दीपावलिं प्रवक्ष्यामि यथाविधि पुरःसरम् ।
कृत्तिकामासि कर्तव्यं तथा पर्वदिनं शुभम् ॥ १ ॥
सर्वशान्तिकरं पुण्यं मासपूजाविधिं तथा ।
पर्वयुक्तमयुक्तं वा दिनयुक्तमथापि वा ॥ २ ॥
दिनं च पर्वयुक्तं तु उत्तमं तु प्रशस्यते ।
पर्वं प्रधानमेवोक्तम् उत्तमोत्तममुच्यते ॥ ३ ॥
कृत्तिका भरणी मिश्रं तद्दिनं तु चतुर्दशी ।
अल्पवृष्टिं च रोगं च राष्ट्रक्षोभं भविष्यति ॥ ४ ॥
तद्दिनस्य पुरा रात्रौ अधिवासनमारभेत् ।
मण्डपस्यैशदिग्भागे पावके वा विशेषतः ॥ ५ ॥
तन्मध्ये स्थण्डिलं कृत्वा हस्तमात्रेण देशिकः ।
स्थलिकां तण्डुलैः पूर्य तन्मध्ये नलिनं लिखेत् ॥ ६ ॥
तन्मध्ये त्रिपदीं कृत्वा दीपाधरं ततः कुरु ।
सकलीकरणं कृत्वा पुण्याहं तत्र वाचयेत् ॥ ७ ॥
प्। ४२)
कुण्डं वा स्थण्डिलं वापि वह्निकार्यं तदुच्यते ।
अग्न्याधानादिकं सर्वं यथाविधि पुरःसरम् ॥ ८ ॥
महेशं तु विशेषेण रक्षाबन्धं तु कर्मसु ।
सर्वालङ्कारसंयुक्तं सर्वमङ्गलशोभितम् ॥ ९ ॥
शङ्खदुन्दुभिनिर्घोषैस्ततो मङ्गलवाचकैः ।
अग्नेरुपसमाधाय पूर्णाहुत्यन्तमाचरेत् ॥ १० ॥
रुद्रसङ्ख्या नवसङ्ख्या पञ्चविंशतिसङ्ख्यया ।
षट्त्रिंश तत्त्व सङ्ख्या व अष्टोत्तरशत सङ्ख्यया ॥ ११ ॥
पञ्चावरणकं वापि यथाविभवविस्तरैः ।
पोट्टलीं बन्धयेत् तत्र पात्रं प्रति नियोजयेत् ॥ १२ ॥
शिवाग्निं च प्रकर्तव्यं दीपमारोपयेत् ततः ।
धूपदीपं हृदा दत्त्वा अविच्छिन्नं तु रक्षयेत् ॥ १३ ॥
रात्रौ सायमिति प्रोक्तं दिवा प्रात इति स्मृतम् ।
मध्याह्नान्तं समारभ्य यावत् तु दशनाडिका ॥ १४ ॥
विशेषस्नपनं कृत्वा मूलबिम्बाग्रकैस्ततः ।
पञ्चगव्यं ततः कृत्वा पश्चाद्यजनमारभेत् ॥ १५ ॥
वस्त्रोपवीते माला च मकुटं कुण्डलं तथा ।
सर्वगन्धानुलिप्ताङ्गैः सर्वमाल्योपशोभितैः ॥ १६ ॥
पञ्चावरणमार्गेण पूजयित्वा विशेषतः ।
धूपदीपं हृदा दत्वा पश्चाद्धोमं समाचरेत् ॥ १७ ॥
प्। ४३)
पूर्णाहुतिं तथा कृत्वा पश्चाद् दीपं प्रपूजयेत् ।
अस्तमान्तं समारभ्य दीपमादापयेत् ततः ॥ १८ ॥
परिचारान् समाहूय सुस्नातान् शुक्लवस्त्रकान् ।
सोष्णीषमुत्तरीयं च पवित्रं पणयः शुचिः ॥ १९ ॥
तन्मूर्ध्नि विन्यसेद् दीपं प्रासादं तु प्रदक्षिणम् ।
स्तोत्रध्वनिसमायुक्तं शङ्खघोषसमन्वितम् ॥ २० ॥
प्रविशेदालयं पश्चान्मूलबिम्बाग्रके ततः ।
देवदेवं नमस्कृत्वा अष्टपुष्पं सुयोजयेत् ॥ २१ ॥
धूपदीपं हृदा दत्वा देवदेवं नियोजयेत् ।
गर्भावरणक्रमं ह्येवं मन्त्रदीपं निवेदयेत् ॥ २२ ॥
शेषदीपं समादाय दण्डमूलं प्रवेशयेत् ।
दण्डशुद्धिं ततः कृत्वा पुण्याहं तत्र वाचयेत् ॥ २३ ॥
निरीक्षणं महेशान दीपमारोपयेत् ततः ।
उपानात् स्वपि(?) पर्यन्तं दीपमारोपयेत् पुनः ॥ २४ ॥
शक्तिदीपानि सर्वाणि पचनालयदापयेत् ।
प्राकारे गोपुरे चैव मण्डपं तु नयेत्पुनः ॥ २५ ॥
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ।
धूपदीपं हृदा दत्वा भस्मानि तु प्रदापयेत् ॥ २६ ॥
इक्षुखण्डसमायुक्तं मरिचूर्णं तु मिश्रकम् ।
लाजापूपफलं चैव देवदेवस्य दापयेत् ॥ २७ ॥
प्। ४४)
प्रभूतहविषं दत्वा ताम्बूलं तु निवेदयेत् ।
आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥ २८ ॥
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ २८� ॥
इति सूक्ष्मतन्त्रे दीपावलिपटलः ॥