रामकठः
अथ पदार्थानामेव परीक्षार्थं प्रश्नपूर्वं रकरणान्तरम्। अत्र च सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः।
पाटलिकस्तु व्यतिरिक्तमलसिद्धेरनन्तरं मलस्यैवा रागत्वपरीक्षात्मको वाक्यात्मको ऽपि रागेण रञ्जितश्चेति
।क़ुओते{रागेण रञ्जितश्च वाक्येन।
।किर्। १:१७अ।}
तथा च प्रश्नः।
गरुड उवाच
भोक्तृत्वं मलतः प्रोक्तम् अभिलाषान्न किं भवेत् ।
स च रागाद्यतो रागो वक्तव्यो ऽत्र मलेन किम् ॥ किर्त्_३।१ ॥
रामकठः
ननु मलशब्देन चावृतिरित्यादिना
।क़ुओते{मलशब्देन चावृतिः
।किर्। २:१४द्।}
प्रबन्धेन मलत आवरणं कार्यं पुंविषयं मुख्यमुक्तम्।
आनुषङ्गिकं तु भोक्तृत्वादि। यदुक्तम्
पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः।
।क़ुओते{पाश्यादिवृत्तयो।देव्दोत् भोक्तृत्वञ्च न केवलम्
।किर्। २:२१च्–२२ब्।}
मले सति भवन्त्येता भोक्तृत्वञ्च न केवलम्॥ इति।
को ऽयं प्रश्नः। अथावार्यत्वमेवात्र भोक्तृत्वमुच्यते न तु भोगैकरसिकत्वमिति प्रश्नः।
यद्येवं ततो मल एव वक्तव्यः किं रागेणेति रागाक्षेपप्रश्नो युक्तः, न तु मलेन किमिति।
रागाद्यभावे ऽपि प्रलयकेवलाद्यवस्थायां तत्कार्यस्य भावादिति।
सत्यमेतत्। किन्तु नात्र सर्वथा मलाभावः पूर्वपक्षीकृतो यदात्र भोक्तृत्वे मलेन किमिति।
भोक्तृत्वं हि भोगैकरसिकत्वात्मकं रागकार्यात्प्रागुक्तादभिष्वङ्गादेव दृष्टात्सिद्धमिति किमत्र मलस्यापि हेतुत्वेन कल्पितेन।
रागस्यैवात्र पारम्पर्येण हेतुत्वमिति प्रश्नार्थः।
तन्न विरोध इति। अत एवात्र मलस्याभ्युपगमेनैव समाधिः
रामकठः
भगवान् उवाच
भोक्तृत्वं नाम यत्प्रोक्तम् अनादि मलकारणम् ।
रामकठः
यदेतद्भोक्तृत्वमस्माभिः प्रागुक्तं तदनादि। यतो मलकारणमुक्तं ततो
मलस्यानादित्वात्तदप्यनादि। एतदुक्तं भवति—अन्यदेवास्मान्मोहजनिताद्भोक्तृत्वाद्भोगयोग्यत्वलक्षणमेतद्भोक्तृत्वम्।
प्रलयाकले विद्यते न तु विज्ञानकेवले कर्माभावात्।
तस्य कर्मवन्मलो ऽपि कारणं परिणतमलस्य प्रलयाकलस्यापि परमेश्वरानुग्राह्यत्वान्न तत्सम्भवति यतः।
ततश्च नाभिलाषो ऽस्य निमित्तमित्युच्यते
अभिलाषस्तनौ सत्यां सा तनुः केन हेतुना ॥ किर्त्_३।२ ॥
रागो ऽपि तन्निमित्तत्वात् प्रवृत्तः
रामकठः
अभिलाषो ऽप्ययं सति स्थूले ऽस्मिञ्छरीरे भवतीति। तच्छरीरं सूक्ष्मदेहात्मकरागादिसम्बन्धात्।
रागादीनां तु प्रवृत्तौ तद्भोक्तृत्वं निमित्तमिति कथमस्याभिलाषो निमित्तमाशङ्क्यते। अभिलाषहेतोरस्य रागादेरप्येतन्निमित्तत्वात्।
तत्र दृष्टान्तः
पुरुषस्य तु ।
चौर्यं हि बीजमापेक्ष्य यथा निगडबन्धनम् ॥ किर्त्_३।३ ॥
एवं पशुत्वमापेक्ष्य रागतत्त्वं प्रवर्तते ।
रामकठः
यथा चौर्यं बीजभूतमा समन्तादपेक्ष्यपुरुषस्य निगडादिबन्धनं प्रवर्तते तथैव प्रागुक्तनयेन
।क़ुओते{प्रागुक्तनयेन
सेए ।किर्। १:१६ फ़्फ़्।}
प्रलयकेवलिनः पशुत्वं मलमपेक्ष्य रागादयः प्रवर्तन्त इति कुतो रागस्यात्र हेतुत्वमाशङ्क्यते। तदेवं
एतस्मादस्य भोक्तृत्वं तनुर्भोगो ऽन्यहेतुजः ॥ किर्त्_३।४ ॥
पशुत्वेन हि भोक्तृत्वं मायाबन्धस्तनौ स्थितः ।
सुखदुःखादिको भोगः कर्मतः संस्थितः पशोः ।
नान्यथास्य विनिर्दिष्टं भोगभोक्तृत्वबन्धनम् ॥ किर्त्_३।५ ॥
रामकठः
पशुत्वसञ्ज्ञकान्मलादस्य भोक्तृत्वं मायातस्तच्छरीरं कर्मतः पुनर्भोगः कर्मणामेव सुखदुःखात्मना परिणामादिति साक्षान्निमित्तत्वमत्रोक्तं न तु परम्परया पारम्पर्येण सर्वस्यास्य मायात्मनः कर्माक्षिप्तत्वादिति दर्शयिष्यामः।
।क़ुओते{इति दर्शयिष्यामः
अद् ।किर्। ३:७–८।}
प्रोक्तञ्च श्रीमत्स्वायम्भुवे
कर्मतश्च शरीराणि विषयाः करणानि च। इति।
।क़ुओते{कर्मतश्च शरीराणि विषयाः करणानि
च ।स्वयम्। १:१३अब्।}
नान्यथैतस्य भोगश्च भोक्तृत्वं च शरीरं च विनिर्दिष्टमिति। तदियता पशुपदार्थः परीक्षित इति॥
अधुना पाशपदार्थपरीक्षाविशेषार्थः प्रसङ्गात्प्रश्नः
गरुड उवाच
यदेतत्कर्म देवेश प्रोक्तं भोगनिबन्धनम् ।
कर्मार्जनं तनौ सत्यां सृष्टिकाले तनुः कुतः ॥ किर्त्_३।६ ॥
रामकठः
यदेतत्सुखदुःखादिको भोग इत्यादिना कर्म भोगनिबन्धनमुक्तं तन्न व्यापकमित्यध्याहारः। यतो महाप्रलयादनन्तरं सर्गारम्भकाले प्रथमः शरीरादिभोगः कुतश्चिदेव निमित्तादिष्यते। न कर्मतः।
तदुत्तरकालभाविनां कर्मनिमित्तत्वादिति। यदाहुः—
आद्यो हि देहः पुरुषार्थमूलस्ततो ऽप्यन्ये कर्ममूलाः प्रतिपन्ना इति।
।क़ुओते{आद्यो हि देहः।देव्दोत् प्रतिपन्नाः
सोउर्चे उन्क्नोwन्। अल्सो क़ुओतेद् इन् ।नर्प्,
प्।२१२ अद् ३:८७, बुत् wइथ् प्रपन्नाः फ़ोर् प्रतिपन्नाः}
अत्र सिद्धान्तः
भगवान् उवाच
यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् ।
यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥ किर्त्_३।७ ॥
रामकठः
पुरुषाणां हि सर्वदा शारीरभोगादिवैचित्र्यान्यथानुपपत्त्या कर्मणः सत्त्वं सृष्टिकाले ऽपि पशुमृगपक्षिसरीसृपस्थावरमनुष्यादि जन्मवैचित्र्यश्रुतेः।
महाप्रलये ऽपि कर्मसिद्धितः प्रवाहानादिः कर्मशरीरप्रबन्धः सिद्ध्यति।
।क़ुओते{तेस्तिमोनिउम्:
किरणवृत्तौ भगवता रामकण्ठेन
ऽपुरुषाणां हि सर्वथा
शरीरभोगवैचित्र्यान्यथानुपपत्त्या
कर्मणः सत्वम्। प्रथमसृष्टिकाले ऽपि
पशुपक्षिमृगसरीसृपस्थावरमनुष्यादिवैचित्र्यश्रुतेः
महाप्रलये ऽपि कर्मसिद्धितः
प्रवाहानादिः कर्मशरीरप्रबन्धः
सिद्ध्यतीऽति व्याख्यातम्। {सिद्धान्तसारावलिव्याख्या} अद्
।व्प्। ७, प्।५८, लिनेस् १८–२१।}
ततश्च मलस्यापि केवलस्यात्र शरीरहेतुत्वप्रतिषेधस्य सामर्थ्यसिद्धेः
आद्यो हि देहः पुरुषार्थमूल इत्ययं पक्षो ऽत्यन्तायुक्त इत्युक्तं भवति।
एतदेवास्य प्रवाहानादित्वमुपसंहर्तुं मायाधिकरणत्वं च दर्शयितुं सूत्रम्
तस्मादनादिकं कर्म मायाप्येवं भवस्तथा ।
तथानादिः शिवः कर्ता सर्वस्य जगतः स्थितः ॥ किर्त्_३।८ ॥
रामकठः
एवं कर्मनिबन्धनो भवः कलादिक्षितिपर्यन्ततत्त्व भूतभुवनरूपः संसारो मायीयस्तन्निबन्धनं च पुनरर्ज्यमानं कर्मेति कर्मभवयोः परस्परहेतुत्वेन प्रवाहानादित्वसिद्धिः।
भवानादित्वादेव च तदुपादानेन कर्मानादित्वाच्च तदधिकरणेनापि प्रकृत्यात्मनानादिना भवितव्यम्।
कृष्यादिकर्मणां प्रकृतिसंस्कारकत्वेन दृष्टत्वान्नैयायिकादिपरिकल्पितात्मसंस्कारकत्वायोगादात्मनः परिणामित्वप्रसङ्गाच्च।
यच्च तद्भवो पादानं कर्माधिकरणं च सा मायाप्यनादिसिद्धा।
तथा भवस्य तनुकरणभुवनात्मनः प्रवाहानादित्वेनोक्तत्वात्तत्कर्तापीश्वरो ऽनादिः सिध्यतीति।
अथ पाशपदार्थपरीक्षाविशेषादनन्तरं प्रसङ्गात्पतिपदार्थपरीक्षार्थं प्रश्नः
रामकठः
गरुड उवाच
शिवः कर्ता त्वया प्रोक्तः स कथं गम्यते प्रभो ।
रामकठः
ईश्वरे हि जगत्कर्तरि सिद्धे तस्यानादित्वं साधयितुं शक्यम्। स एव कथं गम्यते। न तावत्प्रत्यक्षतो ऽतीन्द्रियत्वेन तस्य भवद्भिरभ्युपगमात्। तदुक्तं जैमिनीयैः
न च कैश्चिदसौ ज्ञातुं कदाचिदपि शक्यते।
।क़ुओते{न च कैश्चिदसौ।देव्दोत् ब्रूयादात्मैश्वर्यप्रसाधनात्
।स्लोक। {सम्बन्धाक्षेपपरिहार} ५७च्द्, ५८अब् अन्द् ६०।
अल्सो चितेद् अद् ।मत्।व्प्। ३:६, प्।४९ अन्द् बेफ़ोरे ।नर्। २:१, प्।११३।}
स्वरूपेणोपलब्धे ऽपि स्रष्टृत्वं नावगम्यते॥
न च तद्वचनेनैषा प्रतिपत्तिः सुनिश्चिता।
असृष्ट्वापि ह्यसौ ब्रूयादात्मैश्वर्यप्रसाधनात्॥ इति।
नापि रूपोपलब्ध्यादिना चक्षुरादिरिव पूर्वोक्ततनुकरणभुवनादिकार्यान्यथानुपपत्ति लक्षणेनानुमानेन तस्य महाभूतेभ्य एवोत्पत्तिदृष्टेः। यदाहुः सौगताः
यस्मिन्सति भवत्येव यत्ततो ऽन्यस्य कल्पने।
।क़ुओते{यस्मिन्सति।देव्दोत् हेतूनामनवस्थितिः
{प्रमाणवार्त्तिक} १:२६ (wइथ्
येषु सत्सु फ़ोर् यस्मिन्सति)।
अल्सो चितेद् अद् ।नर्। १:४, प्।९ अन्द् २:४, प्।१२० अन्द् ।मत्।व्प्। ६:२१, प्।१५२।}
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः॥
शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोपणे।
।क़ुओते{शस्त्रौषधादि।देव्दोत् प्रकल्प्यते
{प्रमाणवार्त्तिक} १:२४।}
असम्बद्धस्य किं स्थाणोः कारणत्वं प्रकल्प्यते॥ इति।
नाप्यागमेन तस्याकृतकत्वेन भवद्भिरनभ्युपगमात्।
तत्कृतस्यान्योन्यसंश्रयेणाप्रामाण्यात्। न च प्रमाणान्तरमस्ति भवताम्।
तत्साधनप्रमाणाभावान्न कथञ्चिद्गम्यत इत्यर्थः।
यद्येवमत एवैतद्विषयसंशयो ऽस्तु। नास्तीश्वर इति कुतो बाधकप्रमाणाभावादिति। उच्यते।
वैकरण्यादमूर्तत्वात् कर्तृत्वं युज्यते कथम् ॥ किर्त्_३।९ ॥
रामकठः
करणानामभावो वैकरण्यं तस्मादीश्वरो जगतः कर्ता न सम्भवति। करणाभावाद्दण्डचक्रसूत्रादिरहितः कुम्भकार इव कुम्भे। तदिदमुक्तं जैमिनीयैः
न च निःसाधनः कर्ता कश्चित्सृजति किञ्चन। इति।
।क़ुओते{न च निःसाधनः कर्ता कश्चित्सृजति किञ्चन
।स्लोक। {सम्बन्धाक्षेपपरिहार}
५०च्द्। अल्सो क़ुओतेद् अद् ।नर्। ३:२, प्।१५५।}
किञ्च मूर्तत्वं कठिनता। अत्र शरीरयोगस्तदभावादीश्वरो न सम्भवति कर्तेति। तदिदमुक्तं तैरेव
अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्म वद्भवेत्।
।क़ुओते{अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेत्
।स्लोकस्। ७८च्द्। अल्सो
क़ुओतेद् अद् ।नर्। २:८, प्।१३० अन्द् फ़्रेक़ुएन्त्ल्य् इन् थे ।मत्व्।}
इत्येवं साधकबाधकप्रमाणाभावसद्भावाभ्यामीश्वराभावसिद्धिरिति
पूर्वः पक्षः। अत्र सिद्धान्तो बाधकनिरासपूर्वः। तस्मिन्ह्यनिराकृते साधकस्य हेतोरप्रवृत्तिरेव।
तत्प्रतिज्ञावचनस्यानुमाननिराकृतत्वात्। यदाहुः
सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः। इति।
।क़ुओते{सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः
{प्रमाणवार्त्तिक}
४:९१। अल्सो क़ुओतेद् अद् ।नर्। २:४, प्।११९।}
तथैवोपक्रम्यते
भगवान् उवाच
यथा कालो ह्यमूर्तो ऽपि दृश्यते फलसाधकः ।
एवं शिवो ह्यमूर्तो ऽपि कुरुते कार्यमिच्छया ॥ किर्त्_३।१० ॥
रामकठः
तत्र यस्तावदकर्तृत्वसिद्धावत्रामूर्तत्वादिति हेतुरुक्तः स कालेनानैकान्तिकस्तस्यामूर्तत्वे ऽपि पुष्पफलादिकर्तृत्वप्रसिद्धेः।
अथ कालस्याचेतनत्वेन स्वकार्यं प्रति कारणत्वात्कर्तृत्वासिद्धेः नानैकान्तिकविषयता। तत्रोच्यते तर्हि कालस्यात्रोपलक्षणत्वादस्मदाद्यात्मनानैकान्तिकस्तस्यामूर्तस्यापि स्वदेहस्पन्दादिकार्यदर्शनात्।
दृष्टान्तो ऽप्यत्र साध्यधर्मासिद्धः मुक्तात्मनो ऽप्यस्माभिः सर्वाधिष्ठातृत्वेनाभ्युपगमादिति।
यस्त्वत्रवैकरण्यादिति हेतुरुक्तः सो ऽप्यसिद्ध एव। तथा हि
रामकठः
इच्छैव करणं तस्य यथा सद्योगिनो मता ।
रामकठः
इच्छात्मिकैव शक्तिस्तस्य करणं योगिन इव विद्यते यतः।
योगिनश्च सर्ववादिनां सिद्धा एव चार्वाकैरपि विषग्रहचिकित्साकारित्वेन
मण्यौषधादिवन्न प्रतिक्षेप्तुं शक्याः। यदाहुः
अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति।
।क़ुओते{अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः
अल्सो ओच्चुर्स् इन् {रत्नावली} अच्त् २, प्।३९
अन्द् इन् थे {शुक्लकुरुकुल्लासाधन}
(नो।१८० इन् {साधनमाला}),
प्।३६५। अल्सो क़ुओतेद् अद् ६:१६ अन्द् अद् ।मत्।व्प्। ७:४९, प्।२४९।}
अथ वैकरण्यमत्रेन्द्रियाभावो हेतुरभिप्रेतस्तत्राप्युच्यते
शल्याकृष्टिकरो दृष्टो ह्य् अक्षहीनो ऽपि कर्षकः ।
व्यापारो न च दृश्येत कार्यमिच्छा प्रतीयते ॥ किर्त्_३।११ ॥
रामकठः
तदानीमयस्कान्तमणिनानैकान्तिको हेतुः। स हीन्द्रियहीनो ऽपि शल्यात्मकायःसमाकर्षको दृष्टो यतः। अत्रापि प्रागुक्तकालवदनैकान्तिकाक्षेपतत्समर्थनं तथैव द्रष्टव्यमिति।
तदेवमसत्तानिश्चायके बाधके ऽपनीते ऽधुना सत्तासंशयनिवारणाय
प्रमाणमुच्यते
रामकठः
स्थूलं विचित्रकं कार्यं नान्यथा घटवद्भवेत् ।
अस्ति हेतुरतः कश्चित्
रामकठः
इह हीश्वरसिद्धौ साङ्ख्यसौगतजैमिनीयार्हतचार्वाकाः प्रतिपक्षाः। तत्र पूर्वयोर्यदेतद्विचित्रकमित्यदृष्टकर्तृकं तनुकरणभुवनादिकं प्रागुक्तं जगद्धर्मित्वेन चिकीर्षितं तत्प्रतिक्षणं परिणामादुत्पादाद्वा कार्यत्वेन सिद्धमेव। अपरेषां तु
न कदाचिदनीदृशं जगत्
।क़ुओते{न कदाचिदनीदृशं जगत्
सोउर्चे उन्क्नोwन्। अल्सो क़ुओतेद् अद् ।नर्। २:१, प्।११५।}
इत्यभ्युपगमात्तदेकदेशभुवनादि तथा न सिद्धमिति तान्प्रति
स्थूलत्वेन कार्यत्वमत्र साध्यते। यत्स्थूलं तत्कार्यं यथा घटादि स्थूलं चैतददृष्टकर्तृकं भुवनादि ततः कार्यमिति।
न चात्रेश्वरशरीरेण नित्येन वेदेन वानैकान्तिकत्वम्। यथोक्तं जैमिनीयैः
अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत्। इति।
।क़ुओते{अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत्
।स्लोकस्। ७७अब्।
क़ुओतेद् अद् ।नर्। २:८, प्।१३३ अन्द् अद् ।म्र्ग्। १:९, प्।२१।}
तस्यास्माभिः सर्वथा वेदस्य चानित्यत्वेनाभ्युपगमात्। तस्मिन्नपि च कार्ये सिद्धे ऽधुना कार्यत्वेनात्र सर्वस्मिञ्जगति कर्तृपूर्वकत्वं साध्यते।
न तु स्थूलत्वेन तद्व्यापकत्वादिति।
यत्कार्यं तद्विशिष्टज्ञानक्रियायुक्तकर्त्रा विना न सिध्यतीति यथा घटादि। कार्यं चैतत्सर्वमेव जगत्।
अतस्तदपि विशिष्टज्ञानक्रियायुक्तेन कर्त्रा विना न भवतीति।
यस्तत्कर्ता स ईश्वरः सिद्ध एवेत्येवमत्र पदत्रयस्य नान्योन्यं गतार्थतेत्यविरोधः।
न च कार्यत्वमत्र तथाभूतं न सिद्धमित्याशङ्कनीयम्। यदाहुः सौगताः
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत्।
।क़ुओते{सिद्धं यादृगधिष्टातृ।देव्दोत् हुताशने
प्रमाणवार्त्तिक १:१३–१४। अल्सो
क़ुओतेद् अद् ।मत्।व्प्। ६:१००, प्।२२७ अन्द् अद् ।नर्। २:५, प्।१२२।}
सन्निवेशादि तद्युक्तं तस्माद्यदनुमीयते॥
वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने॥ इति।
कार्यमात्रस्य कर्तृमात्रेण घटादौ कृतकत्वमात्रस्यानित्यत्वमात्रेणेव व्याप्तेः सिद्धत्वात्। अन्यथा तत्राप्यन्यत्रापि च दृष्टान्तसाध्यधर्मभेदेन हेतुभेदकल्पने सर्वानुमानाभाव एव। अविशेषात्पाण्डुत्वस्य तु भावात् धूमाभावे ऽपि हिममक्कोलादिषु च तद्दर्शनात् वह्न्यनुमापकत्वमयुक्तमेव।
नाप्यनैकान्तिकः सर्वस्यादृष्टकर्तृकस्य वनतृणादेरपि पक्षीकृतत्वात्। न च विरुद्धो हेतुः यथाहुर्जैमिनीयाः
तथासिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता।
।क़ुओते{तथासिद्धे च दृष्टान्ते।देव्दोत् प्रसज्यते
।स्लोक। {सम्बन्धाक्षेपपरिहार} ८०। अल्सो
क़ुओतेद् अद् ।म्र्ग्। ३:१, प्।१०१; अद् ।नर्। २:७, प्।१२८
अन्द् फ़्रेक़ुएन्त्ल्य् इन् थे ।मत्व्।}
अनीश्वरविनाश्यादिकर्तृकत्वं प्रसज्यते॥ इति।
विपर्ययव्याप्त्यभावात्। दृष्टान्ते हि घटादावयं हेतुः स्वसाध्ये स्वकार्यसर्वज्ञत्वसर्वकर्तृत्वलक्षणेनेश्वरत्वेन व्याप्तः सिद्धो यतस्तस्यांशेनापि वैकल्येन घटादर्शनादविनाशित्वेनापि कुम्भकारात्मनो नित्यत्वात्तस्यैव च कर्तृत्वात्। नापि धर्मिस्वरूपविपरीतसाधनो ऽयं विरुद्धः। यथाह मण्डनः
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि।
।क़ुओते{सन्निवेशादिमत्सर्वं।देव्दोत् उपकार्योपकारकाः
{विधिविवेक} प्प्।२१९ अन्द् २२४।
क़ुओतेद् अद् ।मत्।व्प्। ६:१००, प्।२२९ अन्द् (सेचोन्द्
वेर्से ओन्ल्य्) अद् ।नर्। २:२०, प्।१४६।}
प्रसिद्धसन्निवेशादेरेककारणता कुतः॥
रथाद्यवयवा नानातक्षनिर्मापिता अपि।
दृश्यन्ते जगति प्राय उपकार्योपकारकाः। इति।
यतो रथाद्यवयवानामनेकतक्षनिर्मितानामपि नैकस्थपतिबुद्धिक्रियाभ्यां विनैकरथारम्भकत्वं दृष्टमिति।
नाप्यनीश्वरकर्तृकं जगत् कार्यत्वात् घटादिवदिति विरुद्धाव्यभिचार्याक्रान्तत्वादहेतुरयमिति वाच्यम्।
धूमादग्न्यनुमानवदत्र वस्तुबलप्रवृत्तत्वेन तदसम्भवादिति भवतामभ्युपगमः।
अन्यथा पर्वतादावपि धूमादग्न्यनुमाने ऽत्रापर्वतवर्ती वह्निः धूमात् यत्र धूमस्तत्रापर्वतवर्ती वह्निर्यथा महानसे ऽत्र च धूमस्तस्मादपर्वतवर्ती वह्निरिति सर्वत्र विरुद्धाव्यभिचार्यनुमानावस्करसम्भवादनुमानाभाव एवेत्येवमादयो ऽत्र हेतुदोषा विस्तरेणास्माभिर्नरेश्वरपरीक्षाप्रकाशे प्रतिक्षिप्ता इति तत एवावधार्याः।
।क़ुओते{नरेश्वरपरीक्षाप्रकाशे प्रतिक्षिप्ताः
छप्तेर् २।}
अत्र पराभिप्रायः।
रामकठः
कर्म चेत्
रामकठः
अनेन हि प्रयोगवचनेन भवद्भिः कर्तृमात्रं साध्यमुपक्षिप्तम्।
तच्चोभयवादिसिद्धं कर्मास्त्विति श्रावणः शब्द इतिवत्सिद्धसाधनत्वादयुक्तमेतत्। यदाहुर्जैमिनीयाः।
कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृतेष्यते।
।क़ुओते{कस्यचिद्धेतुमात्रस्य।देव्दोत् सिद्धसाधनम्
।स्लोकस्। ७५। क़ुओतेद् अद् ।नर्। २:१४, प्।१३६।}
कर्मभिः सर्वभावानां तत्सिद्धेः सिद्धसाधनम्॥ इति।
अत्र सिद्धान्तः।
न ह्यचेतनम् ॥ किर्त्_३।१२ ॥
रामकठः
न सिद्धसाधनं यस्मात्कर्माचेतनमिति।
अयमर्थः—नास्माभिरत्र कर्तृत्वमात्रं साध्यते ऽपि तु विशिष्टज्ञानक्रियायुक्तः कर्तेति कुतो ऽचेतनैः कर्मभिः सिद्धसाधनमिति।
यद्येवं धर्मिविशेषविपरीतसाधनो ऽयं विरुद्धः। यदाहुः।
कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत्।
।क़ुओते{कार्यं शरीरयुक्तेन।देव्दोत् प्रसज्यते
सोउर्चे उन्क्नोwन्। अल्सो चितेद् अद्
।मत्।व्प्। ६:१००, प्।२२९ wइथ् घटादि फ़ोर् सदैव}
कार्यत्वात्तेन जगतः कर्ता देही प्रसज्यते॥ इति।
तदयुक्तं यतः
प्रोक्तः स निष्कलः स्थूलस् तथा सकलनिष्कलः ।
ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते ॥ किर्त्_३।१३ ॥
रामकठः
कार्यस्य शरीरव्यभिचारात् स्वदेहस्पन्दात्मकं कार्यमस्मदादेर्न देहान्तरपूर्वकं सिद्धमित्युक्तं यतः।
।क़ुओते{इत्युक्तं यतः
।किर्व्। अद् ३:१०।}
ततश्च कुम्भकाराद्यात्मनो ऽपि स्वकार्यं प्रति शक्तोद्युक्तप्रवृत्तात्मना त्र्यवस्थस्य सिद्धेर्जगत्कर्तापि त्र्यवस्थ एवानुमीयते। यदाहुः
शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते। इति।
।क़ुओते{शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते
सोउर्चे उन्क्नोwन्। अल्सो चितेद् अद् ।मत्।व्प्।
३:२०, प्।६९। भत्त् थेरे ओब्सेर्वेस् थत् इत्
अप्पेअर्स् अस् {शतरत्नस।ण्ग्रह} १४ (प्।२२) अन्द्
इस् अत्त्रिबुतेद् तो थे ।म्र्ग्। इन् बोथ् थोसे प्लचेस् थे
फ़िर्स्त् {पाद} रेअद्स्
शक्तोद्युक्तप्रवृत्तश्च—अन् ऽइम्प्रोवेद्ऽ
रेअदिन्ग् इन् wहिछ् इत् इस् नो लोन्गेर् नेचेस्सर्य् तो अस्सुमे अ दोउब्ले सन्धि।}
तत्र यच्छक्तत्वं कार्यं प्रति योग्यत्वं सा निष्कलावस्था शान्त इत्युच्यते। यत्तूद्युक्तत्वं सा सकलनिष्कलावस्था सदाशिवः कथ्यते।
प्रवृत्तक्रियत्वं तु स्थूलावस्था ईश्वर इति।
कृत्यविषयो ऽयमवस्थाभेदस्तेनोपचारादेतत्तत्त्वत्रयं भिन्नमित्युच्यते। न परमार्थत्वादित्यर्थः। यद्वक्ष्यति
पुंसामनुग्रहार्थं तु परो ऽप्यपरतां गतः। इति।
।क़ुओते{पुंसामनुग्रहार्थं तु परो ऽप्यपरतां
गतः
।किर्। ३:२३अब् अन्द् ९:१७च्द्।}
एवं च ज्ञानपदार्थस्याप्यत्रैव परीक्षासिद्धिः। अत्र प्रश्नः
गरुड उवाच
निष्कलः स कथं ज्ञेयः सकलो ऽपि पुमांस्तदा ।
द्विस्वभावस्तथा यो ऽन्यो विरुद्धः स परस्परम् ॥ किर्त्_३।१४ ॥
रामकठः
इह हि पूर्वं शिवज्ञानं तथा तस्येत्यादिना
।क़ुओते{शिवज्ञानं तथा तस्य
।किर्। २:३३च्।}
दीक्षितानां शिवो ज्ञेयत्वेनोक्तः। न च निष्कलो ज्ञातुं शक्यते साकारविषयत्वाद्बुद्धेः। यदाहुः
आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः। इति।
।क़ुओते{आकारवांस्त्वं।देव्दोत् बुद्धिः
सोउर्चे उन्क्नोwन्। चितेद् अद् ।मत्।व्प्।
३:२३, प्।७१; ब्य् ।अघ्। अद् ।तत्प्। ६;
अन्द् ब्य् ।त्र्यम्बक। अद् ।किर्। ३:२०, प्।।थिन्स्पचे
६६, लिनेस् १–२। भत्त् ओब्सेर्वेस् थत् इत् इस्
चितेद् [ब्य् ज्।ञानप्रकाश]
इन् थे [{शिव-}]{योगसार} (प्।४९) अन्द्
अत्त्रिबुतेद् तो अ {योगस।ण्ग्रह}।}
ततश्चाशक्यानुष्ठेयत्वात्तद्विषयज्ञानमनुपदेश्यमेव।
नापीश्वरः सकलो भवति शरीरित्वेन देवदत्तादिवत्सर्वज्ञत्वकर्तृत्वाभावात्।
नापि सकलनिष्कलं नाम वस्तु सम्भवति विरुद्धयोर्घटतदभावयोरिवैकत्र समावेशासम्भवादिति तत्त्वत्रयादस्मादेकस्य ज्ञानोपदेशवैयर्थ्याद्द्वयोश्च स्वरूपानुपपत्तेरेवावक्तव्यतेति प्रश्नार्थः। सिद्धान्तस्तु
भगवान् उवाच
पशोः शक्तिनिपातेन मन्त्रशक्त्या च सर्वदा ।
निष्कलं लक्ष्यते शक्त्या सूक्ष्मं विषविकारवत् ॥ किर्त्_३।१५ ॥
रामकठः
पशोर्यः परमेश्वराच्छक्तिपातो या च मन्त्रशक्तिर्दीक्षा ताभ्यां या शक्तिर्ज्ञानक्रियात्मिका निर्मलीकृता तया सर्वदैव निष्कलतत्त्वं लक्ष्यते।
विषदीक्षाशुद्धस्य मन्त्रिणः शक्त्यैव विषस्य विकारो मृतितापात्मक इव। शक्त्यतिशयख्यापनांशत्वेन दृष्टान्तत्वम्।
अयं त्वत्रार्थः—यदि निष्कलत्वादेवास्य ज्ञेयत्वं नोपपद्यत इति प्रश्नस्तदात्मना व्यभिचारः। तस्य कार्यकरणव्यतिरेकेण स्वतः परतश्च कायवाग्व्यवहारात्मनानुमानेन ज्ञेयत्वात्।
अथ बौद्धस्य ज्ञानस्याकारग्रहणेनैव वस्तुव्यवस्थापकत्वादनाकारो न ज्ञेय इति प्रश्नार्थः। तदा सिद्धसाधनत्वमेव ज्ञानशक्त्यैवात्र तस्य ज्ञेयत्वेनोक्तत्वान्न बुद्ध्यादिभिरित्यदोषः। यो ऽपि सकलत्वात् भगवतो ऽनीश्वरत्वप्रसङ्ग उक्तः सो ऽप्ययुक्त इत्युच्यते
रामकठः
सकलो ऽपि पुमान्नैव मायावयववर्जनात् ।
रामकठः
अन्यदेवैतत्सकलत्वं सकलशक्तिप्रसरात्मकं यद्योगादीश्वरो ऽपि सकल इत्युच्यते। न तु पुरुषवन्मायीयकलादिशरीरयोगादिति सकलशब्दवाच्यत्वे ऽप्यत्र न पुरुषत्वं तथाभूतस्य सकलत्वस्यासिद्धत्वादिति भावः।
अथ कर्तृत्वात्तस्य पुरुषस्येव कथं न मायात्मिकास्ताः कलाः कल्प्यन्त इति। तत्रोच्यते
निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः ॥ किर्त्_३।१६ ॥
रामकठः
अन्यथासिद्धत्वादस्य हेतोर्यतो न मायात्मिकास्ताः कलाः पुंसः कर्तृत्वं जनयन्ति येन तदन्यथानुपपत्त्यात्र कल्प्याः स्युः।
परिणामित्वेनाचेतनत्वप्रसङ्गादित्युक्तं परिणामो ऽचेतनस्येत्यादिना।
।क़ुओते{परिणामो ऽचेतनस्य
।किर्। २:२६अ।}
अपि तु निर्मलीकुर्वन्तीति।
तत्तु निर्मलीकृतं स्वत एव कार्यकरणाय प्रवर्तत इतीश्वरे स्वभावनैर्मल्यात्तथास्वभावा न कलास्ताः कल्पयितुं समर्था इति कुतः कर्तृत्वात्तत्र कलासिद्धिः। कथं तर्ह्यसौ सकलः कथ्यत इत्युच्यते।
रामकठः
मन्त्रात्मिकाः कलास्तस्य ते च मन्त्राः शिवात्मिकाः ।
रामकठः
शिवस्यात्मभूता ये मन्त्राः सद्योजातादयो वक्ष्यमाणास्त एव
।क़ुओते{मन्त्राः सद्योजातादयो वक्ष्यमाणाः
सेए ।किर्। ६२ (।एद्द्। प्प्।१७१–३)।}
तस्यात्यन्तभिन्नसृष्ट्यादिकार्यपञ्चकनिर्वर्तनाय कलाः शक्तेर्भागा इव कथितास्ताभिः सह तदानीं कार्यनिर्वर्तकत्वेन वर्तत इति सकलः प्रोक्तः।
एतदुक्तं भवति—नात्र निष्कलात्सकलादेः परिणामान्तरत्वेन चेतनान्यत्वं परिणामो ऽचेतनस्येत्यादिना तस्य निषेधात्।
।क़ुओते{परिणामो ऽचेतनस्य
।किर्। २:२६अ।}
नापि विवर्तभेदेनासत्यत्वात्तदाकारस्यासत्यरूपोपग्राहिता विवर्तो यतः।
न चाप्यण्वन्तरतयानन्तादीनामिव परमेश्वरात्मनो ऽत्रैकत्वेनैव श्रुतेः।
प्रागवस्थाभेदेन कल्पित एव भेदः प्रोक्तः।
संस्कार्याण्वपेक्षया तत्र स्थूलसूक्ष्मपरभेदेन क्रियाशक्त्यभिव्यक्तिक्रमेण सातिशयत्वादीश्वरसदाशिवशिवतत्त्वदीक्षितानां वास्तवभेद इति तत्त्वत्रयमेतत्कल्पितमेवास्ति।
कथं तर्हि पञ्चवक्त्राद्याकारः शास्त्रे भगवानुक्तः इति तदर्थमेतत्
तैः प्रकल्प्य शरीरं स्वं शुद्धाक्षाध्यासितं महत् ॥ किर्त्_३।१७ ॥
यावदेवं न कुरुते तावन्नो गुरुपद्धतिः ।
रामकठः
तैरीशानादिभिः शिवात्मकैर्मन्त्रैर्मूर्धादिभेदेन तदवान्तराष्टत्रिंशत्कलाभेदेनेन्द्रियाद्यात्मना चाध्यासितं स्वं शरीरं ध्येयाद्याकारं परिकल्प्य भगवानत्र यावदेवमिति वक्ष्यमाणप्रकारेण सृष्ट्याद्यनुग्रहं न करोति तावन्न गुरुसाधकादिक्रम इति वक्ष्यति लक्ष्यते सकलं ध्यानादिति।
।क़ुओते{लक्ष्यते सकलं ध्यानात्
।किर्। ३:२०च्।}
अयमर्थः—भोगमोक्षप्रदध्यानादिकर्मोपायभूतत्वेन स्वात्मनो रूपं कल्पितं न तु तत्तस्य पारमार्थिकं शरीरमिति। तथा हि
कुरुते ऽनुग्रहं देही सर्वेषामेव देहिनाम् ॥ किर्त्_३।१८ ॥
रामकठः
शरीरद्वारेण हि सेव्यमानो राजादिरनुग्रहं कुर्वन्दृश्यते नाशरीरी।
अस्मदाद्यगोचरत्वादित्यत्राराधनोपायत्वेनाकारोपदेशो ऽयं भगवत इति॥
ननु यदि भगवतस्त्वपारमार्थिकं शरीरं कथमधिष्ठेयम्।
अधिष्ठीयमानं कथं न शरीरमिति। तत्रोच्यते
यथैव योगिनः शक्तिर् ग्रहणे मोचने ऽपि हि ।
तद्वदेवात्र बोद्धव्यं ग्रहणं मोचनं विभोः ॥ किर्त्_३।१९ ॥
रामकठः
यथा योगशक्त्या योगी कुड्यादिकमशरीरभूतमपि संसार्यनुग्रहार्थमधिष्ठाय परित्यजति। यदाहुः
सान्निद्ध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव।
।क़ुओते{सान्निध्य।देव्दोत् देशनाः
।स्लोक। {चोदनासूत्र} १३८। क़ुओतेद्
अद् ।नर्। २:८, प्।१३१।}
निःसरन्ति यथाकामं कुड्यादिभ्यो ऽपि देशनाः॥ इति।
तथैव परमेश्वरो ऽप्यनुग्रहार्थं बाह्यप्रतिमादिवत्तद्ध्येयाकारं बुद्धिनिर्मितशरीरभूतमप्यधिष्ठाय परित्यजतीत्यदोषः। अपि च
मुद्रामण्डलमन्त्रैश्च त्रिधासिद्धिविचेष्टितैः ।
लक्ष्यते सकलं ध्यानात् सर्वज्ञानप्रवृत्तितः ॥ किर्त्_३।२० ॥
रामकठः
मुद्राः परमेश्वरस्यावाहनविसर्जनादौ तच्छक्त्यभिव्यक्तिस्थानतया वक्ष्यमाणाः करसन्निवेशविशेषाः।
।क़ुओते{वक्ष्यमाणाः करसन्निवेशविशेषाः
सेए ।किर्। १५ (।एद्द्। प्प्।४४-५)।}
मण्डलानि च तस्यैवावाहनपूजनाद्यधिकरणत्वेन वक्ष्यमाणा
।क़ुओते{वक्ष्यमाणा रजोविन्यासविशेषाः
सेए ।किर्। २०। (।एद्द्। प्प्।६०–३)।}
रजोविन्यासविशेषाः। मन्त्राश्च तस्यैवावाहनादौ ये सद्योजातादयः ते सर्व एव। उत्तमादिभेदेन त्रिप्रकारायां सिद्धौ विचेष्टितं येषां ते तथाभूतास्तैरपि हेतुभूतैः सकलमेतदुपायतत्त्वं लक्ष्यते।
निष्कलस्य व्यापकत्वेनावाहनाद्यनुपपत्तेस्तदुपदेशानर्थक्यात्।
ध्यानाच्चैतत्सकलं लक्ष्यत इत्येतत्प्रागेव दर्शितम्।
।क़ुओते{इत्येतत्प्रागेव दर्शितम्
।किर्। ३:१८–१९ अन्द् चोम्मेन्तर्य् थेरेओन्।}
तथा सर्वेषां दशाष्टादशभेदभिन्नानां ज्ञानानां या प्रवृत्तिस्तयापि सकलं लक्ष्यते। यदुक्तं श्रीमत्पौष्करे
मूर्ध्नस्तु विजयं तन्त्रं ललाटात्पारमेश्वरम्।
।क़ुओते{थेसे लिनेस् ओफ़् थे [।पौ-]{पारमेश्वर}
अस् क़ुओतेद् ब्य् तक्षकवर्त ओन् फ़्।४।रेच्तो,
लिनेस् ६–७ (सेए अप्पेन्दिx इइइ) रेअद् थुस्:
मूर्ध्नस्तु विजयं ज्ञानं ललाटात्पारमेश्वरम्।
नेत्रेभ्यश्चैव निश्श्वासं ज्ञानराजमनुत्तमम्।
श्रवणाभ्यां च प्रोद्गीतं मुखाच्च मुखबिम्बकम्}
विनिर्गतं महेशस्य मुखाच्च मुखबिम्बकम्॥ इत्यादि।
निष्कलस्य त्ववयवविभागाभावादेताः श्रुतयो ऽनुपपन्नाः स्युरिति।
एवमेतत्प्रकरणं ध्येयाकारनिष्ठत्वेन बुद्ध्याकारनिष्ठत्वेन च व्याख्येयम्।
न तु बैन्दवशरीरप्रतिपादकत्वेन तस्य भगवत्यसम्भवात्।
शरीरं हि यदचेतनमपि व्यवधानेन ज्ञानक्रियाशक्त्यभिव्यञ्जकं तदस्मदादेरित्युच्यते।
विद्याविद्येशानां तु क्रियाशक्त्यभिव्यञ्जकमेव तेषां सर्वज्ञत्वाद्भगवतस्त्वभिव्यक्तसर्वशक्तित्वान्न कथञ्चित्तदुपपद्यत इत्यधिष्ठानमात्रेण तु शरीरत्वे सर्वं सर्वस्य शरीरं स्यादित्यनवस्था।
तस्मात्पूर्वैव व्याख्या युक्तेति।
एवं सकलविषयमपि दूषणं परिहृत्याधुना सकलनिष्कलविषयं परिह्रियते
द्विस्वभावगतो यो ऽन्यो देवः प्रोक्तो न निष्कलः ।
बृहच्छरीरमापेक्ष्य कलाहीन इति स्मृतः ॥ किर्त्_३।२१ ॥
रामकठः
यस्त्वाभ्यां निष्कलेश्वराभ्यामन्यस्तृतीयो देवः सदाशिवभट्टारकःस
द्विस्वभावगततया सकलनिष्कलत्वेनापेक्षाभेदात्केवलमस्माभिः प्रोक्त एव। न तु विरुद्धस्वभावो ऽभ्युपगतः।
शिवापेक्षया ह्यसावुद्युक्तशक्त्यवस्थात्मकत्वाद निष्कलः सकल इत्युच्यते।
ईश्वरशरीरं तु प्रवृत्तक्रियात्मकत्वेन बृहदिति स्थूलतरमपेक्ष्य निष्कल इत्यविरोधः।
ततश्च न निष्कलवदत्राज्ञेयत्व दोषः प्रागुक्त उच्यते।
रामकठः
एवमीशः स्थितः साक्षाद् योगिनां योगकारणम् ।
रामकठः
एवं ध्येयाकारशरीरयोगेनेश्वरः सदाशिवश्च साक्षादाकारवत्त्वेन चित्तविषयत्वाद्योगादिकारणं समुपपद्यते।
तदेवम्।
योगो न लक्ष्यहीनत्वान् न नाडी न च धारणा ॥ किर्त्_३।२२ ॥
पुंसामनुग्रहार्थं तु परो ऽप्यपरतां गतः ।
रामकठः
यतो निष्कले लक्ष्यभूतस्याकारस्याभावान्न योगो ज्ञानं वोपपद्यते।
नापि मध्यनाड्यादिना योगप्रकरणवक्ष्यमाणनयेन गमागमादि व्यापके तदनुपपत्तेः।
नापि देशबन्धश्चित्तस्य धारणेति ततः समस्तपुरुषानुग्रहानुपपत्तिरित्यालोच्य भगवान्निष्कलो ऽपि ध्येयाकारशरीरेणापरतां शरीरित्वं गत इति तथात्वे प्रयोजनमप्यत्रोक्तमिति।
न केवलमनेनैव सदाशिवाद्यात्मना ध्येयशरीरभेदेनापरतां गतो यावत्स्ववाचकमन्त्रावस्थाभेदेन मन्त्रान्तरवाच्यवाचकभेदेन चेत्युच्यते।
नादबिन्दुखमन्त्राणु- शक्तिबीजकलान्तगः ॥ किर्त्_३।२३ ॥
रामकठः
तत्र नादः कुण्डलिन्यभिधानायाः परस्या वाक्च्छक्तेरव्यक्तशब्दात्मकः प्रथमः क्षोभः।
बिन्दुश्च तस्यैवेषत्स्थूलतान्तःसञ्जल्पात्मकत्वम्।
खं चात्र परमाकाशं महामायैव सर्वपुरुषसंयुक्ता शक्तिस्तत एव नादात्मनः शब्दस्योदयादिसंवेदनात्। प्रोक्तं च श्रीमत्कालोत्तरे
आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः।
।क़ुओते{आगोपालाङ्गना।देव्दोत् नित्यं ब्रुवन्ति तम्
।सर्। १:६च्द्–७अब्।}
अन्तर्जलगताः सत्त्वास्ते ऽपि नित्यं ब्रुवन्ति तम्॥ इति
सैव पश्यन्त्य वस्थेत्यागमान्तरानुसारिणः।
यदाहुः
अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा।
।क़ुओते{अविभागात्तु।देव्दोत् वागनपायिनी
क़ुओतेद् थुस् अद् ।मत्।व्प्।
७:४५–६, प्।२४७ अन्द् ।सर्। १:८, प्।१६।
भत्त् ओब्सेर्वेस् थत् इत् इस् चितेद् इन् थे सुप्पोसेद्
औतो-चोम्मेन्तर्य् ओन् थे ।वक्य। (अद् १:१४३)।
रौ इन्च्लुदेस् थे वेर्से (wइथ् अविभागा
तु) इन् स्मल्ल् त्य्पे अस् ।वक्य। १:१६६।
च्फ़्।। अल्सो ।रत्। ७५च्–७६द्:
अविभागेन वर्णानां सर्वतः संहृतिक्रमात्।
स्वयम्प्रकाशा पश्यन्ती मायूराण्डरसोपमा।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी}
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी॥ इति
मन्त्रश्च स्थूलशब्दः परमेश्वराभिधायको ऽत्र व्योमव्याप्यादिक इत्येवमवस्थाभेदेन चत्वारि स्थानानि वाचः प्रोक्तानि।
श्रुतिरप्याह
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
।क़ुओते{चत्वारि।देव्दोत् मनुष्या वदन्ति
{Ṛग् वेद} १।१६४।४५। क़ुओतेद् अद् ।सर्। १:८, प्।१६।}
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति॥
श्रीमत्कालोत्तरे तु बिन्दुनादयोर्द्वयोरपि सूक्ष्मतया विशेषाभावात्त्रीणि रूपाण्यस्याः
स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत्।
।क़ुओते{स्थूलं।देव्दोत् परिकीर्तितम्
।सर्। १:८।}
चिन्तया रहितं यच्च तत्परं परिकीर्तितम्॥ इति।
आगमान्तरे ऽपि तिस्रो वाचः प्रोक्ताः।
घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते।
।क़ुओते{घोषिणी।देव्दोत् गरीयसी
{महाभारत} १४।२१:१६। क़ुओतेद् अद् ।सर्। १:८, प्।१५।}
तयोरपि च घोषिण्योर्निर्घोषेह गरीयसी॥ इति
केवलमात्मसमवेता एवैकान्ततस्तैरिष्यन्ते। अस्माभिस्तु तस्यापरिणामित्वात्परिग्रहवर्तिन्य इति दर्शितं नादसिद्धौ।
।क़ुओते{इति दर्शितं नादसिद्धौ
{नादकारिका} १८–२०ब्।}
अणुश्च मन्त्रान्तरवाच्यो मन्त्रमन्त्रेश्वरवर्गः शक्तिश्च तदधिष्ठायिका पारमेश्वरी।
अत एव मन्त्राभियुक्तस्य द्वयमप्याराध्यं शिवो मन्त्रश्चेत्युक्तं भवति।
बीजं चात्र प्रागुक्तमन्त्रारम्भकं प्रणवादि।
कलाश्च प्रणवादिबीजावयवभूता अकाराद्यास्तासामन्तो विगलत्कलाविभागरूपो ऽप्राप्तविश्रान्त्यात्मत्वेनोपलभ्यमान एव च ध्वनिर्बिन्दुनादः कथ्यते।
तानेतान्मन्त्रावस्थाविशेषान्पुंसामनुग्रहार्थं शरीरतया तदाकारध्येयत्वेन गतो भगवान्।
अत एव तेषां शरीरात्मनाधिष्ठेयानामुत्कर्षापकर्षभेदेन स्वर्णरजतप्रतिमादीनां प्रतिष्ठयेवोपकारं सेवाविशेषं ज्ञात्वा तदनुरूपमेव फलं साधकेभ्यो भगवान्प्रयच्छति।
अन्यथा कः सुखसाध्यं स्थूलं स्थूलतरं वा साधनं परिहृत्य सूक्ष्मे सूक्ष्मतरे वा प्रवर्त्तेत।
यदाहुः
अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्।
।क़ुओते{अर्के चेन्मधु।देव्दोत् यत्नमाचरेत्
सोउर्चे उन्क्नोwन्। क़ुओतेद् (वरिओउस्ल्य् wइथ् अक्के चेन् अन्द् अत्रैव)
अद् ।मोक्स। १५३–४; ।सर्। ८:१२, प्।६९ अन्द् इन् थे
{शाबरभाष्य} १।२।१।४, प्।११, wहेरे थे फ़िर्स्त् wओर्द् इस्
इन्दिस्पुतब्ल्य् अर्के।}
इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान्यत्नमाचरेत्। इति।
अत्र दृष्टान्तः।
रामकठः
योगी यथोपकारज्ञः सर्वज्ञत्वात्फलप्रदः ।
रामकठः
स ह्युपकारकेभ्यः स्वल्पमहदुपकारापेक्षया तथारूपमेव फलं ददद्दृष्टो यतः। तदेवं
इच्छानुग्रहकर्तृत्वाल् लयभोगाधिकारवान् ॥ किर्त्_३।२४ ॥
त्रिविधः कृत्यभेदेन दर्शितो नामभेदतः ।
रामकठः
ध्येयाकारशरीरभेदभिन्नो ऽपि भगवान्परमार्थत इच्छामात्रेणानुग्रहादिकर्तृत्वादेव प्रागुक्तनयतः कृत्यभेदेन विभिन्नो लयभोगाधिकारवान् भिन्न इत्युच्यते।
सर्वज्ञत्वस्याभेद इति यावत्।
अथ ज्ञानपदार्थपरीक्षानन्तरं विचारपदार्थपरीक्षा।
ईश्वरो ऽधःस्थविद्यानां पतीन्सम्प्रेरयत्यसौ ॥ किर्त्_३।२५ ॥
।क़ुओते{तेस्तिमोनिउम्:
।नरयन। क़ुओतेस् थिस् उनित् एxअच्त्ल्य् अस्
चोन्स्तितुतेद् अद् ।म्र्ग्। १३:१६०, प्।१३३।}
रामकठः
तेन प्रेरितमात्रास्ते कुर्वते ऽधस्तनं जगत् ।
रामकठः
प्रकृतत्वात्पतिभ्यो ऽधस्तिष्ठन्तीति अधःस्था विद्याः सप्तकोटिसङ्ख्याता मन्त्रास्तेषां ये पतयो ऽनन्तादयो वक्ष्यमाणास्तान्प्रेरयति।
।क़ुओते{अनन्तादयो वक्ष्यमाणाः
सेए ।किर्। ३:२६च्–२७ अन्द् चोम्मेन्तर्य् अन्द्
छप्तेर् ४ पस्सिम्।}
अत एवेश्वरात्तेषां क्रियाशक्त्या न्यूनत्वमिति भावः।
ते च यदैव तेन नियुक्तास्तदैवाधस्तनं मायात्मकं जगत्कुर्वन्तः स्वकार्याय प्रवर्तन्ते न तु मन्त्रवत्कालान्तरेणेति।
यद्येवमुपरितनं जगत्कः करोतीत्युच्यते।
शुद्धे ऽध्वनि शिवः कर्ता प्रोक्तो ऽनन्तो ऽसिते प्रभुः ॥ किर्त्_३।२६ ॥
रामकठः
शुद्धे विद्यातत्त्वभुवनाद्यात्मके मन्त्रमन्त्रेशाध्वनि शिवः कर्ता।
तत्कृतास्ते तद्भुवनादिकं च समस्तमित्यर्थः।
अनन्तो ऽनन्तादिरित्यर्थः। अनन्तादिको वर्गो ऽसिते मायावर्त्मनि प्रभुः स्थित्यादिकर्तेति।
अथ शुद्ध इवाशुद्धे ऽपि कथं न स एव प्रभुरिति। उच्यते।
रामकठः
यथा भूमण्डलेशेन नियुक्तः स्वसमप्रभुः ।
तथासौ कुरुते सर्वं तच्छक्तिप्रतिबोधितः ।
रामकठः
दृष्टवददृष्टकल्पना। यथा भूमण्डलेशो ऽत्र नृपतिरन्तरङ्गममात्यपुरोहितादिप्रकृतिवर्गं स्वयमेव कुर्वन्दृश्यते बहिरङ्गमात्मकल्पामात्यादिप्रेरणेनैवेत्येवमत्रापि श्रुतेरविरोधः।
तच्छक्तिप्रतिबोधित इत्यनेन विज्ञानकेवलिनः सतो ऽनन्तादिवर्गस्यानुग्रह इति। अप्रतिबुद्धो हि प्रतिबोध्यते।
तच्चाप्रतिबुद्धत्वं मलत एवोक्तं यतः।
।क़ुओते{मलत एवोक्तं यतः
ए।ग्।। ।किर्। २:१४द् अन्द् चोम्मेन्तर्य् थेरेओन्।}
अथानन्तादेः स्वरूपम्
सर्वज्ञः शुद्धदेहश्च सर्वज्ञानप्रकाशकः ॥ किर्त्_३।२७ ॥
वृत्ति:
ईश्वरादयं कर्तृत्वेनैव कलया न्यूनो, न तु ज्ञत्वेनापीत्यर्थः।
शुद्धदेहश्च न मायागर्भाधिकारिवदशुद्धदेहः।
सर्वेषां च दशाष्टादशभेदभिन्नानां शिवज्ञानानामुपदेष्टृत्वेन स्थितः, न तु गुर्वन्तरवत्कतिपयानामिति॥
।चोलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ तृतीयं प्रकरणम्॥