०३

अथातः सम्प्रवक्ष्यामि निशिपूजाविधिं शृणु ।
सन्ध्यादौ कृतनृत्तं स्यात् सन्ध्यानृत्तमथारभेत् ॥ १ ॥

दारुजं पृथिवी जातं शङ्खचारुछजमुच्यते ।
आग्नेयं लोहजं प्रोक्तं वायव्यं वंशजं भवेत् ॥ २ ॥

गेयं गगनजातं स्यात् तस्माद् भूतात्मिकं मतम् ।
एतानि पञ्चशब्दानि घोषयेत् प्रथमं ततः ॥ ३ ॥

लिङ्गोद्भवादिमूर्तिनां सायरक्षाविधिं शृणु ।
सायरक्षविहीनं च बालानां नाशनं भवेत् ॥ ४ ॥

राजा दुर्जयमाप्नोति शान्तिहोमं ततः कुरु ।
सायं काले प्रयोक्तव्यं नटेशं पूजयेत् ततः ॥ ५ ॥

मूलबेरविधिस्नात्वा प्र * * ह * षं ददेत् ।
श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् ॥ ६ ॥

श्वेतवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ।
एतत्कालं समभ्यर्च्य पूर्वोक्तविधिना सह ॥ ७ ॥

प्। २९)

नित्योत्सवविधिं कुर्याद् अर्धयामे तु पूजनम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषणम् ॥ ८ ॥

चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ।
पूजयेत् चिरशक्तिं स्यात् अर्चनोक्तपदं चरेत् ॥ ९ ॥

पादुकां प्रतिमां वापि पुजयेत् तु विशेषतः ।
पूजयेत् शक्तिमन्त्रेण शिबिकां रोचयेत् ततः ॥ १० ॥

शिबिकान्ते ततः कुर्यात् प्राकारे तु प्रदक्षिणम् ।
नृत्तं च रत्नसङ्ख्या तु नवतालं समाचरेत् ॥ ११ ॥

इन्द्रादीशानपर्यन्तं शुद्धनृत्तं तु मध्यमे ।
इन्द्रादीशानरागं स्यद्रत्नाक नृत्तमेव च ॥ १२ ॥

लिङ्गस्योत्तरभागे तु पद्मपीठे तु विन्यसेत् ।
धूपदीपं हृदा दत्वा आचमनं ददेद् बुधः ॥ १३ ॥

अपूपमुद्गपिण्डं च पायसं गुलखण्डकम् ।
नालिकेरादि क्षीरं च कदलीपनसं क्रमात् ॥ १४ ॥

मुद्गान्नं च गुलान्नं च शुद्धान्नं पायसान्नकम् ।
कृसरान्ननिवेद्यं स्यादेतैः पञ्चान्नमेव च ॥ १५ ॥

गन्धमिश्रेण पानीयं हस्तोद्वर्त्तनमेव च ।
कर्पूरमुखवासं च ताम्बूलं च निवेदयेत् ॥ १६ ॥

धूपदीपादिकं सर्वम् आरात्रिभस्ममेव च ।
द्वारशुद्धिं ततः कृत्वा महालिङ्गं प्रपूजयेत् ॥ १७ ॥

प्। ३०)

द्वारमध्ये तु सम्पूज्य प्रासादेन तु मन्त्रतः ।
दूर्वाक्षत पवित्रेण दर्पणच्छत्रचामरैः ॥ १८ ॥

यथाशक्ति जपं कुर्याद्धस्तं प्रक्षालयेत् सदा ।
भस्मानि दापयेत् शम्भो नृपभक्तजनाय च ॥ १९ ॥

चण्डेशं क्षेत्रपालं च पूजयेत् तु विशेषतः ।
पश्चिमे सोमदिग्भागे शय्यास्थानं प्रकल्पयेत् ॥ २० ॥

शयनयन्त्रं समारोप्य शिवं शक्तिं प्रपूजयेत् ।
पादुका प्रतिमा वापि शयनोपरि विन्यसेत् ॥ २१ ॥

सोमेशमूर्तिं सम्पूज्य सन्निधौ पादुकद्वयम् ।
त्रिणेत्रम् एकवक्त्रं च मृगिपरशुधारणम् ॥ २२ ॥

वामदक्षिणहस्तौ च अभयं वरदं न्यसेत् ।
व्याघ्रचर्माम्बरधरं सर्वाभरणभूषितम् ॥ २३ ॥

स्फटिकं शुद्धतञ्चैव श्वेतपद्मासनस्थितम् ।
गौरीं सम्पूज्य विधिवत् ताम्बूलं तु निवेदयेत् ॥ २४ ॥

राजवदुपचारं हि पुत्रवत्स्नेहमेव च ।
गुरुवद्भक्तिमेवोक्तं सर्पवद्भीतिरुच्यते ॥ २५ ॥

एवं नित्यक्रमेणैव रुद्रनाट्यसपादके ।
एवं नित्य क्रमेणैव स्वगुरुं पूजयेत् ततः ॥ २६ ॥

स्वात्मानं पादमूले तु तर्पयेञ्चुलुकोदकैः ।
विजयं ललितं सूक्ष्मं शिवोत्सवविधि शृणु ॥ २७ ॥

इति सूक्ष्मतन्त्रे निशिपूजाविधिपटलः ॥