ललितागमः
(सम्प्रोक्षणविधिमात्रम्)
प्। १)
॥ सम्प्रोक्षणम् ॥
ललितागमे सम्प्रोक्षणविधिः ॥
काली च दक्षिणे चैव पूजयेत्तु क्रमेण तु ।
दक्षिणद्वारवामे तु भृङ्गिणे तु समर्चयेत् ॥ १ ॥
गणेशं दक्षिणे भागे तन्मानञ्च यजेद्बुधः ।
पश्चिमद्वारवामे तु वृषभाय नमोन्तकम् ॥ २ ॥
स्कन्दस्य दक्षिणे भागे स्कन्देशाय नमो नमः ।
उत्तरद्वारवामे तु गौरीञ्चैव तु पूजयेत् ॥ ३ ॥
तद्दक्षिणाय चण्डेशं नमोन्तादिमिति स्मृतम् ।
तत्तद्ध्यानमनुस्मृत्य अर्चयेत्तु गुरोत्तमः ॥ ४ ॥
पश्चिमद्वारवामे तु महालक्ष्मीं प्रपूजयेत् ।
तत्वदृष्ट्या विशेषेणाक्षेपमथ शास्त्रकैः ॥ ५ ॥
पा * * त विशेषेण विघ्नोच्चाटनकर्मणि ।
घण्टान्तु ताडयेद्धीमान् त्रि * कारं यथा कुरु ॥ ६ ॥
इति द्वाराणि सं * प्य पश्चिमद्वारमाविशेत् ।
देहाल्यमध्यमे चैव अस्त्रमन्त्राणि पूजयेत् ॥ ७ ॥
वास्तुब्रह्मविशेषेण तन्मन्त्रेण समर्चयेत् ।
यागमण्टपकं पूर्वे भूमितत्वेन पूजयेत् ॥ ८ ॥
प्। २)
जलतत्वे नमोन्तञ्च तृणानां पूजयेत्ततः ।
अग्नितत्वे नमोन्तञ्च बन्धेषु यजनं क्रमात् ॥ ९ ॥
वायुतत्वे नमोन्तञ्च वंशानां पूजयेत्ततः ।
नममाकाशतत्वञ्च स्थूणानां पूजयेत्ततः ॥ १० ॥
चन्द्राय यजनञ्चैव विधानेन सुपूजयेत् ।
वासुकायां नमोन्तञ्च दर्भमाला सुपूजयेत् ॥ ११ ॥
पूर्वादीनि समारभ्य दर्पणं पूर्णकुम्भयोः ।
तन्नाम्नेन समभ्यर्च्य पाद्यादीन्युपचारकैः ॥ १२ ॥
वृषभं चामरञ्चैवा तन्नाम्ने [च] सुपूजयेत् ।
श्रीवत्सं स्वस्तिकञ्चैव तन्नाम्नेति पूजयेत् ॥ १३ ॥
शङ्खदीपेन कर्तव्यं पूजयेत्तु स्वनामतः ।
एवं क्रमेण सम्पूज्य शुद्धतत्वेन भावयेत् ॥ १४ ॥
आत्मदैवतमभ्यर्च्य विशेषार्घ्यञ्च कल्पयेत् ।
अस्त्रेण द्रव्यशुद्धिञ्च आत्मानं पूजयेत्ततः ॥ १५ ॥
स्वदक्षिणे पा * * * * * न्तं गमं चैव तु ।
विन्यसेत् हस्तेन धर्मादिभिर्मन्त्रयेत् ॥ १६ ॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्चैव * त्मकम् ।
कर्णिकायै नमोऽन्तञ्च मन्त्राणाञ्च स्मरन् गुरुः ॥ १७ ॥
मूर्ध्नि मध्ये विशेषेण विन्यसेत्तु विचक्षणः ।
अभिमन्त्रितपुंसञ्च ज्ञानखड्गञ्च सङ्गृहेत् ॥ १८ ॥
प्। ३)
अस्त्रेण दश सङ्ख्याभिः अभिमन्त्रेण बुद्धिमान् ।
पञ्चगव्यक्रमेणैव साधयेत्तु विचक्षणः ॥ १९ ॥
प्रोक्षयेत्पञ्चगव्येन अस्त्रमन्त्रं समुच्चरन् ।
तद्वैतञ्च विशेषेण परिधानाद्यलङ्कृतम् ॥ २० ॥
नैज्यदेवासनं कल्प्यम् उत्तराभिमुखस्थितः ।
निरीक्षणप्रोक्षणञ्चैव ताटनाभ्युक्षणं तथा ॥ २१ ॥
खड्गेनोद्धारणञ्चैव पूरणञ्च समीरणम् ।
कुट्टनं सेचनञ्चैव मार्जनं लेपनं तथा ॥ २२ ॥
कलारूपञ्च कल्याथ त्रिसूत्रीबन्धनं दृढम् ।
पू * ना रेखया चैव चतुष्पद्वीनि त्रिक्षिपेत् ॥ २३ ॥
वज्रीकरणमेवोक्तं शम्बरेण तु मन्त्रतः ।
फालचन्दनसिद्धास्यैः भस्मदूर्वाक्षतान् कुशान् ॥ २४ ॥
द्रव्यपञ्च समादाय विकरान्यस्त्रमुच्चरन् ।
कुशकूर्चञ्च सङ्ग्राह्य वर्धन्या मूर्ध्नि विन्यसेत् ॥ २५ ॥
तदूर्ध्वे स्थण्डिलं कल्प्य तोये हेमादिकुम्भयेत् ।
वामे तु वर्द्धनीञ्चैव पश्चिमाननमेव च ॥ २६ ॥
वृषभाय नमोन्तेन कुम्भे आसनमर्चयेत् ।
कुम्भे मूर्ध्नि च विन्यस्य शिवं साङ्गञ्च पूजयेत् ॥ २७ ॥
व्यालासननमोन्तञ्च वर्धन्याञ्च चलासनम् ।
पाशुपतास्त्रमूर्ती च पूर्ववद्ध्यानसंयुतम् ॥ २८ ॥
प्। ४)
इति ललितागम वचने पाशुपतास्त्रमन्त्रम् ।
ॐ श्रीं ह्रीं ग्लीं क्लीम् ऐं सौं पशु हुम्फट् स्वाहा ।
इति पाशुपतास्त्राय नमः ।
श्री स्थलपाण्ड्यन् ।
श्री स्थलीश्वराय नमः ॥