॥ शिवाभ्यां नमः ॥
॥ प्रोद्गीते विवाहविधिः ॥
श्रीकण्ठरुद्रमीशानं पञ्चकृत्वपरायणम् ।
पप्रच्छ परया भक्त्या विष्णुरत्यन्तहर्षितः ॥ १ ॥
भगवन् सर्वलोकेश लोकरक्षाधुरन्धर ।
सतीवियोगजे काले लोकानां वर्द्धिरादितः ॥ २ ॥
नाभवत्किल विश्वात्मन् तदा लोकाः कथं स्थिताः ।
उत्पत्तिः कथमेतेषामविच्छिन्ना वभूव च ॥ ३ ॥
तद्रहस्यन्न जानामि वद मे करुणानिधे ।
इति पृष्टो महादेवो विष्णुना प्रभविष्णुना ॥ ४ ॥
उवाच पार्वतीनाथस्तं वृत्तमवतारयत् ।
दक्षं निरीश्वरं यागं प्रावर्तत पुरा किल ॥ ५ ॥
तत्त्वया विदितं सर्वमथापि त्वद्विक्षया ।
वक्ष्यामि सर्वमेतत् कथां विस्तरतश्शृणु ॥ ६ ॥
सती यदा स्वकं देहं प्रमुमोच समाधिना ।
तदा निरुत्सवो लोकः प्रजावृद्धिविवर्जितः ॥ ७ ॥
अनावृष्टि परिप्लुष्टः क्षयमाप दिने दिने ।
तदा ब्रह्मादयो देवास्समेत्य मम सन्निधौ ॥ ८ ॥
प्रणिपत्य परिप्लोषं जगतस्ते व्यजिज्ञिपत् ।
तदा लोकहितार्थाय सम्बोधयदच्युत ॥ ९ ॥
प्। २)
इन्द्रादीनां दिक्पतीनां सन्ततिः प्रभविष्यति ।
सा तत्राप्यगजा गौरी भविष्यति धरापते ॥ १० ॥
ताङ्कन्यां वामदेवाय शिवाय ददतस्स्वयम् ।
तदा प्रभृति लोकोऽयं वर्द्धते पूर्ववत्किल ॥ ११ ॥
इत्याज्ञप्ताश्च ते देवास्तयोर्वैवाहिकीङ्क्रियाम् ।
अकुर्वन् तत्प्रवक्ष्यामि शृणुष्वादरपूर्वकम् ॥ १२ ॥
तदा चतुर्मुखो ब्रह्मा वसिष्ठाद्या मुनीश्वराः ।
प्रादुरासीत्सपत्नीकाः महेशप्रियकाम्यया ॥ १३ ॥
लोकसङ्ग्रहणार्थाय लौकिकीं वृत्तिमाश्रिताः ।
सप्तर्षीन् प्रेषयामासुः कन्यानिश्चय हेतवे ॥ १४ ॥
सपत्नीकास्समाजग्मुर्नगेन्द्र गृहमुत्तमम् ।
सनारिकेलकदलीपूगीफल समन्वितम् ॥ १५ ॥
वस्त्रयुग्मं समादाय कञ्चुकं कनकाञ्चितम् ।
नगेन्द्राङ्के सन्निषण्णां वव्रिरे कन्यकां मुदा ॥ १६ ॥
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ।
सुस्मितापाङ्ग संरूदमकरध्वज शालिनीम् ॥ १७ ॥
उदुत्तरेति मन्त्रेण ब्रह्मघोषपुरस्सरम् ।
अरून्धती तदा कन्यां गन्धपुष्पोपहारकैः ॥ १८ ॥
अलञ्चकार सुप्रीतामुमां तां समलङ्कृताम् ।
तदा हिमाद्रिमेनाकीमुखमैक्षत विस्मितः ॥ १९ ॥
प्। ३)
साऽनुमेने तदा गीरीं प्रदातुं शम्भुरूपिणे ।
महेशाय तदा देवी सहितस्तु महीपतिः ॥ २० ॥
दास्यामीति तदा वाचमुवाच स नगाधिपः ।
अथोषधीनामधिपे वृद्धिं प्राप्ते सुपुष्कले ॥ २१ ॥
जामित्रे च तिथौ मैत्रे मुहूर्तेश्शशलाञ्च्छने ।
उत्तराफल्गुनीयुक्ते मुहूर्तं समयोजयन् ॥ २२ ॥
एवं शास्त्रोक्तमार्गेणं विवाहङ्कारयेति च ।
ब्रह्माणं प्रेषयामास स पिनाकी महेश्वरः ॥ २३ ॥
तथैव कारयामास ब्रह्मा लोकपितामहः ।
अनेनैव विधानेन पार्वतीञ्च ददौ गिरिः ॥ २४ ॥
एतेन कारणे नैव देवानां सन्ततिर्बभौ ।
इन्द्रस्यापि जयन्तोऽभून्नलकूवर एव च ॥ २५ ॥
कुबेरस्य स देवानां सन्ततिश्चाभवत्किल ।
अनङ्गोऽपि तदा साङ्गः रतिप्रीतिकरः प्रभुः ॥ २६ ॥
इति प्रोद्गीते विवाहविधिर्नाम पञ्चविंशति पटलः ॥ २५ ॥
अथ विष्णुर्महादेवं पप्रच्छ परया मुदा ।
प्रलयो मानुषे लोके प्रजानाशः पदे पदे ॥ १ ॥
दारिद्र्यं प्राणिविद्वेषः कथन्नस्यात् प्रभो वद ।
अथोवाच महादेवः गौरीवैवाहिकं विधिम् ॥ २ ॥
आलये च प्रतिष्ठायामुत्सवादौ विशेषतः ।
कर्तव्यं विधिपूर्वन्तु वेदागमविधानतः ॥ ३ ॥
तद्वक्ष्ये शृणु विष्णो त्वं सङ्ग्रहेण जनार्दन ।
एतदा युष्यमारोग्यं पुत्रपौत्रविवर्द्धनम् ॥ ४ ॥
धान्यं यशस्करञ्चैवापमृत्यु निवारकम् ।
सौमङ्ग्ल्यं सदा सौख्यं वर्धनञ्च विशेषतः ॥ ५ ॥
फाल्गुने चैत्रवैशाखे तिष्ये वापि विशेषतः ।
ऋक्षे चोत्तरफल्गुन्यां मैत्रेऽन्यच्छुभ-ऋक्षके ॥ ६ ॥
सुमुहूर्ते * * * * * * * * भृगोर्दिने ।
वैवाहिकविधिं कुर्यात् साधकस्सर्वतन्त्रवित् ॥ ७ ॥
शिवद्विज * * * * * * * * भिषेचनः ।
शिवशास्त्रविचारज्ञः शिवागमविशारदः ॥ ८ ॥
दुकूलवसनो * * * * * * त्तरीयकः ।
भस्मरुद्राक्षमालाभिरलङ्कृत कलेवरः ॥ ९ ॥
हेमयज्ञोप * * * * * * * * * ण्डितः ।
शुक्लचन्दनलिप्ताङ्गश्शुक्लमालैरलङ्कृतः ॥ १० ॥
एवं लक्षणयु * * * * * * * व्रतम् ।
प्रार्थयेद्देवदेवस्य कल्याणं कुरु भो गुरौ ॥ ११ ॥
प्। ५)
इति प्रार्थ्य नमस्कृत्य * * * * * * * * ।
इति सम्प्रार्थ्य शार्गिन्यजमानेन देशिकः ॥ १२ ॥
आस्थानमण्टपे रम्ये शतस्तम्भ समन्विते ।
कदलीस्तम्भखर्जूरी वितानद्ध्वजतोरणैः ।
पता * * * * * * * * धूपैश्च शोभिते ॥ १४ ॥
पणवैर्मद्दलैश्चैव नानावादित्रनिस्वने ।
भूषिते मण्टपे शुभ्रे ब्राह्म * * * * * * ।
राजभिस्सचिवैश्चैव भटैर्योधै * * * * * ।
शोभिते सदने मध्ये * * मण्टपमादरात् ।
तन्मध्ये पद्मवेदीञ्च तत्पूर्वे पद्मकुण्डकम् ॥ १८ ॥
स्वस्तिकं मण्डलं कुर्यात् आगमोक्तविधानतः ।
पश्चिमे भद्रपीठे च स्वस्तिकाख्ये महेश्वरम् ॥ १९ ॥
संस्थाप्य दक्षिणे भागे गौरीं कल्याणरूपिणीम् ।
देव्या दक्षिणदिग्भागे हिमवन्तं समेनकम् ॥ २० ॥
विष्णुं श्रीभूमिसहितं कलशेषु समर्चयेत् ।
अग्नेर्दक्षिणदिग्भागे वाग्देवीञ्चतुराननम् ॥ २१ ॥
प्। ६)
सनकादींश्च योगीन्द्रान् ब्रह्मणः पुरतो यजेत् ।
देवस्य वामभागे तु यजेद्दुर्गादि योगिनीम् ॥ २२ ॥
देवस्येशानदिग्भागे रूद्रान् प्रमथनायकान् ।
सप्तर्षींश्च पत्त्नींश्च सर्वदेवर्षिमण्डलम् ॥ २३ ॥
यजेत्तु पुरतो भागे शचीमिन्द्रं वसूंस्तथा ।
पश्चिमे मेनकादींश्च यजेदप्सरसां गणान् ॥ २४ ॥
विष्ण्वादि देवबृन्दांश्च कलशेषु यथाक्रमम् ।
मिश्रतन्त्रविधानेन प्रतिमासु प्रपूजयेत् ॥ २५ ॥
आचार्यो मूर्तिपैस्सार्धं देवदेवस्य सन्निधौ ।
अनुज्ञां विधिवत्कुर्यात् ब्राह्मणानां समाजगे ॥ २६ ॥
देव देव जगन्नाथ जगदानन्दकारण ।
कल्याणार्थं प्रवर्तोऽहं लोकसङ्ग्रहणाय च ॥ २७ ॥
लोकानामिष्टकाम्यार्थं तवाज्ञां कुरु मे प्रभो ।
ततो देव्यालयं गत्वा प्रार्थयेदिष्टसिद्धये ॥ २८ ॥
अम्बिके देवि कल्याणि कारुण्याकरचन्द्रिके ।
जगदार्तिविनाशाय शम्भुपत्नी भविष्यसि ॥ २९ ॥
इत्युक्त्वा तां महादेवीं प्रणिपत्य गुरूत्तमः ।
वैवाह्य मूर्तिं सम्प्राप्य प्रार्थयेदिष्टसिद्धये ॥ ३० ॥
सोमास्कन्दादिदेवेषु पञ्चविंशतिकेषु च ।
ये ये शक्तियुता देवास्तेष्वेकस्य विधानतः ॥ ३१ ॥
प्। ७)
वर्षे वर्षे प्रकुर्वीत वैवाहिकमनुत्तमम् ।
उद्वाहभावनार्थाय देवदेवौ प्रपूजयेत् ॥ ३२ ॥
शक्तिविघ्नेशमभ्यर्च्य ग्रहप्रीतिपुरस्सरम् ।
सङ्कल्पञ्च ततः कुर्यान् मृत्सङ्ग्रहणमङ्कुरम् ॥ ३३ ॥
कृत्वा प्रतिसरं बद्धा देव्या देवस्य चैव हि ।
परेद्युः प्रातरुत्थाय सम्भारान् सम्भ्रियात्ततः ॥ ३४ ॥
ततो देव्यालयं गत्वा वाङ्निश्चयविधिञ्चरेत् ।
ततो ब्रह्मादयो देवा वसिष्ठाद्या मुनीश्वराः ॥ ३५ ॥
प्रादुरासन् स पत्नीकाः महेशप्रियकाम्यया ।
लोकसङ्ग्रहणार्थाय लौकिकीं वृत्तिमाश्रिताः ॥ ३६ ॥
सतानभ्यर्च्य देवादीन् गन्धपुष्पाक्षतादिभिः ।
सनालिकेरकदली पूगीफलसमन्वितम् ॥ ३७ ॥
वस्त्रयुग्मं समादाय कञ्चुकं कनकाञ्चितम् ।
उदुत्तरेति मन्त्रेण ब्रह्मघोषपुरस्सरम् ॥ ३८ ॥
सम्प्रार्थ्य देवीमभ्यर्च्य वस्त्रपुष्पोपहारकैः ।
उद्वाहार्थं पराशक्तिं प्रपूज्याऽथ विशेषतः ॥ ३९ ॥
उक्तद्रव्ययुतैस्तोयैः पाद्यमाचमनार्घ्यकम् ।
पर्यूषितार्चनं कृत्वा स्नानशालाप्रवेशनम् ॥ ४० ॥
सिह्मासने तु संस्थाप्य नृत्तगीतपुरस्सरम् ।
सुगन्धतैलाभ्यङ्गं स्नानीयोद्वर्तनं तथा ॥ ४१ ॥
प्। ८)
उष्णोदकस्नापनञ्च सर्वद्रव्याभिषेचनम् ।
ततः कुर्याद्विशेषेण धौतवस्त्रप्रमार्जनम् ॥ ४२ ॥
दुकूलपरिधानञ्च उत्तरीयसमन्वितम् ।
चन्दनागरुकस्तूरी कुङ्कुमादि विलेपनम् ॥ ४३ ॥
केशानामगरो धूपं यथा विधि विधाय च ।
मल्लिकामालती जाति चम्पकाद्यर्पणं तथा ॥ ४४ ॥
नवरत्नकिरीटञ्च चन्द्ररेखावतंसकम् ।
सीमन्तदेशे सिन्दूरं ललाटे तिलकं तथा ॥ ४५ ॥
कालाञ्जनमधो कृत्वा पालीयुगलमेव च ।
मणिकुण्डलयुग्मञ्च नासाभरणमप्यथ ॥ ४६ ॥
अधरे यावकञ्चैव ततः प्रथमभूषणम् ।
चिन्ताकं पतकञ्चैव महापतकमेव च ॥ ४७ ॥
मुक्तावलीमेक मुक्तावलीमपि विनिर्दिशेत् ।
वैकक्ष्यहारं केयूरचतुष्टयमथापि वा ॥ ४८ ॥
वलयानामावलीश्च ऊर्मिकावलिमेव च ।
काञ्चीदाम समारोप्य कटिसूत्रमथोपरि ॥ ४९ ॥
सौभाग्याभरणञ्चैव सर्वरत्नविभूषितम् ।
पादयोः कटकञ्चैव रत्ननूपुरमेव च ॥ ५० ॥
पादाङ्गुलीयकञ्चैव समारोप्य विशेषतः ।
आयुधानि करे कृत्वा तत्तत्कालविशेषतः ॥ ५१ ॥
प्। ९)
पादुकारोहणं कार्यं महामङ्गलसंयुतम् ।
धूपदीपं तथा कृत्वा पञ्चान्नादीन्निवेदयेत् ॥ ५२ ॥
षोडशैरूपचारैश्च ताम्बूलं मन्त्रपुष्पकम् ।
तत्तन्मन्त्रैश्च सम्पूज्य गौरीं कल्याण रूपिणीम् ॥ ५३ ॥
अथारोप्य गजे देवीं सिह्मे वा समलङ्कृताम् ।
आदिशक्तिसपर्यार्थं नदीतीरे प्रपादिषु ॥ ५४ ॥
समावेश्य तदा देवीं नानावादित्र निस्वनैः ।
कुम्भं संस्थाप्य विधिवत् पूजयित्वोपचारकैः ॥ ५५ ॥
कस्तूरिकुङ्कुमालेप कज्जलादिभिरादरात् ।
कबोराक्षिदर्पणादि सम्भारैरतिशोभनैः ॥ ५६ ॥
बीजमुद्गानि नैवेद्य पूर्णकर्म समाचरेत् ।
स्तुवीत ब्राह्मणैस्सार्धं प्राङ्मुखैर्ब्रह्मवादिभिः ॥ ५७ ॥
आदिमध्यान्तरहिताम् अम्बाममितविग्रहाम् ।
प्रणमामि महादेवीं महात्त्रिपुर भैरवीम् ॥ ५८ ॥
मदिष्टदेवते देवि मम प्रीतिविवर्धनम् ।
भर्तारं वरये देवि शिवमत्यन्तसुन्दरम् ॥ ५९ ॥
घटयस्व जगन्मातर्दीर्घमाङ्गल्य वृद्धये ।
इति प्रार्थ्य परां देवीं पूजयित्वा ततः परम् ॥ ६० ॥
आदिशक्तिममेयां तां ध्यात्वा निश्चलतां ययौ ।
तत्रैव जातकर्मादि कुर्याद्देव्याः प्रयत्नतः ॥ ६१ ॥
प्। १०)
आचार्यस्सर्व सम्भारान् वाद्यघोषपुरस्सरम् ।
गृहीत्वा देवदेवस्य कल्याणादिषु मूर्तिषु ॥ ६२ ॥
यस्य कस्यापि पुरतः गत्वा प्रार्थ्य पुर स्थितः ।
देव देव जगन्नाथ जगदार्तिहर प्रभो ॥ ६३ ॥
अनुज्ञां देहि मे स्वामिन् कल्याणार्थन्तु वाऽधुना ।
इति सम्प्रार्थ्य देवेशं धूपदीपौ निवेद्य च ॥ ६४ ॥
अभिषेकं ततः कृत्वा स्नानीयैस्स्नपनोदकैः ।
रुद्राध्यायमनुं जप्त्वा सर्ववाद्यपुरस्सरम् ॥ ६५ ॥
मकुटाङ्गदकेयूरहारनूपुरकङ्कणीम् ।
कटिसूत्रं यज्ञसूत्र * * * * * * बलिः ॥ ६६ ॥
एवमादिभिरन्यैश्च पादुकादिभिरेव च ।
जाजीचम्पक पुन्नाग कह्लारकम * * * * ॥ ६७ ॥
कारयेद्देवदेवस्य शिवस्य परमात्मनः ॥ ६८ ॥
व्रतादिकमथो * * * * * * * मङ्गलम् ।
सर्वोपचारैस्सम्पूज्य वृषमारोहयेच्छिवम् ॥ ६९ ॥
सर्ववाद्यसमायुक्तं नानाबि * * * * * * ।
प्। ११)
तत्र गत्वा तया सार्द्धं पाद्यार्घ्याचमनादिभिः ।
उपचार्य ततः * * * * * चतुर्विधम् ॥ ७१ ॥
निवेदद्धूपदीपैश्च्छत्रैश्चामर वीजनैः ।
उपचार्य यथा शास्त्रं नीराजनमथ * * ॥ ७२ ॥
उत्थाप्य मण्टपाग्रे तु स्थापयेत् पूर्वपश्चिमम् ॥ ७३ ॥
मालाविनिमय * * * * * * णमेव च ।
वाद्यैः प्रदक्षिणी कृत्य दासीदीपसमन्वितैः ॥ ७४ ॥
कल्याणमण्टपे रम्ये स्वस्तिमण्टप * * * ।
समावेश्य पूर्वाभिमुखमास्थितौ ॥ ७५ ॥
ततो यक्षबलिङ्कुर्यात् आचार्यस्साधकैस्सह ।
पुण्या * * * * * * * * * कदलीफलम् ॥ ७६ ॥
रक्तपुष्पसमोपेतं बलिं दद्याद्विचक्षणः ।
कृत्वा विवाहसङ्कल्पं वरप्रेषण * * * ॥ ७७ ॥
हरिब्रह्मादि देवनामर्चनङ्कलशेषु च ॥ ७८ ॥
सम्पूज्य विधिव * * * * * * * धिना यजेत् ।
प्रसुग्मन्तेति मन्त्रेण वरप्रेषणमाचरेत् ॥ ७९ ॥
आप * * * * ति मन्त्रेण पा * * * * * ।
यन्मधुनो मधव्येति मधुपर्कं समर्चयेत् ॥ ८० ॥
प्। १२)
कन्यकादान सङ्कल्पं कृत्वा तत्र विधानतः ।
गृहीत्वा * * * * * * * माप्य शिवस्य हि ॥ ८१ ॥
गृभ्णामीति च मन्त्रेण पाणिग्रहणमाचरेत् ।
अथ प्रच्छन्नवस्त्रेण प्रा * * * * * * * ॥ ८२ ॥
वस्त्रयुग्मं तदादाय तस्योपरि यथा विधि ॥ ८३ ॥
मं * * * * * * * * प्रानुग्रहमाचरेत् ।
बद्ध्वा माङ्गल्यसूत्रञ्च गौरीबीजेन देशिकः ॥ ८४ ॥
पादुकां पार्वतीं * * * * * * * कोत्तमः ।
एकमिषेति मन्त्रेण सप्तवारं व्रजेत्क्रमात् ॥ ८५ ॥
शिवाग्निं स्थापयित्वा तु परिस्तरणपूर्वकम् ।
मूलेनाष्टोत्तरं हुत्वा सोमायेति च मन्त्रतः ।
लाजहोम * * * * प्रदक्षिणपुरस्सरम् ॥ ८७ ॥
त्रिः कृत्वा च समिद्धेऽग्नौ शेषा आज्याहुतीर्हुनेत् ।
चित्तञ्चेत्यादि मन्त्रैश्च जयाद * * * * * ॥ ८८ ॥
नालिकेरकपित्थादि फलवर्गैस्समन्विताम् ।
द्राक्षा खर्जूरनारङ्ग खण्डशर्करयान्विताम् ॥ ८९ ॥
इक्षुखण्ड * * * * * * * * पशोभिताम् ।
पूर्णाहुतिमथो हुत्वा सप्तेति च मन्त्रतः ॥ ९० ॥
प्। १३)
उपस्थानमथो कृत्वा प्रणमे * * * * * ।
आर्द्राक्षतान् समारोप्य स्वस्तिवाचन ।
धूपदीपादिनैवेद्यताम्बुलाद्युपचारकैः ।
पूर्व * * * * * * निवेद्यापूपमोदकान् ॥ ९३ ॥
ताम्बूलादीन् ततो दत्वा गन्धपुष्पादि * * * ।
वीथी प्रदक्षिणं कुर्यात् सर्वानुग्रह वे * * ।
स दीर्घायुरवाप्नोति पुत्रान् पौत्रांश्च विन्दति ।
इति प्रोद्गीते विवाहविधिर्नाम षड्विंशति पटलः ॥ २६ ॥