रामकठः
अथोपायपदार्थस्य परीक्षार्थं प्रश्नपूर्वकं प्रकरणान्तरम्
गरुड उवाच
सर्वानुग्राहकः प्रोक्तः शिवः परमकारणः ।
द्विजातयस्तु ये वर्णा न्यूनाधिकतया स्थिताः ॥ किर्त्_६।१ ॥
संस्कारो ऽपि यदैवं स्यात् फलमेवं न किं भवेत् ।
संस्कारः सदृशस्तेषां न्यूनाधिकगतिः कथम् ॥ किर्त्_६।२ ॥
रामकठः
अत्र सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः। वाक्यात्मकस्तु गुरुणा दीक्षितो यदेत्यादिभिरनेकविधः।
।क़ुओते{गुरुणा दीक्षितो यदा
।किर्। १:२१ब्।}
पाटलिकस्तु पूर्वपटलोपसंहार एव दर्शित इति।
अयं चात्र प्रश्नार्थः—परमेश्वरस्तावन्मलपरिपाकादनु पश्चात्संस्कार्यतया सर्वेषां ग्राहक इत्युक्तम्।
एतेषां मध्याद्द्विजातयस्त्रयो वर्णाः, नैकः। यदुक्तम्
मातृतः प्रथमा जातिरौपनायनिकापरा।
ब्रह्मक्षत्रविशां येन तेनोक्तास्ते द्विजातयः॥ इति।
।क़ुओते{मातृतः प्रथमा।देव्दोत् तेनोक्तास्ते द्विजातयः
सोउर्चे उन्क्नोwन्।}
जातिस्वाभाव्यादेवगोगवयगर्दभादिवत्सामान्यशास्त्रेषूत्तममध्यमन्यूनत्वेन स्थितास्तेषां च यः सामान्यशास्त्रविहितो गर्भाधानादिरष्टचत्वारिंशद्भेदभिन्नः संस्कारः तज्जातेरेव पतितत्वमात्रनिवृत्तिफलो वेदविद्भिरिष्यते तच्छरीरस्य वा। यदाह मनुः
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च।
गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः॥ इति।
।क़ुओते{कार्यः शरीरसंस्कारः।देव्दोत् @मौञ्जीनिबन्धनैः
{मनुस्मृति} २:२६।}
ततश्चायमपि दीक्षाख्यः संस्कारः संस्कारत्वा देवमिति जातेः शरीरस्य वा स्यात्। तथा च फलं तद्वदेवास्यानुग्रहात्मकं न किं भवेत्। नैव किञ्चिद्भवेदिति। ततश्च
गुरुणा दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वद्
।क़ुओते{गुरुणा दीक्षितो यदा। सर्वज्ञः स शिवो यद्वत्
।किर्। १:२१ब्च्।}
इत्यस्याः श्रुतेर्विरोध इत्यर्थः। यतो वैदिकेनायं संस्कारः सदृशस्तेषां ततो वैदिकात् न्यूना गतिरस्माच्चाधिकेत्येतत्कथम्। नैवोपपद्यत इति प्रश्नः। सिद्धान्तस्तु
रामकठः
भगवान् उवाच
न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः ।
रामकठः
नायं संस्कारो जातेः शरीरस्य वा मतः। अपि तु प्राणिनश्चेतनस्यैवानुग्रहात्मकः तथाश्रुतेरिति न साधर्म्यमात्रेणान्यथा कल्पनीयः। तन्नैष दोष इति।
ये त्वयमपि संस्कारत्वाज्जातेः शरीरस्य वा संस्कारो भवन्न दृष्टेनैव रूपेण श्राद्धादि पितृपितामहादेरिव पुरुषस्योपकारो भविष्यतीति कल्पयन्ति तान्प्रत्युच्यते
यदि जातेस्तदेकस्मिन् दीक्षिते ऽखिलदीक्षणम् ॥ किर्त्_६।३ ॥
तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः ।
चिद्रूपानुग्रहः प्रोक्तः सर्वानुग्राहकः शिवः ॥ किर्त्_६।४ ॥
रामकठः
जातेः सर्वपुरुषगतत्वेनाविशेषादेकपुरुषमोक्षोद्देशेन संस्कारे सर्वपुरुषमोक्षप्रसङ्गः। शरीरस्य तु पुरुषभेदेन भेदादेतत्प्रसङ्गाभावे ऽपि जडत्वान्निष्फल एव संस्कारः प्रोक्तः।
अथ तद्द्वारेण चेतनस्यैवासौ संस्कार इत्युच्यते यद्येवमविरोधः। यतश्चिद्रूपानुग्रहः प्रोक्तो ऽस्माभिरिति।
अत्रैव परीक्षान्तराय प्रश्नः
गरुड उवाच
सर्वानुग्रहकर्तृत्वाद् बालबालिशभोगिनाम् ।
कर्तव्यो ऽनुग्रहो देव स च संस्कारपूर्वकः ॥ किर्त्_६।५ ॥
संस्कारेणैव मुक्तिः स्यात् प्रोक्ता तन्त्रे यदा तदा ।
क्रियाज्ञानव्रतादीनाम् उपायानामहेतुता ॥ किर्त्_६।६ ॥
रामकठः
इह हि परमेश्वरः सर्वेषामेव मलपरिपाकात्पश्चात्संस्कार्यतया ग्राहकः। तेषां मध्यात्
आषोडशाद्भवेद्बालः
।क़ुओते{आ षोडशाद्भवेद्बालः
सोउर्चे उन्क्नोwन्। मोरे ओफ़् थे वेर्से इस् क़ुओतेद् इन् थे
।म्र्ग्व्द्। अद् ।व्प्। १०:१४, प्प्।२६६–७ अन्द् अद्
।मत्।व्प्। १२:५च्–६च्, प्।३३९, wहेरे
भत्त् ओब्सेर्वेस् थत् इत् अप्पेअर्स् (wइथ् सोमे
दिफ़्फ़ेरेन्चेस्) इन् थे {शब्दकल्पद्रुम}
(स्।व्। {बाल}) अत्त्रिबुतेद् तो भरत।}
इति स्मृतेर्बालो बालो ऽप्राप्तपदवाक्यप्रमाणशास्त्राभ्यासकालः कथ्यते। बालिशस्तु न ततो ऽपि न्यूनवर्षः शक्तिपातनिश्चयाभावादात्मनो ऽनधिकारित्वादसंस्कार्य एवासौ यतः। अपि तु स्त्रीशूद्रादिवत् पदवाक्यप्रमाणशास्त्रश्रवणायोग्यो बालिश इव बालिशः कथ्यते।
भोगी पुनर्न भोगनिष्ठ एव। तस्य मलपरिपाकाभावेन संस्कारानधिकारात्। यदुक्तम्
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।क़ुओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।किर्। २:२९च्द्।}
श्रीमद्विद्याधिपतिरप्याह
ते त्वच्छक्त्या नैव नियुक्ताः किल नूनं येषां भोगे संसृतिकर्तर्यभिलाषः।
किं ते तीर्णा भीममहाम्भोनिधिपारं ये यादोभिर्लुप्तशरीराः प्रतरन्त इति।
।क़ुओते{ते त्वच्छक्त्या।देव्दोत् ये यादोभिर्लुप्तशरीराः प्रतरन्ते
प्रोबब्ल्य् फ़्रोम् थे लोस्त् {मानस्तोत्र}, थ्रेए
वेर्सेस् ओफ़् wहिछ् अरे क़ुओतेद् इन् {तन्त्रालोक} १४:१०–१२। थेसे
अरे अल्सो इन् {मत्तमयूर} मेत्रे अन्द् हवे अ
सिमिलर् र्हेतोरिचल् स्त्रुच्तुरे। (अ विद्याधिपति इस्
अल्सो चितेद् अद् ।मोक्स। ६९।)}
अपि तु श्रुतपदवाक्यादिशास्त्रः सम्प्राप्ततदभ्यासकालश्चैश्वर्यव्याक्षेपात्त्वकृततदभ्यासो राजा दिरेवोच्यते। तेषां मलपरिपाके सति अवश्यमनुग्रहः शक्तिपातात्मकः कर्तव्यः परमेश्वरेण। स च तथाभूतो ऽनुग्रहः संस्कारस्य दीक्षात्मनः पूर्व एव पूर्वोक्तो हेतुरित्यर्थः। ततश्च
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वदिति
।क़ुओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वत्
।किर्। १:२१।}
श्रुत्यात्रागमे संस्कारेणैव बालादेरिव
प्रोक्ता सर्वस्य मुक्तिः स्यादिति दीक्षोत्तरकालमनुष्ठेयत्वेनोक्तानामस्माकं ज्ञानादीनां निष्प्रयोजनत्वमेव पदवाक्यप्रमाणसंस्काररहितत्वेनेहापि ज्ञानाद्ययोग्यानां बालादीनां संस्कारादेव मुक्तेः सिद्धत्वादित्यस्माकमपि पुरुषार्थानुपायभूतमेतत्क्रियाज्ञानाद्यनुष्ठानमकर्तव्यमिति प्रश्नः। सिद्धान्तस्तु
रामकठः
भगवान् उवाच
ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत् ।
रामकठः
ये पदवाक्यादिसंस्कारेण व्यवस्थिता ये च प्रकारान्तरेण बालादयः तेषां सर्वेषामेव भगवान्मलपरिपाकपरीक्षया तत्प्रकारानुसारेण प्रसादं करोति। न तु ज्ञानायोग्यान्परित्यजतीत्यर्थः। तथा हि
केचिच्चात्र क्रियायोग्यास् तेषां मुक्तिस्तथैव हि ॥ किर्त्_६।७ ॥
ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे ।
एवं येषां यथा प्रोक्तो मोक्षस्तेनेशयोजनात् ॥ किर्त्_६।८ ॥
रामकठः
येषां मुक्तिः सदा शिवत्वलक्षणा तथैव दीक्षाप्रकरणेनैवोक्ता तेषां मध्यात्केचिदत्र दीक्षोत्तरस्मिन्काले क्रियायां यागात्मिकायां जपबाह्यमानसभिन्नायामेव योग्या बाला भोगिनश्च न ज्ञाने। ननु ज्ञानं विना क्रियायां योग्यतैव न सम्भवतीति। यदाहुः
ज्ञात्वा चानुष्ठानमिति।
।क़ुओते{ज्ञात्वा चानुष्ठानम्
सोउर्चे उन्क्नोwन्। च्फ़्। जयरथ अद् {तन्त्रालोक} १५:११:
ज्ञात्वा हि अनुष्ठानं भवेदिति भावः}
सत्यम्। तत्तु क्रियाक्षिप्तत्वाज्ज्ञानं शास्त्रैकदेशमात्रविषयं
क्रियैवोक्तमित्यविरोधः। ये तु प्रोक्तेभ्यो ऽन्ये पदवाक्यप्रमाणकुशलास्ते ज्ञाने व्याख्याने च तदर्थ विचारे च योग्यत्वादाचार्या एवाधिक्रियन्त इत्यर्थः। ये त्वपरे बालिशत्वेनोक्ताः क्रियायामप्ययोग्यास्ते चर्यायामेव कृच्छ्रचान्द्रायणादिव्रतरूपायां योग्यत्वादधिक्रियन्त इत्येवमीशनियोजनाद्दीक्षानन्तरन्तेन भगवता येषां क्रियाज्ञानाद्यधिकारिणां यथा नित्यनैमित्तिकानुष्ठानप्रकारेण मोक्षः प्रत्यवायफलेभ्यः प्रोक्तस्तैस्तथैवानुष्ठेय इत्यध्याहारः। अन्यथा
समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः। इति।
।क़ुओते{समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः
।सर्। २५:२च्द्; बुत् च्फ़्। ।किर्व्। ५:२७।६ अन्द् १:१०।५ अन्द् थे
फ़ोओत्नोते तो थे त्रन्स्लतिओन् ओफ़् थे लत्तेर्।}
न प्रत्यवायफलेभ्यस्तेषां मोक्ष इत्यर्थः।
एवं तावद्यथाधिकारं ज्ञानादीनां चोदितत्वात्सर्वानुष्ठेयत्वदोषः परिहृतः।
यत्तूक्तं किमर्थमनुष्ठीयन्त इति तत्रोच्यते
ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते ।
दीक्षयैव न मोक्षः स्याद् उपायः स नियामकः ॥ किर्त्_६।९ ॥
रामकठः
न ज्ञानादीनां निष्प्रयोजनत्वमत्रोपायत्वेन श्रुतत्वात्। केवलं दीक्षापूर्वत्वेन तेषां श्रुतत्वात् न दीक्षया कार्यभूतो बन्धमोक्षः तस्य तयैवासम्पादितत्वात्। अपि तूपायः स नियामक इति येषां यथा बन्धनानां मोक्षार्थं विच्छेदात्मको नियमो दीक्षया न कृतः तेषां केषाञ्चिदेव स ज्ञानादिरुपायो नियामको विच्छेदको हेतुरुक्तः। तथा हि
सर्वानुग्रहकर्तृत्वाद् उपायास्ते प्रकीर्तिताः ।
एकः कस्मादुपायो न प्रोक्तस्तेन यदन्यथा ॥ किर्त्_६।१० ॥
रामकठः
इह हि वक्ष्यमाणयुक्त्यारब्धकार्यकर्मोपभोगोपरोधेनासद्योनिर्वाणदीक्षया
।क़ुओते{वक्ष्यमाणयुक्त्या
।किर्। ६:२० अन्द् चोम्मेन्तर्य्।}
सर्वात्मना मलादिविच्छेदशिवत्वव्यक्यात्मको ऽनुग्रहो यो भगवता न कृतः सो ऽपि तेन तथैवोपदेशद्वारेण कर्तव्यः।
ततश्च तस्मिन्दीक्षया परिशिष्टे तावत्यपि मलच्छेदादौ ते ज्ञानादय उपायाः प्रकीर्तिताः। तैरुपायैः प्रत्यहं क्रमेण तथा मलादिनिवृत्तिः शिवत्वव्यक्तिश्च कर्तव्या दीक्षितैर्यथा नैवारब्धकार्यकर्मविरोधो जायते।
नापि पुनस्तथाभूतबन्धनिवृत्तेः शिवत्वव्यक्तेश्च कारणान्तरापेक्षेति यद्येवं नाभिमतं परमेश्वरस्य स्यात् तदैक एव कस्मादुपायो दीक्षाख्यस्तेन नोक्तः।
यदिति यस्मादन्यथेत्यनेकः प्रोक्तो मोक्षो वाथ चतुष्टयादित्यादिश्रुतिभिः।
।क़ुओते{मोक्षो वाथ चतुष्टयात्
।मत्।व्प्। २६:६३द्।}
तस्मादेतद्गम्यते—यो दीक्षया न कृतो ऽनुग्रहस्तत्र ज्ञानादीनामुपायतेति। एवं च। यदुक्तम्
क्रियाज्ञानव्रतादीनामुपायानामहेतुता। इति।
।क़ुओते{क्रियाज्ञानव्रतादीनामुपायानामहेतुता
।किर्। ६:६च्द्।}
संस्कारेणैव मुक्तिः स्यादिति च,
।क़ुओते{संस्कारेणैव मुक्तिः स्यात्
।किर्। ६:६अ।}
तदसिद्धं दर्शितमेव विशिष्टाधिकारविषयत्वेन चैतत्सिद्धसाधनमित्युच्यते
रामकठः
समयांश्चाङ्गनादीनाम् अशक्तत्वाद्विशोधयेत् ।
अज्ञत्वान्न च दोषो ऽस्ति
रामकठः
बालिशास्तावदत्यन्ताज्ञत्वेन
।क़ुओते{तेस्तिमोनिउम्: फ़्रोम् बालिशास्तावदत्यन्ताज्ञत्वेन
उप् तो अन्द् इन्च्लुदिन्ग् दीक्षायामनधिकार एव
इस् क़ुओतेद् (प्रेफ़चेद् ब्य् तथा चोक्तं श्रीमत्किरणवृत्तिकारेण
भगवता रामकण्ठगुरुणा
ऽऽसमयाश्चेत्यादि।देव्दोत्ऽऽ)
ब्य् निर्मलमणि (=।निर्मल) इन् हिस् {प्रभाव्याख्या} ओन् थे
{क्रियाक्रमद्योतिका}, प्प्।३४६–७।}
चर्यायोग्या इत्युक्तम्। ये तु ज्ञत्वे ऽपि व्याधिना जरया वा अत्यन्तमशक्तास्तेषां वृद्धव्याधिताङ्गनादीनां नित्यतया वश्यानुष्ठेयत्वेन चोदितत्वाद्ये समयशब्देनोक्ताः क्रियाज्ञानचर्यात्मका उपायास्तान्विशोधयेदाचार्यो दीक्षयैवेत्युक्तं क्वचित्परमेश्वरेण
तेषां निर्बीजिका दीक्षा समयादिविवर्जिता। इति।
।क़ुओते{तेषां निर्बीजिका दीक्षा समयादिविवर्जिता
{स्वच्छन्दतन्त्र} ४:८८अब्।}
न त्वत्र निषिद्धाः समयत्वेन मन्तव्याः। तेषां देवगुर्वग्निद्रोहात्मनां पातकोपपातकमहापातकभेदेन कृच्छ्रचान्द्रायणादिप्रायश्चित्तक्षपणीयत्वेन वक्ष्यमाणत्वात्।
।क़ुओते{कृच्छ्रचान्द्रायणादिप्रायश्चित्तक्षपणीयत्वेन वक्ष्यमाणत्वात्
।किर्। छप्तेर्स् ४३ अन्द् ४४।}
ततश्चाज्ञत्वादित्यत्यन्तशक्तिवैकल्येन ज्ञानक्रियाद्यननुष्ठाने ऽपि न दोषः प्रत्यवायात्मकस्तेषामस्तीति।
चशब्दाद्ये पूर्वं तदनुष्ठितवन्तो ऽपि पश्चादशक्त्या नानुतिष्ठन्ति तेषामपि न दोषः।
यतो ऽर्थी शक्तो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिक्रियत इत्याह
।क़ुओते{अर्थी शक्तो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिक्रियते
क़ुओतेद् अल्सो अद् ।सर्। १:२, प्।६।
भत्त् नोतेस् (अद् लोच्।) थत् इत् अप्पेअर्स् अस् नुम्बेर् ७१९ ओफ़्
अ {लौकिकन्यायसाहस्री}। च्फ़्। {शाबरभाष्य} १।३।२५।}
ज्ञत्वाद्दोषो महान्भवेत् ॥ किर्त्_६।११ ॥
तेन तेषां विमुक्तिः स्याद् दीक्षया भक्तियोगतः ।
ये ऽत्र शक्ता न तेषां तु शोध्यास्तेषां प्रकाशयेत् ॥ किर्त्_६।१२ ॥
रामकठः
ज्ञत्वमत्र शक्तत्वमेव। यथाह ये ऽत्र शक्ता न तेषां दीक्षया शोध्याः। किं तु नित्यानुष्ठेयत्वेन प्रकाशयेदिति। ततश्च शक्तत्वे सति ये नित्याद्यनुष्ठानं न कुर्वन्ति तेषां महान्दोषः प्रायश्चित्तलक्षणो भवेत्।
नाशक्तानामिति। तर्हि किं तैर्नित्यमनुष्ठेयम्।
लौकिकेन रूपेण शिवधर्मोदितेन वा यथाशक्ति देवगुरुतद्भक्तपरिचरणादिकमेव स्वतः पुत्रभृत्यादिप्रेषणेन वा। तदेव च तेषां प्रागुक्तज्ञानादिकृत्यं साधयति। यथाह भक्तियोगत इति।
अन्यथा तेषामत्यन्तमूढत्वेन तिरश्चामिव शक्तिपातकार्यस्य भक्त्यादेरनिश्चयाद्दीक्षायामनधिकार एव। न च पुत्रादेस्तत्संस्कारार्थितया तेषां शक्तिपातानुमानं युक्तं व्यधिकरणत्वात्।
न हि धवे धूमः खदिरे स्वकारणमग्निमनुमापयतीति।
कारणं च शक्तिपातो भक्त्यादीनामित्युक्तम्। न त्वर्थितादेः। विशेषतो भिन्नाधिकरणस्य स्नेहसंस्कारपूर्वकत्वेनैव तस्य सिद्धेः। यदाहुः
इष्टं धर्मे नियोजयेदिति
।क़ुओते{इष्टं धर्मे नियोजयेत्
सोउर्चे उन्क्नोwन्।}
न ततः शक्तिपातानुमानं युक्तं प्रतिबन्धाभावादिति। भक्तियोगत एव तेषां तिर्यग्वैलक्षण्येन ज्ञानसिद्धेरत्यन्ताशक्तत्वेन च शास्त्रचोदितानुष्ठानासम्भवादप्राप्तदीक्षाणामिवोपासकानां भगवद्विषयस्तुतिनमस्कारसपर्याद्येव नित्यमनुष्ठेयं युक्तमित्यविरोधः।
येनैव तेषां ज्ञानाद्यननुष्ठेयमित्युक्तं तेन कारणेन यदुक्तम्
क्रियाज्ञानव्रतादीनामुपायानामहेतुता। इति
।क़ुओते{क्रियाज्ञानव्रतादीनामुपायानामहेतुता
।किर्। ६:६च्द्।}
संस्कारेणैव मुक्तिः स्यात्
।क़ुओते{संस्कारेणैव मुक्तिः स्यात्
।किर्। ६:६अ।}
इति च तस्मिन्विषये सिद्धसाधनत्वादयुक्तमिति।
अथोपसंहारः
एवं ज्ञानादिकं सर्वं तच्छक्तस्य प्रकाशयेत् ।
अन्यथा स्थितिभङ्गः स्यात् स्थितिश्चोक्ता शिवागमे ॥ किर्त्_६।१३ ॥
तदभावे न किञ्चित्स्यात् तेनायं नियमः स्थितः ।
सर्वानुग्राहकत्वेन स्थित्युपायविवक्षया ॥ किर्त्_६।१४ ॥
रामकठः
ज्ञानयोग्यस्य ज्ञानं नित्यानुष्ठेयतया प्रकाशयेदाचार्यः।
क्रियादियोग्यस्य तु क्रियादीनि। सो ऽपि तथैवानुतिष्ठेत्। अन्यथागमविहिताया नित्याद्यनुष्ठानात्मिकायाः स्थितेरननुष्ठानात् भङ्गः स्यादेव। एवं स्थितेर्भङ्गे जाते सति न किञ्चित्स्यादिति वक्ष्यमाणप्रायश्चित्ताक्रान्तत्वात् तस्य न दीक्षाफलं समनन्तरं स्यात्।
प्रायश्चित्तविघ्नाक्रान्तत्वादिति तेन कारणेनायं ज्ञानादीनां नित्यानुष्ठेयतया पुरुषार्थत्वेन नियमः स्थित इति।
तदननुष्ठाने तु तेषां प्रायश्चित्तफलभोक्तृता। तदन्ते तु विशुद्धज्ञानकेवलित्वेन परमेश्वरादनुग्रहस्तावतो ऽपि मलस्य द्रव्यत्वेन स्वतो निवृत्त्यसम्भवादित्येवं स्थित्युपायविवक्षयापि सर्वेषां परिणतमलानामनुग्राहको भगवानित्यदोषः।
अत्रैव परीक्षान्तराय प्रश्नः
गरुड उवाच
पाशविश्लेषणार्थं तु दीक्षापि क्रियते किल ।
विश्लेषो ऽपि न दृश्येत अदृष्टत्वात्कथं वद ॥ किर्त्_६।१५ ॥
रामकठः
दीक्षा पाशविश्लेषहेतुः। अपिशब्दाच्छिवत्वव्यक्तिहेतुश्च न भवति क्रियात्वाद्दर्शनान्तरदृष्टज्योतिष्टोमब्रह्महत्यादिक्रियावत्। कर्मणां च पाशानां दीक्षया विश्लेषो न सम्भवेत्।
शरीरान्तरभोग्यत्वे सति ततो देशकालदूरवर्तित्वेन दृष्टत्वात्।
खड्गविच्छेदो दूरस्थितभटादीनामिवेति प्रश्नार्थः। सिद्धान्तस्तु
भगवान् उवाच
पाशस्तोभात्क्षयः सिद्धः संसिद्धैः सो ऽपि शम्बरैः ।
शम्बराणामचिन्त्यत्वाद् यथा मूर्तविषक्षयः ॥ किर्त्_६।१६ ॥
रामकठः
पाशानां दुष्कृतकर्मरूपाणां स्तोभात्क्षयः। यस्मात्पाशस्तोभकर्म प्रायश्चित्तात्मकमुच्यते तस्मात्क्षयो दुष्कृतलक्षणानां कर्मणां येन भवतां सिद्धः तेनात्र प्रथमो हेतुरनैकान्तिक इत्यर्थः।
असिद्धश्चाकर्मत्वाद्दीक्षाया मन्त्रशक्तिर्ह्याचार्यव्यापाराभिव्यक्ता दीक्षेत्युक्तम्।
मन्त्राणां च सम्यक्सिद्धानामचिन्त्यशक्तित्वाद्विषक्षयादिरिव सो ऽपि पाशविश्लेषादिः सम्भाव्यत इत्यदोषः।
लोके ऽप्याहुः
अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः। इति।
।क़ुओते{अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः
ओच्चुर्स् अल्सो इन् {रत्नावली} अच्त् २, प्।३९ अन्द् इस् क़ुओतेद् अद् ।मत्।व्प्।
७:४९, प्।२४९ अन्द् अद् ।किर्व्। ३:११।}
द्वितीयो ऽपि हेतुरनैकान्तिक इत्युच्यते
नामसङ्कीर्तनादेव यथा कश्चित्प्रसाध्यते ।
दूरस्थो मन्त्रमुख्यैस्तु तद्वत्कर्मक्षयस्त्विह ॥ किर्त्_६।१७ ॥
रामकठः
अत्र दूरस्थितो ऽपि कामिन्यादिरर्थः तन्नाम्ना सङ्कीर्त्तितमात्रेण मन्त्रविशेषैः साध्यमानो दृष्टः। अशुभसूचकैश्च कर्मभिरकाल एव पुष्पफलादिः। यदाहुः
अकालजं पुष्पफलं शीतमुष्णमकालजम्।
अकालजो नदीवेगो सूचयन्ति महद्भयम्॥ इति।
।क़ुओते{अकालजं पुष्पफलं।देव्दोत् सूचयन्ति महद्भयम्
सोउर्चे उन्क्नोwन्।}
तथैव शरीरान्तरभोग्यस्वकर्माकाल एव मन्त्रबलादुपस्थापितमुपभुक्तत्वात्तत्रैव क्षयमेष्यतीति न दोषः कश्चित्।
अत्रैव प्रश्नान्तरम्
गरुड उवाच
अशेषपाशविश्लेषो यदि देव स दीक्षया ।
जातायामर्थनिष्पत्तौ कथं स्याद्वपुषः स्थितिः ॥ किर्त्_६।१८ ॥
रामकठः
यदि दीक्षया कर्मादिसर्वपाशविच्छित्तिर्भवेत् ततो निमित्ताभावाद्दीक्षितानां शरीरं न भवेत्। भवच्च दृष्टम्। ततो दीक्षायां सर्वपाशक्षयश्रुतिरग्निना सिञ्चेदितिश्रुतिवत्प्रत्यक्षादिबाधितत्वादप्रमाणमिति पूर्वः पक्षः।
।क़ुओते{अग्निना सिञ्चेत्
अन् ओल्द् एxअम्प्ले, थिस् ओच्चुर्स् अल्सो, ए।ग्।, इन् {शाबरभाष्य} ३।२।४।}
सिद्धान्तस्तु
भगवान् उवाच
जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि ।
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् ॥ किर्त्_६।१९ ॥
रामकठः
घटस्य निष्पत्त्यर्थं हि चक्रभ्रमणं तस्यां जातायां सम्पन्नायामपि यथा तत्संस्कारत एव चक्रभ्रमणं दृश्यते तथा सद्योनिर्वाणदीक्षायां कर्मादिसर्वपाशक्षये ऽपि तत्संस्कारेणैव दीक्षितानां कियन्तं कालं शरीरं तिष्ठतीति निमित्ताभावादित्यस्य हेतोस्तत्कालनैमित्तिकाभावासिद्धावनैकान्तिकत्वान्न प्रोक्तदीक्षाफलश्रुतिबाधक्षतिरिति। तदिदमाहुः
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीर इति
।क़ुओते{तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः
।सन्ख्। ६७च्द्।}
।नोइन्देन्त्
असद्योनिर्वाणदीक्षाविषये तु सर्वपाशक्षयाश्रुतेरयं हेतुरसिद्धत्वादेवाबाधक इत्युच्यते
अनेकभविकं कर्म दग्धबीजमिवाणुभिः ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ किर्त्_६।२० ॥
देहपाते विमोक्षः स्यात् सद्योनिर्वाणदापि वा ।
कार्याणुभिः सदा सिद्धैस् तेन ते शिवयोजकाः ॥ किर्त्_६।२१ ॥
रामकठः
सद्योनिर्वाणदीक्षायां तावत्सर्वाण्येव प्रागर्जितानि कर्माणि मन्त्रशक्तितः फलाप्रसवेनाप्यकाल एव भोगतः क्षयं नीयन्त इत्युक्तम्। असद्योनिर्वाणदीक्षायां तु सद्योमुमुक्षोरनधिकारान्न तस्य शरीरस्य विनाशाय मन्त्राः प्रयुज्यन्ते। अपि तु रक्षणायैव यस्माद्येनेदं कर्मणा यथा च शरीरमारब्धं तस्य भोगेनैव क्षयः। नानयेति। यत्तु दीक्षोत्तरकालमनुष्ठेयत्वाद्भविष्यदित्युक्तं कर्म तत्संस्कारारम्भसामर्थ्याभावद्वारेणानया संरुद्धम्। यतः प्रकृतौ कर्मणां संस्कारः कार्य इत्युक्तम्।
अतश्च सर्व एव मन्त्रशक्त्या दीक्षितं प्रति दग्धबीजाः सम्पन्नास्ते कर्मविशेषाः। न पुनस्तत्संस्कारपात्रतां यान्तीति सद्योनिर्वाणदीक्षायाञ्चाराधितमन्त्रसामर्थ्यतस्तत्क्षये ऽपि चक्रभ्रमवद्धृतशरीरावस्थितेरुक्तत्वान्न दीक्षानन्तरमेव शरीरपातदोष इति।
अत्र प्रश्नः
गरुड उवाच
पाशमुक्तस्य यच्चिह्नं स्वल्पमप्यत्र किं न तत् ।
दृश्यते भक्तिचिह्नेन न च चिह्नं क्वचित्स्फुटम् ॥ किर्त्_६।२२ ॥
स्फुटं यत्र क्वचिद्दृष्टं तत्रापि व्यभिचारिता ।
रामकठः
यद्येवमसद्योनिर्वाणदीक्षयैतच्छरीरभोगप्रदकर्मपाशामुक्त्वत्वे ऽपि तस्य मलाद्यन्यपाशमुक्तत्वे यच्चिह्नमविनाभावि सर्वज्ञत्वादिकं तत्स्वल्पमपि कथं न दृश्यते। तद्दर्शनाभावेन प्रमाणान्तरसिद्धप्रदीपावरणनिवृत्त्यसिद्धिवत् न तस्य तदानीं पाशमुक्तत्वसिद्धिरिति पुनरपि दीक्षाफलश्रुतेः प्रमाणान्तरेणैव बाधात् अप्रामाण्यमिति प्रश्नार्थः।
न च वाच्यं बाह्यचिह्नान्तरेण भक्त्यात्मनासौ पाशमुक्तो दृश्यत इति यतो न क्वचित्तत्पाशमुक्तस्य चैतच्चिह्नमुक्तम्। अपि तु शक्तिपातयुक्तस्यैव। स्फुटं च कृत्वा यत्रापि शक्तिपातयुक्ते तच्चिह्नं दृष्टं तत्राप्यस्य व्यभिचारितेत्युक्तं प्राक् तिरोभावकरी शक्तिरित्यादिना।
।क़ुओते{तिरोभावकरी शक्तिः
।किर्। ५:२३ब्।}
तत्कथमस्य व्यभिचारित्वमुच्यते। सर्वथा पाशमुक्तस्य लिङ्गादर्शनेनासिद्धेः प्रोक्त एव दोष इति प्रथमः प्रश्नः। द्वितीयस्तु
प्रागुक्तं योजनं तस्य तद्युक्त्या ग्राहपूर्वकम् ॥ किर्त्_६।२३ ॥
विभुत्वात्तस्य नो ग्राहस् तथामूर्ततयापि च ।
महानत्र विरोधः स्यात् कथमेतद्ब्रवीहि मे ॥ किर्त्_६।२४ ॥
रामकठः
यदुक्तं प्राक् मोक्षस्तेनेशयोजनादिति
।क़ुओते{मोक्षस्तेनेशयोजनात्
।किर्। ६:८द्।}
तदयुक्तं यतो यस्य प्रत्यक्षेण परिच्छेदात्मकं ग्रहणम्
।च्रुx युक्त्या आदानेषिकया।च्रुx। स्वीकारात्मकं च सम्भवति तस्य योजनं देवदत्तादेरिव राजादौ। न चात्मनो ऽस्मदादिग्रहणस्वीकारौ सम्भवतो व्यापकत्वादीश्वरादेरिवेति योजनानुपपत्तिः।
अथ शरीरद्वारेण तस्य तौ भवत इत्युच्यते यदुक्तं प्राक् सूक्ष्मदेहविवक्षयेति।
।क़ुओते{सूक्ष्मदेहविवक्षया
।किर्। २:१०द्।}
तदप्ययुक्तं यतस्तथेति तस्याप्यस्मदादिग्रहणं न सम्भवति अमूर्तत्वात्। कार्यशक्त्यवस्थावत्। अत्यन्तसूक्ष्मत्वादित्यर्थः। अपि चेत्यनेनैवानुक्तं हेत्वन्तरं समुच्चितमदृष्टवशादिति।
ग्रहणे हि तस्य बान्धवादिभिरपरित्यागात्पुंसां मरणाद्यनुपपत्तिरित्यत्रादृष्टेनैव ततो ऽस्मदादिग्रहणं व्यावर्त्यते। यदाहुः
पुमर्थदादृष्टवशाद्देहो नैवातिवाहिकः।
अक्षाधारो ऽक्षगम्यो ऽयमनीशानां पिशाचवत्॥ इति।
।क़ुओते{पुमर्थदादृष्टवशाद्।देव्दोत् पिशाचवत्
{भोगकारिका} ८।}
तदेवमात्मनः सर्वथा ग्रहणाभावेन संयोजनाद्यभावात्परपुरुषार्थैकप्राप्त्युपायत्वेनोक्ताया दीक्षाया अनुपपत्तेर्महान्विरोध इति द्वितीयः प्रश्नार्थः। सिद्धान्तस्तु प्रथमप्रश्ननिरोधाय।
रामकठः
भगवान् उवाच
तच्चिह्नं वासनानिष्ठा- तत्कर्मण्यविकल्पना ।
रामकठः
अयमर्थो ऽसद्योनिर्वाणदीक्षायां तावदेतच्छरीरभोगप्रदं कर्म पुंसो न क्षपणीयमित्युक्तम्। मलेन च कार्यकरणैश्च विना भोगानुपपत्तेरर्थान्मलस्य सूक्ष्मदेहस्य च न सर्वात्मना विच्छेद इति प्रतीयते। अपि तु तद्भोगोपरोधेन वासनात्मनांशेन विच्छेद इति तत्र सर्वात्मना पाशान्तरविच्छेदस्याप्यसिद्धेः शिवत्वव्यक्त्यसम्भवात्तच्चिह्नं सर्वज्ञत्वादि न दृश्यत इत्यध्याहारः। यतो मलादिवासना विद्यत इति।
यत्तु चिह्नान्तरमपि तस्य नोपलभ्यत इत्युक्तं तदयुक्तं यतो या मललिङ्गयोरनयोरनया दीक्षया परिशेषितांशमात्ररूपा वासनेत्युक्तं तस्या निष्ठान्त्यो विनाशः तदर्थं यत्कर्म नित्यनैमित्तिकमनिषिद्धं ज्ञानक्रियाचर्यात्मकं प्राक् प्रतिपादितं तस्मिन्नविकल्पना विकल्पाभावः।
यथाचोदितत्वेनानुष्ठानविवेकितास्यतावत्यपि पाशमोक्षे चिह्नमव्यभिचारि दृश्यत एव। अन्यथा तथाभूतत्वानुपपत्तिरिति न तदभावात्तस्य पाशमुक्तत्वासिद्धेः प्रोक्तदोष इति।
द्वितीयस्यापि प्रश्नस्य निरासः।
तनुस्थं हि कथं चैतत् स्पन्देनाप्यनुमीयते ॥ किर्त्_६।२५ ॥
रामकठः
यदा विभुत्वादात्मनो ग्रहणं न सम्भवतीति अयं हेत्वर्थस्तदा तनुस्थमिति कार्यकरणाभिव्यक्तं कथमेतद्व्यापकं स्वरूपमस्यात्मनः स्वसंवेदनेनानुमीयते गृह्यते ज्ञानयोगादिभिश्च संस्क्रियत इति तेनायं हेतुरनैकान्तिक इत्यर्थः। तथा स्वात्मवदन्यात्मन्यपि परिस्पन्देनेति कायवाग्व्यवहारादिना तल्लिङ्गेनानुमीयते गृह्यत इति तेनाप्यनैकान्तिकः। आकाशेनापीत्युच्यते
रामकठः
विभुत्वे खं यथा शब्दाद् अमूर्तं हि विषं यथा ।
गृह्यते मन्त्रशक्त्यासौ वाच्यस्तच्छक्तिको गुणः ।
रामकठः
आकाशस्य प्राक्कार्यत्वेनोक्तेर्विभुत्वासम्भवादत्रान्यभूतापेक्षया विसृतत्वे ऽपि यथा विशिष्टेन शब्दात्मना गुणेन तद्गृह्यते योगिभिश्च स्वीक्रियते। तथैव दीक्ष्यस्यात्रागमे मन्त्रशक्त्या ग्रहणम्।
संस्कार्यत्वसम्भवान्न योजनानुपपत्तिरिति।
यदप्युक्तं सूक्ष्मदेहस्यामूर्तत्वेनादृष्टवशाच्चास्मदाद्यगोचरत्वान्न तद्द्वारेणापि दीक्षितस्य ग्रहणमिति। तदपि मन्त्रशक्त्यास्मदादिभिरमूर्ताया अपि विषशक्तेर्ग्रहणनिदर्शनादनैकान्तिकमिति।
यथा सा विषशब्दवाच्या मारणशक्तिरस्मदादिभिर्गृह्यते तथैवात्मशब्दवाच्यो ज्ञानक्रियात्मको गुणः सूक्ष्मदेहशब्देनैव वाच्यश्च भोगसाधनात्मक आगममन्त्रशक्त्या गृह्यते संस्क्रियते चेति नात्र योजनानुपपत्तेः संस्कारानुपपत्तिदोष इति।
अथेह किमात्मको मन्त्रो यस्य शक्त्येत्युच्यते
वाच्यवाचकयोगेन ज्ञेया मन्त्राणवः खग ॥ किर्त्_६।२६ ॥
वृत्ति:
।देव्दोत्
मन्त्री गुप्तभाषणो
।क़ुओते{मत्रि गुप्तभाषणे
{धातुपाठ} १०:१४०।}
विपद्येतेति शब्दभाषणयोगान्यथैव मन्त्रा वाचका अपि च मन्त्रशब्देनोच्यन्ते। तथैव तद्वाच्याश्चाणवो विशिष्टा इति॥ ।च्रुx।
%% नो चोलोफोन्—तेxत् ब्रेअक्स् ओफ़्फ़् हेरे अन्द् रेसुमेस् तोwअर्द् थे बेगिन्निन्ग् ओफ़्
%% छप्तेर् ७