१३

अतः परं प्रवक्ष्यामि यागमण्डपलक्षणम् ।
गेहस्य पुरतः कुर्यादीशान्ये पावकेऽथवा ॥ १ ॥

दक्षिणे पश्चिमे वापि उत्तरे वापि कारयेत् ।
भूमिशुद्धिं पुराकृत्वा प्रोक्षयेत् पञ्चगव्यकैः ॥ २ ॥

उत्तमं षोडशैर्हस्तैर्मध्यमं द्वादशैस्तथा ।
अधमं दशहस्तैश्च नव हस्तं च सप्तकैः ॥ ३ ॥

ब्राह्मणादि क्रमेणैव सर्वेषां सप्तहस्तकैः ।
चतुरङ्गुलमुत्सेधं निम्नोनतविवर्जितम् ॥ ४ ॥

युग्मस्तम्भसमायुक्तं याज्ञिकैस्तरुभि शुभैः ।
कूटं वा मण्डपं वापि कारयेल्लक्षणान्वितम् ॥ ५ ॥

चतुर्द्वारविमानेन चतुर्द्वारं प्रकल्पयेत् ।
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ ६ ॥

सप्तषट्पञ्चतालैर्वा चतुस्तालैः क्रमेण तु ।
ब्राह्मणाद्यैश्च कर्तव्यमुत्सेधं षोडशाङ्गुलम् ॥ ७ ॥

एवं हि कल्पयेद्धीमान् पञ्चचूर्णैरलङ्कृतम् ।
वेदिबाह्ये तु परितो नवकुण्डानि कारयेत् ॥ ८ ॥

प्। ६१)

कुण्डवृत्तनमार्गेण तत्तद्भागेषु कारयेत् ।
अथवा हस्तमात्रेण कुण्डं विस्तारखातकम् ॥ ९ ॥

त्रिमेखलैरलङ्कृत्य चतुस्त्रिद्व्यङ्गुलायतैः ।
दिक्षु वै चतुराश्राणि वृत्तानि च विदिक्षु वै ॥ १० ॥

इन्द्रेशानकयोर्मध्ये अष्टाश्रं कल्पयेद् बुधः ।
नवहोमक्रमं प्रोक्तं पञ्चहोमक्रमं शृणु ॥ ११ ॥

इन्द्रादि किं चतुर्दिक्षु वृत्तं कुण्डं प्रकल्पयेत् ।
इन्द्रेशानकयोर्मध्ये अष्टाश्रं कल्पयेद् बुदः ॥ १२ ॥

पूर्वे वा पश्चिमे चैव ऐशान्यादि प्रकल्पयेत् ।
वृत्तं वा चतुरश्रं वा कल्पयेद्देशिकोत्तमः ॥ १३ ॥

ऐशान्यां दिशि सङ्कल्प्य एकहोमं विशेषतः ।
वृत्तं वा चतुरश्रं वा लक्षणोक्तेन कारयेत् ॥ १४ ॥

किञ्चिद्विशेषं वक्ष्यामि होमं चैव शिवोत्सवे ।
नवाहे नवहोमं स्यात् सप्ताहे सप्तहोमकम् ॥ १५ ॥

पञ्चहोमं तु पञ्चाहे त्रियाहे त्रियहोमकम् ।
एकाहे चैकहोमं स्याद्धोमं कृत्वा विचक्षणः ॥ १६ ॥

परितो ऋत्विजानां च प्रधाने देशिकं हुनेत् ।
अथवा चैकहोमेन कारयेद्देशिको बुधः ॥ १७ ॥

गोमयालेपनं कृत्वा मण्डपं च विशेषतः ।
चतुस्तोरणसंयुक्तमष्टमङ्गलभूषणम् ॥ १८ ॥

प्। ६२)

द्वारकुम्भादि सङ्कल्प्य वितानध्वजशोभितम् ।
लाजैश्च विविधैः पुष्पैमण्डपं पूजयेद् बुधः ॥ १९ ॥

पुण्याहं वाचयेत् पश्चाच्छिल्पकर्मावसानके ॥ १९� ॥

इति सूक्ष्मशास्त्रे शिवागमे प्रतिष्ठातन्त्रे क्रियापादे यागमण्डपलक्षणं
नाम त्रयोदशपटलः ॥