॥ ४४ ॥
यज्ञार्थं दीक्षितं बिम्बमासमुद्रान्तकारयेत् ।
अन्यबिम्बेन कर्तव्यं कर्तव्यं चेन्महद्भयम् ॥ ४५ ॥
शैवोत्सवेषु कालेषु अन्यदेवोत्सवं न च ।
कारयेद् यदिं मोहेन राजराष्ट्रं विनश्यति ॥ ४६ ॥
तस्मात् सर्वप्रयत्नेन शैवे शैवं तु कारयेत् ।
वैष्णवे वैष्णवं कुर्याद् बौद्धादिषु तथैव च ॥ ४७ ॥
एकस्मिन्नगरेऽनेकस्थानानि च भवन्ति चेत् ।
तेषां हि चोत्सवे स * त्गे कर्क्षे सम्भवेद्यदि ॥ ४८ ॥
प्। ६७)
तेषां हि चोत्सवं कुर्यात् प्रथग् वीथीषु बुद्धिमान् ।
चतुष्पथे त्रिपाथे च ब्रह्मस्थानं प्रकल्पयेत् ॥ ४९ ॥
तस्योपपरितो वीथ्यां बलिं कुर्यात् तु देशिकः ।
तस्मिन् वीथ्यां प्रकर्तव्यमुत्सवं विधिपूर्वकम् ॥ ५० ॥
कारयेद् यदि मोहेन नान्यवीथीषु चोत्सवम् ।
तस्य देशाधिपत्यस्य भूनाशं तु न संशयः ॥ ५१ ॥
तस्मात्सर्वप्रयत्नेन बलिर्वीथ्यां तु कारयेत् ।
उत्सवस्य तु काले तु अतिवृष्टिस्तु सम्भवेत् ॥ ५२ ॥
पूर्वे तु कारयेद्धोमं प्रभाते च बलिं ददेत् ।
तस्मिञ्चैवोत्सवं कुर्यात्सर्वालङ्कारसंयुतम् ॥ ५३ ॥
त्रिशूलं बलिलिङ्गेन उत्तमं कारयेद्बलिम् ।
शूलाभावे तु बिम्बं स्यात् तदभावे तु गोलका ॥ ५४ ॥
तेषां च सम्भवं काले ह्यञ्जलिङ्गेषु कारयेत् ।
बलिं कुर्याद् द्विकाले तु उत्सवान्त हि दैविकम् ॥ ४५ ॥
अथवा चैककाले तु बलिहोमौ तथोत्सवम् ।
तस्मात्सर्वप्रयत्नेन कारयेद्बलिमुत्तमम् ॥ ५६ ॥
अन्नलिङ्गं प्रकर्तव्यं पूर्ववत् कारयेद्बुधः ।
बल्यर्थं स्थलिकायां तु विन्यसेद्धृदयेन तु ॥ ५७ ॥
चतुर्भुजं त्रिणेत्रं च दक्षिणे शूलदृग्भवेत् ।
पाशं वामकरे चैवमभयं दक्षिणे तथा ॥ ५८ ॥
प्। ६८)
वरदं वामहस्तेन रौद्रदृष्टिसमन्वितम् ।
एवं पाशुपतं ध्यात्वा बलिलिङ्गे तु पूजयेत् ॥ ५९ ॥
बलिपात्रे न्यसेदन्नं सर्वद्रव्यसमन्वितम् ।
प्रथमे तु पताकाश्च द्वितीये वाद्यकस्तथा ॥ ६० ॥
तदन्ये देशिको गच्छेच्चतुर्थे शूलमुच्यते ।
पञ्चमे चान्नलिङ्गं तु षष्ठके कौतुकं व्रजेत् ॥ ६१ ॥
सर्वालङ्कारसंयुक्तमायुधं चाष्टमङ्गलम् ।
सभास्थाने राजगृहे देशिकस्यालये तथा ॥ ६२ ॥
अन्येषु शुभदेशेषु बलिं दद्याद् विशेषतः ।
प्रणवादि नमोन्तं तु स्वनामपदमध्यगम् ॥ ६३ ॥
बलिं दद्याद् विशेषेण सर्वलोकशुभावहम् ।
एवं बलिभ्रमं कुर्याद् बलिपीठे बलिं क्षिपेत् ॥ ६४ ॥
बलिपीठे बलिं सम्यग् विसर्जेद्धृदयेन तु ॥ ६४� ॥
इति सूक्ष्मशास्त्रे अधिवासनविधिर्नाम चतुर्दशपटलः ॥