११

प्। ५४)

अतः परं प्रवक्ष्यामि ध्वजारोहणमुत्तमम् ।
आचार्यो यजमानश्च चिन्तयेद् दिनसङ्ख्यया ॥ १ ॥

पश्चाद्ध्वजं समुत्थाअप्य त्रिगुणं द्विगुणं तु वा ।
तद्दिने वापि कर्तव्यमुत्तमं मध्यामाधमम् ॥ २ ॥

पूर्वाह्ने रोपयेत् केतुं ब्राह्मणानां हिताय वै ।
क्षत्रियस्य तु मध्याह्ने वैश्यानामपराह्नके ॥ ३ ॥

अर्द्धरात्रे तु शूद्राणां सायं शूद्रस्तु वा भवेत् ।
ध्वजारोहणपूर्वं तु ब्राह्मणानां हिताय वै ॥ ४ ॥

भेरीताडनपूर्वं तु क्षत्रियाणां प्रवृद्धये ।
अङ्कुरार्पणपूर्वं तु नगरे पुण्यदेशके ॥ ५ ॥

भेरीताडनपूर्वं तु कुर्याद् ग्रामं विशेषतः ॥ ६ ॥

ध्वजारोहणपूर्वं तु नगरे पुण्यदेशके ।
अङ्कुरार्पणपूर्वं तु भक्तानां दिक्षु कारयेत् ॥ ७ ॥

यः क्रियामारभेत् पूर्वं पूर्वं तां च कुर्यात् सदा बुधः ।
अन्यथा कारयेद् यस्तु क्रियासङ्करमुच्यते ॥ ८ ॥

तस्मात्सर्वप्रयत्नेन प्रथमारम्भणं शुभम् ।
सरलं चन्दनं चैव धातकी चम्पकं तथा ॥ ९ ॥

क्रमुकं नालिकेरं च बिल्वं वैणवमुच्यते ।
उत्तमं शतहस्तं स्यान्मध्यमं तु तदर्धकम् ॥ १० ॥

प्। ५५)

पञ्चविंशति हस्तेन अधमं कारयेद् बुधः ।
अथवाष्टदशं हस्तं द्वादशाङ्गुलविस्तरम् ॥ ११ ॥

अथ प्रासादमानेन कारयेद्ध्वजताण्डकम् ।
अवक्रं निर्वृणं चैव कृमिकोटरवर्जितम् ॥ १२ ॥

यथामनोरमं कुर्याद्ध्वजदण्डं हि देशिकाः ।
षोडशाङ्गुलनाहं स्याद्दण्डाग्रे चतुरङ्गुलम् ॥ १३ ॥

पञ्चषट्सप्तपर्वाणि दशपर्वाणि वा पुनः ।
आधारफलकास्तिस्रो हस्तमात्रप्रमाणतः ॥ १४ ॥

वेतालसदृशाकारा अथवा योनिमार्गतः ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ १५ ॥

बाह्यपीठस्य चाग्रे वा गोपुरस्याग्रतोऽपि वा ।
व्रषालयाग्रे पृष्ठे वा शूलस्याग्रे च वा पुनः ॥ १६ ॥

प्रासादपुरतो वापि ऐशान्यां वाथ कारयेत् ।
ब्रह्मणस्य ध्वजं श्वेतं क्षत्रियस्य तु रक्तकम् ॥ १७ ॥

वैश्यस्य पीतवर्णं तु शूद्राणां श्याममेव च ।
दुकूलं पट्टवस्त्रं वा पटं कार्पासमेव च ॥ १८ ॥

द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम् ।
पञ्चभागैकविस्तारं षड्भागैकमथापि वा ॥ १९ ॥

त्रिंशदङ्गुलमानं वा कारयेद्ध्वजतारकम् ।
विस्तारस्य समं पुच्छं तस्यार्धं शिखरं भवेत् ॥ २० ॥

प्। ५६)

अथवा पुच्छतुल्यं वा पार्श्वयोरङ्गुलीकृतम् ।
अच्छिन्नमुत्तमं प्रोक्तं सच्छिन्नं लक्षणान्वितम् ॥ २१ ॥

महाध्वजं शतं हस्तं तदर्धार्धं तु षोडशम् ।
द्वादशं वा प्रकूर्वीत अष्टहस्तायतं शुभम् ॥ २२ ॥

यथालाभं गृहीत्वा तु देशकालानुरूपतः ।
उत्सवार्थं तु सङ्गृह्य तन्मध्ये वृषभं लिखेत् ॥ २३ ॥

उत्सवस्य त्रिरात्रौ तु बलिभूतं व्रजेन्नरः ।
पश्चाद्यागेशशलायां पूजयेत् तु शिवद्विजः ॥ २४ ॥

ध्वजं पटस्त्रिभागं स्यात् तन्मध्ये वृषभं लिखेत् ।
दर्पणं पूर्णकुम्भं च चामरं वा द्वयोर्न्यसेत् ॥ २५ ॥

दीपं च मङ्गलं चैव कारयेल्लक्षणान्वितम् ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ २६ ॥

ध्वजं पटस्य शुध्यर्थं * * मानेन प्रोक्षयेत् ।
पश्चाद्ध्वजं पञ्चगव्ये प्रोक्षयेच्छिवमन्त्रतः ॥ २७ ॥

वृषगायत्रिमन्त्रेण कुशाद्भिः प्रोक्षयेद् बुधः ।
दण्डं च पूर्वरत्रौ तु स्थापयेत् तु शिवद्विजः ॥ २८ ॥

बाहुमात्रं खनित्वा तु श्वभ्रं प्रोक्ष्य कुशाम्भसा ।
वृषभं कूर्मकं वापि हैमं श्वभ्रं विनिक्षिपेत् ॥ २९ ॥

दण्डमुत्थापयेत् पश्चाच्छिवमन्त्रेण देशिकः ।
सकूर्चदर्भमालं च वेष्टयेद् ध्वजदण्डके ॥ ३० ॥

प्। ५७)

सप्तषट्पञ्चतालैर्वापि चतुस्तालैश्च वेदिकाः ।
ब्राह्मणादि क्रमेणैव कारयेत् तु विशेषतः ॥ ३१ ॥

विस्तारद्विगुणोत्सेधं पादोनं वा तदर्धकम् ।
इष्टिकाभिश्च मृद्भिर्वा सुधया वाथ कारयेत् ॥ ३२ ॥

चतुरश्रमथाष्टाश्रं वृत्तं वा कारयेद् बुधः ।
तदूर्ध्वे पद्ममालिख्य दलाष्टकसमन्वितम् ॥ ३३ ॥

त्रिमेखलानि वा कुर्यात् पादवर्गे सुशोभितम् ।
यथा मनोरमं कुर्यादथवा देशिकोत्तमः ॥ ३४ ॥

गन्धपुष्पादिना पूज्य वृषमन्त्रेण देशिकः ।
अस्त्रं चैव पटं चैव बिम्बाग्रे वा शिवाग्रके ॥ ३५ ॥

अर्चयेन्नवमन्त्रेण हविस्तत्र निवेदयेत् ।
त्रिशूलं च पटं चैव बिम्बं चैव विशेषतः ॥ ३६ ॥

ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् ।
होमं कृत्वा तदाग्रामे नगरादिषु कारयेत् ॥ ३७ ॥

पश्चात्प्रासादमावेश्य जलेन प्रोक्षयेत् पटम् ।
गन्धपुष्पादिभिः पूज्या पुष्पं गायत्रिमन्त्रतः ॥ ३८ ॥

विमानप्रदक्षिणं कृत्वा यन्त्ररूपेण रोपयेत् ।
अथवा बन्धमार्गेण सर्वालङ्कारसंयुतम् ॥ ३९ ॥

ध्वजमारोपयेद् विद्वान् उत्सवार्थं विशेषतः ।
स्नपनं कारयेत् तत्र पुण्याहं वाचयेद् बुधः ॥ ४० ॥

प्। ५८)

पञ्चवर्णं हविर्दद्यात् ताम्बूलं दापयेद् बुधः ।
ब्राह्मणान् भोजयेत् पश्चादाचार्यं पूजयेत् सदा ॥ ४१ ॥

इति सूक्ष्मतन्त्रे ध्वजारोहणं नाम एकादशपटलः ॥

अतः परं प्रवक्ष्यामि भेरीताडनमुत्तमम् ।
ध्वजारोहणपूर्वेयु रात्रौ भेर्यास्तु ताडनम् ॥ १ ॥

नैवेद्यद्रव्यसर्वाणि देशिकाय प्रदापयेत् ।
तण्डुलस्याष्टभागं च व्यजनं षोडशांशकम् ॥ २ ॥

अपूपाष्टांशमित्युक्तं ताम्बूलं च तथैव च ।
फलादि भक्षणद्रव्यैर्दशांशं दापयेत् क्रमात् ॥ ३ ॥

इत्थं नैमित्तिके नित्ये काम्ये चैव प्रदापयेत् ।

इति सूक्ष्मतन्त्रे शिवागमे एकादशपटलः ॥