प्। ३१)
अतः परं प्रवक्ष्यामि शिवोत्सवविधिक्रमम् ।
सूचनं सर्वलोकानां शिववक्त्राद्विनिर्गतम् ॥ १ ॥
संवत्सरोत्सवं पूर्वं द्वितीयं मासि चोत्सवम् ।
मार्गशीर्षमासादि षाण्मासं सप्तरात्रिकम् ॥ २ ॥
शेषमासे तु ज्येष्ठादावुत्सवञ्चेत् त्रिरात्रकम् ।
सर्वभूतहितं शान्तं सर्वदोषनिवारणम् ॥ ३ ॥
स्थापने प्रोक्षणे यागे दीक्षान्ते च विशेषतः ।
अयनाद्यस्तु सङ्क्रान्त्यो व्यतिपातेषु जन्मनि ॥ ४ ॥
अतिवृष्टिरानवृष्टौ राष्ट्रक्षोभं तथैव च ।
राजाभिषेके ऋक्षान्ते उत्सवं कारयेद् बुधः ॥ ५ ॥
सवो दुखस्समाख्यातम् उत्सवस्य निवारणम् ।
उद्गतस्तु सवो यस्मात् तस्मादुत्सवमुच्यते ॥ ६ ॥
मार्गशीर्षमासे तु शिवान्तस्यात् शिवोत्सवः ।
पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् ॥ ७ ॥
पितॄन्नुद्दिश्य कुर्वन्ति सर्वे गच्छन्ति चोद्धृताः ।
फल्गुने चोत्तरान्तं तु भवाद्भोगार्थमुच्यते ॥ ८ ॥
चैत्रे शत्रुक्षयं कुर्याद् वैशाखेऽपि तथैव च ।
अन्येषु सर्वमासेषु तत् तन् नक्षत्रके बुधः ॥ ९ ॥
शैवं गौणं प्रभूतं च भावनं दैविकं तथा ।
पैतृकं चैव कौमारं सावित्र्यमिति चाष्टकम् ॥ १० ॥
प्। ३२)
एकाहं शैवनामं स्याद्गौणं त्रियाहमुच्यते ।
पञ्चाहं भावनं प्रोक्तं सप्ताहं च प्रभृतिकम् ॥ ११ ॥
नवाहं दैविकं प्रोक्तं सावित्र्यं पक्षकं विदुः ।
मासोत्सवं भवेन्नाम पैतृकं तत्प्रकीर्त्तितम् ॥ १२ ॥
षाण्मासेन तु कर्तव्यं कौमारमिति कथ्यते ।
उत्सवानां प्रभेदं च नामानि कथितानि वै ॥ १३ ॥
किञ्चिद्विशेषं वक्ष्यामि तीर्थकालं विशेषतः ।
उत्सवं चैव वाद्यं स्यात्प्रमादात्सङ्गतिर्यदि ॥ १४ ॥
दिनमेकं प्रवृद्धं च हीनं चैव न कारयेत् ।
रात्राधिवासनं तीर्थं सामान्यमिति विद्यते ॥ १५ ॥
चूर्णोत्सवादितीर्थान्तं प्रधानं सम्यगीरितम् ।
तस्मिन्काले तु तीर्थर्क्षे युक्तं चैव विशेषतः ॥ १६ ॥
तेन तीर्थं शुभं विद्यात्सर्वेषां च शिवं भवेत् ।
रात्राधिवासनातीर्थे तीर्थर्क्षेचन सम्भवेत् ॥ १७ ॥
तेन तीर्थेषु दोषाय महातीर्थं न दोषकम् ।
तस्मात् सर्वप्रयत्नेन महातीर्थं विशेषतः ॥ १८ ॥
तीर्थसङ्ग्रहणे काले नक्षत्रेऽपि च सम्भवेत् ।
तस्मिन्काले तु तीर्थं स्यात् सर्वसम्पत् समृद्धये ॥ १९ ॥
महातीर्थे तु काले तु तीर्थर्क्षन्न भवेद् यदि ।
तस्मिन् पर्वणि सम्बन्धे तीर्थं कुर्याद् विशेषतः ॥ २० ॥
प्। ३३)
पर्वसामर्थ्यं रूपेण सर्वदोषविनाशनम् ।
पर्वण्यसम्भवे तीर्थं पूर्वेद्युः कारयेद् बुधः ॥ २१ ॥
उत्सवं कृत्तिकादीपं मार्गमासेन कारयेत् ।
तीर्थान्तान्यस्तमे चात्र वनयात्रां समाचरेत् ॥ २२ ॥
बलिहोमौ विना तस्मिन् अन्यत्सर्वं तु पूर्वकम् ।
ध्वजादि तीर्थपर्यन्तम् एकमासे तु मध्यमे ॥ २३ ॥
केतोरारोहणं पूर्वं तस्या नैवोत्सवं यदा ।
अधमन्तं च विख्याति तस्मिन् तीर्थमेव च ॥ २४ ॥
उत्सवस्य च मासे तु तस्मिन्मासे तु तीर्थकम् ।
एवं विधाने कर्तव्यं कारयेद् देशिकोत्तमः ॥ २५ ॥
तदनं त्रिगुणान्ये च द्विगुणान्ये तदाद्यके ।
ध्वजमारोपयेत् पूर्वम् उत्तमं मध्यमाधमम् ॥ २६ ॥
ध्वजोत्थापनपूर्वे तु सप्तमे नवमे निशि ।
अङ्कुरानर्पयेद् विद्वान् शास्त्रदृष्टेन कर्मणा ॥ २७ ॥
अष्टाविंशद् दिने चैव अष्टादशस्य चोत्तरे ।
तद्दिनं च समारम्भे दशमे दिवसे भवेत् ॥ २८ ॥
दैविके चोत्सवे काले विंशदेकोन्नके दिने ।
अङ्कुरार्पणकं कुर्यात् तीर्थस्य तु विशेषतः ॥ २९ ॥
एतद् दिशदिने काले अङ्कुरानर्पयेद् बुधः ।
भौतिके चोत्सवे काले दशपञ्चाहके दिने ॥ ३० ॥
प्। ३४)
अङ्कुरानर्पयेद् विद्वान् द्विगुणे चाष्टमे दिने ।
तद्दिने च समारम्भे अङ्कुरस्यापि चाङ्कुरम् ॥ ३१ ॥
अन्येषु चोत्सवारम्भे कारयेद् देशिकोत्तमः ।
तस्मिन् मासे तु यदृक्षम् उत्सवं कारयेद् यति ॥ ३२ ॥
तस्मिन् मासे तु तदृक्षे उत्सवं कारयेत् सदा ।
अन्यथा कारयेद् यस्तु राजाराष्ट्रं विनश्यति ॥ ३३ ॥
तस्मात् सर्वप्रयत्नेन पूर्वारम्भे तु कारयेत् ।
ध्वजाङ्कुरं बलिं चैव भोजनञ्चाधिवासनम् ॥ ३४ ॥
तीर्थस्नपनचण्डेशयागं चाष्टाङ्गमुत्सवम् ।
भरवञ्चैपताका वा अङ्कुरं बलिरेव च ॥ ३५ ॥
अधिवासनचूर्णादितीर्थस्नपनमुत्तमम् ।
प्रथमं रोपयेत् केतुं द्वितीयं चाङ्कुरार्पणम् ॥ ३६ ॥
यागमण्डपसंस्कारं चतुर्थं वेदिकाणिया ।
पञ्चमं कुण्डसंस्कारं षष्ठं चास्त्रपरिग्रहम् ॥ ३७ ॥
सप्तमं चास्त्रयागं तु अष्टमं चाधिवासनम् ।
चूर्णोत्सवं तु नवमं दशमं चाभिषेचनम् ॥ ३८ ॥
एकादशं स्यात्स्नपनं द्वादशं मूर्तिपूजनम् ।
त्रयोदशं गणयागं चण्डयागं चतुर्दशम् ॥ ३९ ॥
आरोहणं पञ्चदशत्तो यागं परिकीर्तितम् ।
भक्तोत्सवमथ पश्चात् पुष्पयागमतः परम् ॥ ४० ॥
इति सूक्ष्मतन्त्रे उत्सवसूचनपटलः ॥