रामकठः
अथ पाशपदार्थस्यैव परीक्षान्तरार्थं प्रश्नपूर्वं प्रकरणान्तरम्॥
रामकठः
गरुड उवाच
शक्तिपाताद्भवेद्दीक्षा निपातो न विभुत्वतः ।
रामकठः
अत्र सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः। वाक्यात्मकस्तु
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।क़ुओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।किर्। १:२१अब्।}
इत्यादिभिरनेकविधः। पाटलिकस्तु सर्वानुग्राहकः शान्त इत्यादि।
।क़ुओते{सर्वानुग्राहकः शान्तः
।किर्। ४:२९च्।}
अयं चात्र प्रश्नार्थः। यदुक्तं
तीव्रशक्तिनिपातेन गुरुणा दीक्षित इत्येतदयुक्तम्। पातो ह्यव्यापकत्वेन व्याप्तः कुण्डबदरादिसिद्धस्तद्विरुद्धं च व्यापकत्वं ततो व्यापकविरुद्धोपलब्ध्यात्र व्यापकत्वेन शक्तेरव्यापकत्वाभावे पतनाभावः साध्यत इति। न चायमसिद्धो हेतुः।
प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यत इति
।क़ुओते{प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते
।किर्। ४:१च्द्।}
पूर्वमेव व्यापकत्वेनास्याः समभ्युपगमादिति। न तु मायया नैकान्तिकत्वमत्रेत्युच्यते
शिवस्य समवेतत्वात् सर्वदैव स्थिता पशौ ॥ किर्त्_५।१ ॥
रामकठः
परिग्रहवर्त्तिनी शक्तिरचेतना मायेत्युक्तम्। ततश्च परिणतिस्वभावत्वात्कार्यक्रमेण पुंसः प्रलयोत्तरकालं सा पततीति युज्यते वक्तुम्। इयं तु परमेश्वरसमवेतत्वाच्चिद्रूपत्वेनापरिणतिधर्मिणी। यदुक्तम्
परिणामो ऽचेतनस्य चेतनस्य न युज्यत इति।
।क़ुओते{परिणामो ऽचेतनस्य चेतनस्य न युज्यते
।किर्। २:२६अब्।}
ततश्च सर्वदैव पशौ सानुग्राहिकात्वेन संस्थितेति नानैकान्तिकता समवेतत्वे सतीति विशेषितत्वादत्र हेतोरित्यर्थः।
अथ सैव स्थितिः पात इत्युच्यते। यद्येवं
रामकठः
स्थितत्वात्सर्वदा शक्तेर् भवोच्छित्तिर्न किं भवेत् ।
रामकठः
तस्याः सर्वपुरुषगतत्वेनानादिव्यवस्थितेः सर्वपुरुषाणामप्यनादिरेव दीक्षायोगान्मोक्ष इति संसाराभावप्रसङ्गः। अभ्युपगम्यापि शक्तेः प्रागुक्तं पातमित्युच्यते
कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम् ॥ किर्त्_५।२ ॥
वृत्ति:
वाशब्दः पक्षान्तराभ्युपगमसूचनार्थः। अथवा यदुक्तं प्राक्
समे कर्मणि सञ्जाते कालान्तरवशादिति।
।क़ुओते{समे कर्मणि सञ्जाते कालान्तरवशात्
।किर्। १:२०च्द्।}
मलपरिपाककालः प्रोक्तः। चशब्दात् को ऽन्यः प्रोक्त इति। किं प्रागुक्त एव शक्तिपातस्य कालो ऽन्यो वेत्यर्थः। न तु तस्यैवाज्ञातत्वेन व्याख्येयं प्राक् प्रतिपादितत्वेन तस्याज्ञानसम्भवाभावात्।
यदपि कालः शक्तिपातस्य निमित्तम्, शक्तिपातो दीक्षाया इति प्रागुक्तं तदप्ययुक्तम्।
यतः कालो यदि शक्तिपातस्य हेतुरिष्यते ततः स एव दीक्षाहेतुरस्तु किं शिवेनात्र शक्तिपातद्वारेण मोक्षहेतुना कल्पितेन।
भोगे तु स्थूलं विचित्रकं कार्यमित्यादिना प्रतिपादितत्वात्तस्य कर्तृत्वमस्त्विति प्रश्नार्थः।
।क़ुओते{स्थूलं विचित्रकं कार्यम्
।किर्। ३:१२अ।}
इदं प्रश्नजातं क्रमेण निराकरोति।
भगवान् उवाच
उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते ।
यथा पुमान्विभुर्गन्ता नित्यो ऽप्युक्तो विनश्वरः ॥ किर्त्_५।३ ॥
पाशच्छेदो यथा प्रोक्तो मन्त्रराड् भगवाञ्छिवः ।
एवं शक्तिनिपातो ऽपि प्रोच्यते सोपचारतः ॥ किर्त्_५।४ ॥
रामकठः
तत्र यदुक्तं निपातो न विभुत्वतः शक्तेरिति तत्सिद्धसाधनमेव।
अत एव त्वदुक्तप्रमाणबाधितत्वान्मुख्यार्थासम्भवेनास्माभिरपि शक्तिपातश्रुतीनामुपचरितार्थत्वमभ्युपगतम्।
यथा नित्यव्यापकधर्मयुक्तो ऽपि पुरुषो गन्ता विनश्वरश्च स्वशरीरेणोपचारेणोच्यते। यथा च पाशानां दीक्षितं पुरुषं प्रत्यप्रवर्तनमेव च्छेद इव च्छेद उच्यते।
न तु वास्तवो द्वैधीभावः। यथा च मन्त्रैर्विराजत इति मन्त्रराट् परमेश्वरो ऽपि सन् भगवानुपचारादुच्यत इत्यविरोधः।
अथात्रोपचारस्य निमित्तमनादिस्थिताया वामशक्तेस्तावत् पातपदप्रवृत्तावुच्यते
निपातो भयदो यद्वद् वस्तुनः सहसा भवेत् ।
तद्वच्छक्तिनिपातो ऽपि प्रोक्तो भवभयप्रदः ॥ किर्त्_५।५ ॥
तस्मादन्यत्र यात्येव तथात्मा देशिकं प्रति ।
रामकठः
यथा हि पाषाणादिपातो भयदः पुंसामेवमनादिरपि परमेश्वरशक्तेः सम्बन्धः संसारभयहेतुत्वात्पात इवोच्यते।
ज्येष्ठाशक्तिसम्बन्धिनो ऽपि दीक्षापूर्वभावित्वेन प्रागुक्तस्य पातस्योपचारनिमित्तमुच्यते
गुरुर्यथाग्रतः शिष्यान् सुप्तान्दण्डेन बोधयेत् ॥ किर्त्_५।६ ॥
शिवो ऽपि मोहनिद्रायां सुप्ताञ्छक्त्या प्रबोधयेत् ।
यदा स्वरूपविज्ञानं पतितेति तदोच्यते ॥ किर्त्_५।७ ॥
तस्माच्छक्तिनिपातः स्यान् निपातश्चिह्नवाचकः ।
रामकठः
यथाग्रे स्थितत्वाविशेषे ऽपि शिष्याञ्छासने ऽर्हान् योग्यानेव गुरुर्दण्डेन बोधयति न त्वशिष्यान्।
एवं मोहो मलस्तस्य निद्रा कार्यं प्रत्यसामर्थ्यं परिपाकविशेषस्तस्यां सत्यामपि ये सुप्तास्तन्निवृत्त्युपायसंविद्विकलास्तान्परमेश्वरस्तयैव पूर्वव्यवस्थितया शक्त्या बोधयति।
एवं सैव मलपरिपाकयोग्यतानुसारेण यदा विशिष्टं तन्निवृत्त्युपायविज्ञानं संसारवैतृष्ण्यादिक्रमेण जनयति तदा ज्येष्ठा शक्तित्वेन कार्यहेतुः पतितेत्युपचारादुच्यते। यदुक्तं
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।क़ुओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।किर्। २:२९च्द्।}
श्रीमन्मतङ्गे ऽपि
संसारात्स विरज्येत प्रध्वस्तकलुषः सदा। इति।
।क़ुओते{संसारात्स विरज्येत प्रध्वस्तकलुषः सदा
।मत्।व्प्। १०:२५च्द्।}
श्रीमत्स्वायम्भुवे ऽपि
तन्निपातात्क्षरत्यस्य मलं संसारकारणम्।
।क़ुओते{तन्निपातात्।देव्दोत् परं निःश्रेयसं प्रति
।स्वयम्। १:१७।}
क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति। इति॥
ततश्च यदुक्तं
स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेदिति।
।क़ुओते{स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेत्
।किर्। ५:२अब्।}
तदप्यदूषणमेव। सर्वदास्थितत्वे ऽपि तस्यास्तत्र मलपरिपाकानुसारेण तदैव भवविच्छित्तिकारणत्वं नान्यदान्यत्र चेति यतः।
तृतीयो ऽपि प्रश्नः प्रतिषिध्यते।
तन्निपातस्य सः कालः कर्मणां तुल्यतैव च ॥ किर्त्_५।८ ॥
रामकठः
यदुक्तं कालो वा स च कः प्रोक्त
।क़ुओते{कालो वा स च कः प्रोक्तः
।किर्। ५:२च्।}
इति तत्रोच्यते—कर्मणां तुल्यतैव चेति।
चशब्दात्तुशब्दतो वा चस्थानीयात् प्रागुक्तश्च मलपरिपाकः। एवकारेण चात्र तृतीयस्य कालस्याभावः कथ्यते। न प्रागुक्तस्यापि समुच्चीयमानावधारणत्वात्।
तुल्यशब्दस्योभयार्थत्वात् कर्मणोर्द्वयोः साम्यं परिपाकस्तीव्रवेगता चेति दर्शयिष्यामः कर्मांशो यो ऽधिकः पूर्वं भोगद इत्यत्र।
।क़ुओते{कर्मांशो यो ऽधिकः पूर्वं भोगदः
।किर्। ५:१०च्द्।}
तदानीं हि
युगपत्तुल्यबलविरुद्धकर्मद्वयाकृष्टस्य पुंसः कामुकद्वया कृष्यमाणायाः कामिन्या इव भोगानुपपत्तिरिति वक्ष्यामः
समत्वे सति यो भोगः कथं तस्य प्रजायत इति।
।क़ुओते{समत्वे सति यो भोगः कथं तस्य प्रजायते
।किर्। ५:११अब्।}
एवं च सत्यनादौ संसारे कस्यचित्कदाचित्तथाभूतकर्मसङ्कटान्तःप्रवेशेन भोगानुपपत्तेः संसाराभावप्रसङ्ग इत्यवश्यं तत्परिहारायानीश्वरवादिभिरप्यत्रेश्वरशक्तिपातः कामिन्यादौ राजशक्तिवदभ्युपगन्तव्यो गत्यन्तराभावात्।
अनेनैव च रूपेण कर्मणोः समत्वमत्र शक्तिपातस्य कालो ज्ञेयो न तु सङ्ख्याकृतमिति दर्शयितुं पुनरुक्तिः।
रामकठः
तुल्यत्वं कर्मणः कालः
रामकठः
समसङ्ख्यत्वेन ह्यविरोधतो न कदा चिद्भोगानुपपत्तिः।
अन्यथा विशेषाभावात् सर्वदैव शक्तिपातप्रसङ्गतः कर्मभोगासम्भवात्।
नाभुक्तं कर्म नश्यतीत्यागमविरोधः।
।क़ुओते{नाभुक्तं कर्म नश्यति
सोउर्चे उन्क्नोwन्। अल्सो क़ुओतेद् (अस् {श्रुति})
अद् ।मत्।व्प्। ८:१०३, प्।२८८ अन्द् थेरेअफ़्तेर् (सेए नोते तो त्रन्स्लतिओन्)।}
अत एव मलपरिपाकलिङ्गत्वेन प्रागुक्तादपि कर्मसाम्यादिदमन्यदेव कर्मविरोधात्मकं शक्तिपातैकनिवर्त्यं कर्मसाम्यमित्यदोषः।
अथ शक्तिपातात्कीदृशं तत्कर्मद्वयं भवतीति तदर्थमेतत्
रामकठः
क्षीणं वा यदि वासमम् ।
रामकठः
यदा तयोर्विरुद्धयोरपि कर्मणोरवशिष्टं सर्वमेव कर्मावापगतत्वेन सममेव सम्पद्यते तदानीं कर्मान्तरस्यानावापगतस्यानुरोध्यस्यासम्भवात्तत्त्वैः समग्रैरेव सह क्षीणं भवतीति पुंसां विज्ञानकेवलित्वमेव।
यद्वक्ष्यति समे भोगस्तदा न हीति।
।क़ुओते{समे भोगस्तदा न हि
।किर्। ५:११द्।}
यदि वेति पक्षान्तरम्। यदा पुनर्न सर्वमेव तयोर्विरुद्धयोरपि कर्मणोरवशिष्टमावापगमनाय योग्यमपि तु किञ्चिज्जात्यन्तरादिहेतुत्वेनापि सम्भवतीति तदानीं तदनुरोघेन शक्तिपातादन्यतरदसममपतितशक्तिकं भवतीति विरोधाभावात्सर्वाण्येव भोग्यानि सम्पद्यन्त इति वक्ष्यति
अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायत इति।
।क़ुओते{अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायते
।किर्। ५:१२च्द्।}
अत्र पराभिप्रायः
रामकठः
समत्वं तत्कथं गम्यं
रामकठः
यदेतद्युगपत्परस्परविरोधात्मकं समत्वं तत्कथं ताभ्यां कर्मविशेषाभ्यां प्राप्यम्।
नैवेत्यर्थः। अनुष्ठानक्रमस्यैव फलदानापेक्षितत्वादिति भावः।
अत्र सिद्धान्तः
रामकठः
न्यूनाधिकतुटिः कथम् ।
रामकठः
न्यूना चाधिका च तुटिः कालः। स कथं गम्यते।
कृष्यादिभिर्दृष्टैः कर्मभिरित्यध्याहारः।
एतदुक्तं भवति—कृष्यादिकर्मभिरयं हेतुरनैकान्तिकः।
यतस्तेषां क्रमेणाप्यनुष्ठितानां कदाचित्पश्चादनुष्ठितस्य न्यूनः कालः शीघ्रमेव पूर्वानुष्ठितेन सहभाव फलं कुर्वन्दृश्यते।
पूर्वानुष्ठितस्य त्वधिकश्चिरात्मक इति तद्वदत्रापि सम्भवाद्गम्यमेवैतत् कर्मणोः समत्वमित्यविरोधः। ततश्च
एवं सूक्ष्मं समानत्वं यस्मिन्काले तदैव सा ॥ किर्त्_५।९ ॥
रामकठः
स्वरूपं द्योतयत्याशु बोधचिह्नबलेन वै ।
रामकठः
एवं दृष्टस्येवादृष्टस्यापि कर्मणः सम्भाव्यमानं परस्परविरोधात्मकं समानत्वमस्मदाद्यगोचरत्वात् सूक्ष्मं यस्मिन् काले भवति तस्मिन्नेव काले सा पारमेश्वरी शक्तिः।
बोधचिह्नस्य यद्बलं मलपरिपाको यदुक्तम्
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।क़ुओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।किर्। २:२९च्द्।}
श्रीमन्मतङ्गे ऽपि
संसारात्स विरज्येत प्रध्वस्तकलुषः सदेति।
।क़ुओते{संसारात्स विरज्येत प्रध्वस्तकलुषः सदा
।मत्।व्प्। १०:२५च्द्।}
श्रीमत्स्वायम्भुवे ऽपि
क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रतीति।
।क़ुओते{क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति
।स्वयम्। १:१७च्द्।}
तेन स्वरूपं सर्वज्ञत्वादि पुंसो दीक्षाद्वारेण द्योतयति। यदुक्तं
गुरुणा दीक्षितो यदा।
।क़ुओते{गुरुण दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वत्
।किर्। १:२१ब्च्।}
सर्वज्ञः स शिवो यद्वदिति
न तत्र मलपरिपाकापेक्षो ऽन्यः शक्तिपातः अपि तु स एव प्रसङ्गादुभयनिमित्तं सम्पद्यत इति भावः।
वैशब्दो ऽपि प्रकारान्तरे बोधचिह्नबलाभावे तु
क्षीणं वा यदि वासममित्युक्तमेव
।क़ुओते{क्षीणं वा यदि वासमम्
।किर्। ५:९ब्।}
प्रकारान्तरं यतः।
एवं च यः शक्तिपातो मलपरिपाकनिमित्तत्वेन संहितान्तरेषु श्रुतः स दीक्षाक्रमेणात्रापि मोक्षहेतुतया प्रोक्त एव। यस्तु कर्मसाम्यनिमित्तो ऽत्र श्रुतः तत्साम्यपरिहारायप्रोक्तेन नयेन तत्क्षयाय वा पर्यवस्यतीत्यविरोधो ऽत्र संहितान्तरैरस्य विशेषस्य तैरनुक्तेरिति।
ननूभयोरप्यनयोर्मोक्षहेतुत्वमस्तु। एवमप्येष विरोधो न भवत्येवेति। अस्तु यदि मलपरिपाकस्येव कर्मसाम्यस्यापि तन्निमित्तत्वप्रतिपादकं स्फुटं वचनं भवेत्तस्य तु कर्मसाम्यपरिहारमात्रफलं शक्तिपातं प्रति तन्निमित्तत्वं प्रतिपादयति नान्यत्रेत्युक्तम्।
वक्ष्यति च समे भोगस्तदा न हीति।
।क़ुओते{समे भोगस्तदा न हि
।किर्। ५:११द्।}
सामान्यशास्त्रेष्वपि तस्य कर्मसाम्य निवृत्तिफलत्वेन सिद्धेरिति दर्शयिष्यामः।
।क़ुओते{दर्शयिष्यामः
अद् ।किर्। ५:१२च्द्।}
न चोद्भूतविरोधनिवर्तनाय प्रवृत्तस्यानुद्भूतविरोधमल निवर्तनमपि शक्तिपातस्य युक्तम्। सर्वात्मस्वविशेषतस्तन्निवर्तनप्राप्तेर्मोक्षप्रसङ्गात्।
ननु यथा मलपरिपाकनिमित्तशक्तिपातो दीक्षया कर्मणां क्षयमनुद्भूतविरोधानामपि विधत्त इति भवद्भिरिष्यते, तद्वत्कर्मसाम्यनिमित्तो मलस्यानुद्भूतविरोधस्यापि तयैव क्षयं विधास्यतीति नैष प्रसङ्गः।
न तेषां तदानीमप्यनुपजातविरोधित्वासिद्धेः। कर्मणां हि भोगदानाय मलः सहकारिकारणमविद्यानुबन्धं विना मुक्तस्येव भोगायोगादिति तस्यान्यथाभावे तेषामुद्भूतविरोधित्वमेवेति युक्त एव तदा क्षयः न त्वेवं कर्माविरोधो मलस्यावस्थितेः सहकारिकारणं येन तन्निवृत्तौ तस्यावस्थानानुपपत्तेस्तदानीमुद्भूतविरोधित्वेन क्षयः सम्भाव्येत।
अनादित्वेन सिद्धेरनुद्भूतविरोधस्यापि क्षयाभ्युपगमे प्रोक्त एव प्रसङ्ग इत्यन्य एवायं कर्मविरोधपरिहारमात्रफलः शक्तिपातस्त्रिधायुक्तितो ऽभ्युपगन्तव्य इत्यविरोधः।
अथ केन हेतुना विरुद्धयोः कर्मणोर्युगपत्सम्भव इत्युच्यते
कर्मांशो यो ऽधिकः पूर्वं भोगदस्त्वितरः पुनः ॥ किर्त्_५।१० ॥
रामकठः
शुभाशुभानेककर्मवत्त्वे ऽपि पुंसो य एव कर्मविशेषः कृष्यादिवत्पश्चादनुष्ठितो ऽपि कर्मान्तराद्युपकारजनितपरिपाकवशात्तीव्रवेगत्वेन चाधिकः शक्त्या भवति स एव प्रथमं भोगप्रदः। प्रोक्तं चान्यैरपि तीव्रवेगानामासन्नं फलमिति।
यस्तु तस्मादन्यः पुनरिति पश्चात्कुतश्चित्कर्मान्तरप्रतिबन्धकापगमतः शक्तिप्रतिलम्भतो वा भोगद इति। किमत इत्युच्यते
रामकठः
समत्वे सति यो भोगः कथं तस्य प्रजायते ।
रामकठः
एवं च सति कुतश्चित्कारणसामर्थ्याद्द्वयोः शुभयोरशुभयोर्वा परिपाकवशात्तीव्रवेगत्वेन वा समत्वे सञ्जाते सति तस्य पुंसो युगपद्विरुद्धकर्मद्वयाकृष्टस्य कथं भोगः।
नैव जायत इत्यवश्यं विरोधपरिहारायात्र शक्तिपातो ऽभ्युपगन्तव्य इत्युक्तं प्रागेव।
नन्वेवं सर्वाण्येव कर्माणि स्वस्वफलमात्रसाधकत्वात्परस्परविरुद्धत्वेन
समानानीति सर्वदा शक्तिपातप्रसङ्गः। नेत्युच्यते
मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि ॥ किर्त्_५।११ ॥
वक्तव्यश्चाधिकः कश्चिद् अन्यथा न सुखेतरम् ।
रामकठः
त्रिविधं हि कर्म जात्यायुर्भोगदं पुंसो भोगारम्भकं न केवलं भोगप्रदमेवायुःप्रदं वा जातिविशेषं विना भोगानुपपत्तेः। नापि जातिप्रदमेव ताभ्यां विना जन्म समनन्तरमेव पुंसो मरणात् भोगा नुपपत्तेरिति।
समे विजातीयेनामिश्रे केवलभोगप्रदे केवलायुःप्रदे केवलजातिप्रदे वा कर्मणि सति भोगो नोपपद्यत इति तत्राधिकः कश्चित्कर्मविशेषो विजातीयः। भोगप्रदे जातिप्रदः। तस्मिन्वा भोगप्रद इत्यादिर्वक्तव्यः।
अन्यथा सुखदुःखभोगानुपपत्तेस्तथाभूतकर्मसद्भावे ऽपि विज्ञानकेवलित्वमेव तस्येति न सर्वदा कर्मणां विरोधेन शक्तिपातप्रसङ्गः। तदविरोधस्यैव सर्वदा सम्भवादिति।
अधिकन्यूनसम्बन्धाद् व्याकुलत्वं न जायते ॥ किर्त्_५।१२ ॥
रामकठः
यत्रापि पुरुषे द्वयोर्विरुद्धयोर्युगपदुपस्थितयोः कर्मणोः साम्यं तत्रापि प्रागुक्तनयेन कर्मान्तरानुरोधतः शक्तिपातो न क्षयं विधत्ते। अपि तु कस्यचिदधिकत्वं कस्यचिन्न्यूनत्वमिति तयोर्व्याकुलत्वं विरोधो न जायत इति।
अयमेवायुर्वेदे ऽप्यायुष्यानायुष्य कर्मणोर्व्याकुलत्वपरिहाराय प्रकारः प्रोक्तः
शिलाजतुप्रयोगाद्वा प्रसादाद्वापि शाङ्करात्।
अजासत्रप्रयोगाद्वा क्षयः क्षीयेत नान्यथा॥ इति।
निद्रास्तोत्रादौ च नारायणभट्टोक्त एव महाभारते च दर्शितः
कान्तारेषु च सन्नानां मग्नानां च महार्णवे।
।क़ुओते{कान्तारेषु च।देव्दोत् गतिः परमा नृणाम्
नोत् त्रचेद् इन् {महाभारत}।}
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्॥
सौगतैरपि तारास्तोत्रादौ
हरिकरिशिखिफणितस्करनिगडमहार्णवपिशाचभयशमनि।
।क़ुओते{हरिकरिशिखिफणितस्कर@।देव्दोत् भगवति तारे नमस्तुभ्यम्
सोउर्चे उन्क्नोwन्।}
शशिकिरणकान्तिहारिणि भगवति तारे नमस्तुभ्यम्॥ इति।
कथं तर्हि तज्जायत इतीत्याह
रामकठः
अधिकन्यूनशून्यत्वात् तत्स्थानमभिगच्छति ।
रामकठः
यदा तयोर्विरुद्धयोर्द्वयोरपि कर्मणोः सर्वमेवान्यत् कर्मावापगतत्वेनाधिकन्यूनरहितं सममेव सम्पद्यते कस्मिंश्चित्पुरुषे तदानीं व्याकुलत्वं न जायत इति कर्मान्तरस्यानुरोध्यस्या सम्भवेन शक्तिपातात्तेषां सर्वेषां क्षयः प्रोक्त इति
स क्षीणकर्मा पुरुषस्तदानीं तत्स्थानं प्राक् यत्समे भोगस्तदा न हीत्यत्रोक्तम्
।क़ुओते{समे भोगस्तदा न हि
।किर्। ५:११द्।}
विज्ञानकेवलित्वं प्राप्नोतीत्येतत्तदानीं शक्तिपातस्य प्रयोजनमित्यर्थः।
अथ यथायं शक्तिपातो ऽस्मदाद्यगोचरत्वेन प्राक्सूक्ष्म उक्तो व्याध्यादिनिवृत्त्यनुमेयो वा तथैव किमसौ प्रागुक्तो न वेत्युच्यते
स पात इति मन्तव्यस् तस्य भक्तिर्विलक्षणा ॥ किर्त्_५।१३ ॥
रामकठः
स प्रागुक्तो मलपरिपाककालभावी शक्तिपात इत्येवं नियतपुरुषगतत्वेन मन्तव्यः। यस्य ह्यसौ भवति तस्य भक्तिर्विलक्षणा भवतीति। यदुक्तं प्राक्
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति।
।क़ुओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।किर्। २:२९च्द्।}
श्रीमत्स्वायम्भुवे ऽपि क्षीणे तस्मिन्यियासा स्यादित्यादि।
।क़ुओते{क्षीणे तस्मिन्यियासा स्यात्
।स्वयम्। १:१७च्।}
अथास्मात्कालद्वयात्
रामकठः
काल एव स निष्णातः शक्तेरात्मपरिग्रहः ।
रामकठः
स एव प्रागुक्तः शक्तेः पातकालः। स निष्णातः कुशलः यस्मादात्मा परिगृह्यते अनुगृह्यते तस्मिन्नित्यात्मपरिग्रहः स काल इति।
तस्मात्तमेव तत्रापेक्षते भगवान्नान्यं पुनः
अनादिकर्मसम्बन्धाच् छिवः कालमपेक्षते ॥ किर्त्_५।१४ ॥
कालच्छिद्रमिति प्रोक्तं तज्ज्ञश्च भगवाञ्छिवः ।
रामकठः
अनादिर्यः कर्मात्मकः सम्यग्बन्धस्तस्मादेव यो भोगस्तस्यानुपपत्त्या कालच्छिद्रमित्यनेन शब्देन प्रोक्तः कर्मविरोधात्मकस्तमत्रापेक्षते शक्तिपातहेतुत्वेन। शक्तिपातात्तेषां विरोधपरिहारः क्षयो वा नान्यथा सम्भवतीत्येवं भगवान् जानाति यतः।
अथ कथमसौ तमेव कालं कर्मणां क्षये ऽपेक्षते। न तु तदविरोधकालमपीत्युच्यते।
यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते ॥ किर्त्_५।१५ ॥
तज्ज्ञो ऽपि स शिवस्तद्वत् समकालमपेक्षते ।
रामकठः
यथा ह्यत्यन्तसुशिक्षितो ऽप्यर्जुनादिर्धनुर्धरो न सदैव शत्रुतो विनिर्गतं शराद्यायुधजातं स्वशरैश्छिनत्ति।
अपि तु यदा स्वशरीरोपघातायायुष्यकर्मविरोधेन तदुपस्थितं भवति तस्मिन्नेव काले विरुद्धत्वादेव तद्वदेव तत् भगवानपि कर्मविरोधलक्षणं साम्यमेव शक्तिपाते ऽपेक्षते विरुद्धत्वादेव तदानीं भोगासम्भवादित्युक्तम्। न तु तदविरोधकालमप्यविरोधेनैव तदानीं भोगोपपत्तेरिति।
यदा त्वेतन्नाभ्युपगम्यते तदा
अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा ॥ किर्त्_५।१६ ॥
रामकठः
अन्यथा विरोधाभावेन सर्वपुरुषाणां युगपच्छक्तिपातप्रसङ्गात् कर्मभ्यो
मुक्तिर्विज्ञानकेवलित्वं स्यादित्यवश्यं तत्परिहारायात्र कर्मसाम्यमेव हेतुत्वेन वाच्यमित्यविरोधः।
यद्येवं स मलपरिपाकलक्षणः कालो भगवतानुग्रहे ऽपेक्ष्यते। न तु तदपरिपाकलक्षणो ऽपीत्यत्र को हेतुरित्युच्यते
रामकठः
नोपायसाधनापेक्षा क्रमो यदि स नेष्यते ।
रामकठः
यदि स क्रमः कालो ऽनुग्रहे नापेक्ष्यते तदा गुर्वाद्युपायदीक्षादिसाधनापेक्षा नात्र भवेत्। सर्वेषां युगपदनुग्रहस्तदानीं प्रसज्यत इत्यर्थः। ततश्चावश्यं तत्परिहाराय केनापि निमित्तेन भवितव्यम्।
तच्चक्षुरादौ पटलादीनामिव मलस्य परिपाकात्मकमेवोक्तमिति न कश्चिद्दोषः॥
अधुना चतुर्थमपि प्रश्नं निवर्तयति
प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं तुटेर्मतम् ॥ किर्त्_५।१७ ॥
प्रभुत्वं ज्ञस्वभावत्वाद् अज्ञत्वान्न तुटिः प्रभुः ।
रामकठः
यदुक्तं काल एव मोक्षहेतुरस्तु। किं शक्तिपातहेतुनात्र शिवेन कल्पितेनेति। तदयुक्तं हेतुत्वभेदात्। निमित्तं हि कालो ऽत्राचेतनत्वादमावास्यादिर्यागादेरिव कर्ता तु भगवानमावास्यादियागे द्विजातिवच्चेतनत्वात्।
न च निमित्ताभ्युपगमे कर्त्रभावप्रसङ्गो युक्तः। विरोधाभावात्। कर्त्रन्तराभ्युपगमे तु स युक्त एव। स एवाविरोधः कार्ये कर्तृनिमित्तयोर्दृष्टान्तेनोच्यते
सति काले प्रभुत्वं स्यात् पद्मबोधे यथा रवेः ॥ किर्त्_५।१८ ॥
न च कालादृते तत्र विकासः प्रतिपद्यते ।
तथापि भास्करः प्रोक्तो लोके ऽस्मिन्पद्मबोधकः ॥ किर्त्_५।१९ ॥
कालो ऽपि योग्यता सा चेद् द्योतको ऽप्युपचारतः ।
रामकठः
दार्ष्टान्तिके ऽप्युच्यते
एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः ।
तथापि प्रभुरत्रेशः शक्तिपातस्य संस्थितः ॥ किर्त्_५।२० ॥
रामकठः
पशूनामशक्तत्वेनान्धादीनामिव पाशविमोक्षकर्तृत्वासम्भवात्।
पाशानाञ्च जडत्वेन पटलादीनामिव स्वतः पशुभ्यो निवृत्त्यनुपपत्तेस्तत्पतिरेव प्रतिनियतकालापेक्षया चक्षुर्वैद्यादिरिव मोक्षकर्ता युक्त एव प्रोक्त इत्यदोषः।
अत्र शक्तेरनेकपुरुषप्रबोधकर्तृत्वादनेकत्वप्रसङ्गदोष इति पराभिप्रायः
रामकठः
एका सती बहूनां सा कथं बोधं करोति चेत् ।
रामकठः
सिद्धान्तस्तु
बहूनामप्यदोषः स्याद् विभुत्वान्न निवार्यते ॥ किर्त्_५।२१ ॥
रामकठः
यतो व्यापकत्वेन बहूनामप्युपकारो ऽस्याः शक्तेर्न निवार्यते। ततो ऽयमदोष इति।
अथ प्रकरणार्थोपसंहारः
रामकठः
एवं शक्तिसमायोगः प्रोक्तः सूक्ष्मो ऽत्र शासने ।
रामकठः
एवं शक्तिपातः प्रागुक्तः। सर्वप्रश्नशून्यो मया प्रोक्तो ऽत्रेति। अत्र प्रसङ्गात्प्रश्नः
गरुड उवाच
एवं तच्छक्तिसंयोगाद् दीक्षा यदि च संस्थिता ॥ किर्त्_५।२२ ॥
दीक्षितोत्तरकाले ऽपि तिरोभावः प्रदृश्यते ।
तिरोभावकरी शक्तिर् यदि तस्य न निर्वृतिः ॥ किर्त्_५।२३ ॥
तथा करोतु स स्वामी यथासौ नान्यथा भवेत् ।
रामकठः
एवमनेन क्रमेण विशिष्टात् परमेश्वरशक्तिसम्बन्धाद्यदि पुंसो दीक्षेति मोक्षहेतुरनुग्रहस्ततो दीक्षोत्तर कालमपि तच्छक्तिसम्बन्धस्य भावात्तिरोभावः समयोल्लङ्घनाद्यात्मको न भवेत्। दृश्यते चासौ ततस्तद्भावभावित्वस्य व्यभिचाराच्छक्तिपातस्यानुग्रहहेतुत्वासिद्धेः। यदुक्तं
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा।
।क़ुओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।किर्। १:२१अब्।}
इत्येतत्पुनरप्ययुक्तमेव। अथानुग्रहहेतुरसाविष्यते यद्येवं तथा करोतु स शक्तिपातलक्षणं स्वमस्यास्तीति स्वामी यथासौ पुरुषो नान्यथा भवेन्न तिरोभावहेतुषु प्रवर्तत इत्यर्थः। न च तथा करोति तदानीमपि तिरोभावहेतुष्वनुष्ठानदर्शनात्तत् नानुग्रहहेतुः शक्तिपात इति पूर्वः पक्षः। अत्र सिद्धान्तः
भगवान् उवाच
तिरोभावगतानां सा पुरुषाणां शिवेच्छया ॥ किर्त्_५।२४ ॥
न तिरोभावकर्तृत्वाद् उच्यते सा तिरोहिका ।
तिरोभावाय पातो न यतो ऽनुग्रहधर्मिणी ॥ किर्त्_५।२५ ॥
रामकठः
इह तावत्तिरोभावगतानामपरिणतमलानां न सा शक्तिरनुग्राहिका संस्थितेति सम्बन्धः। नापि सा दीक्षा तेषामाचार्यैर्लोभाज्ञानादिभिः कृता शिवेच्छया तस्याः संस्थितत्वादित्युक्तम्। न तस्या ज्ञानं सम्भवतीति शूद्राणामुपनयनादिवदनधिकारिणां सा निष्फलैव।
तेषां तु तिरोभावकर्त्री तदानीमन्यैव तिरोहिका शक्तिः संस्थितेत्युच्यते।
यतस्तस्या नैव तिरोभावाय पातः सम्भवति अनुग्रहधर्मित्वादिति यदुक्तम्
तिरोभावकरी शक्तिर्यदि तस्य न निर्वृतिः
।क़ुओते{तिरोभावकरी शक्तिर्यदि तस्य न निर्वृतिः
।किर्। ५:२३च्द्।}
इत्येतत्तावदसिद्धमेव। यद्येवमनुग्रहधर्मित्वात् कथं न सर्वेषामनुग्रहं विधत्त इति। तत्रोच्यते
रामकठः
येनासन्नतमः कालस् तेनात्मानं प्रकाशयेत् ।
रामकठः
येन कारणेन यस्यैव पुंसो मलपरिपाककालो ऽसावासन्नस्तेन तस्यैवात्मानं प्रकाशयतीत्युक्तम्
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति।
।क़ुओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।किर्। २:२९च्द्।}
ततो ऽयमप्यदोषः। यदुक्तं दीक्षोत्तरकालमपि सा शक्तिः कथं तिरोभावहेतुत्वेन संस्थितेति। तदप्ययुक्तम्। यतः
प्रकाश्य याति विद्युद्वत् सा शक्तिः पुम्प्रबोधिनी ॥ किर्त्_५।२६ ॥
रामकठः
पुंसस्तदानीं प्रतिबोधं मलक्षयात्मकं कृत्वा सा शक्तिरचिरेणैव कालेन विद्युद्वद्याति तस्माद्व्यापारान्निवर्त्तते। कृतस्य पुनः करणासम्भवादिति न्यायसिद्ध एवायमर्थ इति भावः।
दीक्षोत्तरं तु मोक्षप्राप्तिर्यावत् सामान्येन सा तस्याधिष्ठायकत्वेन स्थितेति न शक्तिपातस्यानुग्रहं प्रति व्यभिचारदोषः।
एवमपि दीक्षाया मोक्षव्यभिचारप्रसङ्गदोषस्तदुत्तरकालं तिरोभावदर्शनादिति। अत्राप्युच्यते
यदि सर्वात्मना वायं दीक्षितो ऽपि तिरोहितः ।
द्विविधे ऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत् ॥ किर्त्_५।२७ ॥
रामकठः
।च्रुx अदीक्षितस्तावत्सर्वात्मना तिरोहितो ऽपि सन्कृतदीक्षस्तस्येत्युक्तम्।
यदि सम्यग्दीक्षितो ऽप्ययं कदाचिद्दैवान्मानुषाद्वा प्रतिबन्धात्सर्वात्मना तिरोहितो वाशब्दादसर्वात्मना च तदास्यास्मिन् द्विविधे ऽपि तिरोभावे क्वचिदिति कस्मिंश्चित्क्रव्यादयोन्यादौ समयातिक्रमफलप्राप्तिर्भवतीति। यदुक्तं श्रीमत्पौष्करे
समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः। इति।
।क़ुओते{समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः
नोत् त्रचेद् इन् ।पौ, बुत् = ।सर्। २५:२च्द्।
च्फ़्।। नोते अद् ।किर्व्। १:१०।५।
थे समे हल्फ़्-वेर्से इस् क़ुओतेद् थेरे अन्द् इन् ६:८।१२।}
न तु सर्वस्मिन्समयातिक्रमे वक्ष्यमाणैः प्रायश्चित्तैः क्षपित इति क्वचिद्ग्रहणम्। किमत इत्युच्यते।
तत्र स्थितस्य तस्येह वासना सैव जायते ।
तद्युक्तस्य विमोक्षः स्याद् आत्मनो निर्विकल्पकः ॥ किर्त्_५।२८ ॥
रामकठः
तत्र समयातिक्रमफलभोगस्थाने क्रव्यादयोन्यात्मनि पिशाचादिशरीरे ऽप्यवस्थितस्य समयातिक्रमकर्तुर्दीक्षितस्य वासना सैवेति। यैवानतिक्रान्तसमयानां शिवभक्त्यादिहेतुर्वासना दृष्टा सैवाभिव्यज्यते।
अतश्च दीक्षितत्ववासनायोगात्तत्प्रायश्चित्तफलं काम्यवद्दीक्षाफलविघ्नभूतं भुक्त्वासावात्मा मोक्षं दीक्षाफलं प्राप्नोत्येव। यदुक्तम्
प्रायश्चित्तविशुद्धस्य गतिः शुद्धा प्रकीर्तिता। इति।
।क़ुओते{प्रायश्चित्तविशुद्धस्य गतिः शुद्धा प्रकीर्तिता
सोउर्चे उन्क्नोwन्।}
तथा हि
अनेन क्रमयोगेन तिरोभावगतो भवेत् ।
आनर्थक्यप्रसङ्गः स्याद् यदि मुक्तिर्न सा भवेत् ॥ किर्त्_५।२९ ॥
रामकठः
पूर्वं मलपरिपाकस्ततः शक्तिपातस्ततो दीक्षेत्यनेन क्रमयोगेन यो दीक्षितः कथञ्चित्तिरोभावगतो भवेत्तस्य यदि समयातिक्रमफलभोगादनन्तरं न तद्दीक्षाफलं मुक्तिर्भवेत्।
ततस्तद्दीक्षाक्रमस्यानर्थक्यं प्रसज्येत। न च परमेश्वरव्यापारत्वात्तस्यासावुपपद्यत इति अवश्यं तत एव तस्य तदानीं मुक्तिरभ्युपगन्तव्येति न दीक्षाया अपि स्वकार्यव्यभिचारप्रसङ्गदोष इति।
ननु तुल्ये शक्तिपाते दीक्षायोगे वा कथं कश्चिदेवोत्तरकालं तिरोभावेन युज्यते नान्य इत्यत्रोच्यते।
रामकठः
मन्दा मन्दतरा शक्तिः कर्मसाम्यविवक्षया ।
रामकठः
कर्मणा मलपरिपाकलक्षणेन यत्साम्यं मन्दत्वं मन्दतरत्वं वा तस्य विवक्षाहेतुत्वाद्विवक्षा ज्ञानमेव तया हेतुभूतया मन्दा मन्दतरा वा शक्तिः पारमेश्वरी दीक्षा वा यस्योपतिष्ठते तस्य प्रत्यवाययोगो भवत्येव। यस्य तु मलपरिपाकलक्षणेन कर्मणा तीव्रेण तीव्रतरेण वा साम्यं तद्विवक्षया तीव्रा तीव्रतरा वा शक्तिः पतति तस्य न प्रत्यवायः कथमपि सम्भवतीत्युक्तं भवति।
एवमनुग्रहशक्तेर्मन्दत्वोपचारेण प्रत्यवायहेतुत्वं मन्तव्यम्। नान्यथेत्युच्यते
न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी ॥ किर्त्_५।३० ॥
यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा ।
द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम् ॥ किर्त्_५।३१ ॥
वृत्ति:
न पुनरनुग्रहशक्तिरेव तिरोभावात्मतां गच्छतीत्युपपद्यते यतः परमेश्वरस्य शक्तिः कृत्यस्य यत्संस्थानं स्थितिः तेनैव भेदं प्राप्ता न मुख्यत इत्युक्तम्।
ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यत इति।
।क़ुओते{ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते
।किर्। ३:१३च्द्}
ततश्च परमेश्वरवत्साप्यपरिणामिन्येव। यदुक्तम्
परिणामो ऽचेतनस्य चेतनस्य न युज्यते। इति।
।क़ुओते{परिणामो ऽचेतनस्य चेतनस्य न युज्यते
।किर्। २:२६अब्।}
सा च द्विजादीनां वर्णानां परमपदं मोक्षाख्यं गच्छतां निश्रेणी सोपानपङ्क्तिः ऊर्ध्वगतिहेतुत्वादिति। एवं
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।क़ुओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।किर्। १:२१अब्।}
इत्येतत्सूक्तमेवेति॥ एवं समाप्तश्च पञ्चमो ऽध्यायः॥
।चोलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ पन्चमं प्रकरणम्॥