०५

प्। ३५)

अतः परं प्रवक्ष्यामि तीर्थकालस्य लक्षणम् ।
सर्वलोकहितार्थाय सर्वभूतहिताय च ॥ १ ॥

अनावृष्टि विनाशाय सस्यानमपि वृद्धये ।
मसूरिकाविनाशाय राजाराष्ट्र सुखाय च ॥ २ ॥

तस्मिन् सर्वप्रयत्नेन उत्सवं कारयेद् बुधः ।
नृपस्य जन्मनक्षत्रे राष्ट्रजन्मर्क्षकेऽपि च ॥ ३ ॥

ग्रामे तु ग्रामजन्मर्क्षे नगरादौ च जन्मभे ।
यजमानस्य जन्मर्क्षे तेषामन्तेऽपि वा पुनः ॥ ४ ॥

ग्रहणे चैव सङ्क्रान्त्यावथचेनार्चयेत् ततः ।
अथवा मासनक्षत्रे उत्सवं कारयेद् बुधः ॥ ५ ॥

कार्त्तिक्यां कृत्तिकायां तु सर्वसिद्धिप्रदायकम् ।
मार्गशीर्षमासे तु रुद्रान्तं हि धनप्रदम् ॥ ६ ॥

पुष्यमासे तु पुष्यान्तं पुत्रपौत्रविवर्धनम् ।
माघमासे तु माघान्तं पितॄन्स्वर्गं नयेत् सदा ॥ ७ ॥

फाल्गुने चोत्तरायां तु विजयाद्धिदि विशेषतः ।
चैत्रमासे तु चित्रान्तं रिपोनोशनकारणम् ॥ ८ ॥

वैशाखे तु विशाखान्तं कुलत्रयविवर्धनम् ।
ज्येष्ठमासे तु मूलानां राज्ञां कामं दिने दिने ॥ ९ ॥

आषाढमासे वैश्वान्तं भोगाद्धि विजयं भवेत् ।
श्रावणेषु श्रविष्ठान्तं ब्रह्मणः पदमाप्नुयात् ॥ १० ॥

प्। ३६)

प्रोष्ठान्तं भाद्रमासि स्याद् भोगजातिविवर्धनम् ।
अश्विन्यान्तं हि याश्वैजा सर्वरोग विनाशकृत् ॥ ११ ॥

सर्वमासेषु कर्तव्यम् आद्रान्तं व शिवोत्सवम् ।
यस्मिन् संवत्सरे मासि तस्मिन् रक्षे तु कारयेत् ॥ १२ ॥

किञ्चिद्विशेषं वक्ष्यामि तीर्थकालविशेषतः ।
चित्रास्वाति च मेषे तु विशाखामैत्रभं वृषे ॥ १३ ॥

ऐन्द्रमूलर्क्षकन्दे च आषाढे व्याप्यवैष्णवौ ।
श्रावणे विष्णुवस्वर्क्षे भाद्रमासेत्वजैकपात् ॥ १४ ॥

तुलायां भास्करे याते चाश्विन्यां याम्यमेव च ।
कृत्तिका रोहणी चैव कृर्त्तिक्यां तु विशेषतः ॥ १५ ॥

सौम्यं चैव तथा दृचामार्गशीर्षमासके ।
आदित्यपूषौ पुष्ये च सर्पपित्रे च माघके ॥ १६ ॥

फल्गुने चोत्तराहस्ते तीर्थं कुर्यात् तु तेषु वै ।
पौर्णमासि कुहूश्चैव त्रयोदशिचतुर्दशी ॥ १७ ॥

उक्तश्च त्रिथवश्चैव तीर्थभेन युता यदि ।
यस्मिन् काले तु सबन्धे कुर्याद् वै देशिकोत्तमः ॥ १८ ॥

पूर्ववत्सरतीर्थर्क्षं तस्मिन् न हनि तीर्थकम् ।
विनाशेदवभृतं कुर्याश्चेदन्य ऋक्षक ॥ १९ ॥

रात्रौ पर्वर्क्षकं कुर्याद् दिवा ऋक्षं न दोषभाक् ।
योगयुक्ते तथैव स्याद् उपरागं तथैव च ॥ २० ॥

यस्मिन् दिनावा रात्रौ तु अमृत्यद्या भवन्ति चेत् ।
दिवा योगयुते यद्यात् तीर्थं कुर्यात् तु तीर्थभे ॥ २१ ॥

प्। ३७)

न दिवा योगयुक्तोऽपि रात्रौ योगयुतेऽपि वा ।
यस्मिन्नाहनि तीर्थं तु कुर्यादस्तमयात्पुनः ॥ २२ ॥

अपरे भिन्नयोगा स्यात् तीर्थर्क्षेण युतं यदि ।
तस्मिन् दिने ह्यवभृतं कारयेन् न तु बुद्धिमान् ॥ २३ ॥

योगसामर्थ्यरूपेण पूर्वसामर्थ्यकेन वा ।
पूर्वेद्युरेव कर्तव्यं कर्तव्यं चैव योगतः ॥ २४ ॥

एवमेव प्रकारेण योगकाले तु कारयेत् ।
पूर्वोक्ततिथिनक्षत्रे स्वस्वयागा भवन्ति हि ॥ २५ ॥

तेषु कालेषु तीर्थं हि कुर्वैश्च देशिकोत्तमाः ।
तेषु चैकोपि हीनं चेत् तीर्थं चैव न कारयेत् ॥ २६ ॥

उत्सवं च तथा योगं प्रकारेणसमानतः ।
योगयुक्ते दिने काले तीर्थं कुर्याच्छिवोत्सवम् ॥ २७ ॥

अमृते वा सिद्धयोगेष्वेकर्क्षोऽपि गतं यदि ।
अन्येषूत्पातकालेषु कारयेद् देशिकोत्तमः ॥ २८ ॥

कारणं किं विशेषोऽस्ति योगसामर्थ्यस्पतः ।
मधुवा घृतसंयुक्तं यथा विषममाप्नुयात् ॥ २९ ॥

तदेवाह्यमृते नैव योगयुक्तेन निर्मलम् ।
भवन्तीति न सन्देहमिति शास्त्रस्य निश्चयः ॥ ३० ॥

एवमेव विधानेन पूर्वमेव तु लक्षयेत् ।
यस्मात्तज्जन्मनक्षत्रं योगेन सहितं यदि ॥ ३१ ॥

प्। ३८)

तेन तीर्थं महाभद्रमनन्तं फलमश्नुते ।
नाशयोगादिभिर्युक्ते पूर्वारम्भदिने यदि ॥ ३२ ॥

तस्मिन् दिने न कर्तव्यं कर्तव्यं चेतु निष्फलम् ।
पूर्वेणारम्भतीर्थर्क्षे कारयेत् तीर्थमुत्तमम् ॥ ३३ ॥

एवं परीक्ष्य बहुधा कारयेद् देशिकोत्तमः ।
सुमुहूर्ते सुलग्ने तु स्थिराख्ये शुभविक्ष्यते (ऋक्षके) ॥ ३४ ॥

प्रथमारम्भकाले तु एवमेव तु लक्षयेत् ।
उत्तमं देवताभिश्च सहैवाप्यवगाहनम् ॥ ३५ ॥

मध्यमं तद्धृदाद्भिश्च सम्मार्जनमथापरम् ।
तस्मिन् काले जले ग्राह्य गजाश्वादिषु सेचयेत् ॥ ३६ ॥

ध्वजाङ्कुरकृतात्कालादातीर्थान्तं हि बुद्धिमान् ।
तयोरन्तर ऋक्षेषु नृकल्याणं न कारयेत् ॥ ३७ ॥

तेषु यात्रा न कर्तव्या कर्तॄणां क्लेशकृद् भवेत् ।
अवश्यं भवति चेद्यात्रा तीर्थस्याभ्यन्तरे विशेत् ॥ ३८ ॥

विशेषेण प्रवक्ष्यामि ब्राह्मणादेस्तु तीर्थकम् ।
माघफाल्गुनचैत्रेषु वैशाखे ब्राह्मणस्य तु ॥ ३९ ॥

आषाढे श्रावणे चैव तथा वै ज्येष्ठमासिके ।
पुष्यमासे नृपस्यैव ब्राह्मणस्य च तेऽपि च ॥ ४० ॥

आश्वयुक् कृत्तिकामासेर्वैश्यजातेर्विधीयते ।
मार्गश्रीर्षे च हैमन्ते शूद्रस्यैव विधीयते ॥ ४१ ॥

प्। ३९)

एवमुक्तप्रकारेण कारयेद् देशिकोत्तमः ।
माघे चोत्तरनक्षत्रे प्रोष्ठे चैन्द्राग्निकेऽपि च ॥ ४२ ॥

ब्राह्मणस्य प्रकर्तव्यं त्रिष्यश्रवणकेऽपि च ।
मूलपुष्यनृपस्योक्तकार्तिकामश्विनि परे ॥ ४३ ॥

आर्द्रायां पूर्वभाद्रर्क्षे शूद्रस्य च विधीयते ।
सर्वेषामेव जातीनामार्द्रान्तं स्याच्छिवोत्सवम् ॥ ४४ ॥

वैष्णवे च पुनर्वस्वो हस्तेऽपि च तथैव च ।
सप्तम्यां च त्रयोदश्यां द्वादश्यां ब्राह्मणस्य च ॥ ४५ ॥

बुधवारे गुरोर्वारे ब्राह्मणस्य विधीयते ।
अङ्गारके नृपस्योक्तं भास्करे सितवारके ॥ ४६ ॥

वैश्यश्चैव प्रकर्तव्यं शूद्रस्यैव तथापरे ।
पौर्णमास्याममावास्यामष्टम्यां पर्वजातिषु ॥ ४७ ॥

एवमेव विधानेन कारयेत् प्रथमेऽपि च ।
एतेषूक्तेषु कालेषु युगयुक्ते विशेषतः ॥ ४८ ॥

एवमेव विधानेन कारयेदवभृतं पुनः ।
अवभृतस्य तु काले तु राष्ट्रक्षोभादि सम्भवेत् ॥ ४९ ॥

अति वृष्ट्यादिभिवृष्टे तीर्थयात्रा न विद्यते ।
तस्मिन् स्थाने जलं ग्राह्यं महाकुम्भेषु पूरयेत् ॥ ५० ॥

स्नपनोक्त विधानेन तीर्थं कुर्याद् विधानतः ।
होमं बलिं विना कुर्याद् ध्वजारोहणकालके ॥ ५१ ॥

प्। ४०)

तीर्थर्क्षौ द्वौ तु सम्प्राप्ते एकमासे परं वरम् ।
तीर्थर्क्षे द्वे च वारे स्याद् दैविके चैवार्षके तथा ॥ ५२ ॥

ब्राह्मिकं तु तथेव स्यादुक्तमेवं विधिं मतम् ।
अष्टाविंशद् दिनेनैव अष्टादशस्य चोत्तरे ॥ ५३ ॥

तस्मिन्नेव समारम्भे दशमे दिवसे भवेत् ।
प्रोक्ते तु चोत्सवे काले विंशदेकोनके दिने ॥ ५४ ॥

अङ्कुरार्पणकं कुर्यात् तीर्थस्य तु विशेषतः ।
दैवे दशदिने काले अङ्कुरानर्पयेद् बुधः ॥ ५५ ॥

आर्षे चोत्सवे काले दशपञ्चाहके दिने ।
अङ्कुरानर्पयेद् धीमान् द्विगुणे चाष्टमे दिने ॥ ५६ ॥

तद्दिने च समारम्भे अङ्कुरस्यापि चाङ्कुरम् ।
पूर्वोक्तेन तु कालेन अङ्कुरान् सद्यरोपयेत् ॥ ५७ ॥

ब्रह्मिके तु तथैवं स्यादन्यत् सर्वं तथैव च ।
तद्दिनं त्रिगुणं चैव उत्तमं तु प्रकीर्तितम् ॥ ५८ ॥

द्विगुणं मध्यमं चैव तद्दिनं चाधमं भवेत् ।
शान्तिकं त्रिगुणे काले पौष्टिके द्विगुणे दिने ॥ ५९ ॥

तद्दिने कामदं चैव त्रिविधं भेदमुच्यते ।
तद्दिने त्रिगुणे काले अष्टादशदिने तथा ॥ ६० ॥

चतुर्दशदिनै चैव दशमे दिवसे तथा ।
मध्यमस्य तु काले तु दशमे चाष्टमे र * ॥ ६१ ॥

प्। ४१)

तद्दिने च समारम्भे ध्वजाङ्कुरं तु वर्द्धितम् ।
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ॥ ६२ ॥

शैवे शैवं प्रकर्तव्यमन्यत् सर्वं न कारयेत् ॥ ६२� ॥

इति सूक्ष्मतन्त्रे तीर्थकालनिर्णयपटलः ॥