०९

देवदेवजगन्नाथमुमाय परमेश्वरम् ।
द्वारं तु पश्चिमं श्रेष्ठम् इन्द्रं वचनमब्रवीत् ॥ १ ॥

ईश्वर उवाच ।

अथ सङ्क्षेपतो वक्ष्ये अर्चनविधिमुत्तमम् ।
विजयं सूक्ष्मतन्त्रं च किरणं परमेश्वरम् ॥ २ ॥

रौरवं कामिकं चैव पश्चिमाभिमुखोद्भवम् ।
तस्मात्संहिता तन्त्रज्ञः सर्वकर्माणि कारयेत् ॥ ३ ॥

अन्येषां संहिता मिश्रं देवान् प्रति न गच्छति ।
पश्चिमद्वारसर्वेषां सृष्टिपूजा इहोच्यते ॥ ४ ॥

द्वाराधिदेवतं ब्रह्मा पूजयेत् परमेश्वरम् ।
दक्षिणतः शास्त्रकुशलः शुचिर्मात्रस्तु पूजयेत् ॥ ५ ॥

देवेशं पूजयेन्नित्यं पञ्चाचार्यसमन्वितम् ।
पूजयेत् सकलानां तु पञ्चकालकृतस्तथा ॥ ६ ॥

तदाचरमिदं प्रोक्तं पञ्चाचार्या प्रकीर्तिताः ।
पूजकं पूजयेन् नित्यं साधकं द्रव्यसाधकम् ॥ ७ ॥

प्। ४५)

स्थलशुद्धिरलङ्कारं सर्वालङ्कारसंयुतम् ।
पात्रशुद्धिस्तु सर्वेषां पञ्चशोधनमाचरेत् ॥ ८ ॥

आचार्यः कृत्यनैमित्यपरार्थकर्म कारयेत् ।
अर्चनादिषु मेधा च पश्चिमद्वारसाधकः ॥ ९ ॥

देहशुद्धिं पुराकृत्वा द्वितीयं स्थलशुद्धिकम् ।
तृतीयं पात्रशुद्धिस्तु चतुर्थं लिङ्गशुद्धिकम् ॥ १० ॥

पञ्चमं मन्त्रशुद्धिं स्यात् पञ्चशुद्धिः प्रकीर्तिता ।
पूजकः पूर्वरात्रौ तु ब्रह्मचर्य समन्वितः ॥ ११ ॥

ब्राह्मे मुहूर्ते सम्प्राप्ते मन्त्रध्यानपरायणः ।
शिवपञ्चाक्षरं मन्त्रं सर्वपापप्रणाशनम् ॥ १२ ॥

ग्रामान्ते तु बहिर्गत्वा शौचं कृत्वा यथाविधि ।
आचम्य विधिवत् स्नात्वा देहन्यासं तु कारयेत् ॥ १३ ॥

प्रदक्षिणत्रयं कृत्वा शिवालयप्रवेशनम् ।
प्रणम्य दण्डवद्भूमौ प्रार्थयेन्मनसा शिवम् ॥ १४ ॥

ध्यात्वा दृष्टिस्तु नासाग्रे निर्मले द्वादशाङ्गुले ।
आणावादीन् शरीरेण दहेद्यावच्छिरोन्तकम् ॥ १५ ॥

हृत्कमलं शिवं प्राप्य दक्षिणे पुनरर्चितम् ।
वामनास्ये तदुद्वास्य तथा भूतं दहेत् पुनः ॥ १६ ॥

कलेवरं दहेद् विद्वान् भस्मकूटव्यवस्थितः ।
चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् ॥ १७ ॥

प्। ४६)

अमृताप्लावनं देहे कुर्याद्वामपुटे स्थितम् ।
दक्षिणे रेचकं कार्यात् शरीरोत्पत्तिकारणम् ॥ १८ ॥

सदाशिव तनुं सत्य प्राणस्थापनमेव च ।
आत्मानं योजयेद् विद्वान् कुम्भकं तत्र पिण्डितः ॥ १९ ॥

मलपिण्डं परित्यज्य मन्त्रपिण्डं यथाक्रमम् ।
ततोपरिस्थितं न्यासं मन्त्रपिण्डं यथाक्रमम् ॥ २० ॥

स्थितिन्यासं पुरा कृत्वा सृष्टिन्यासमतः परम् ।
संहारं तु परित्यज्य स पूजां कर्तुमर्हसि ॥ २१ ॥

करन्यासं पुरा कृत्वा अङ्गन्यासमतः परम् ।
शिवाङ्गं दक्षिणे हस्ते विद्याङ्गं वामहस्तके ॥ २२ ॥

मणिबन्धे द्वयं वापि शिवे तु ब्रह्मदेवता ।
श्रीर्या सरस्वति चैव तलमध्ये प्रकीर्तिताः ॥ २३ ॥

उमादुर्गां तले बाहौ दक्षिणाङ्गुष्ठमिन्दवत् ।
वामाङ्गुष्ठं तु विन्यस्य सम्पिता च महोच्यते ॥ २४ ॥

इन्द्रादिब्रह्मपर्यन्तं करन्यासं प्रकीर्तितम् ।
नाभ्यादिपादपर्यन्तं विद्याङ्गं विन्यसेत् क्रमात् ॥ २५ ॥

प्रणवादिप्रणातं च अकारादिक्षकान्तकम् ।
अक्षरन्यासमित्याहुः सृष्टिन्यासमिहोच्यते ॥ २६ ॥

कलाभेदेन संयुक्तम् ईशानादीनि विन्यसेत् ।
षडङ्गं विन्यसेत् पश्चाद् देहशुद्धिं तु कारयेत् ॥ २७ ॥

प्। ४७)

देहं तु शोधयेत् पश्चात् स्थलशुद्धिं प्रकल्पयेत् ।
एतेषां परितः क्षाल्य गोमयेनानुलेपयेत् ॥ २८ ॥

प्रोक्षयेन्मन्त्रतोयेन स्थलशुद्धिं प्रकल्पयेत् ।
षडङ्गानि शरावाणि घटानि विविधानि च ॥ २९ ॥

अन्यानि जलभाण्डानि सौवर्णानि विशेषतः ।
अस्त्रेण क्षालयेद् धीमान् हुङ्कारेण तु मन्त्रतः ॥ ३० ॥

पात्रशुद्धिरिदं प्रोक्तं द्रव्यशुद्धिं ततः शृणु ।
पाद्यमाचमनं चार्घ्यं गन्धपुष्पं तथैव च ॥ ३१ ॥

नैवेद्यं धूपदीपादि जलद्रव्याणि शोधयेत् ।
पूजको देहशुद्धिं तु लिङ्गशुद्धिं च कारयेत् ॥ ३२ ॥

प्रविशे गर्भदेशे तु द्वारपालान् समर्चयेत् ।
दण्डिनं मुण्डिनं चैव स्वनामाद्यश्च पूजयेत् ॥ ३३ ॥

प्रविश्याभ्यन्तरं पश्चाल्लिङ्गशुद्धिर्भवेदिह ।
विसर्ज्येत् सर्वपुष्पाणि चण्डेशाय प्रकल्पयेत् ॥ ३४ ॥

प्रक्षाल्य शिवलिङ्गं तु मन्त्रपूतेन वारिण ।
अष्टमृत्पूरयेल्लिङ्गं सादित्वा दर्भरज्जुना ॥ ३५ ॥

क्षालयेत् पञ्चगव्येन लिङ्गशुद्धिर्भवेदिह ।
आसनं कल्पयेद् विद्वान् उत्तराभिमुखस्थितः ॥ ३६ ॥

योगं च विमलं चैव पद्मम् अनन्तमेव च ।
सिंहासनमिदं प्रोक्तं चतुरश्रं च भावयेत् ॥ ३७ ॥

प्। ४८)

बाह्ये द्वादशसूत्रं तु पार्श्वे पार्श्वे तु तद् द्वयम् ।
कोणमेकैकसूत्रं तु पञ्चचन्द्रं वेष्टयेत् ॥ ३८ ॥

तद् बाह्ये पद्ममालोक्यं योगं चन्द्रस्य शोभितम् ।
कुर्यादवन्दितो रम्यं कारयेद् देशिकोत्तमः ॥ ३९ ॥

परार्थं पूजयेन्नित्यम् उत्तराभिमुखस्थितः ।
तद् बाह्येन तु पद्मं स्याद् द्वादशायुधं विन्यसेत् ॥ ४० ॥

वज्रं शक्तिं च दण्डं च खड्गं पाशं तथैव च ।
अङ्कुशं च गदाश्रं च पद्मचक्रं तथैव च ॥ ४१ ॥

सुवज्रं हंसमूली च अण्डतुण्डस्तथैव च ।
पश्चिमादिषु रत्नान्तं सर्वदावरणान् न्यसेत् ॥ ४२ ॥

पृथिव्या सप्तधा तेजो वायुराकाशमेव च ।
लवणक्षीर घृतं चैव दधि च मधु एव च ॥ ४३ ॥

इक्षुस्वादूदकं चैव पश्चिमादि प्रदक्षिणम् ।
भूतमावरणं कृत्वा स्वनामाद्येन पूजयेत् ॥ ४४ ॥

सोमाङ्गारबुधं चैव राहुकेतुस्तथैव च ।
आदित्यशनिशुक्रश्च मेरुसन्यो बृहस्पतिः ॥ ४५ ॥

एवमावरणं चैव पश्चिमादिषु पूजयेत् ।
मेषादिमीनपर्यन्तं कलावण्यमिहोच्यते ॥ ४६ ॥

द्वित्रिवेदभिद्विद्वौ तु पञ्चपञ्चक वेदकान् ।
षष्ठं भगणमेधावि पूर्वादारभ्य पूजयेत् ॥ ४७ ॥

प्। ४९)

दक्षिणाश्रयवामे तु व्योकारं तत्र विन्यसेत् ।
मकारं च कनिस्थाने व्योकारं पश्चिमेन तु ॥ ४८ ॥

विकारं पश्चिमाश्रित्य नेकारं वायुगोचरे ।
शिकारं सोमविन्यस्य वाकारं तस्य पार्श्ववत् ॥ ४९ ॥

लकारे चं मीशाने न कारं पूर्वविन्यसेत् ।
माकारम् इन्द्रमाश्रित्य प्रणवाग्नि दिशिस्तथा ॥ ५० ॥

दक्षिणे पद्मपुष्पं च आश्रयादि प्रदक्षिणम् ।
व्योमावरणमित्येषां सिंहावारणकं शृणु ॥ ५१ ॥

धर्मज्ञानं च वैराग्यमैश्वर्यं च तथैलिका ।
सिंहावरणमित्येषां * * मानथ पूजयेत् ॥ ५२ ॥

अनन्तं पूर्वतः स्थाप्य त्रिमूर्तिमग्निमेव च ।
दक्षिणे सूक्ष्मं विन्यस्य श्रीकण्ठं निर्-ऋतौ तथा ॥ ५३ ॥

शिवोत्तमं पश्चिमे न्यस्य शिखण्डीं वायुगोचरे ।
एकनेत्रं तथा सोमे ईशाने एकरुद्रकम् ॥ ५४ ॥

अनन्तवरणं त्येषां पूर्वादीनि प्रदक्षिणम् ।
वामां पश्चिमतो न्यस्य ज्येष्ठे चैव तु चोत्तरे ॥ ५५ ॥

रौद्रीं च दक्षिणे भागे कलिं चेन्द्रदिशि न्यसेत् ।
कलविकरणं विन्यस्य आग्नेर्य्यां दिक्षु गोचरे ॥ ५६ ॥

बलविकरणं नैर्-ऋत्यां बलप्रमथं वायवे ।
सर्वभूतमनि चैव ऐशान्यां दिशि विन्यसेत् ॥ ५७ ॥

प्। ५०)

मध्ये मनोन्मनी देवी पद्मासनमिहोच्यते ।
प्रणवं पूर्वतः स्थाप्य आकारं वह्निगोचरे ॥ ५८ ॥

ईशाने दक्षिणे भागे ऊकारं राक्षसे दिशि ।
व्योकारं पश्चिमाश्रित्य षकारं वायुगोचरे ॥ ५९ ॥

व्योकारं सोमदिग्भागे विकारं शाङ्करे दिशि ।
तन्मध्ये चैव नेकारं योगासनमिहोच्यते ॥ ६० ॥

पश्चिमद्वारहर्म्ये तु किङ्चिद्वारं शिवार्चनम् ॥ ६१ ॥

पश्चिमद्वारलिङ्गं तु दक्षिणादिश्च भारत ।
सर्वपापहरं पुण्यं सर्वारिष्टविनाशनम् ॥ ६२ ॥

सर्वसौभाग्यसम्पत्तिः सर्वलोकप्रियार्थकम् ।
वामहस्तेन गौर्यास्तु पुत्रपौत्रविवर्धनम् ॥ ६३ ॥

कुलालचक्रमृद्भिस्तु नानारूपेण दृश्यते ।
यत्र रूपेण सङ्कल्प्य आचार्यमनसा तथा ॥ ६४ ॥

शिवं दक्षिणहस्ते तु गौरि दक्षिण हस्तकम् ।
देवेशं वाम हस्ते तु शिवद्विजस्य स्थानकम् ॥ ६५ ॥

आचार्यहस्तदेशं तु दक्षिणाङ्गुलि पृष्ठतः ।
सर्वप्रियाय हस्तं च दक्षिणे हस्तपृष्ठतः ॥ ६६ ॥

शिवप्रसन्नमित्युक्तम् आचार्यमनसा तथा ।
गौरिस्थानमिदं प्रोक्तं नैवेद्यं च शृणुष्वह ॥ ६७ ॥

कपित्थस्य फलं चैव यथा कुञ्जरभक्षणम् ।
अन्तःसारं तु सङ्ग्राह्य ग्राहते परमेश्वरः ॥ ६८ ॥

प्। ५१)

अविदद्याविशेषेणन्तदन्ते भूतसम्बलिः ।
इन्द्रादिबाह्यपीठान्त दिग्बलिं तत्र कारयेत् ॥ ६९ ॥

असुराराक्षसाश्चैव पिशाचा ब्रह्मराक्षसाः ।
उच्छिष्ठान्नं तथा चैव बलिं दद्याद्धविस्तथा ॥ ७० ॥

पूर्वादीशानपर्यन्तं महापीठे बलिं क्षिपेत् ।
गन्धपुष्पं च धूपं च नैवेद्यं च बलिं क्षिपेत् ॥ ७१ ॥

गन्धं च घोरमन्त्रेण पुष्पमीशेन दापयेत् ।
धूपं च अस्त्रमन्त्रेण दीपं नेत्रेण दापयेत् ॥ ७२ ॥

पुरुषेण हविर्दद्यात्पाद्यं सद्येन मन्त्रतः ।
अर्घ्यं पुरुषमन्त्रेण वामेनाचमनं भवेत् ॥ ७३ ॥

सर्वामन्त्राभिधानेन हृदयेनैव मन्त्रतः ।
पश्चिमार्चनमेतेषामुत्तरद्वारमाशृणु ॥ ७४ ॥

इति सूक्ष्मशास्त्रे पश्चिमद्वारार्चनं नाम नवमपटलः ॥ ९ ॥