रामकठः
अथ विचारपदार्थस्यैव विस्तरपरीक्षार्थं प्रश्नपूर्वकं प्रकरणान्तरम्।
गरुड उवाच
शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यति ।
प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते ॥ किर्त्_४।१ ॥
अन्येषां सन्निकृष्टापि बोधं सा कुरुते न किम् ।
योग्यानामुपकारी चेद् रागवान्स्याच्छिवस्तदा ॥ किर्त्_४।२ ॥
रामकठः
अत्र च सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वदेव द्रष्टव्याः।
पाटलिकस्तु विचारपदार्थस्यैवानन्तरं विशेषपरीक्षात्मकः।
वाक्यात्मकस्तु प्रोक्तो ऽनन्तो ऽसिते प्रभुरित्यादिभिरनेकविधः।
।क़ुओते{प्रोक्तो ऽनन्तो ऽसिते प्रभुः
।किर्। ३:२६द्।}
अयं चात्र प्रश्नार्थः। तच्छक्तिप्रतिबोधितो ऽनन्तेशादिवर्ग इत्युक्तम्।
।क़ुओते{तच्छक्तिप्रतिबोधितः
।किर्। ३:२७द्।}
ततश्चेश्वरशक्तेर्व्यापकत्वेन सर्वत्र सन्निहितत्वतो विशेषाभावात् सर्वेषामात्मनामनन्तादिरूपता स्यात् न वा कस्यचिदपि।
सेवनादियोग्यतापेक्षया तत्करणे च तस्य रागद्वेषादियोगात् पुरुषवदनीश्वरत्वप्रसङ्ग इति।
अत्र सिद्धान्तः
भगवान् उवाच
यथार्करश्मिसम्पर्कात् पद्मबोधः समो न किम् ।
कानिचित्प्रतिबुध्यन्ति तथान्यानि न जातुचित् ॥ किर्त्_४।३ ॥
रागद्वेषौ न चार्कस्य तथेशस्य न तौ यतः ।
अधिकारान्नियोगो ऽस्य न नियोगं विना स्थितिः ॥ किर्त्_४।४ ॥
तत्सामर्थ्यादनन्तस्य सर्वज्ञत्वं भवेत्खग ।
रामकठः
सत्यम्। व्यापिका शक्तिर्योग्यतापेक्षया चानुग्राहिका।
न च तया रागद्वेषानुमानम्।
तथाभूतायास्तस्या अत्रासिद्धत्वाद्यतो ऽधिकारिणामधिकारो मलस्य पक्वत्वमत्र योग्यता।
पक्वमलानां सा बोधप्रदेत्युच्यते।
यथा सवित्रा प्रतिबोधयोग्यं प्रतिबोध्यते।
तस्मादधिकाराद्योग्यतालक्षणादनन्तस्य नियोगस्तन्नियोगं विना बहिरङ्गकार्यस्य न व्यवस्थानमुपपद्यत इत्युक्तं यतः।
न च तथाभूतस्य योग्यतानुसरणस्य रागद्वेषाद्यविनाभावः सिद्ध इति न ततो ऽत्रानीश्वरत्वप्रसङ्गः।
अधुनात्रैव परीक्षान्तराय प्रश्नः।
गरुड उवाच
सर्वज्ञत्वं तनौ सत्याम् अनन्तस्य न युज्यते ॥ किर्त्_४।५ ॥
नियतानि यतो ऽक्षाणि नियतग्राहकाणि च ।
रामकठः
यदुक्तं सर्वज्ञः शुद्धदेहश्चानन्त इत्येतन्नोपपद्यते।
यतः प्रागुक्तनयेन प्रतिनियतकार्यकरणात्मकशरीरयोगः प्रतिनियतग्राहकत्वेन व्याप्तः सर्वशरीरिगततया सिद्धः।
अतः शरीरित्वेन विरुद्धव्याप्योपलब्ध्या सर्वज्ञत्वनिषेधः क्रियत इत्यर्थः।
नन्वसिद्धो ऽयं हेतुरन्यत्वात्कार्यकरणादेः शुद्धदेहत्वेनानन्तस्योक्तत्वादिति। अत्रोच्यते
मायात्मकं शरीरं तच् छिष्टकर्मनिमित्तजम् ॥ किर्त्_४।६ ॥
यदि नाम विशेषः स्यात् सुदूरश्रवणादिकः ।
रामकठः
न तावदमायात्मकत्वमकर्मजत्वं वा तच्छरीरस्य शुद्धत्वं सम्भवति शरीरत्वादस्मदादिशरीरवदिति। यदाहुः
मायोर्ध्वं देहसद्भाव इति वार्तैव भद्रिका। इति।
।क़ुओते{मायोर्ध्वं देहसद्भाव इति वार्तैव भद्रिका
सोउर्चे उन्क्नोwन्। च्फ़्।। वेर्सेस् wइथ् थे
समे चोन्च्लुदिन्ग् फ़ोर्मुल इन् {न्यायम।ञ्जरी} वोल्।१,
प्।८१ (८४द्) अन्द् प्।९१ (१०४द्)।}
।च्रुx यदि परं ब्रह्मादिशरीरस्येव विशिष्टकर्मजत्वमेव ततो ऽस्य वाच्यम्।च्रुx ।
ततश्च तथाभूतशरीरयोगात्तस्य तद्वदेव सुदूरश्रवणादिक एव विशेषः सिध्यतीति। यदाहुः
यो यत्रातिशयो दृष्टः स एवान्यत्र लङ्घनात्। इति।
।क़ुओते{यो यत्रातिशयो दृष्टः स एवान्यत्र लङ्घनात्
सोउर्चे उन्क्नोwन्।}
न तु सर्वज्ञत्वमतो नायमसिद्धो हेतुरिति पूर्वः पक्षः।
अत्र सिद्धान्तः।
भगवान् उवाच
शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् ॥ किर्त्_४।७ ॥
तस्यैवं पाशमुक्तत्वाज् ज्ञानं केन निवार्यते ।
रामकठः
शरीरस्य मायात्मकत्वेनेह व्याप्तिरसिद्धा, शुद्धविद्यात्मनो ऽपि सम्भवादित्युक्तं शुद्धे ऽध्वनि शिवः कर्ता इत्यादिना।
।क़ुओते{शुद्धे ऽध्वनि शिवः कर्ता
।किर्। ३:२६च्।}
अत एव न तत् कर्मजं मायाधिकरणत्वात् कर्मणां तत्रासम्भवात्।
अपि त्वधिकारनिबन्धनमेव। तस्यानन्तस्यैवमुक्तेन प्रकारेण पाशैर्मायात्मकैर्मुक्तत्वात्सर्वज्ञत्वं केन वारयितुं शक्यमित्यविरोधः।
अस्तु वा शुद्धयोनेरपि पाशत्वं दीक्षया विच्छेद्यत्वात्। तथापि
तत्स्थं सर्पं विषं यद्वत् तद्गतं न विबाधते ॥ किर्त्_४।८ ॥
बाधते ऽनन्तमेवं न तद्गतः पाशसञ्चयः ।
रामकठः
यथा हि विषस्रष्टुः सर्पस्य शरीरस्थमपि विषं
सर्पान्तराद्वा प्रतिसङ्क्रान्तं तन्न विषतया बाधकं तथानन्तस्य
।च्रुx तत्स्थानसाधकगतः शरीरादिजनकत्वाक्षिप्तशुद्धविद्याकर्तृत्वात्तदात्मकः।च्रुx। पाशसञ्चयः शरीरात्मको न बाधक इति।
एवं माया गर्भाधिकारिणो ऽपि वीरभद्रादयो न मायापाशसञ्चयेन बाध्यन्त इत्युक्तं भवति।
तदुक्तं गुरुभिः
कलायोगे ऽपि नो वश्याः कलानां पशुसङ्घवत्।
।क़ुओते{कालयोगे ऽपि।देव्दोत् तदुपर्यतः
।मोक्स। ८२च्–८३ब्। अल्सो क़ुओतेद् अद् ।नर्। २:८, प्।१३३।}
वश्यास्ताः पशुभिः सार्धं तेषां ते तदुपर्यतः। इति।
यद्येवं पाशान्तरवच्छुद्धविद्यापि पाशत्वेनानन्तस्य भगवतो विच्छिन्नेति कथं ततो ऽयं शरीरात्मकः पाशसञ्चय इति। तत्रोच्यते
छिन्ना छिन्नोद्भवा यद्वत् स्थानाश्रयवशाद्भवेत् ॥ किर्त्_४।९ ॥
स्थानयोगेन मन्त्रेशे हठवत्तनुधारणम् ।
रामकठः
यथा छिन्नोद्भवा गडूची मूलतो विच्छिन्नापि स्थानविशेषमाश्रयमाश्रित्य पुनः प्ररोहं याति।
एवं शुद्धविद्यापि छिन्नापि अनन्तस्य तदधिकारित्वलक्षणं स्थानविशेषमाश्रित्य तच्छरीराद्यात्मना पुनः प्ररोहमायातीत्यधिकारसामर्थ्यादनन्तेशस्यानिच्छतो ऽपि बलादिव शरीरधारणमित्यविरोधः।
यदपि तच्छरीरस्य कर्मजत्वे ऽनुमानमुक्तं तदप्यनैकान्तिकमित्युच्यते।
मन्त्रशक्त्या यथा देहो विधृतस्तिष्ठते चिरम् ॥ किर्त्_४।१० ॥
प्राप्नोत्यभीप्सितं स्थानं कालदष्टो ऽपि शक्तितः ।
एवं तच्छक्तिसामर्थ्याद् आस्ते तस्य वपुर्यतः ॥ किर्त्_४।११ ॥
अतः सुनिर्मलं ज्ञेयं बिसिनीपत्त्रवद्वपुः ।
रामकठः
मरणकाल एव यो दष्टः सर्पेण स कालदष्टः क्षीणकर्मेत्यर्थः।
तस्य यथा मन्त्रशक्त्यैव धृतो देहश्चिरं तिष्ठत्यभीप्सितञ्च स्थानं प्राप्नोति प्रागुक्तस्यैव पुंसः शक्त्या ज्ञानक्रियात्मिकया तथेश्वरशक्तिसामर्थ्यादधिकाराख्यादनन्तेशस्य शरीरमकर्मजमेवेति।
अतस्तत्पूर्वयुक्त्या च कार्ममायीयलक्षणैः।
असंस्पृष्टं मलैर्ज्ञेयं पद्मपत्रमिवाम्भसा॥ इति।
अस्मदादीनामपि केषाञ्चिदकर्मजदेहदर्शनाच्छरीरत्वादित्यस्य हेतोरत्रानैकान्तिकत्वमित्युक्तं भवति।
ननु बोधायतनं शरीरमस्मदादीनामिव तस्येति किमुच्यते हठवत्तनुधारणमिति तदर्थमेतत्।
तन्त्रैरुपकृतः कल्यो यथा देहगतो रसः ॥ किर्त्_४।१२ ॥
स तिष्ठति शरीरे ऽस्मिंस् तद्वद्बोधो महाबलः ।
रामकठः
यथा कलने गतौ साधुः कल्यो ऽत्यन्तानवस्थितः शरीरे रसः पारतः स एव तन्त्रैस्तत्कुटुम्बधारणादिभिर्द्रव्यान्तरैरुपकृतः
।क़ुओते{तत्रि कुटुम्बधारणे
{धातुपाठ} १०:१३९।}
तस्मिञ्छरीरे तिष्ठति तथैवानन्तेशस्येश्वरेच्छाशक्त्यात्मकैः तन्त्रैरुपकृतो ऽपि बोधो महाबलो ऽपि विच्छिन्नमलत्वेन सर्वार्थः शरीरे तिष्ठति।
एतदुक्तं भवति—अविच्छिन्नमलानां बोधाभिव्यञ्जनाय शरीरमुपपद्यते न तु विच्छिन्नमलानामीश्वरतत्त्वाश्रितानामपीत्यनन्तस्य न बोधोपकाराय शरीरधारणमिति हठतः प्रोक्तम्।
किं सर्वथा तस्यैतदनुपकारकमेव। नेत्युच्यते
यथा भेषजसामर्थ्याद् अशक्तानां बलं परम् ॥ किर्त्_४।१३ ॥
याति तच्छक्तिसामर्थ्याद् अनन्तस्य परे बलम् ।
तेन सामर्थ्ययोगेन योनिं प्रेरयते क्षणात् ॥ किर्त्_४।१४ ॥
रामकठः
अशक्तानां यथौषधादिसामर्थ्याच्छक्तिरुपचयं याति।
एवं तस्य शरीरस्य या शक्तिः तया यत्सामर्थ्यं कर्तृत्वसमर्थनं तस्मादनन्तेशस्य परस्मिञ्छिवतत्त्वे बलं संस्कार्यसंयोजनाद्यात्मकं यातीति।
अयमर्थः—सर्वज्ञत्वे ऽपि तस्य शिवात्कलया कर्तृत्वन्यूनत्वेनात्र संस्कार्यसंयोजनादिव्यापारानुपपत्तेरवश्यं तावतो ऽपि कर्तृत्वांशस्याभिव्यञ्जनायास्मदादेरिव शरीरमुपयुज्यत इत्यदोषः।
अत्रैव परीक्षान्तराय प्रश्नः
गरुड उवाच
प्रेरको ऽधस्तने मार्गे मायायाः प्रेरकेण किम् ।
स्वत एव विकारेण जगत्यस्मिन्विकारिणी ॥ किर्त्_४।१५ ॥
जगद्योनिर्यतः प्रोक्ता तद्विकाराः कलादयः ।
विकारात्सर्वनाशः स्याद् विकारो न जगत्कथम् ॥ किर्त्_४।१६ ॥
रामकठः
ननु चायं प्रश्नो ऽनुपपन्नः पूर्वमेवेश्वरसिद्धौ न्यायनिराकृतत्वात्समाधिरपि प्रागुक्त एव यतः। यदुक्तं कर्म चेन्न ह्यचेतनमिति।
।क़ुओते{कर्म चेन्न ह्यचेतनम्
।किर्। ३:१२द्।}
अथ किमत्र प्रयोज्येन प्रेरकान्तरेणेति प्रश्नः।
सो ऽपि यथा भूमण्डलेशेनेत्यादिना निराकृतत्वादयुक्त एव।
।क़ुओते{यथा भूमण्डलेशेन
।किर्। ३:२७अ।}
नापि साङ्ख्यदृशात्र पुनरीश्वराक्षेप इति युक्तं व्याख्यातुम्।
पूर्वमेव स्थूलं विचित्रकं कार्यमित्यादिना तद्दृष्टेरपि निरासस्य सम्भवात्।
।क़ुओते{स्थूलं विचित्रकं कार्यम्
।किर्। ३:१२अ।}
तदसम्भवे हि प्रश्नान्तरमुपपद्येतापि नान्यथा कलादेरपि प्रसङ्गादिति।
तत्रोच्यते अन्य एवायमभ्युपगतः महाप्रलयापेक्षयात्रेश्वराभावप्रसाधनप्रसङ्गः प्रश्नार्थः।
महाप्रलये ह्यनन्तादीनामुपसंहृतत्वाद्भगवतश्चेश्वराद्यवस्थातिरस्कारेण शान्ततयैवावस्थितेः प्रेरकाभावे सति जगद्योनित्वान्माया यथा स्वत एव सूक्ष्मसूक्ष्मतराद्यवस्थाविकारेण स्वकार्यव्यक्तियोग्यतया परिणामिनी समभ्युपगम्यते तथैव सर्गारम्भकाले कलादिकार्यात्मना भविष्यतीति किं तस्याः प्रेरकेण कल्पितेनेति।
अथ तदापि प्रेरकोपसंहारो नेष्यते महाप्रलयानुपपत्तिरविशेषादिति प्रसङ्गविपर्ययः।
किञ्च विकारित्वान्मायाया निरंशत्वे सति सर्वात्मना परिणामतः क्षीरदध्यादीनामिव कार्यकाले विनाशप्रसङ्गः।
सांशत्वे हि तस्या घटादिवत्कारणपूर्वकत्वेन परमकारणत्वाभावः।
अथ विकारस्तस्या नेष्यते ततो ऽनुपादानत्वाज्जगत उत्पत्त्यभाव इति प्रसङ्गद्वयेन पूर्वः पक्षः।
अत्र सिद्धान्तः
भगवान् उवाच
अचेतनत्वात्प्रेर्या सा पुरुषार्थेन हेतुना ।
स्वतो न विकृतिस्तस्माद् अनन्तो ऽस्याः प्रचोदकः ॥ किर्त्_४।१७ ॥
रामकठः
महाप्रलये ऽपि पुरुषार्थतया कलादिव्यक्त्यनुगुणेन सूक्ष्मसूक्ष्मतराद्यवस्थाभेदेन भगवतः साक्षात्प्रेर्यैव।
तदानीमपीश्वराद्यवस्थानुपसंहारान्न पूर्वः प्रसङ्ग इत्यर्थः।
यदुक्तं श्रीमन्मृगेन्द्रे
स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान्रोध्यान्रुन्धन्पाचयन्कर्मिकर्म।
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्पश्यन्सर्वं यद्यथा वस्तुजातम्॥ इति।
।क़ुओते{स्वापे ऽप्यास्ते।देव्दोत् वस्तुजातम्
।म्र्ग्।व्प्। ४:१५। अल्सो क़ुओतेद् अद् ।नर्।
२:३१, प्।१५३।}
महाप्रलयश्च बहिरङ्गकलादिकार्योपसंहारः।
तत्रैव चानन्तादेः कर्तृत्वमित्युक्तं यतः।
नापि द्वितीयप्रसङ्ग इत्युच्यते
वायुवेगाद्यथोदन्वान् उपर्येव विकारभाक् ।
अक्षोभ्यत्वात्तथा माया सविकारा कलादिभिः ॥ किर्त्_४।१८ ॥
रामकठः
यथा ह्युदधिः परिमिताभिः शक्तिभिस्तरङ्गात्मकं विकारमनुभवति न सर्वाभिरेवं शक्तिसमाहारात्मकत्वान्मायायाः कतिपयाभिरेव शक्तिभिः सा कलादिविकारमनुभवति न सर्वाभिस्तेन रूपेणाक्षोभ्यत्वादिति।
अत्र पराभिप्रायः
रामकठः
नाक्षुब्धा कार्यकर्त्री चेत्
रामकठः
विकृतानामप्यविकृतानामिव शक्तीनां तत्सहभावित्वादक्षोभे तासामपि विकारानुपपत्तेः कार्यानुपपत्तिरित्यवश्यं सर्वैव क्षुब्धाभ्युपगन्तव्येत्यक्षोभ्यत्वादित्ययं हेतुरत्रासिद्ध इति।
अत्र सिद्धान्तः।
क्षोभो ऽस्याः स्यात्तदीरणम् ।
सा शक्तिः प्रेरिता तेन नित्यं कार्यकरी भवेत् ॥ किर्त्_४।१९ ॥
रामकठः
अयं सामान्यक्षोभः सर्वशक्तिविषयः प्रेरणात्मकस्तस्या अभ्युपगम्यत एव।
कार्यात्मकस्तु विशेषक्षोभः कस्याश्चिदेव शक्तेरिति।
एवञ्च नात्रासिद्धतेत्युच्यते
उक्ताक्षोभ्या विभुत्वात्सा कारणं जगतः स्थिता ।
यथा मायाधिका व्याप्य न तत्कार्यगणो ऽध्वनि ।
भावान्कलादिकान्व्याप्य स्थिताक्षोभ्या ततःस्मृता ॥ किर्त्_४।२० ॥
रामकठः
विभुत्वेन सर्वशक्त्यात्मना न कार्यतया क्षोभ्यत इत्यक्षोभ्यत्वेनोक्ता भवति।
जगत्कारणात्मनानुमीयते। तेन रूपेणाक्षोभ्यैव यतो भवन्तीति भावास्तत्कार्यात्मकाः कलादयः तान्व्याप्य स्थिता। घृतकीटन्यायेन तद्गर्भ एव तेषामुत्पत्तिरित्यर्थः न तु तद्भावभावित्वात्।
घटादेः कार्यस्य मृदादिद्रव्यमेव कारणं लोके दृष्टं न तु तच्छक्तिः।
तत्किमुच्यते शक्तिः कार्यकरीति। तत्रोच्यते
तत्कार्यकारिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी ।
स्थूलकार्यासु सूक्ष्मापि स्थिता न्यग्रोधबीजवत् ॥ किर्त्_४।२१ ॥
रामकठः
लोके ऽपि न्यग्रोधबीजवत् सूक्ष्मापि शक्तिस्तस्य स्थूलस्य कार्यस्य कारिका परिणतिशब्दवाच्या नित्यानुमेयधर्मिणी सिद्धैव।
न तु द्रव्यमशक्त्यवस्थायामपि
तस्य भावात्। यदाहुः
शक्तिः कारकं न द्रव्यं व्यभिचारादिति।
।क़ुओते{शक्तिः कारकं न द्रव्यं व्यभिचारात्
सोउर्चे उन्क्नोwन्।}
नापि सहकारिसन्निधानमशक्तस्य तत्सहकारियोगे ऽपि तत्कार्यादर्शनादिति शोभनमुक्तम् शक्तिः कार्यकरीति।
ततः प्रकृते किमुच्यते
रामकठः
कारणं तेन सा ज्ञेया स्थूलस्यास्य समन्ततः ।
रामकठः
येनैवमनेकशक्तिरूपापि माया न सर्वशक्त्यात्मना परिणमत इत्युक्तं
तेन कारणेन सा काचिदेव शक्तिरस्य स्थूलस्य कलादेः कार्यस्य सामस्त्येन कारणं प्रोक्ता।
न तु शक्त्यन्तरमिति द्वितीयो ऽपि प्रसङ्गो ऽनुपपन्न इति।
अथ किं सर्वस्य जगतः साक्षात्कारणम्। नेत्युच्यते
तस्मात्कला तुटिः संस्था बोधिनी ह्यभिलाषकृत् ॥ किर्त्_४।२२ ॥
सूक्ष्मं चातो गुणास्तेभ्यो बुद्धिर्बुद्धेरहङ्कृतिः ।
तस्मादेकादशाक्षाणि पञ्च तन्मात्रकाणि च ।
तेभ्यो भूतानि जातानि सर्वमीशः सृजत्यधः ॥ किर्त्_४।२३ ॥
रामकठः
तस्मान्मायातत्त्वात्कला तुटिश्च कालः संस्था च प्रागुक्ता नियतिरेव साक्षादुत्पन्नाः। यदुक्तं श्रीमत्स्वायम्भुवे
तस्मात्कालकले इति
।क़ुओते{तस्मात्कालकले
।स्वयम्। २:९अ। च्फ़्।। ।सद्योऽस्
इन्तेर्प्रेततिओन् (प्।४३):
कला च कला चेत्येकशेषः। कालश्च कला च कालकले।
तत्रैकः कलाशब्दो नियतिमभिधत्ते,
द्वितीयस्तु कलामेव। कथं कलाशब्दो
नियतिमभिधत्ते। यतः सापि कलयति
प्रेरयतीति नियतिः कर्मफलभोजकत्वेन।}
कलाशब्देन तत्र नियतेरप्युपादानात्। बोधनी तु प्रागुक्ता विद्या।
हीति यस्मात्कारणादुत्पन्ना तस्मादेवाभिलाषकृत् प्रागुक्तो रागः।
सूक्ष्मं च गुणकारणतया प्रागुक्तं प्रधानमुत्पन्नं तत एव।
प्रक्रमान्तरनिर्देशान्न मायातः किन्तु कार्यप्रक्रमात्पूर्वश्रुतायाः कलात एव। यदुक्तं श्रीमद्रौरवे
कलातत्त्वाद्रागविद्ये द्वे तत्त्वे सम्बभूवतुः।
।क़ुओते{कलातत्त्वाद्रागविद्ये।देव्दोत् अव्यक्तं च
।रौस्। २:१५।}
अव्यक्तं चेति
अत इति सूक्ष्मपदोपात्तात्तत्त्वात्प्रधानाद्गुणाः सत्त्वादयस्त्रयस्तेभ्यो बुद्धिरिति गुणेभ्यः।
बुद्ध्यादेः सामान्यशास्त्रप्रसिद्धस्य तत्त्वादिवस्तुनः प्रकारविशेषपरिग्रहार्थमनुवाद इति दर्शितं प्रागेव। प्रोक्तं च साङ्ख्यैः
प्रकृतेर्महांस्ततो ऽहङ्कारस्तस्माद्गणश्च षोडशकः।
।क़ुओते{प्रकृतेर्महांस्ततो।देव्दोत् पञ्चभूतानि
।सन्ख्। २२।}
तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि॥ इति।
सर्वमिति भूतभावभुवनात्मकम्। यच्चाधः स्थूलभूतमयं ब्रह्माण्डं तदप्यसृजत्। तदेवं
सो ऽसृजद्भगवानीशः शिवशक्तिसमन्वितः ।
।क़ुओते{च्फ़्। ।रौस्। २:१९च् अन्द् ।स्वयम्। २:११च्, अन्द् ।रौस्। १:१२द् अन्द् ।स्वयम्। २:१०द्।}
कृत्स्नं मायात्मकं कार्यं शुद्धाशुद्धविमिश्रितम् ॥ किर्त्_४।२४ ॥
रामकठः
पारम्पर्येणैतत्सर्वं मायातः स एवानन्तेशो ऽसृजत्।
तत् प्रतिस्थानं शुद्धैश्चाशुद्धैश्चाधिकारिभिर्विमिश्रितम्।
ते ऽपि तेनैव निर्मिता इत्यर्थः। यदुक्तं श्रीमद्रौरवे
पतयश्चाञ्जनातीताः साञ्जनाश्च पृथग्विधाः।
।क़ुओते{पतयश्चाञ्जनातीताः।देव्दोत् व्यवस्थिताः
।रौस्। २:२० (एद्।। रेअद्स् वापि फ़ोर् देवास्)।}
भुवने भुवने देवास्तन्नियोगाद्व्यवस्थिताः॥ इति।
स्वरूपेणापि तच्छुद्धमशुद्धं च विमिश्रितं सो ऽसृजदिति।
यदुक्तं साङ्ख्यैः
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः।
।क़ुओते{ऊर्ध्वं।देव्दोत् @पर्यन्तः
।सन्ख्। ५४। अल्सो क़ुओतेद् अद् ।नर्। ३:१७८, प्।२७१।}
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः॥ इति।
अत्र पराभिप्रायः
रामकठः
योनिजं बुद्धिभेदाच्च तदेकं चेद्द्विधा कथम् ।
रामकठः
योनिर्माया तज्जत्वेनाविशेषात् सर्वमेव ।च्रुx शुद्धानां शरीरं शुद्धम् ।बेगिन्सुप्प्ल्य् शुद्धम् ।एन्द्सुप्प्ल्य् वा भुवनं स्यात्।च्रुx ।
एकरूपमेवेत्यर्थः।
किञ्चित्त्वशुद्धानामशुद्धं वा मिश्रितं वेत्येवं द्विधा कथमसृजत्। असम्भवात्। यदाहुः
नोपादानं विरुद्धस्येति।
।क़ुओते{नोपादानं विरुद्धस्य
{प्रमाणवार्त्तिक}, {प्रत्यक्षपरिच्छेद} २६३च्।}
अथैकस्माद्द्वितयमेतत्प्रकारतया भिद्यते।
यथान्नादोदनापूपाविति।
ततो नानयोर्विरोधसम्भव इति। तदयुक्तमित्युच्यते बुद्धिभेदाच्चेति।
बुद्धिभेदे ह्यन्नादोदनादेस्तत्प्रकारतया द्वितयत्वम्।
यस्य त्वेकस्माद्बुद्धिभेदे ऽसत्यनेकत्वं नासौ तत्प्रकारतया द्विधा भवति। घट इव तदभावतया। बुद्धिभेदे ऽसत्यनेकत्वं च।
प्रागुक्तादशुद्धाच्छुद्धं शुद्धाच्चाशुद्धम्। अतस्तदपि तत्प्रकारतया द्विधा कथम्। नैवेति। प्रकारभेदाभावादत्र घटतदभावयोरिव वस्तुभेद एव।
अतो नोपादानं विरुद्धस्येति युक्त एव प्रश्नः। सिद्धान्तस्तु
दृष्टं खद्योतकादेस्तद् विरुद्धं चैकहेतुकम् ॥ किर्त्_४।२५ ॥
रामकठः
अयुक्तमेतदसिद्धत्वात्। न हि ।च्रुx प्रकारान्तरस्य प्रकारान्तरकारणप्रकारान्तरत्वमस्माभिस्तद्बुद्धिभेदादिष्यते।च्रुx ।
अपि तु प्रकारिण एव तथादृष्टत्वात्।
खद्योतमशकमक्षिकादीनां हि प्रकाशाप्रकाशरूपेण बुद्धिभेदे ऽपि स्वेदैकयोनिजत्वेन बुद्ध्यभेदात्तत्प्रकारत्वं दृष्टम्।
तद्वदत्र शुद्धाशुद्धयोरुत्पद्य ज्ञानाज्ञानरूपेण बुद्धिभेदे ऽपि योनिजत्वेन बुद्धिभेदाभावात्तत्प्रकारभेदेनैव द्विधाभावो युक्त इति प्रकाराणां परस्परपरिहारविरोधे ऽप्येकप्रकार्युपादानहेतुत्वं खद्योतमशकमक्षिकादीनामिव दृष्टं न विरुध्यत इत्यदोषः। तथा हि
रामकठः
एवं तद्भिन्नसंस्थानं शुद्धाशुद्धाङ्गसंयुतम् ।
ज्ञेयं कारणशक्त्युत्थं कार्यं बीजनिमित्तजम् ।
रामकठः
एवमेकबीजभूतयोनिशक्तिनिमित्तत्वे ऽपि शुद्धाशुद्धामित पक्षस्थं भिन्नसंस्थानं भिन्नप्रकारतया ज्ञेयम्। न घटतदभाववद्भेदेनेति।
अथ प्रकृतोपसंहारः
एवमेतत्समादिष्टं तत्कार्यं विग्रहाश्रयम् ॥ किर्त्_४।२६ ॥
रामकठः
विग्रहे ऽस्मिन्स्थूलशरीरे सूक्ष्मदेहतयाश्रयो यस्य तन्मायाकार्यं कलादि सूक्ष्मदेहतयैवमादिष्टं परमेश्वरेण। कथमित्युच्यते
यद्यप्येतन्मिथः कार्यं विरुद्धमसितात्मकम् ।
तथाप्येतत्सुसंश्लिष्टम् एकस्मिन्वस्तुनि स्फुटम् ॥ किर्त्_४।२७ ॥
नरार्थं साधयेद्भिन्नं नरस्य शकटाङ्गवत् ।
रामकठः
यद्यप्यशुद्धं मायाकार्यं कलाद्येतत्परस्परपरिहारस्वभावतया घटतदभावादिवत्तद्विरुद्धं तथाप्येतदेकस्मिन्सूक्ष्मदेहे वस्तुनि संश्लिष्टं स्फुटं कृत्वा पुरुषस्यार्थं प्रागुक्तेन चैतन्योपोद्बलेनोपलब्धं कलादिव्यापारभेदेन साधयतीति सम्भाव्यते शकटाङ्गानीव शकटाश्लिष्टानीति।
एवमेतदनन्तेन सृष्टं देहनिबन्धनम् ॥ किर्त्_४।२८ ॥
रामकठः
यस्मादेवं पुरुषार्थसाधकमेतत्तस्मात्कारणाद्देहे निबन्धनं स्थितिर्यस्य तद्देहनिबन्धनं स्थूलदेहाधारत्वेन पुरुषार्थसाधकतयानन्तेशेन सृष्टं नान्यथेति।
अथ को ऽसौ पुरुषार्थः कथं च देहनिबन्धनो ऽसावित्युच्यते
रामकठः
न देहेन विना मुक्तिर् न भोगश्चित्क्रियागुरुः ।
रामकठः
तत्र मुक्तिर्भोगश्च यश्चित्क्रिययोर्गुरुरुपदेष्टा भोगेन हि चित्क्रिये उपदिश्येते।
येनाभोगे न प्रलयकेवलाद्यवस्थायामित्येष द्विविधः पुरुषार्थः। स च देहेन विना नोपपद्यते। मुक्तिर्हि मलपरिपाकं विना नोपपन्ना।
नामिश्रं परिणमत इति न्यायेन।
केवलस्य च तस्य परिपाकासम्भवादवश्यं तत्परिपाकसहभावित्वेन शरीरापेक्षेत्युक्तम्।
भोगो ऽपि भोगसाधनानामेषामधिकरणं विना व्यापारादर्शनाद्देहापेक्षा सुसिद्धैवेत्यविरोधः।
न केवलमत्रानन्त एव कर्ता यावत्
एतच्च कुरुते शम्भुः स्वतन्त्रत्वात्प्रभुत्वतः ।
सर्वानुग्राहकः शान्तस् तद्वशादखिलं फलम् ॥ किर्त्_४।२९ ॥
वृत्ति:
परमेश्वरश्च तत्करोति न केवलो ऽनन्तेश इति चकारो ऽत्र भिन्नक्रमः।
प्रयोज्यप्रयोजकभावेन द्वयोरत्र कर्तृत्वमित्यर्थः॥
।चोलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ चतुर्थं प्रकरणम्॥