सुब्रह्मण्याय नमः । शिवाय नमः ॥
परमगुरुवे नमः ।
माघमासे तु कर्तव्यं घृतकम्बलमेव च ।
घृतकम्बलमित्युक्तं विष्णुप्रीतिकरं भवेत् ॥ १ ॥
संवत्सरादिपूजायां सर्व पूजाफलप्रदम् ।
दिनं प्रति विशेषेण पूजाहीनं तथैव च ॥ २ ॥
शिवरात्रिपूज्यात् तस्मिन् सर्वपूजाफलप्रदम् ।
फाल्गुने दधिसम्पूज्य धनपुत्रविवर्धनम् ॥ ३ ॥
दधि सम्पूजयेद् वह्नि पुरुहृत् प्रीतिरुच्यते ।
विषुवं प्रोक्तमेवं हि मध्याह्ने पूजयेत् तथा ॥ ४ ॥
चैत्रे दमनकं प्रोक्तम् ऋषिणां प्रीतिरुच्यते ।
वैशाखे त्रिफलं पूज्य विघ्नेशं प्रीतिरुच्यते ॥ ५ ॥
प्। २७)
ज्येष्ठमासे तु कर्तव्यमं क्षीराभिषेचनं तथा ।
क्षीराभिषेकमित्युक्तं वत्सगोवर्धनं भवेत् ॥ ६ ॥
सायाह्नपूजनं तस्मादयनेषु विधीयते ।
आषाढे भस्म सम्पूज्य रुद्रप्रीतिकरं भवेत् ॥ ७ ॥
शर्करा श्रवणे पूज्य चन्द्रमाप्रीतिरुच्यते ।
प्रोष्ठे अपूपैः सम्पूज्य स्कन्दप्रीतिकरं भवेत् ॥ ८ ॥
विषु सम्प्रोक्तमेवं हि अर्धयामे तु पूजयेत् ।
आश्विनि चान्नसम्पूज्य ब्रह्मणः प्रीतिरुच्यते ॥ ९ ॥
शिवशक्तिसमुत्पन्नं लोकस्योत्पत्तिकारणम् ।
ओषधिनां विपद्यर्थं बीजदानमिहोच्यते ॥ १० ॥
आत्मसृष्टिकरं प्रोक्तं सौख्यं लवणदापनम् ।
कन्यानां वस्त्रदानं स्यात् स्वर्णदानं तु कन्यकाम् ॥ ११ ॥
सुवर्णं लोकरक्षार्थं वस्त्रपुत्रविवर्धनम् ।
गौरियानं भवेत् तस्मात् सर्वप्राणिहितावहम् ॥ १२ ॥
कृत्तिकामासमेवोक्तं दीपपूजनमेव च ।
भूसुरे तु प्रसादं हि महाज्वालाधरं हरम् ॥ १३ ॥
लाजोपचारमेवोक्तं कृत्तिकादीपमेव च ।
घृतस्नानं भवेत् तस्मान्मार्ग मासे तु कथ्यते ॥ १४ ॥
घृतस्नानमिदं प्रोक्तं सर्वपापनिकृन्तनम् ।
डोलारोहणमेवोक्तं गौरीलीलाविधिक्रमम् ॥ १५ ॥
प्। २८)
शिवशक्तिसमोपेतं डोलारोहणमेव च ।
पुष्यमासादि पूजा या माघमासान्तमेव च ॥ १६ ॥
इति सूक्ष्मतन्त्रे नैमित्तिकाण्डे घृतकम्बक पूजाविधिपटलः ॥