१० व्योमव्यापि-मन्त्रार्थः

परिचयः

मूलम् अत्र

प्रवेशः

अथ सङ्ख्या शिवस्योक्ता
चाक्षराणां शतत्रयम्।
अष्टषष्ट्य्-अधिकं शम्भोर्
गुह्यमन्त्रं विनिर्गतम् ॥१॥

मन्त्रार्थश् च पुरा प्रोक्तो
विद्येशानेन शम्भवे ।
स एव बहुधा व्यस्तः
समासाद् उच्यते मया ॥२॥

पदविग्रहधात्वर्थ-
हेतुसाधन-वर्जितः ।
व्यपेत-पक्ष-दृष्टान्तः
सिद्ध-वाक्यावभासितः॥३॥

स्वभावपुरुषाव्यक्त-
कर्मजालात्मवादिभिः।
यो न दृष्टो महामोह-
तिमिराक्रान्त-दृष्टिभिः ॥ ४॥

तस्य देवादिदेवस्य
वक्त्रामल-विनिर्गतम् ।
प्रवक्ष्ये शिवसद्भाव-
परसत्ता-प्रकाशकम् ॥ ५॥

ओमित्येकाक्षरं ब्रह्म
मन्त्रतन्त्रादिलक्षणम्।
महद्-आदिविशेषान्त-
व्यापकं पदमव्ययम् ॥ ६॥

ओतं प्रोतं जगत् तेन
मात्राभिः सर्वतो भृशम् ।
त्रिभिः पादैस् तु विभुना
सदेवासुर-मानुषम् ॥७॥

देव-यज्ञ-तपो-ध्यान-
दानाध्ययन-कर्मसु।
ओङ्काराद्यन्त-सम्बद्धो
मन्त्रविद्भिः प्रकीर्तितः ॥ ८॥

तस्माद् इहापि प्रणवम्
अग्रे मन्त्रपदं विभोः।

व्योमव्यापिने

न्यस्य पश्चात् कलानीक-
वर्जितं व्योम उच्यते ॥९॥

व्योमेत्याकाश-सञ्ज्ञेयं
निमित्तात् परिभाष्यते।
व्यापकत्वाद् अमेयत्वाद्
व्योम इत्य् अभिधीयते ॥ १० ॥

तद् वाचयति यस्मात् स
भगवान् परमेश्वरः।
शक्ति-रश्मि-समूहेन
तस्माद्-व्यापी सदाशिवः ॥ ११ ॥

व्योमरूपाय

तदेव रूपं भगवान्
बिभर्ति प्रभुरव्ययः।
तेन धर्मेण युक्तत्वाद्
व्योमरूपेति चोच्यते ।। १२ ।।

तस्मै शिवाय महते
सर्वगाय महात्मने ।
व्यापिने व्योमरूपाय
पराय प्रभवे नमः ।। १३ ।।

सर्वव्यापिने

सर्वं निरवशेषं यद्
व्योम उक्तं परापरम् ।
ततो यस्माद् भगवता
सर्वव्यापी ततो भवः ॥ १४ ।।

शिवाय

शान्तत्वात् सर्वकर्तृत्व-
भावोपरति-कारणात् ।
शिव उक्तो महातन्त्र-
मन्त्रविद्भिः सदाशिवः ॥ १५ ॥

तस्मै शिवाय गुरवे
वीतरागकलाय वै ।

अनन्ताय

अमेयत्वाद् अनन्तोऽयम्
अजत्वाच् च प्रकीर्तितः ॥ १६ ॥

अनाथाय

अनादिशिवसद्भाव-
युक्तत्वात् परमेश्वरः ।
सर्वेषां स्वामिभावाच् च
अनाथ इति शस्यते ॥ १७ ॥

अनाश्रिताय

अनाश्रित-स्वाश्रितत्वाद्
अन्याश्रय-विवर्जितः ।
आश्रयो न समत्वाच् च
अनाश्रित इति स्मृतः ।। १८ ॥

धुवाय

वैनाशिकत्वात् सर्वेषां
भुवनानां सदाशिवे ।
ध्रुवेति सञ्ज्ञितं नाम
सदाशिवत्वलक्षणम् ॥ १९॥

शाश्वताय

प्रशास्ति-कारणत्वेन
शास्यो यस्मान् न कस्यचित् ।
अतीतः शाश्वतत्वाच् च
शाश्वतो भगवाञ्छिवः ॥ २० ॥

योगपीठसंस्थिताय

योगोऽस्य शिव-सद्भावः
सदाशिवम् अनामयम् ।
तस्मिन् व्यवस्थितो यस्माद्
योगपीठः स उच्यते ।। २१ ॥

अनादिशिव-सद्-भाव-
योगयुक्तः सदाशिवः।
मन्त्र-योग-मये पीठे
तत्रस्थस् तेन चोच्यते ॥ २२ ॥

नित्यं योगिने

अभ्युत्थितेन योगेन
शाश्वतेनानुरञ्जितः ।
नित्यं योगीति तेनोक्तः
शिवस् तत्त्वार्थ-कोविदैः ।। २३ ॥

ध्यानाहाराय

ध्यानं चिन्ता भावनार्थं
कल्पना मनसः क्रिया।
मनसः परिपूर्णत्वात्
परितृप्तो भवोद्भवः ॥ २४ ॥

स्वस्थत्वात् सुप्रशान्तत्वात्
परिनिर्वाणम् उत्तमम् ।
ध्यानाहारं भगवति
[भवती]त्युपलक्षणा ॥ २५ ॥

ओं नमः शिवाय, सर्वप्रभवे

प्रणव-पूर्वम् उद्दिश्य
संशयच्छेद-कारणम् ।
ओं नमः शिवाय शान्ताय
सर्वस्य प्रभवे तथा ॥ २६ ॥

शिवः

इति सम्भाव्य देवेश-
गणः पूर्वमुदाहृतः ।

तनुं पञ्चमहामन्त्र-
लक्षणां सम्प्रचक्षते ॥ २७ ॥

ईशानमूर्धाय

ईष्ट अग्रे स भगवान्
ईशानः प्रभुर् अव्ययः ।
जगत् कृत्स्नं महामन्त्र-
शक्ति-योग-मरीचिभिः ।। २८ ॥

ईशानमूर्धा तेनायम्
उक्तो मन्त्रे सकारणम् ।

तत्पुरुषवक्त्राय

महामायोत्थ-जालेन
व्यपेत-तनुर् ईश्वरः ॥ २९ ॥

परमं वदति ज्ञानं यत्
तत्पूरकम् उत्तमम् ।
सर्वज्ञं शिव-सद्भाव-
प्रकाश-करणं परम् ।। ३० ॥

तेन मन्त्रेण मन्त्रेशो
भगवान् परमेश्वरः ।
प्रयुक्तं पूरयेत् कृत्स्नं
तेन तत्पुरुषः स्मृतः ॥ ३१॥

अघोरहृदयाय

अघोर-रण-शीलत्वाद्
अघोरः प्रोच्यते बुधैः।
अघोरं शान्तम् इत्युक्तं
सद्भावो हृदयं प्रभोः ॥३२॥

तेन चार्द्रेण युक्तत्वाद्
अघोरहृदयः शिवः ।

वामदेवगुह्याय

वामोऽथ विपरीतत्वात्
संसारोद्-गिरणाद् अपि ॥ ३३॥

सर्वभावेषु गूढत्वाद्
गुह्यम् इत्य् अभिधीयते।

देवो दिवि स्थितत्वाद्
दीव्यति यस्माच् च तेन वा देवः ॥ ३४ ॥
परमतिगुह्यो गुह्यो
मन्त्रेणैतेन गुह्योऽयम्।

सद्योजात-मूर्तये

सद्यः प्रसाद-दानात्
क्षिप्रतम आशुरिति च पर्यायाः ॥ ३५ ॥
गहनेन जायतेऽस्मिन्
प्रधानपुरुषेश्वरान्तिके घोरे ।

यस्मात् तस्माद् भगवान्
अजात इति चोच्यते देवः ॥ ३६॥

सद्योजातेन मन्त्रेण
युक्तत्वात् परमेश्वरः ।
शिवमूर्ति-विधानज्ञैः
सा मूर्ति रि[ति] पठ्यते ॥ ३७॥

ॐ नमो नमः

एतैर् मन्त्रैर् महागुह्यैर्
मूिर्तिं भगवतोऽव्ययाम् ।
निगूढां सर्वतत्त्वेषु
ध्यायेन् नित्यं समाहितः ॥ ३८ ॥

गुह्यातिगुह्याय

दुज्ञेयत्वात् पदार्थानां
तत्त्वानां गहनस्य च ।
स्थित्युत्पत्तिविनाशानां
गुह्याद् गुह्येति वर्णितः ॥ ३९॥

गुह्यातिशय-युक्तत्वाद्
अतिगुह्यो महेश्वरः ।

गोप्त्रे

प्रकृतेर् गोपनाद् गोप्ता
संसारस्य सदाशिवः ॥४०॥

निधनाय

निधनं नाशो जगतस्
तस्य कर्ता महेश्वरः ।
तेनोक्तं निधनेत्य् एवं
जगतः परमेश्वरः ।। ४१॥

सर्वविद्याधिपाय

सर्वासाम् एव विद्यानां
विद्याराजां तथैव च ।
विधाता परमेशानो
यस्मात् तस्माच् छिवोऽधिपः ॥ ४२ ॥

ज्योतीरूपाय

ज्योतिः प्रकाशरूपाणां
दर्शनाकृति-लक्षणम् ।
अशेषोद्भासकरणाज्
ज्योतीरूपः शिवोऽव्ययः ॥ ४३ ।।

परमेश्वरपराय

परमेश्वर-रुद्राणां
स्थितिसंहारकर्मिणाम् ।
कारणेच्छा-प्रवृत्तत्वात्
परस् तस्मान् महेश्वरः ॥ ४४ ॥

तस्मै देवादिदेवाय
पराय परमाय च ।
याथातथ्य-गुणौघेन
युक्ताय परमात्मने ॥ ४५ ॥

अचेतन अचेतन

चेतना सर्वभूतानां
सुखदुःखादिलक्षणा।
सा चेन् न विद्यते यस्मात्
तेन देवो ह्यचेतनः ॥ ४६॥

चेतनानाम् असम्पर्काद्
अचेतन इतीरितः।
अचेतनो ह्यचिन्त्यत्वात्
सूक्ष्मत्वाच् चाप्य् अचेतनः ॥ ४७ ॥

चेतनानाम् अगम्यत्वाद्
अचेतन इति स्मृतः ।

परिभाषा

द्विरभ्यासपदं चास्य
संशयच्छेद-कारणम् ।। ४८॥
व्योमादिष्वपि बोद्धव्यं
द्विरभ्यासपदेषु वै ।

व्योम व्योम

व्योमेति पूर्वमेवोक्तं
गगनाख्या समासतः ।। ४९ ॥

तेन धर्मेण युक्तत्वाद्
भगवान् व्योम उच्यते।
परं व्योमापरं चैव
तन्त्रेऽस्मिन् समुदाहृतम् ।। ५०॥

व्योम व्योम

मायातीतं परं व्योम
साञ्जनं त्व् अपरं स्मृतम्।
निरञ्जने परे व्योम्नि
नित्यस्थः कारणोऽव्ययः ॥५१॥

साञ्जनं शक्तिकिरणैर्
अधितिष्ठति शङ्करः।
व्योमव्योमेति तेनोक्तः
कारणेन सदाशिवः ॥ ५२ ॥

व्यापिन् व्यापिन्

व्यापकत्वाच् च सर्वस्य
व्यापी सम्परिकीर्तितः ।

अरूपिन् अरूपिन्

रूपिणां परमेशानां
ब्रह्मादीनां सदाशिवः ।। ५३ ॥

प्रथम प्रथम

ज्ञानगम्यो महामन्त्र-
योगयोगी महेश्वरः ।
स्रष्टत्वात् सर्वभूतानां
सर्वज्ञत्वाच्च कारणात् ।। ५४ ॥

अनादिसत्त्वाद् भगवान्
प्रथमस्तु निगद्यते।

तेजस्तेजः

प्रकाश-कारणत्वाच् च
तेजस्तेज इति स्मृतः ॥ ५५॥

ज्योतिर्योतिः

सर्वेषां ज्योतिषाम् आदि-
निधिश्च भगवानञ् छिवः।

अरूप, अनग्ने

यद् इन्धनाग्निसंयोगात्
सोमार्कमणिजं च यत् ।। ५६ ।।

अधूम, अभस्म

तेजस् तस्मात् सुसम्पूर्ण-
कारणं ज्योतिर् उत्तमम् ।
तद्धूम-भस्म-रहितं
तेजसाम् अनुरञ्जकम् ॥ ५७ ॥

अनादे

शैवं परम-निर्वाणम्
आद्यन्तं ज्योतिषां निधिः।
अनादि निधनाभावान्
नित्यत्वात् तेजसां निधिः ॥ ५८ ॥

अनादिर् इति विज्ञेयं
नाम देवस्य शाश्वतम् ।

ना ना ना ना

नानानेति च यत् प्रोक्तं
गुह्य-मन्त्र-पदं विभोः ।। ५९ ॥

परमेश्वर क्षेत्रज्ञ पिता-
मह इति त्रिकम् ।

ना इति पुरुषस्याख्या
प्रथिता परमेश्वरस्य पुरुषस्य ।। ६०॥
पूरयति पोषयति च
यस्मात् तस्माच् छिवः पुरुषः ।

धू धू धू

नानानासंहारः
प्रोक्तः पुरुष-त्रय-कारणस्य देवस्य ॥६१ ॥
गुह्ये मन्त्रपदेऽस्मिन्
संहार-कर-पदं प्रोक्तम् ।

ओं भूः

ओं भूः सत्यवाचित्वान्
नित्यपदार्थस्य वाचकः शब्दः ।
शिवमन्त्र-पदार्थानां
संशय-निवृत्तिहेत्वर्थः ॥ ६२ ।।

ओं भुवः

ओं भुव इति च प्रोक्तं
भुवनानि यथाक्रमम् ।
शुद्धाशुद्धान्य् अशेषाणि
निधनेशवशानि तु ॥ ६३ ॥

ओ सुवः।

ओं सुवः प्रभोः पदम्
इदमपरं यत् प्रकीर्तितम् ।
तद्ध्येयं योगिभिर् नित्यं
शिवतत्त्वार्थ-कोविदैः ॥ ६४॥

अनिधन

अनिधन इति यत् प्रोक्तं
नित्यं वदन्ति देवस्य ।
न विनश्यतीति भगवान्
अनिधन इति विशेषतः कथितः ।।

निधनोद्भव

संहरति देवदेवः
सृजति यस्माच् च सर्वभूतानि ।
शिवतत्त्वविधानज्ञै रुद्रो
निधनोद्भवो रुद्रः ।। ६६॥

शिव, सर्व

शिव सर्वेति यदुक्तं
त्व् अशिवाभावाच् छिवस्य देवस्य ।

परमात्मन्

परमात्मनि स्थितत्वात्
सर्वेषां तेन परमात्मा ॥६७ ॥

महेश्वर

महतां परमेशानां सर्वेषां
प्रलय-सर्ग-कर्तॄणाम् ।
पूज्येश्वर-स्वभावत्वात्
तेनेह महेश्वरः शम्भुः ॥ ६८॥

महादेव

महान् भवति सर्वेषां
पूज्यत्वाद् योगिनां शिवः ।
देवो दिवि स्थितत्वाच् च
महादेवस् ततो भवः ॥ ६९॥

सद्भावेश्वर

+++(विद्येश्वरादि-)+++सर्वेश्वर-प्रसङ्गाद्
अनीश्वरे ऽपीश्वराभिधानाच्च ।
सद्-भावेश्वर-शब्दः
सदाशिवे सूरिभिः प्रोक्तः ।। ७० ॥

महातेजः

महताम् अपि सर्वेषां
परमशिवस्तेजसा महातेजः ।

योगाधिपते

योगी च योगिनामपि
योगाधिपतिर् भवस् तस्मात् ।। ७१ ।।

मुञ्चति गहन-निबन्धान्
मायाविषयित्व-योक्तृ-बन्धेन ।
मायाभिज्ञो भगवान्
दीक्षानिपुणेन हस्तेन ।। ७२ ॥

मुञ्च मुञ्च

मुञ्चति तेन[हि] गुह्यं
मन्त्रपदं मुदा विप्रः ।

प्रथम प्रथम

प्रथयति पाशान् बहुशः
प्रथमेत्य् अभिधीयते तेन ॥ ७३ ॥

शर्व शर्व

शरणार्थिनाम् अणूनां त्राता
महतो भयाद् यतः शर्वः ।
शरणाद् वरणाच्च देवः शर्व
इति विभाव्यते तज्ज्ञैः ।।७४।।

भवोद्भव

भावेन भवतीति च
भावयितव्यो भवोद्भवः प्रकृतिकर्ता ।
आमन्त्रणादि-युक्तैर् गुह्य-
पदैः स्तूयते शम्भुः ॥७॥

सर्वभूतसुखप्रद

सर्वेषां भूतानां
संसार-वियोजकं परं सूक्ष्मम् ।
सुखमात्यन्तिकम् अकृतकम्
अनुपमम् उपयच्छते देवः ।। ७६ ।।

सर्वसान्निध्यकर

सान्निध्यं मन्त्रोऽयं
स्मृतमात्रः साधकस्य शिवलिङ्गे।
कुरुते यस्मात् तस्मात्
सान्निध्यकरः शिवः प्रोक्तः ।। ७७ ।।

ब्रह्मविष्णुरुद्रपर

ब्रह्मा विष्णू रुद्रस्
त्रयोऽपि सर्वस्य कारणं जगतः ।
तेभ्यः परः परज्ञैः
परमशिवः प्रोच्यते कर्ता ॥ ७८ ॥

सूक्ष्माणां सूक्ष्मत्वाद्
विकरणधर्मेषु विकरणो भगवान् ।
गुह्येष्व् अपि गुह्यत्वाद्
अचिन्त्यभावो ह्यचिन्त्यत्वात् ।।

अनर्चित अनर्चित

ज्ञानानां सर्वेषां प्रग्
अमत्वाद्+++(=अपक्वताया)+++ अनर्चितो देवः ।
तस्माद् अनर्चित इति
भगवान् उक्तश्च तन्त्रेऽस्मिन् ।। ८०॥

असंस्तुत असंस्तुत

न स्तूयते स्तुतो वा
ब्रह्मादिभिर् अप्य् अदृष्ट-पूर्वत्वात् ।
तस्माद् असंस्तुत इति
भगवान् उक्तश् च तन्त्रेऽस्मिन् ।। ८१ ॥

पूर्वस्थित पूर्वस्थित

संस्थाप्यते स्वतो वा
नित्यस्थत्वाच् छिवः परे व्योम्नि ।
पूर्वस्थितोऽप्यभिहितः
परमेशो मन्त्रतन्त्रज्ञैः ॥ ८२ ॥

साक्षिन् साक्षिन्

साक्षात्सर्वपशूनां
धर्माधर्मादिकं कृतं कर्म ।
साक्षी च सर्वतोऽक्षः
पश्यति भगवानतः साक्षी ।। ८३ ।।

तुरु तुरु

त्वरितं शिवसायुज्यं
प्रयच्छते साधकस्य देवेशः ।
तुरु तुर्विति तन्त्रार्थोऽयं
क्षिप्रत्वाच्चैव दीक्षायाः ॥८४||

पतङ्ग पतङ्ग

तेजोमूर्त्य्-अभिधानं
पतङ्ग इति मन्त्रलक्षणं प्रोक्तम् ।

पिङ्ग पिङ्ग

पिङ्ग पिङ्गेति तेजस्-स्थं
प्रवदन्ति मन्त्रतन्त्रज्ञाः ॥ ८५ ॥

ज्ञान ज्ञान

ज्ञानं शिवपदबोधः सम्यक्
चेदं परापरं रूपम् ।
यच् चान्यस्मिन् तन्त्रे
न विद्यते सर्वदर्शित्वात् ॥ ८६ ॥

शब्द शब्द

यावान् वर्णविवेकः
संयोग-विभाग-लक्षणः सूक्ष्मः ।
श्रोत्रेन्द्रियार्थपरमः
शब्दोऽसौ कारणेशानः ॥ ८७ ॥

सूक्ष्म सूक्ष्म

सूक्ष्मो ह्यचिन्त्यरूपो
व्याख्यातः पूर्वमेव तन्त्रेऽस्मिन् ।
द्विरभिहितः परमशिवः
संशयविनिवृत्तिदर्शिभिः सर्वैः॥

शिव, शर्व

सर्वज्ञः सर्वपरः
सर्वेशः सर्वकृत् स्वतन्त्रश्च ।
सर्वात्मा सर्वेषां
प्रभव-स्थिति-लय-कृच् छिवः परमः ।। ८९॥

सर्वम् इति निरवशेषं
परापरज्ञानम् उत्तमं गुह्यम् ।
मायाबन्धविमोक्षं
ददाति सर्वप्रदस्तस्मात् ॥ ९॥

शिवाय नमो नमः

शिव इति समात्मकत्वाच्
छान्तत्वाद् ईश्वरः प्रोक्तः ।
तस्मै शिवाय कुरुते
नम इति शान्ताय देवाय ।। ९१ ।।

नम इति प्रभुत्वेऽयं
धात्वर्थः प्रोच्यते विकारः ।
कारणकार्यविभागं
कुरुते परमेशयोगं च ॥ ९२ ।।

युग्मं प्रोक्तं तत्रै-
कं कारणस्य देवस्य ।
कार्यत्वस्य वियोगं
कुरुते विनिवृत्तिहेत्वर्थम् ।। ९३॥

नमो नमः, नमः

एवं ब्रह्मादीनां युग्मा-
ऽयुग्मं पुनर्नमस्कारः ।
कारण-कार्य-विभागं
छिनत्ति मायाञ्जनं सर्वम् ।। ९४ ।।

अन्यत्-संयोग-करं
नम इति युग्मं परस्य देवस्य ।

कलनम्

अष्टावेते शुद्धाः कार्या
मन्त्रे परा नमस्काराः ॥ ९५॥
प्रणवाश्च नव प्रोक्ता
मन्त्रशरीरे शिवस्य सर्वस्मिन् ।

दश चोक्ता मन्त्रपराः
शुद्धाः परमा नमस्काराः ।।९।।

विंशतित्रीणि युतानि
सप्तविंशतिसम्प्रदानानि ।
शेषपदानि तु षड्-
विंशतिः पदानि बद्धानि सर्वतश्चान्तः ।।

तत्त्वानि

विंशत्तत्त्वानि प्रोक्तानि
शङ्करेण विभागशः ।
अस्मिन्माहेश्वरे तन्त्रे
परिसङ्ख्याय तत्त्वतः ॥ ९८॥

विकाराः षोडश प्रोक्ता
दश प्रकृतयस्तथा।
पुरुषो विद्या रागतत्त्वं
शिवतत्त्वं च त्रिंशकम् ।। ९९ ॥

कलाव्यक्तं गुणा बुद्धिर्
अहङ्कारस् तथैव च ।
तन्मात्राणि तथा पञ्च
एताः प्रकृतयो दश ।। १००॥

इन्द्रियाणि दशैकं च
महाभूतानि पञ्च च ।
विकाराः षोडश त्वेते
यैस्तु सर्वमिदं ततम् ॥ १०१॥

परम्परा

उक्तः समासतोऽर्थः
परमार्थविदा शिवेन तन्त्रेऽस्मिन् ।
आत्रेय-विशुद्ध-कुला-
ऽन्वयाय गुरुणा प्रबोधाय ॥१०२।।

इदं पुरा कारणवक्त्र-
पद्माद् विनिःसृतं तद् बहुधा विभिन्नम् । विद्येश्वरैः कारण-तुल्य-
रूपैर् मन्त्रक्रियामण्डलसम्प्रयोगैः ।। १०३ ॥

कोट्या निबद्धं परमेश्वरेण
शैवं पदं मातृगणैर् उपेतम् ।
तदेव सर्वं कृतवान् महात्मा
भृगूत्तमो द्वादशभिः सहस्रैः ॥ १०४ ॥

तदेव बुद्ध्वा निखिलं हि भार्गवात्
परापरज्ञानम् अनुक्रमेण ।
सहस्रम् एकं द्विशतं च सोऽवदद्
रुरुर्महात्मा जगतो हिताय ॥ १०५ ॥

इदं [परं] परम-शिवार्णवान् मुनिर्
विमथ्य तन्त्रामृतमुत्तमं शिवम् । शिवेरितो विदितपरापरो रुरुश्
चकार तन्त्रार्णवसङ्ग्रहं पुनः ।। १०६ ।।

फलम्

इमं हि यो रौरव-सूत्रसङ्ग्रहं
पठेद् अणुर् व्यपगतपाशबन्धनः । विभिद्य लोकान् कनकाण्ड-जन्मनः
स याति वै परमशिवान्तिकं बुधः ।। १०७ ।।

ये चात्रासन-मन्त्र-जातनिरताः,, संसेवनात् प्राङ्मुखाः शम्भोः पादनिपातहृष्टशिरसः,, प्रत्यग्रतापद्विषः ।
तेषाम् आशु निगूढनूपुर-रवा,, चञ्चच्चलन्-मेखला
सम्भ्रान्तानन-पङ्कजोद्यतकरा,, पर्येति लक्ष्मीः पदम् ।। १०८ ॥

शिवभक्तस्य शान्तस्य महोत्साहरतस्य च।
त्रिवर्षाभ्यन्तरात् सिद्धिर् हस्तमेति न संशयः ॥ १०९ ।।

व्यक्ताव्यक्तकलापमालम् अतुलं त्यक्त्वास्पदं जन्मनो
मोहायास-जरादि-योग-कलिलं+++(=मिश्रं)+++ मायामयं बन्धनम् ।
शैवज्ञान-पदार्थ-वारिभिर् अलं प्रक्षालितात्मा शिवं
सूक्ष्मं शान्तम् अजं प्रयाति परमं शम्भोः पदं निष्कलम् ॥११०।।