सूक्ष्मागम - आर्चनविधिः ।
आसुवाहमखिलस्य नायकं
कारणात्कलभवक्त्रसंस्थितम् ।
प्रातरेव सततं नमाम्यहं
पारिजातमिव पार्वतीसुतम् ॥
अथातः सम्प्रवक्ष्यामि शिवपूजाविधिक्रमम् ।
आत्मार्थं च परार्थं च द्विविधं यजनं मतम् ॥ १ ॥
शिवव्रत द्विजातीनामात्मार्थं तु प्र * यते ।
दीपान्तं च हविष्यान्तं द्विविधो विधिरुच्यते ॥ २ ॥
आर्यदेशोद्भवस्योक्तं शिवद्विजपरार्थकम् ।
प्रधानं सर्वदीक्षासु शिवदीक्षा विशिष्यते ॥ ३ ॥
तस्माच्छिव द्विजाश्चास्मिन् सर्वान् देवान् प्रपूजयेत् ।
चतुर्विधं समाख्यतं दीपान्तं हविरन्तकम् ॥ ४ ॥
बलयन्तमथ नृत्तान्तं यथाविभवविस्तरम् ।
शौचमाचमनं स्नानं भस्मस्नानं च तर्पणम् ॥ ५ ॥
कवाटोद्घाटनं पश्चाद् रेचकादि त्रयं तथा ।
अङ्गन्यासकरन्यासं महातत्त्वादिलक्षणम् ॥ ६ ॥
तेषां तु मण्डलं वर्णं धि देवोच्चारणाक्षरम् ।
ग्रन्थिनश्छेदनं पश्चाद् भूतशुद्धौ तु सम्भवम् ॥ ७ ॥
प्। २)
आत्मशुद्धिं कलान्यासं पुष्पभेदं शुभाशुभम् ।
द्वारपूजां तथा पश्चात् स्थान शुद्धिमतः परम् ॥ ८ ॥
द्रव्याणां पात्रशुद्धिं च अभिषेकस्य लक्षणम् ।
पाद्यमाचमनं चार्घ्यं गन्धद्रव्यस्य लक्षणम् ॥ ९ ॥
वीशीतारिं चार्घ्य कालं च त्रिगन्धं चाष्टपुष्पकम् ।
सप्तवायुर्पाचारयत् महाघण्टाप्रताडनम् ॥ १० ॥
प्रच्छन्नपटकालं यल्लिङ्गशुद्धिमतः परम् ।
मुखं पादं च पृष्ठं च पीठशुद्धिमतः परम् ॥ ११ ॥
आसनं तस्य कालं च मुद्रा कालमतः परम् ।
पञ्चावरणपूजां च तेषां वर्णाकृतिं ततः ॥ १२ ॥
पीथपूजां तदन्ते तु जाति भेदेन संयुताम् ।
कवाटो दुम्बर विधिं धूपधीपविधिं ततः ॥ १३ ॥
नीराजन विधिं चैव नैवेद्यं चाग्नि कार्यकम् ।
परिवारार्चनं चैव सर्वदेवार्चनं ततः ॥ १४ ॥
तेषां तु लक्षणं वर्णा भक्तपूजां च लक्षणम् ।
नित्योत्सवं ततः पश्चात् पादुकाभ्यर्चनं तथा ॥ १५ ॥
घटिकालक्षणं चैव पूजाफलमतः परम् ।
इत्येवमादिकाः सर्वा यो विन्दति स पूजकः ॥ १६ ॥
शिवं स्मरन्नुषः काले दण्डपाणिः शिवाग्रजः ।
गत्वाग्रामाद्बहिः पश्चात् विण्मूत्रादि विसर्जयेत् ॥ १७ ॥
प्। ३)
कर्णमूले करे वाथ उपवीतं न्यसेद् बुधः ।
रविं दक्षणतः कृत्वा दक्षिणाभिमुखो निशि ॥ १८ ॥
भूतले तृणमादाय ऋजुकायो न वाचयन् ।
प्रत्यादित्यजलाग्नीनां चन्द्र गो ब्राह्मणान् प्रति ॥ १९ ॥
देवालय समीपे च कूपे कोष्ठे च भस्मनि ।
क्षेत्रेषु वृक्षच्छायायां नद्यामन्तः सरस्सु च ॥ २० ॥
चैत्ये वृक्षसमीपे वा वेलायां वा महोदधः ।
नक्षत्रे चन्द्रमये चैव न कुर्यादुभयं नरः ॥ २१ ॥
मृत्पिण्डं दक्षिणे हस्ते गृहीत्वा शिश्नमध्यतः ।
जलतीरे समागम्य शौचं पश्चात् समाचरेत् ॥ २२ ॥
अक्षमात्र मृदाशिश्नं पश्चाधा गुदशोधनम् ।
पञ्चधापादहस्तौ च त्रिधा चैव प्रशोधयेत् ॥ २३ ॥
विसर्ज्य तीरमन्यत्र चरेदाचमनं बुधः ।
सपवित्रकरः कुर्यात् त्रिभिर्दर्भैस्तु पञ्चभिः ॥ २४ ॥
दक्षिणवर्तग्रथितं पवित्रं चतुरङ्गुलम् ।
स्थले तु दक्षिणं पादं कृत्वा वामां जले स्थितम् ॥ २५ ॥
गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् ।
यथा त्रिवारं पीत्वा तु ऋग्यजुःसाममन्त्रकैः ॥ २६ ॥
अङ्गुष्ठेन स्पृशेदास्यं मुखं हस्तेन संस्पृशेत् ।
श्रोत्रेङ्गुष्ठे कनिष्ठाभ्यां बाह्याङ्गुष्ठेन संस्पृशेत् ॥ २७ ॥
प्। ४)
स्पृष्ट्वा नाभिं कनिष्ठेन चाङ्गुष्ठेन स्पृशेद्धृदि ।
मूर्ध्नि सर्वाङ्गुलिभिस्तु पञ्चप्रह्यषडङ्गकैः ॥ २८ ॥
शौचमाचमनं प्रोक्तं पश्चात् स्नानं समाचरेत् ।
स्नानाद्धि मृदमादाय विन्यसे दक्षिणाधिकम् ॥ २९ ॥
अस्त्रेण प्रोक्षयेत् पश्चात् त्रिधा कृत्वाभिमन्त्रयेत् ।
कवचेन ब्रह्म तीर्थाभि मन्त्र क्रमेण तु ॥ ३० ॥
उत्तरेण मृदा पूर्वमष्टदिक्षु क्रमेण तु ।
दक्षिणेन मृदा चास्सु शिवतीर्थं प्रकल्पयेत् ॥ ३१ ॥
मूध्नादि वक्त्रपादान्तं संस्पृशेन्मध्यमं हृदा ।
पश्चात् स्नानं प्रकुर्वीत चरेदाचमनं बुधः ॥ ३२ ॥
कलशमुद्रां बध्वा तु स्नापयेन् मन्त्रसंहितैः ।
माषमग्नं तु यद्वारि तत् तन् मन्त्रैः पिबेद् बुधः ॥ ३३ ॥
दधिक्रामन्त्रमनुस्मृत्य प्रोक्षयेच्छिरसि क्रमात् ।
द्विजानां दक्षिणे हस्ते पञ्चतीर्थं प्रचोदितम् ॥ ३४ ॥
सूर्यस्य चोदकं दद्यात् प्राणायामं तु धारयेत् ।
सावित्र्याष्टशतं जप्त्वा उपस्थानं समाचरेत् ॥ ३५ ॥
देव ऋषि पितॄणां च पश्चतर्पणमाचरेत् ।
कनिष्ठमध्यरेखाभिः तर्पयेत् सुरतृप्तये ॥ ३६ ॥
अङ्गुल्यग्रे ऋषीणां च तत् तन् मन्त्रमनुस्मरन् ।
अङ्गुष्ठतर्जनीमध्ये पितृतर्पण माचरेत् ॥ ३७ ॥
प्। ५)
ब्राह्ममङ्गुष्ठमूले तु अग्नितीर्थं तथा तले ।
पाद प्रक्षालनं कृत्वा पश्चादाचमनं चरेत् ॥ ३८ ॥
पालाशपद्मपत्रे वा गोशालां सम्प्रविश्य च ।
सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत् ॥ ३९ ॥
अघोरेण दहेत् सर्वं वक्त्रमन्त्रेण सङ्ग्रहेत् ।
भस्मं तु ब्रह्मविद्याङ्गैः पत्रामत्रैश्च विन्यसेत् ॥ ४० ॥
मन्त्रैश्च संस्कृतं भस्म श्रोत्र्याङ्गाराजतं तु या ।
प्रविशेदालयं पश्चादाचार्यस्तु समाहितः ॥ ४१ ॥
कवाटे मृदमभ्यर्च्य तन्मध्ये च स्वनामतः ।
अघोरास्त्रं समुच्चार्य कवाटोद् घाटनं क्रियात् ॥ ४२ ॥
पूजान्ते रुद्रमभ्यर्च्य कवचेन तु बन्धयेत् ।
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः ॥ ४३ ॥
भस्म स्ववामपाणौ तु निक्षिप्यास्त्रेण शोधयेत् ।
शिवमन्त्रशतं जप्त्वा भस्मना स्नानमाचरेत् ॥ ४४ ॥
भस्मेति कीर्तितं नॄणां पापसम्भाषणात् सदा ।
दशदिग्बन्धनं कृत्वा अस्त्रेणैव तु देशिकः ॥ ४५ ॥
करपूजा प्रकर्तव्या गन्धपुष्पादिना पुरा ।
पूरकं कुम्भकं चैव रेचकं पूर्वमभ्यसेत् ॥ ४६ ॥
औदर्यं वायुमङ्गुल्या नासिकां पीड्य रेचयेत् ।
द्रुतिवत् पूरयेत् सम्म्यक् जठरं बाह्यवायुना ॥ ४७ ॥
प्। ६)
पूरकं तु समाख्यातं पश्चात् कुम्भकमभ्यसेत् ।
अन्तर्बहिस्थितं वायुं न गृह्णानि न मुञ्चति ॥ ४८ ॥
पूर्णकुम्भमयं यस्मात् तस्मात् कुम्भकमुच्यते ।
द्वादशेन तु मात्रेण रेचकादीन् तथाभ्यसेत् ॥ ४९ ॥
अङ्गन्यासं करन्यासं त्रिविधं समुदाहृतम् ।
ब्रह्मचारि गृहस्थानां सृष्टिश्च स्थितिरेव च ॥ ५० ॥
वानप्रस्थ यतिनां च संहारं तत्प्रशस्यते ।
दक्षिणादि कनिष्ठान्तमङ्गुष्ठान्तं तु वामतः ॥ ५१ ॥
दशबीजं न्यसेत् सृष्टि स्थिति न्यासं समाचरेत् ।
दक्षिणाङ्गुष्ठमादि स्यात् कनिष्ठादि तथोतरे ॥ ५२ ॥
पञ्चब्रह्मं न्यसेत् पश्चात् संहारन्यासमाचरेत् ।
वामाङ्गुष्ठमथादि स्याद् दक्षिणाङ्गुष्ठमन्ततः ॥ ५३ ॥
शिवाङ्गं विन्यसेत् पश्चादस्त्रं हस्ततले न्यसेत् ।
करन्यासमिदं प्रोक्तमङ्गन्यासं ततः परम् ॥ ५४ ॥
मूर्ध्नादि पादपर्यन्तं सृष्टिन्यासमुदाहृदम् ।
मूर्ध्नि वक्त्रे च हृदये गुह्ये पादे यथाक्रमम् ॥ ५५ ॥
ईशानादिनि सद्यान्तं पादादि संहृदि भवेत् ।
पादे गुह्ये च हृदये वक्त्रे मुर्ध्नि च विन्यसेत् ॥ ५६ ॥
सद्यादीशानपर्यन्तं हृदयादि स्थितिर्भवेत् ।
हृदये हृदयं न्यासं शिरः शिरसि विन्यसेत् ॥ ५७ ॥
प्। ७)
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्त प्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ॥ ५८ ॥
स्थितिन्यासमिदं प्रोक्तं पृथिव्यादि न्यसेद् बुधः ।
पृथिव्यादि महातत्वे स्थितं तत्त्वं समासतः ॥ ५९ ॥
पृथिव्याय मण्डलं पण्यं धिदेवोच्चारणाक्षरम् ।
वक्ष्ये पृथक् पृथक् न्यासम् अङ्गुष्ठादि यथाक्रमम् ॥ ६० ॥
चतुरश्रमण्डलं हेमं पृथ्वि ब्रह्माधिदेवतम् ।
अङ्गुष्ठादि च जान्वन्तं पञ्चोच्चार्यं तु ह्यान्यसेत् ॥ ६१ ॥
धनराकृत् सितं वण्यं विष्णुश्चाधिपतिः स्मृतः ।
जान्वादिनाभिपर्यन्तं ह्विं चेति चतुरस्ततः ॥ ६२ ॥
त्रिकोणं सप्तशिख्युक्तं रक्तं रुद्राधिदेवतम् ।
नाभ्यादि चैव कण्ठान्तं हौं चेति त्रिसमुच्चरेत् ॥
षट्कोणवायुदैवत्यं कृष्णमीश्वरकारणम् ।
वायुमण्डलमेवोक्तं ह्यैं चेति द्विसमुच्चरेत् ॥ ६४ ॥
कण्ठादि च ललाटान्तं विन्यसेत् तु विशेषतः ।
धूम्रं वृत्तं तथाकाशं मण्डलं तु सदाशिवम् ॥ ६५ ॥
ललाटादि शिखाग्रान्तमेकोच्चार्यं शिवोत्तरम् ।
पृथिव्या लक्षणं प्रोक्तं पञ्चग्रन्थिस्तु छेदयेत् ॥ ६६ ॥
मेढ्रग्रन्थिस्तु पूर्वं स्यात् नाभिग्रन्थि द्वितीयकम् ।
त्रितीयम् उदरग्रन्थि गलग्रन्थि चतुर्थकम् ॥ ६७ ॥
प्। ८)
पञ्चमं तु शिरोग्रन्थि शिवास्त्रेणैव छेदयेत् ।
ग्रन्थिच्छेदमिदं प्रोक्तमात्मशुद्धिं तु कारयेत् ॥ ६८ ॥
योजयेत् पूर्वमात्मानं हंसेन हृदयेन च ।
शिखाग्रे द्वादशाङ्गुल्या शुद्धस्फटिकसन्निभे ॥ ६९ ॥
संहारमुद्रया पश्चाद् ध्यात्वा तच्छुष्कदारुवत् ।
अग्निमण्डलसंयुक्तम् अग्निबीजेन दाहयेत् ॥ ७० ॥
पादाङ्गुष्ठादिकान्तं च ज्वलादि परिवेष्टितम् ।
भस्माकारमिदं ध्यात्वा अमृते प्लावयेत् ततः ॥ ७१ ॥
चन्द्रमूध्निह्यधस्तात्तु प्रणवाब्जमधोमुखम् ।
अमृतं चिन्तयेद् भिन्ने सौषुम्ने मस्तके शुभे ॥ ७२ ॥
आत्मानमानयेत् तत्र हंसे नैव तु मन्त्रयेत् ।
सर्वज्ञानमयं देवं सर्वदेवमयं शुभम् ॥ ७३ ॥
एवं संयोज्य विधिवत् सर्वमृत्युविनाशनम् ।
अङ्गन्यासं ततः कुर्यात् मूर्ध्नादीशानपूर्वकम् ॥ ७४ ॥
अष्टत्रिंशत्कलान्यासं मूर्ध्नादि परिकल्पयेत् ।
ईशानं पञ्चमूर्ध्नि स्यात् पुरुषं वदनेषु च ॥ ७५ ॥
प्रणवञ्चोर्ध्व वक्त्रे तु न्यसेत् पूर्वादितः क्रमात् ।
हृग्रीवयोस्तथाचासे जठरे नाभिपृष्ठयोः ॥ ७६ ॥
उरसि स्यादघोरेण पश्चाद्गुदे तथैव च ।
लिङ्गे चोर्वोस्तथा जान्वोः जङ्घयोः स्फिक्प्रदेशतः ॥ ७७ ॥
प्। ९)
कटिपार्श्वेष्वथ न्यासं वामदेवेन वै बुधः ।
पादौ पाण्यौस्तथा घ्राणे शिरो बाहू तु सद्यतः ॥ ७८ ॥
शिवोऽहमिति सम्भाव्यमन्तर्यागं ततः शृणु ।
हृदयाब्जे न्यसेद् देवं प्रणवाकारमीश्वरम् ॥ ७९ ॥
अर्चयेत् तु विधानेन अष्टत्रिंशत् कलैर्युतम् ।
अङ्गुष्ठमात्रमचलं शिवविद्याङ्गसंयुतम् ॥ ८० ॥
नाभौ होमं प्रकुर्वीत ललाटे सर्वतोमुखम् ।
ध्यायेत् तत्रेश्वरं सम्यगन्तर्यागमिदं क्रमात् ॥ ८१ ॥
पञ्चावरणकं वापि त्रिकमेकमथापि वा ।
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् ॥ ८२ ॥
द्रोणमन्दारपुन्नागा श्वेतार्कश्वेतपत्रकम् ।
नन्द्यावर्त्तं श्रियावर्तं महाद्रोणं च सात्विकम् ॥ ८३ ॥
करवीरं रक्तपद्मं पाटली बृहती तथा ।
रक्तोत्पलानि पुष्पाणि राजसानि विनिर्दिशेत् ॥ ८४ ॥
चम्पकारग्वधे चैव कर्णिकाद् धूधूमेव च ।
मिश्रकानि समाख्यातं विष्णुक्रान्त्युपलानि च ॥ ८५ ॥
तामसानि समाख्यातं वकुलं शीर्षकेतकी ।
करं च बन्धूकः करमुदः डाडिमी किंशुकादयः ॥ ८६ ॥
लाङ्गली चैव बृहती जपापुष्पाणि वर्जयेत् ।
अपक्वादीनि मुकुलं लूतसूत्रवृतानि च ॥ ८७ ॥
प्। १०)
स्वयं पतितपुष्पाणि सञ्चितान्यपि वस्त्रके ।
एकाहोषितपुष्पाणि वर्जयेत् तु प्रयत्नतः ॥ ८८ ॥
पुष्पशुद्धिः समाख्याता द्वारपूजां समारभेत् ।
वृषभगायत्रिमन्त्रेण शिवाग्रे वृषभं यजेत् ॥ ८९ ॥
द्वारोर्ध्वे दक्षिणे भागे गणेशं सम्प्रपूजयेत् ।
द्वारोर्ध्वे वामपार्श्वे तु सरस्वतीं प्रपूजयेत् ॥ ९० ॥
द्वारोर्ध्वे मध्यमे चैव श्रीदेवीं सम्प्रपूजयेत् ।
द्वारस्य दक्षिणे पार्श्वे गङ्गानन्दिनमर्चयेत् ॥ ९१ ॥
द्वारस्य वामे यमुनां महाकालं प्रपूजयेत् ।
तत्तत् स्वनाममन्त्रेण गन्धपुष्पादिभिर्यजेत् ॥ ९२ ॥
स्थानशुद्धिं ततः कुर्याद् गोमयेनानुलेपयेत् ।
चतुरश्रमण्डलं कृत्वा त्रितलं च हृदा बुधः ॥ ९३ ॥
क्षितिं पूज्य विधानेन दिग्बन्धं चास्त्रमन्त्रतः ।
स्थानशुद्धिरिति ख्यातः पाद्याचमनपात्रकम् ॥ ९४ ॥
अर्घ्यपात्रं शरावं च शङ्खभाण्डं विशोधयेत् ।
कलशं हृदये नैव कवचेनावकुण्ठयेत् ॥ ९५ ॥
वस्त्रपूतेन तोयेन वर्धनीं च प्रपूरयेत् ।
पञ्चब्रह्मषडङ्गैश्च पात्रे मन्त्रैश्च तज्जलैः ॥ ९६ ॥
सुरभिमुद्रां बध्वा तु शिवाम्भश्चेति भावयेत् ।
अष्टद्रोणजलैश्चापि तदर्धार्धजलै क्रमात् ॥ ९७ ॥
प्। ११)
सर्वगन्धसमायुक्तमभिषेकं समाचरेत् ।
प्रोक्षयेत् सर्वपात्राणि हृन्मन्त्रेण शिवाम्भसा ॥ ९८ ॥
पाद्यादिसर्वपात्राणि साधयेत् तु विशेषतः ।
यवसिद्धार्थदूर्वाश्च चन्दनोशीरसंयुताः ॥ ९९ ॥
पाद्यद्रव्यं भवेदेतन्निम्बुजातिफलैर्युतम् ।
एलालवङ्गकर्पूरं षङ्गाचमनं भवेत् ॥ १०० ॥
तिलैः पुष्पकुशाग्रैश्च अद्भिः क्षीरयवैस्तथा ।
तण्डुलैः सर्षपोपेतमर्घ्यमेतत् प्रकीर्तितम् ॥ १०१ ॥
मयेयरूपसन्त्यागादाक्तशक्तिस्वरूपतः ।
शिवयोग्यं भवेद् द्रव्यं सा क्रिया द्रव्यशोधिनी ॥ १०२ ॥
कुङ्कुमं चन्दनं कुष्ठं कर्पूरागरुमिश्रितम् ।
गन्धद्रव्यमिदं प्रोक्तं शीतारि चाधुनोच्यते ॥ १०३ ॥
त्रिगुणं चन्दनं प्रोक्तं निर्यासं द्विगुणं भवेत् ।
अगुरुं चैकभागं स्यात् किञ्चित् कर्पूरमिश्रितम् ॥ १०४ ॥
शीतारिद्रव्यमेवोक्तमधुना प्लावितं तु वै ।
आवाहने च पूजान्ते विसर्जनान्ते योजयेत् ॥ १०५ ॥
अर्घ्ये विलेपने स्नाने त्रिषु गन्धं सुयोजयेत् ।
आवाहने तथा चार्घ्येन स्नाने धूपे विलेपने ॥ १०६ ॥
निवेदने विसर्जे च पुष्पमष्टसुयोजयेत् ।
आवाहने तथा चार्घ्ये पाद्ये स्नाने तथैव च ॥ १०७ ॥
प्। १२)
आचमने च नैवेद्ये विसर्जे सप्तवारि च ।
आवाहनं पुराप्रोक्तं स्थापनार्घ्ये तथैव च ॥ १०८ ॥
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।
विसर्गाचमीये च उपचारा दश स्मृताः ॥ १०९ ॥
गन्धपुष्पेण संयोज्य पुष्पं गन्धेन योजयेत् ।
धूपदीपेन संयोज्य दीपं धूपेन योजयेत् ॥ ११० ॥
द्रव्यशुद्धिः समाख्याता मन्त्रशुद्धिरतः परम् ।
नमः स्वाहा वषड्वौषट् स्वाहान्तं प्रणवादिकम् ॥ १११ ॥
उपांशूच्चार्य चाभ्यर्च्येत् वाचकीं होमकर्मणि ।
मनसान्तरजप्ये तु सर्वमन्त्रमुदाहृतम् ॥ ११२ ॥
मन्त्रशुद्धिः समाख्यातो लिङ्गशुद्धिरतः परम् ।
अभिषेके च धूपे च नैवेद्ये लिङ्गकर्मणि ॥ ११३ ॥
विसर्जने समाप्तौ तु महाघण्ठां प्रताडयेत् ।
पापिष्ठकुष्ठरोगार्तनास्तिकनामदर्शयेत् ॥ ११४ ॥
तत्काले तु प्रयोक्तव्यं प्रच्छन्नपटमुत्तमम् ।
पूजापर्युषितं पुष्पं हृदयेन विसर्जयेत् ॥ ११५ ॥
तत्पुष्पं सङ्गृहीत्वा तु चण्डेशं चार्चयेद् बुधः ।
लिङ्गपीठस्थलं सर्वं शुद्धं कृत्वा शिवाम्भसा ॥ ११६ ॥
अस्त्रेण शोधयेत् सर्वं मूर्ध्निपुष्पं सदा भवेत् ।
गन्धपुष्पादिना पूज्य लिङ्गे सर्वाङ्गमुद्धरेत् ॥ ११७ ॥
प्। १३)
सूत्राग्रे मुखमेवं स्याद्वक्त्रमन्त्रेण संस्पृशेत् ।
सूत्रपार्श्वे तु पार्श्वं स्यादघोरेण तु संस्पृशेत् ॥ ११८ ॥
संस्पृशेल्लिङ्गमानर्च्य लिङ्गशुद्धिर्यथा क्रमम् ।
महापट्टिद्विपादान्तं देव्यङ्गानि तु संस्पृशेत् ॥ ११९ ॥
पीठशुद्धिरियं प्रोक्ता कल्पयेदासनत्रयम् ।
आग्नेयादिषु कोणेषु धर्मज्ञानानि विन्यसेत् ॥ १२० ॥
स्वनामाद्यक्षरेणैव सिंहरूपं त्रिणेत्रकम् ।
शुक्लं रक्तं तथा पीतं कृष्णं सिंहस्य रूपकम् ॥ १२१ ॥
अधर्मादि चतुर्दिक्षु विन्यसेत् तु विशेषतः ।
तन्मध्ये चन्द्रमाच्छाद्य समगात्रैरुपस्थितम् ॥ १२२ ॥
एवं सिंहासनं कल्प्य स्वनामन्त्रेण पूजयेत् ।
अव्यक्तो नियतः कालः कलाश्चेति चतुष्टयम् ॥ १२३ ॥
चतुष्कोणेषु सर्वेषु विन्यसेद् वृत्तयेद् बुधः ।
एवं योगासनं कल्प्य पद्मासनमतः परम् ॥ १२४ ॥
मूलं नालाष्टपत्रं च कर्णिका केसरान्वितम् ।
पार्थिवं तस्य मूलं स्याद्विष्णुबीजं स्वनालकम् ॥ १२५ ॥
नवशक्त्याष्टकदलं कर्णिकासूर्यमण्डलम् ।
बीजं शङ्खनिभं नालं वैडूर्यं मणिसन्निभम् ॥ १२६ ॥
दलानि सर्वरत्नानि शातकुम्भं तु कर्णिका ।
तत् तद् बीजेन संयोज्य पद्मासनमिदं क्रमात् ॥ १२७ ॥
प्। १४)
स्नाने चावाहने काले कल्पयेत् सिंहमासनम् ।
नैवेद्यार्चनकाले तु कल्पयेत् पद्ममासनम् ॥ १२८ ॥
पश्चाद्योगासनं कल्प्य विसर्जन विशेषतः ।
काष्ठादिचयने वह्नि तथावाहनमुच्यते ॥ १२९ ॥
विमुखीकरणं तस्य ततोद्वासनमुच्यते ।
आवाहनोद्वासने च शिवलिङ्गे न कारयेत् ॥ १३० ॥
आवाहनाख्यमुद्रेण शान्तमुद्रेण विन्यसेत् ।
सान्निध्यं ध्वजमुद्रेण पञ्चमुद्रां प्रकल्पयेत् ॥ १३१ ॥
पूजयेल्लिङ्गमुद्रेण निष्ठुरेण निरोधयेत् ।
सद्येनावाह्य वामेन स्थापयेत् तु निरोधनम् ॥ १३२ ॥
अघोरेण तु सान्निध्यं पुरुषेण विचक्षणम् ।
एवं सङ्कल्प्य विधिना पूजयेत् परमेश्वरम् ॥ १३३ ॥
अक्षपञ्चदशोपेतं पञ्चवक्त्रं सदाशिवम् ।
दशबाहुधरं दिव्यं दशायुधधरं शुभम् ॥ १३४ ॥
शुद्धचन्द्रनिभं देवं सर्वाभरणभूषितम् ।
दिव्याम्बरधरं सौम्यं दिव्यगन्धानुलेपनम् ॥ १३५ ॥
उमया सहितं देवं सर्वावयवसुन्दरम् ।
शूलं वज्रं च खड्गं च शक्त्याभीती च दक्षिणे ॥ १३६ ॥
पाशाङ्कुशौ च नागं च घण्टां वह्निं च वामके ।
एवं ध्यात्वा तु मनसा पादयोः पाद्यमादिशेत् ॥ १३७ ॥
प्। १५)
मुखेष्वाचमनं दद्याच्छिरस्यार्घ्यं निवेदयेत् ।
पूर्वमीशानमूर्तिः स्यात् ऐश्वरी दक्षिणे तथा ॥ १३८ ॥
ब्रह्ममूर्तिस्तु वारुण्यां शिवमूर्तिस्तथोत्तरे ।
सदाशिवा तदूर्ध्वे तु पञ्चमूर्तिरिति स्मृता ॥ १३९ ॥
पूर्वोक्तशिवतोयैश्च स्नापयेत् परमेश्वरम् ।
ईशानेन तु मन्त्रेण त्रियम्बकेनाभिषेचनम् ॥ १४० ॥
अभिषेकान्तरे कुर्यात् पञ्चगव्यं तु देशिकः ।
कुडुबाज्य दधिप्रोक्तं द्विगुणं त्रिगुणं पयः ॥ १४१ ॥
चतुर्गुणं गोमयं च गोमूत्रं षड्गुणं भवेत् ।
प्रत्येकमाढकं वाथ पाद्यादि स्नपयेत् क्रमात् ॥ १४२ ॥
गन्धपुष्पहिरण्यादि दद्याद्रत्नोदकं तथा ।
वस्त्रोत्तरीयोपवीतानि गन्धं पुष्पं सुधूपकम् ॥ १४३ ॥
दीपनैवेद्यताम्बूले सक्षीरेणैव दापयेत् ।
मकुटं कुण्डलं हारं केयुरं कटिसूत्रकम् ॥ १४४ ॥
सर्वमाभरणं चैव दर्पणं च हृदा बुधः ।
एवं पूज्यविधानेन पश्चादावरणे यजेत् ॥ १४५ ॥
गर्भवरणयज्ँआन्ते विद्येशावरणं यजेत् ।
आसनावरणं स्थायि विधिना चैव पूजयेत् ॥ १४६ ॥
कर्णिकायाश्च मूले तु गर्भावरणमर्चयेत् ।
कुङ्कुमद्युति सङ्ङ्काशं वक्त्रमन्त्रेण पूजयेत् ॥ १४७ ॥
प्। १६)
हृदयं शङ्खनिभं विद्यादञ्जनाभमघोरकम् ।
श्यामवर्णशिखां पश्चात् सद्यं श्वेताकृतिं ततः ॥ १४८ ॥
क्षृणाभं कवचं विद्यात् रक्ताभं वाममेव च ।
धूम्रभासं शिरोविद्याद् इशानेनैव पूजयेत् ॥ १४९ ॥
शुद्धस्फटिक सङ्काशम् इशानं कर्णिके तथा ।
इशाने पूजयेन्नेत्रं तरुणादित्य सन्निभम् ॥ १५० ॥
दिक्षु सम्पूजयेदस्त्रं विद्युत्सदृशविग्रहम् ।
त्रिणेत्राश्चतुर्भुजा सर्वे षडङ्गं पञ्चमूर्तयः ॥ १५१ ॥
जटामकुटसंयुक्तसर्वाभरण भूषिताः ।
तत्तद्वर्णनिभैर्वस्त्रैस्त्रिशूलपरशूज्वलाः ॥ १५२ ॥
एवमेव क्रमेणैव भावयित्वा प्रपूजयेत् ।
माहेशं स्ताशिवं मध्ये हृदयेन तु कर्णिकाम् ॥ १५३ ॥
मध्यमे शिवतत्त्वं तु आत्मतत्त्वं तु दक्षिणे ।
इष्टोत्तरे तथा विद्याद्धृदयेन तु मन्त्रवित् ॥ १५४ ॥
गर्भावरणमेवोक्तं विद्येशावरणं यजेत् ।
जपापुष्पनिभोऽनन्तः पूजयेद्गन्धपुष्पकैः ॥ १५५ ॥
त्रिमूर्तिं रक्तशोभं च सूक्ष्मं वै ह्यरुणप्रभम् ।
श्रीकण्ठमुत्पलाभासं शिवोक्तं चैन्दुसन्निभम् ॥ १५६ ॥
शिखण्डिपुष्परागं स्यादेकनेत्रारुणप्रभम् ।
कुन्दपुष्पनिभाकारम् एकरुद्रं यथाक्रमम् ॥ १५७ ॥
प्। १७)
एवं विद्येश्वराः सर्वे त्रिणेत्राश्च चतुर्भुजाः ।
सर्वाभरणसंयुक्ता जटामकुटभूषिताः ॥ १५८ ॥
परश्शूलधराः सर्वे तत् तन् मन्त्रेण पूजयेत् ।
नन्दिनं त्वञ्जनाभासं दण्डहस्तं त्रिलोचनम् ॥ १५९ ॥
चतुर्भुजधरं पश्चान्महाकालं रक्तवर्णकम् ।
त्रिणेत्रं चतुर्भुजं चैव शूलहस्तं महाबलम् ॥ १६० ॥
वृषभं नीलवर्णं च विघ्नेशं धूम्रवर्णकम् ।
त्रिणेत्रं चतुर्भुजं शूलं दन्तपाशाङ्कुशैर्युतम् ॥ १६१ ॥
भृङ्गीशं कुन्दवर्णाभं चतुर्बाहुं त्रिलोचनम् ।
रक्तवर्णं कुमारं स्याच्छक्तिहस्तं तु षण्मुखम् ॥ १६२ ॥
द्वादशाक्षं चतुर्बाहुं सर्वाभरणसुन्दरम् ।
उमा जाम्बूनदाभासा हस्ते कुसुमधारिणि ॥ १६३ ॥
द्विनेत्रा सुन्दराकारा पीनोन्नत पयोधराम् ।
वैडूर्यद्युति सङ्काशं चण्डेशं शूलहस्तकम् ॥ १६४ ॥
एवं ध्यात्वा विधानेन गणेशांश्चैव पूजयेत् ।
श्यामं तु पिङ्गलं धूम्रं कृष्णं श्वेतं च पीतकम् ॥ १६५ ॥
श्वेतं चैवे दृकोपं स्यात् पावकं कृष्णसन्निभम् ।
ब्रह्माणं मूध्यतः पश्चात् म्यरितिर्वारुणाध्यमे ॥ १६६ ॥
इन्द्रेशानकयोर्मध्ये विष्णुं चैव प्रपूजयेत् ।
चतुर्भुजं त्रिणेत्रं च ईशानं च प्रकीर्तितम् ॥ १६७ ॥
प्। १८)
सप्तहस्तं त्रिणेत्रं च द्विमुखं चाग्निमेव च ।
चतुर्वक्त्रोऽष्टनेत्रं च ब्रह्मा चैव चतुर्भुजः ॥ १६८ ॥
विष्णुश्चतुर्भुजः साक्षाद् द्विलोचनसमन्वितम् ।
एवमेतत् क्रमेणैव भावयित्वाथ पूजयेत् ॥ १६९ ॥
नानावर्णमहाविद्युन्नील जीमूतसन्निभम् ।
नीलाग्निपद्मरागं च तुषारं चैन्द्रनीलकम् ॥ १७० ॥
शाबलं रक्तवर्णं स्यादस्त्राणां वर्ण मुच्यते ।
पद्ममिष्ट्वाथ पार्श्वे तु विष्णोश्चक्रं तु पार्श्वतः ॥ १७१ ॥
जायां शक्तिगदा विद्यात् पाशपद्मे नपुंसके ।
शेषाः पुमांसो विख्याता दशायुध त्रिधोच्यते ॥ १७२ ॥
तत् तन् मन्त्रैः समभ्यर्च्य प्रणवादि नमोन्तकम् ।
एवमावरणं पूज्य क्षेत्रपालं तु शाङ्करे ॥ १७३ ॥
गन्धपुष्पादिभिः पूज्य पीठपूजां समारभेत् ।
फलकं चतुरश्रं तु पीठोत्सेधं तु मानतः ॥ १७४ ॥
आर्द्रोन्मेषं च श्रीकण्ठं बीजं वा सप्तमृत्तु वा ।
चतुर्भुजां त्रिभेदैश्च पृथक् प्राच्छेदनां प्रति ॥ १७५ ॥
फलकं सममारोप्य यावद्विभवविस्तरम् ।
नन्दी चानी च बल्लि च प्रकुणीं च प्रणालके ॥ १७६ ॥
गौरिमन्त्रादि देवत्यं प्रोक्षयेत् तु कुशाम्भसा ।
गौरिगायत्र्या सम्पूज्य वटोदुम्बरमाचरेत् ॥ १७७ ॥
प्। ११९)
सौवर्णं रजतं ताम्रं काम्स्यं वा पात्रमुच्यते ।
अलाभे कांस्यपात्रे तु पिष्टं भस्म तु कौसुमम् ॥ १७८ ॥
तत्पिष्टं पञ्चधा दीपपिष्टेनैव तु योजयेत् ।
प्रदोषे प्रतिदिनं कुर्यात् स्वस्तिमङ्गलवाचकैः ॥ १७९ ॥
आचार्यस्तु स्वहस्ताभ्यां त्रिभिः परिवृतो नयेत् ।
पश्चाल्लिङ्गं तु पुष्पेण त्रिभिः परिवृतो नयेत् ॥ १८० ॥
तत्पुष्पाणि क्षिपेञ्चाप्सु चास्त्रमन्त्रेण देशिकः ।
गन्धमेकावृतं नीत्वा दीपपात्रे हृदा बुधः ॥ १८१ ॥
तद्भस्मना च वक्त्रे तु वक्त्रमन्त्रेण संस्पृशेत् ।
मूर्ध्निपुष्पं न्यसित्वा तु सर्वत्र हृदयेन वै ॥ १८२ ॥
पात्रमुद्धृत्य बाह्ये तु पीठे चैव विसर्जयेत् ।
पश्चादाचमनं कुर्यान्नैवेद्यं तु प्रदापयेत् ॥ १८३ ॥
अभिन्नतण्डुलं शुद्धं शालितण्डुलमुत्तमम् ।
तण्डुलं वेणुनीवारं मध्यमं समुदाहृतम् ॥ १८४ ॥
कृष्णाश्च प्रहयस्मिन्ध अधमं तण्डुलं भवेत् ।
उत्तमं तु शतद्रोणं तदर्धं मध्यमं भवेत् ॥ १८५ ॥
अधमं तु तदर्धार्धं तदर्धमधमाधमम् ।
द्वादशद्रोणमेवं वा चाष्टद्रोणमथापि वा ॥ १८६ ॥
चतुर्द्रोणमथा चैव उत्तमोत्तममुत्तमम् ।
एवं नैमित्तिकं कुर्यात् तदर्धं नित्यमेव च ॥ १८७ ॥
प्। २०)
नैवेद्यं दापयेद् विद्वान् खारिं वा द्रोणमेव वा ।
द्रोणार्धं वा तदर्धं वा तथान्यत् परिवर्जयेत् ॥ १८८ ॥
पञ्चवर्णं हविर्दद्यात् गुलखण्डफलैर्युतम् ।
नानाविधोपदंशैश्च कपिलाज्यदधि प्लुतम् ॥ १८९ ॥
अथवा कृष्णगोसर्पिदधि चैव प्रचोदितम् ।
निर्माल्यं च निवेद्यं च लङ्घने दानकर्मणि ॥ १९० ॥
चान्द्रायणं चरेत् तत्र गोनागानाह विक्षिपेत् ।
नित्याग्निकार्यं कुर्वीत पचनालयात् पावके ॥ १९१ ॥
चतुरश्रकुण्डमित्युक्तं मेखलाद्युपशोभितम् ।
अरत्निमात्रविस्तारं बिलं तन्मानमुच्यते ॥ १९२ ॥
स्थापयेत् स्थापको वाग्निमविच्छिन्नं तु रक्षयेत् ।
यावन्मूलोपचारेण तावदग्निं सुपूजयेत् ॥ १९३ ॥
अघोरास्त्रेण संशोध्य पूजयेद् गन्धपुष्पकैः ।
परितो दर्भैराच्छाद्य स्थापयेत् परिषेचनम् ॥ १९४ ॥
आज्यसंस्कारमेवं स्यात्पश्चादाधारमेव हि ।
आज्याहु दृक्षमन्त्रेण हविं हुत्वा विशेषतः ॥ १९५ ॥
इद्ध हुत्वा स्वाहेति षोडशं विधिपूर्वकम् ।
प्रणवं हुं पुरोद्धे तु हुत्वा चान्नं हुनेत् क्रमात् ॥ १९६ ॥
व्याहृतिभिर्हुनेत् पश्चाद् ब्रह्माङ्गानि ततो हुनेत् ।
कूश्माण्डं च हुनेत् पश्चात् स्विष्टमग्नौ समाचरेत् ॥ १९७ ॥
प्। २१)
चरुहोमं पुरुषेण कारयेत् तु सदा बुधः ।
एकभागं तु नैवेद्यम् एकभागं हुतं भवेत् ॥ १९८ ॥
एकभागं बलिं कुर्यात् शेषमाचार्य भोजनम् ।
प्रमादाभिन्नकाले तु अघोरेण शताहुतिः ॥ १९९ ॥
पश्चान्मूलोपचारेण कुर्याद् वै देशिकोत्तमः ।
परिवाराष्टकमभ्यर्च्य पुरुषादीशमाश्रितम् ॥ २०० ॥
वृषभं पावकं चैव सप्तमातृगणास्तथा ।
विघ्नं गुहं च ज्येष्ठां च दुर्गां सूर्यमिति क्रमात् ॥ २०१ ॥
प्रतिमायां तु पीठे वा चैष्ट वा च प्रपूजयेत् ।
मूर्ध्नि चाभ्यर्च्य पीठं चेन्मध्यमेखलमध्यमे ॥ २०२ ॥
कुक्कुटाण्डप्रमाणेन स्वाहान्तं बलिमाक्षिपेत् ।
लिङ्गार्चनं पुरा प्रोक्तं सकलाद्यर्चनं क्रमात् ॥ २०३ ॥
तदहं सम्प्रवक्ष्यामि पूर्वोक्तविधिनाचरेत् ।
सुखासनं तथा नन्दिवाहनं पुरशासनम् ॥ २०४ ॥
नृत्तरूपं तथा चैव चन्द्रार्धकृतशेखरम् ।
अर्धनारीश्वरं चैव शङ्करार्धं हरिं तथा ॥ २०५ ॥
चण्डेश्वरप्रसादं च कामनाशनमेव च ।
कालनाशं तथा चैव लिङ्गद्वादशमेव च ॥ २०६ ॥
कल्याणसुन्दरं चैव पुराणे सम्प्रकीर्तितम् ।
हयर्धनारीशं श्यामम् अन्येषां रक्तवर्णकम् ॥ २०७ ॥
प्। २२)
नृत्तरूपं तु कङ्कालं दक्षिणामूर्तिमेव च ।
विद्यादेवमिमे सर्वे श्वेतवर्णाः प्रकीर्तिताः ॥ २०८ ॥
क्षेत्रपालं तथा धूम्रं चतुर्भुजत्रियक्षकम् ।
त्रिणेत्राश्चतुर्भुजाः सर्वे सर्वाभरणभूषिताः ॥ २०९ ॥
एवं ध्यात्वा तु मनसा पूजयित्वा शिवद्विजः ।
पञ्चशुद्धिं ततः कृत्वा पश्चाद्यजनमारभेत् ॥ २१० ॥
मृन्मयं लोहजा सर्वे कुर्यान्नार्द्र कृतार्चनम् ।
शिवाम्भः प्रोक्षयेन्मन्त्री ईशानेन कुशैस्तथा ॥ २११ ॥
पाद्यं दद्यात् तु सद्येन वामेनाचमनं तथा ।
अघोरेणार्घ्यमुद्दिष्टं गन्धं पुरुषमन्त्रतः ॥ २१२ ॥
पुष्पमीशानमन्त्रेण धूपदीपं तु वक्त्रतः ।
नैवेद्यं चैव ताम्बूलं हृन्मन्त्रेण प्रदापयेत् ॥ २१३ ॥
वक्त्रं तु शिरसा दद्यात् उपवित्कवचेन तु ।
मकुटं कुण्डलं चैव हारं केयूरमेव च ॥ २१४ ॥
इत्येवमादयाः सर्वे हृन्मन्त्रेण प्रदापयेत् ।
तस्मादावाहनं पूर्वं तथैवोद् वासनं सदा ॥ २१५ ॥
आसनावरणं नास्ति चण्डेशस्य निवेदनम् ।
सूर्यकामोथ नागेन्द्रो गुहो लक्ष्मीश्च रक्तकाः ॥ २१६ ॥
द्विभुजाश्च द्विनेत्राश्च चतुर्भुजगुहस्तथा ।
शास्तादुर्गामहामोटी ज्येष्ठाकालिसुराधिपाः ॥ २१७ ॥
एतेः श्यामप्रभा प्रोक्ताः द्विभूजाश्च द्विलोचनाः ।
एवमेव समाख्यातं भावयित्वाथ पूजयेत् ॥ २१८ ॥
तत् तद् बीजैः प्रकूर्वीत प्रोक्षयेच्चाभिषेचनम् ।
तत्त स्वनाम मन्त्रेषु शोधनदेकपञ्चकम् ॥ २१९ ॥
प्। २३)
प्रणवादिनमोन्ताश्च पूजाकाले तु योजयेत् ।
दद्यात्सद्येन पाद्यं तु वामेनाचमनं तथा ॥ २२० ॥
अघोरेणार्घ्यमाख्यातं पुष्पमीशेन मन्त्रतः ।
पुरुषेण तथा धूपं दीपान्ते नैव पूजयेत् ॥ २२१ ॥
नैवेद्यं हृदयेनैव ताम्बूलं शिरसा ददेत् ।
वस्त्राभरणाञ्जनानि कवचेनात्रदापयेत् ॥ २२२ ॥
पीठे वा हृदये वापि जले वा भित्तिचित्रके ।
मृन्मये लोहजे वाथ शैलजैश्चैव पूजयेत् ॥ २२३ ॥
मृन्मये भित्तिचित्रे वा पादपीठं प्रपूजयेत् ।
अष्टादशगणानां तु स्वनामाद्यक्षरैर्यजेत् ॥ २२४ ॥
शिवप्रसादयुक्तानां शिवसायुज्यदेहिनाम् ।
स्त्रीणां चैव नरेन्द्राणां शिवभक्त स्वनामतः ॥ २२५ ॥
पूजाश्चैव प्रतिष्ठा च भक्त्या होमेन योजयेत् ।
नित्योत्सवं प्रकुर्वीत शास्त्र दृष्टेन कर्मणा ॥ २२६ ॥
सौवर्णं रजतं ताम्रं कांस्यं वा पात्रमुच्यते ।
तस्य मध्ये त्रिभागैकं कर्णिकामाचरेद् बुधः ॥ २२७ ॥
शिवाग्रे मण्डलं कृत्वा तत्र दत्वा हृदां बुधः ।
नमः शक्तिः समोपेतं पद्मगन्धादिभिर्यजेत् ॥ २२८ ॥
तन्मध्ये विन्यसेत् पात्रं बलिलिङ्गं तु कारयेत् ।
सायं प्रातः प्रकुर्वीत पुष्पलिङ्गं प्रपूजयेत् ॥ २२९ ॥
प्। २४)
मध्याह्ने चान्नलिङ्गं तु द्वादशाङ्गुलमायतम् ।
प्रस्थं वा द्विगुणं मूमग्रेकाङ्गुलनाहकम् ॥ २३० ॥
चतुर्भुजक्षत्रवं रौद्रं वरदाभयहस्तकम् ।
शिखाकोटिप्रतीकाशं शूलदण्डधरं सदा ॥ २३१ ॥
अस्त्ररारानमेवं च ध्यात्वा चावाहयेद्धृदा ।
ईशानाद्यैः सुगन्धाद्यैरर्चनं क्रमशः पुनः ॥ २३२ ॥
विद्येशान् परितोभ्यर्च्य कौतुकं पादुकं यजेत् ।
गन्धपुष्पैरलङ्कृत्य सोष्णीषं सोत्तसायकम् ॥ २३३ ॥
धारयेच्छिरसा धीमान् सर्वदेवमनुस्मरन् ।
प्रदक्षिणत्रयं कृत्वा तत्र गेहं समाविशेत् ॥ २३४ ॥
पादप्रक्षालनं कृत्वा शिवाग्रेऽभिमुखं स्थितः ।
दक्षिणे चास्त्रराजानमुत्तरे चन्द्रशेखरम् ॥ २३५ ॥
पादुकाराधनं कुर्यात् सद्यमन्त्रमनुस्मरन् ।
लोकपालान् समभ्यर्च्य पादुकावृतमेव हि ॥ २३६ ॥
अर्घ्यं शिरसि विन्यस्य मुखेष्वाचमनं तथा ।
गन्धपुष्पादिना पूज्य पश्चाद्गर्भगृहं विशेत् ॥ २३७ ॥
विसर्जेदस्त्रराजानं हृन्मन्त्रेणैव देशिकः ।
बलिवाद्यध्वनी कृत्वा पिशाचाराक्षसासुराः ॥ २३८ ॥
ग्रामबाह्यं ततो क्षिप्रं गच्छन्ति च यथा बुधः ।
एवं नित्योत्सवं कुर्यादिष्टसम्पत्करं नृणाम् ॥ २३९ ॥
प्। २५)
तत्काले दीपविच्छेदे दीपद्वयं समाचरेत् ।
घडिके द्वे भवे स्नानं घटिकैकार्चनं भवेत् ॥ २४० ॥
त्रिपादं तु निवेद्यं स्यात् त्रिपादं चाग्निकार्यकम् ।
घटिका घटिकार्धं यत् नित्योत्सवमुदाहृतम् ॥ २४१ ॥
घटिकाशेषनृत्तं स्यात् सन्ध्याकाले दिने दिने ।
स्वगुरुं पूजयेत् पूर्वं गणेशे सम्प्रपूजयेत् ॥ २४२ ॥
स्वात्मानं पादमूले तु तर्पयेच्चुलुकोदकेः ।
पादप्रक्षालनं कृत्वा आचम्य विधिना बुधः ॥ २४३ ॥
धीमान् प्रदक्षिणं कृत्वा स्वगृहं तु निवेशयेत् ।
एवं यः कुरुते मर्धः आत्मार्थेव परार्थके ॥ २४४ ॥
परार्धं कृत्विमानीयात् एव नित्यावुभौ भुवि ।
रुद्रलोकात् परिभ्रष्टा नररूपेण भूगता ॥ २४५ ॥
पाश्चारुद्रुद्रपदं प्रप्य मोदते सहरुद्रवत् ।
एकलक्षं भवं भक्त्या यो दद्यात् परमेश्वरे ॥ २४६ ॥
तत्फलं कोटिगुणितं भक्त्यारागगुणार्चनात् ।
ग्रहणे विषुसङ्क्रान्तौ यः शिवं पूजयेत् सकृत् ॥ २४७ ॥
लभते षण्मासि पुण्यं पृथक् प्राक्शिवमादरात् ।
पूर्णमास्याममवास्यामर्चयेत् पूजयेच्छिवम् ॥ २४८ ॥
चतुर्मास्यकृतं पुण्यं लभते नात्र संशयः ।
न किञ्च नत्वमषका मनोवाक्कायकर्मभिः ॥ २४९ ॥
प्। २६)
पापपाशे बद्ध्वा तु सो क्षयं नरकं व्रजेत् ।
तस्मात् सर्वप्रयत्नेन शिवं भक्त्या प्रपूजयेत् ॥ २५० ॥
इति सूक्ष्मतन्त्रे शास्त्रे प्रतिष्ठातन्त्रे अर्चनविधिपटलः ॥