रामकठः
अथ तेषामेव पदार्थानां परीक्षार्थं प्रश्नपूर्वं प्रकरणान्तरमेतावत एव प्रश्नस्यावशिष्टत्वात्
गरुड उवाच
यो ऽसावात्मा त्वया प्रोक्तः किञ्चिज्ज्ञः सर्वविच्छिवः ।
निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः ॥ किर्त्_२।१ ॥
वृत्ति:
तत्रास्य तावत्प्रकरणस्यारम्भे पञ्चविधः सम्बन्धो वक्तव्यः। तदुक्तं श्रीमत्पौष्करे
अनन्तरं यत्पटलात्सूत्रं तन्त्रे प्रवर्तते।
।क़ुओते{अनन्तरं यत्पटलात्।देव्दोत् पटलाच्च
नोत् त्रचेद्। क़ुओतेद् अल्सो अत् थे बेगिन्निन्ग्स्
ओफ़् थे थिर्द् {पटल}॥स् ओफ़् थे ।मत्व्।
अन्द् ओफ़् थे ।म्र्ग्व्।}
वक्तव्यस्तस्य सम्बन्धः पञ्चधा समवस्थितः॥
तन्त्रवस्त्वात्मकात्सूत्राद्वाक्यात्प्रकरणात्तथा।
पटलाच्च। इति।
तत्रेह तन्त्रवस्तुनः षट्पदार्थात्मनः प्रतिज्ञातत्वात्तत्सम्बन्धस्तत्परीक्षात्मकः।
सौत्रस्तु पदार्थोद्द्योतकपदेन। वाक्येन तु पशुर्नित्य इत्यादिना।
।क़ुओते{किर् १:१३ अन्द् १:१५अ।}
प्रकरणेन विद्यापादेन।
पटलेन तु लक्षणप्रतिपादनानन्तरं परीक्षेत्येवं विद्यापादं यावत्सूत्रप्रकरणपदार्थसम्बन्धाः प्रतिपटलमनुसन्धेयाः।
वाक्यपटलसम्बन्धौ तु भेदेनैव प्रतिपटलमवस्थिताविति
तथैव दर्शयिष्यामः।
अयञ्चात्र प्रश्नार्थः—यो ऽसौ नित्यत्वादिधर्मयुक्तः सकलाकलाद्यवस्थाभेदेन किञ्चिज्ज्ञ इत्यशुद्धः पशुरात्मा त्वया प्रोक्तः प्रागुक्तः पशुर्नित्य इत्यादिना।
।क़ुओते{पशुर्नित्यः
।किर्। १:१५अ।}
यश्चासौ सर्वज्ञः सर्वकर्ता च शुद्धः शिवो दृष्टान्तत्वेनोक्तः सर्वज्ञः स शिवो यद्वदित्यादिनानयोः शिवात्मनोः सम्बन्धिनी ये शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे तद्विषयनिमित्तं ब्रूहि।
।क़ुओते{सर्वज्ञः स शिवो यद्वत्
।किर्। १:२१च्।}
।क़ुओते{तेस्तिमोनिउम्:
रामकण्ठो ऽप्याह—यश्चासौ
सर्वज्ञः सर्वकर्ता च शुद्धः शिवः
तथा किञ्चिज्ज्ञो ह्यशुद्ध आत्मा। तयोः
शिवात्मनोः सम्ब(न्धी ये? न्धिनी) तु
शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे इति
[सिच्] {।=इशानशिवगुरुदेवपद्धति}
वोल्।३, प्।२।}
केन निमित्तेन शिव एव शुद्धो नात्मा केन निमित्तेनात्मैवाशुद्धो न शिवः। न ह्यहेतुर्नियमो युक्त इति प्रश्नः।
अत्र समाधिः।
भगवान् उवाच
अनादिमलसम्बन्धात् किञ्चिज्ज्ञो ऽसौ मयोदितः ।
अनादिमलमुक्तत्वात् सर्वज्ञो ऽसौ ततः शिवः ॥ किर्त्_२।२ ॥
आदिमत्त्वं यदा सिद्धं निमित्तं कल्प्यते तदा ।
ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः ॥ किर्त्_२।३ ॥
विशुद्धः स्फटिकः कस्मात् कस्मात्ताम्रं सकालिकम् ।
यथास्मिन्न निमित्तं हि तथा नैव शिवात्मनोः ॥ किर्त्_२।४ ॥
रामकठः
यथा ह्यात्मनो ऽनादित्वान्नान्यत्स्वरूपे निमित्तं तथा कालिकया सह वर्तत इति सकालिकस्य ताम्रादेरिवाशुद्धत्वे ऽपि।
यथा चेश्वरस्य प्रोक्तेन वक्ष्यमाणेन च प्रमाणेन सिद्धस्यानादित्वान्नान्यत्स्वरूपे निमित्तं तथा स्फटिकादीनामिव शुद्धत्वे ऽपीति।
आदिमतो हि वस्तुनो निमित्तमन्विष्यते घटादेरिवान्यथासिद्ध्यसम्भवादिति।
ईदृगनादिशुद्धाशुद्धस्वरूपं यथार्थतः सत्यार्थत्वेन स्मृतं ताभ्यामितीशात्माभ्यामित्यर्थः।
अत्र च मलसम्बन्धस्यानादित्वेन मलस्याप्यनादित्वं सिद्धम्।
अधुनैतदनुवादेन प्रश्नान्तरम्
रामकठः
गरुड उवाच
किन्निमित्तं पुनर्बद्धो बन्धेनात्मा कलादिना ।
रामकठः
द्विविधं हि निमित्तमुच्यते लोके करणं प्रयोजनञ्च। यथा पाकादेरिन्धनादि अन्नादेर्ब्राह्मण भोजनादि च।
तत्र कलादिबन्धस्यैव पुम्प्रवृत्तौ करणनिमित्तमुक्तं कर्माणि।
तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कलेत्यादिना
।क़ुओते{तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला
।किर्। १:१६अब्।}
प्रयोजननिमित्तमाक्षिप्तमित्यर्थः।
पूर्वमेव कलादिना बद्धः सन्पुरुषः प्रलयवशात्केवलः
सम्पन्न इति केन प्रयोजनेन पुनरिति पश्चाद्बद्धः।
महाप्रलय इव कस्मात्कलाद्यबद्धान्पशूनधिष्ठाय भगवान्नानुगृह्णाति सर्वदैव मुक्त्यवधित्वेनोक्तं मलपरिपाकान्तं यावन्नास्त इत्यर्थः।
ननु तत्रापि पुम्भोगः प्रयोजनमुक्तमेव ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मत इति नाक्षेपः।
।क़ुओते{ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः
।किर्। १:२०अब्।}
सत्यम्। अत एव तदप्याक्षिप्तमत्र। प्रयोजनत्वाभावात्। प्रयोजकस्य प्रयोज्यस्य चोपकारकं प्रयोजनमुच्यते वैद्यराज्ञोरिव पथ्ययूषादिनोपकारः।
न चैतत्प्रयोजकस्य परिपूर्णत्वात्परोपकारायैव प्रवृत्तेरुपकारकम्।
नापि प्रयोज्यस्य दुःखमोहरूपत्वेनात्यन्तविनश्वरसुखमात्ररूपत्वेन चानर्थरूपत्वादित्यनेनापि भोगात्मनानर्थेन किन्निमित्तं भगवता पुमांसः कदर्थ्यन्त इत्यपि प्रश्नार्थः। तन्न विरोधः।
द्वितीयस्तु प्रश्नः स मायान्तर्गत इत्यादि
स मायान्तर्गतः प्रोक्तो व्यापकश्च त्वया विभो ॥ किर्त्_२।५ ॥
व्यापकत्वात्स सर्वत्र स्थितो मायोदरे कथम् ।
परस्परविरुद्धत्वात् कथमेतद्भविष्यति ॥ किर्त्_२।६ ॥
रामकठः
यदुक्तं प्राग्व्यापी मायोदरान्तस्थ इति
।क़ुओते{व्यापी मायोदरान्तस्थः
।किर्। १:१५च्।}
तन्माता च मे वन्ध्या चेतिवत्परस्परविरुद्धं व्यापित्वञ्चाव्यापित्वञ्चात्मनो ऽभिदधदयुक्तमेव।
तत्र प्रथमस्य प्रश्नस्य निरासः
भगवान् उवाच
मुक्त्यर्थं स पशुर्बद्धो नान्यथा सास्य जायते ।
यावच्छरीरसंश्लेषो न सञ्जातो न भोगभुक् ॥ किर्त्_२।७ ॥
मायेयं तद्वपुस्तस्य तदभावान्न निर्वृतिः ।
तेन तेनास्वतन्त्रत्वान् मलिनो मलिनीकृतः ॥ किर्त्_२।८ ॥
रामकठः
नामिश्रं परिणमत इति
।क़ुओते{नामिश्रं परिणमते
सोउर्चे उन्क्नोwन्। अल्सो चितेद् अद् ।मत्।व्प्।
२:१९, प्।३५ अन्द् ।नर्प्। ३:२, प्।१५५।}
न्यायेन केवलस्य मलस्य परिपाकाभावतो मुक्त्यसम्भवान्मलपरिपाकार्थमेव भोगात्मना बन्धेन पशुर्योजितः।
भोगश्च न विना मायीयैः कलादिभिः कार्यकरणैरिति तैरपि स्थूलसूक्ष्मशरीराकारेण बन्धो यतः
ततो न शरीराभावान्निर्वृतिर्मुक्तिः। येन नामिश्रं परिणमत इत्युक्तं तेन कारणेन बद्धत्वादेव मलिनः संस्तेन कलादिना मलिनीकृतः। अत्र
दृष्टान्तः
यथा वस्त्रं सदोषत्वान् मलान्तःस्थं विशुद्ध्यति ।
अशुद्धः पुद्गलो ऽप्येवं मायोदरगतो ऽपि सन् ॥ किर्त्_२।९ ॥
रामकठः
अत्र मलिनो मलिनीकृत इत्युपक्रमसामर्थ्यादन्तःशब्दो ऽन्तरशब्दस्यार्थे वर्तते।
तदयमर्थः—यथा वस्त्रं सदोषत्वान्मलिनत्वादेव भस्मगोमयादिमलान्तरस्थं विशुद्ध्यति दार्ष्टान्तिके ऽप्युच्यते।
अशुद्धः पुद्गलो ऽप्येवमित्यत्रापिशब्दो भिन्नक्रमः।
अशुद्धो ऽपि पुद्गल आत्मा मायोदरगतः सन्नेवमिति विशुध्यत्यशुद्ध्यन्तरेण युक्त इत्यर्थः।
अपिशब्दादमायोदरगतो ऽपि विज्ञानकेवली।
ननुविज्ञानकेवलिनामशुद्ध्यन्तरस्य निवृत्तत्वादुक्तदृष्टान्तनयेन शुद्धिर्नोपपद्यत एव। न।
अत एवोपपत्तेः निवर्त्यमानेनापि तेन वस्त्रादेर्मलनिवृत्त्यनुगुणस्य संस्कारस्य कृतस्य दृष्टत्वात्। सर्वथा नाशुद्ध्यन्तरोपकारं विना पूर्वाशुद्धेर्निवृत्तिरित्यत्र दृष्टान्तार्थः।
द्वितीयस्यापि प्रश्नस्य निरासः।
मायोदरं हि यत्प्रोक्तं कलाद्यवनिलक्षितम् ।
तस्मिन्यश्च लयः प्रोक्तः सूक्ष्मदेहविवक्षया ॥ किर्त्_२।१० ॥
रामकठः
यश्च व्यापकस्याप्यात्मनो मायोदरे लयो व्यापी
।क़ुओते{व्यापी मायोदरान्तस्थः
।किर्। १:१५च्।}
मायोदरान्तस्थ इत्यत्रोक्तः स सूक्ष्मदेह विवक्षयेति तत्कर्माक्षिप्तस्य सूक्ष्मस्यान्तराभवदेहस्य मायोदरे ऽवस्थितेरुपचारेणोक्तः तथा भौवनशरीरस्यापि।
न त्वात्मविवक्षयेत्यविरोधः। ततश्च मायोर्ध्ववर्तित्वमपि विज्ञानकेवलिनः सूक्ष्मदेहसम्बन्धायोग्यत्वेनोपचाराद्वक्ष्यमाणाध्वव्याप्तिप्रतिपादनार्थमित्यपि द्रष्टव्यम्।
अथ मलस्वरूपपरीक्षार्थं प्रश्नः
गरुड उवाच
त्वयानादिर्मलः प्रोक्तो मायेयो ऽस्यात्मनो ऽपि वा ।
गुणस्तद्व्यतिरिक्तो वा मलो ब्रूहि किमात्मकः ॥ किर्त्_२।११ ॥
रामकठः
इह हि पूर्वमनादिमलसम्बन्धादित्यादिनानादित्वं मलस्योक्तम्।
।क़ुओते{अनादिमलसम्बन्धात्
।किर्। २:२अ।}
स तु मलः स्वरूपेण किमात्मक इत्यधुना वक्तव्यम्। यतः कैश्चित्साङ्ख्यानुसारिभिर्मायायाः परस्याः प्रकृतेरेवायं मायीयो गुणः पुन्धर्मावारको मलो ऽभ्युपगतः।
नैयायिकादिभिस्तु पुरुषस्यैवाज्ञत्वात्मकः स्वाभाविको गुणो मलः मनःसंयोगादिना ज्ञातृत्वाभ्युपगमादिष्यते।
वेदान्तवादिभिः पुनर्माया मल आत्मगुणव्यतिरिक्तो ऽनर्थभूत एवासौ प्रतिपन्न इति दर्शनान्तराणामत्र त्रिविधा विप्रतिपत्तिरिति।
तत्रावस्तुत्वं तावन्मलस्य प्रतिक्षिप्यते
रामकठः
भगवान् उवाच
सहजः स्यान्मलो माया- कार्यमागामिको मलः ।
रामकठः
आत्मनः परमार्थतो जन्मानुपपत्तेः सहजशब्देनात्र तेनात्मना सहानादिसिद्धो ऽर्थान्तरभूतो मलः कथ्यते।
ततश्च नावस्तुभूतः। अपि तु चक्षुषः पटलादिवद्वस्तुरूप एव मल इत्युक्तं भवति।
अवस्तुत्वे हि तस्य शशविषाणादेरिव नित्यनिवृत्तत्वाद्दीक्षाज्ञानादेः सर्वस्यैतन्निवृत्तिहेतोरानर्थक्यप्रसङ्गः।
यद्येवं मायाकार्यात्मक एव वस्तुभूतो मलः
प्रागुक्तो विद्यते। यदुक्तम्
मायाभोगपरिष्वक्तस्तन्मय इति।
।क़ुओते{मायाभोगपरिष्वक्तस्तन्मयः
।किर्। १:१९च्द्।}
तत्किमन्येनानेन कल्पितेनेति।
तदर्थमेतन्मायाकार्यमागामिकस्तदुत्तरकालभावी
मल ।च्रुx इत्ययमर्थः।च्रुx। यद्येवं मलिनस्य मायाकार्यं बन्धाय
भवेत् तदा अनादिमलमुक्तस्य शिवस्यापि न किं भवेदिति वक्ष्यामः।
।क़ुओते{अनादिमलमुक्तस्य शिवस्यापि न किं भवेत्
।किर्। २:१७अब्।}
तस्माद्बन्धमोक्षान्यथानुपपत्त्या मायाकार्याद्व्यतिरिक्तः सहजो वस्तुभूत एव मलो ऽभ्युपगन्तव्यः।
यद्येवं मायैवासौ भविष्यतीति मायामलवादिनः। तदप्ययुक्तं यतः
माया नो मोहिनी प्रोक्ता स्वतः कार्यात्प्रकाशिका ॥ किर्त्_२।१२ ॥
रामकठः
नो निषेधे। नैव मायायाः स्वतः पुं मलिनीकरणमुपपद्यते शक्तिरूपत्वेनाव्यक्तरूपत्वे सत्यक्रियावत्त्वात् क्षीराद्यवस्थितदधिनवनीतादिशक्तिवत्। यदुक्तं साङ्ख्यैः
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
।क़ुओते{हेतुमदनित्यमव्यापि।देव्दोत् विपरीतमव्यक्तम्
।सन्ख्। १०।}
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥ इति।
किञ्च यैव कलादिकार्यहेतुर्माया सैव किं मलो ऽथान्या। यद्यन्या ततो व्यतिरिक्त एव मल इति नास्ति विवादः। सैव चेत्तदयुक्तम्।
यतः कार्यादिति कार्यद्वारेण
प्रकाशनकर्तृस्वभावासिद्धा ततो न मोहिनी नावरणकर्तृस्वभावा सवितृवत् स्वभावविरुद्धकार्यासिद्ध्या गम्यत
इत्यर्थः।
न चायमसिद्धो हेतुरित्युच्यते।
यतः स्वकार्यसंश्लेषाच् चैतन्यद्योतिकात्मनः ।
मलं विदार्य चिद्व्यक्तिम् एकदेशे करोत्यसौ ॥ किर्त्_२।१३ ॥
रामकठः
यतो मलनिवृत्तिपूर्वमात्मनश्चिद्व्यक्तिमेकदेश एव कार्यकरणादिनैव सा कुर्वती दृश्यत इत्युक्तं तयोद्बलितचैतन्य
।क़ुओते{तयोद्बलितचैतन्यः
।किर्। १:१६च्।}
इत्यादिना ततस्तेनैव कार्यकरणात्मना स्वकार्यक्रमेण सम्बन्धादात्मनश्चैतन्योपोद्बलिका सिद्धैवेति।
अत्र कलाया एव मलविदारणे विद्यादीनां चात्र चिद्व्यक्तौ व्यापार इति दर्शितं प्रागेव। एवञ्च
रामकठः
स्थिता प्रकाशिका कार्यान् मोहकत्वे न संस्थिता ।
रामकठः
कार्यद्वारेण यतः प्रकाशिका सिद्धा ततो मोहकत्वेन पुंसो नावस्थितेति स्वभावविरुद्धकार्यासिद्ध्या प्रतीयत इत्युक्तम्।
ततश्च येन कार्येण सह यद्विरुद्धं कार्यं तत्तत्कारणव्यतिरिक्तकारणजन्यं यथा प्रकाशलक्षणकार्यविरुद्धमन्धकारात्मकं कार्यं प्रकाशकारणव्यतिरिक्तकारणजन्यम्।
पुम्प्रकाशकार्यविरुद्धं च पुम्मोहात्मकं कार्यमतस्तदपि पुम्प्रकाशकारणव्यतिरिक्तकारणजन्यमिति
यत्तत्कारणं स मायाव्यतिरिक्तो मलो ऽत्र कार्यविशेषानुमानसिद्ध इति तात्पर्यार्थो ऽस्य निगमनवाक्यस्येति न गतार्थता।
अत एवोपसंहरिष्यति व्यतिरिक्तः स युक्तित इति।
।क़ुओते{व्यतिरिक्तः स युक्तितः
।किर्। २:१७द्।}
न चाव्यक्तकार्यैः सत्त्वरजस्तमोभिरत्रानैकान्तिकता तेषामविरोधेनापि सिद्धेः। यदुक्तं साङ्ख्यैः
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः। इति।
।क़ुओते{अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः
।सन्ख्। १२च्द्। अल्सो चितेद् अद् ।नर्प्। २:१५,
प्।१४२।}
ननु प्रकाशविशेष एव मोहो ऽनात्मन्यात्माभिमानात्मक इति साङ्ख्याः।
यदाहुः
भेदस्तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः।
।क़ुओते{भेदस्तमसो ऽष्टविधो।देव्दोत् भवत्यन्धतामिस्रः
।सन्ख्। ४८।}
तामिस्रो ऽष्टादशधा तथा भवत्यन्धतामिस्रः॥ इति॥
ततो ऽत्र स्वभावविरोधासिद्धेः कुतो व्यतिरिक्तमलसिद्धिः। तदयुक्तम्
प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः ॥ किर्त्_२।१४ ॥
रामकठः
अयमर्थः—नात्र प्राकृतो ऽयं मोहो विवक्षितो ऽस्य शरीरसद्भाव एव सिद्धेः।
अपि तु आत्मनश्चिद्धर्मत्वेन व्यापकतया वक्ष्यमाणस्य सर्वज्ञत्वप्रसङ्गस्य परिहारायावश्यमावृतिरूपो मलशब्दवाच्यो ऽन्य एव मोहो ऽभ्युपगन्तव्यः।
स च प्रकाशावरणरूपत्वाद्व्यक्तिशब्दवाच्येन पुम्प्रकाशेन सह विरुध्यत इति नासिद्धो ऽत्र व्यतिरिक्तमलसाधनस्वभावविरोध इति।
अस्त्वस्यावृत्यात्मनो मलस्याज्ञानहेतुत्वान्मोहकत्वं यस्त्वयं प्राकृतो मोहः कथितस्तस्य पुंव्यक्तिरूपत्वात्तदयुक्तमेवेति। न यतः।
रामकठः
व्यक्तिर्याणोर्मलः प्रोक्तः स्फुटं दीपान्धकारवत् ।
रामकठः
यथा दीपः प्रकाशको ऽपि नीलोत्पलादौ रक्तोत्पलादिविपरीतप्रकाशकत्वात् अन्धकारो मोहः प्रोक्तस्तथात्मव्यक्तिरप्यनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मत्वेन विपरीतेन प्रकाशमाना स्फुटमेव कृत्वा मलो मोहः प्रोक्तः।
।क़ुओते{अनित्याशुचिदुःखानात्मसु
च्फ़्। ।अघ्ऽस् {सर्वज्।ञानोत्तरवृत्ति} इफ़्प् त्।८५, प्।६, लिनेस् ५–६:
यदाहुः—अनित्याशुचिदुःखानात्मसु
नित्यशुचिसुखात्मप्रतिपत्तिरविद्येति
च्फ़्। अल्सो {योगसूत्र} २:५:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या}
एतदुक्तं भवति। न केवलमज्ञानमेव यावद्विपरीतज्ञानमपि मोह एवेत्यदोषः। अत एव
मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः ॥ किर्त्_२।१५ ॥
रामकठः
तेनैव रूपेणास्माभिर्मायाभोगपरिष्वक्त
।क़ुओते{मायाभोगपरिष्वक्तः
।किर्। १:१९च्।}
इत्यादिना मायापि मोहिनी प्रोक्ता। न केवलो मल इत्यपिशब्दार्थः।
सा च विषयिविषययोर्य आस्वादो रसो ऽस्य भोगः प्रकाशस्तेन मोहिका कार्यद्वारेणेत्यर्थः।
ततः साङ्ख्यैः सहात्रास्माकं न विवादः। विवादविषयस्तु प्राकृतमोहव्यतिरिक्तो मलः साधित एवेति। एवं च
यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः ।
मायोत्थं बन्धनं तस्य सनिमित्तं प्रवर्तते ॥ किर्त्_२।१६ ॥
अनादिमलमुक्तस्य शिवस्यापि न किं भवेत् ।
तस्मान्माया मलो नैव व्यतिरिक्तः स युक्तितः ॥ किर्त्_२।१७ ॥
रामकठः
कलादिक्षित्यन्तभुवनेषु सर्वत्र पुंसो यथा मायाप्रवृत्तौ कर्माणि निमित्तं तथा मलो ऽपि।
अन्यथा तस्य चिद्धर्मत्वेन वक्ष्यमाणत्वात्सर्वज्ञत्वसर्वकर्तृत्वेन शिवत्वप्रसङ्गतो मायीयबन्धा प्रवृत्तिरेव।
ननु कर्माणि तत्प्रवृत्तौ निमित्तमस्तु मलेन किम्।
नैवं मल मुक्तस्य सर्वस्य शिवत्वेनानुष्ठातुरभावात्तेषां कर्मणामप्यसिद्धेः॥
ननु कर्मैवावरणत्वेन कल्प्यतां किं मलेनेति क्षपणकाः। तदयुक्तम्। तस्य कृष्यादाविव स्वफलहेतुमात्रत्वेन सिद्धेः आवरणत्वादर्शनात्
अर्थालोचनादावप्येवं तस्यैव हेतुकल्पनेनेन्द्रियादेरभावप्रसङ्गाच्चेत्युक्तम्।
ततश्च मायाप्रवृत्तौ कर्मव्यतिरिक्त एव मलो ऽभ्युपगन्तव्य इति। यत एवं तस्मान्न माया मलः।
यथा च तद्व्यतिरिक्तस्तथा युक्तितो ऽनुमानेनैव साधित इत्युपसंहारः।
अत्र पूर्वपक्षाशङ्का
रामकठः
मायाकार्यं समस्तं स्यात् कुतो ऽन्यः सहजो मलः ।
रामकठः
।च्रुx मायाकार्यं कलादि समस्तमित्यविकलं तत्त्वात्मकमेव बन्धनं स्यात्।च्रुx ।
यद्वा निरवशेषभूतभुवनात्मकं स्यादिति।
अयमर्थः—यद्बन्धनं तत्तत्त्वमेवाध्वनि भुवनाद्यात्मना वा सन्निविष्टं यथा मायाकार्यं बन्धनं तद्वन्मलो बन्धनं भवद्भिरुक्तं सो ऽपि तत्त्वान्तरमध्वनि वा भुवनाद्यन्तरमिति तत्त्वातिरेको भुवनातिरेकश्च
प्रसज्यत इति।
अथ तत्त्वभुवनाद्यात्मकत्वमस्य नेष्यते ततः शशविषाणादेरिव बन्धनत्वमप्यस्यासिद्धमित्युक्तम्।
कुतो ऽन्यः सहजो मल इति।
अत्र परिहारः
आत्मस्थं तत्पशुत्वं स्यात् पशुरप्यध्वमध्यगः ॥ किर्त्_२।१८ ॥
प्रोक्तो येन मतस्तेन मलस्तद्भिन्नलक्षणः ।
रामकठः
अयमर्थः—कर्मणास्य हेतोरनैकान्तिकत्वं तस्य बन्धत्वे ऽपि तत्त्वभुवनादिस्थित्य भावात्।
अथ मायातत्त्वे स्थितत्वात्तस्य नानैकान्तिकविषयतेति।
उच्यते—यद्येवं तदपि पशुत्वमिति मलः पशुतत्त्वस्थं तेन विनात्मनां पशुत्वायोगात्। तद्द्वारेण तदप्यध्वनि स्थितमिति मायाकार्यात्तत्त्वभुवनादेर्भिन्नलक्षणो ऽपि मलः कर्मवद्बन्ध इत्यदोषः॥
यस्तु सहजः स्यान्मलो माये त्येवमादिभिः पदच्छेदैर्बलादेव
।क़ुओते{सहजः स्यान्मलो माया
।किर्। २:१२अ।}
सूत्राणि मायामलपक्षे ऽपि प्रत्यावृत्त्या व्याचष्टे स सन्दिग्धशास्त्रार्थो मायाया मलत्वे हेतुं प्रष्टव्यः।
न ह्यन्यथात्यन्तातीन्द्रियवस्तुनः कार्यभेदेनेन्द्रियादेरिव सिद्धभेदस्य शक्यमभेदमध्यवसातुम्। इन्द्रियादेरपि कलान्तस्य सतन्मात्रस्याभेदप्रसङ्गात्।
ननूक्तो हेतुर्मायाव्यतिरिक्तमलास्तित्वे प्रमाणाभावादिति।
न अस्याव्यापकरूपभावत्वेनानैकान्तिकत्वात्।
व्यापको हि निवर्त्तमानो व्याप्यं निवर्त्तयति वृक्ष इव शिंशपां नान्यो घटादिरनवस्थाप्रसङ्गात्।
न प्रमेयसत्ताव्यापकं प्रमाणं सर्वस्य सर्वज्ञताप्रसङ्गादिति प्रमाणनिर्वृत्तावप्यर्थाभावासिद्धेः संशय एवात्र व्यतिरिक्तसत्तायां युक्तः। असिद्धश्चायं हेतुः व्यतिरिक्तमलास्तित्वे स्वभावविरुद्धकार्योपलम्भलक्षणस्य प्रमाणस्य प्रागुक्तत्वात्।
यदप्यस्य दूषणत्वेनानयोः कार्ययोः शिवत्वपशुत्वरूपत्वेनैकस्मिन्नात्मनि समावेशात्सहावस्थानविरोधो नास्त्ये वेत्युक्तं तदप्ययुक्तं परस्परपरिहाराविरोधे ऽप्यनयोरितरेतराभावरूपत्वाद्वृक्षतदभावयोरिव नैकस्मात्कारणादुद्भवः सम्भवति यतः।
अयमेव चास्माकमत्र प्रतिज्ञातो ऽर्थ इति।
विरुद्धयोरप्यनयोः सहानवस्थानोपदर्शनमेतद्दोषोद्भावनमेव प्रतिज्ञातार्थाबाधनात्।
न च शिवत्वस्येव पशुत्वस्याप्यात्मन्यवस्थानमिति युक्तम्।
तस्य वस्त्वन्तराकारमलरूपत्वेन तद्व्यतिरिक्ततयावस्थितेः।
वक्ष्यति च आत्मनो ऽनादिसम्बन्धाद्धर्म इत्युपचर्यत इति।
।क़ुओते{आत्मनो ऽनादिसम्बन्धो धर्म इत्युपचर्यते
।किर्। २:२३च्द्।}
नापि तत्कार्ययोः प्रकाशावरणयोः सहावस्थानमात्मनो ऽवस्थाभेदात्सकलाकलाद्यवस्थाभेदवदिति।
यदपि चक्षुरादिनालोकादिसहकारिसन्निधानासन्निधानाभ्यां प्रकाशाप्रकाशादिविरुद्धं कार्यं कुर्वतास्य हेतोरनैकान्तिकत्वमुक्तं तदतितरामयुक्तम्।
सहकार्यसन्निधाने हि तत्स्वकार्यमकुर्वद्दृष्टं न तु तद्विरुद्धं कुर्वदभावस्यावस्तुत्वेन करणासम्भवात्।
सविता पुरुषादीनामिवोलूकादेः प्रकाशमेव करोति।
स तु प्रकाशको ऽत्यन्तभास्वरत्वेन तस्य नेत्रोपघातहेतुत्वात् मन्दनेत्रस्येव स्वकार्या करणादप्रकाशक इत्युपचर्यत इति न तु तमोवदप्रकाशकरणादिति नानैकान्तिकविषयः।
ततश्च सर्वदोषरहितात्प्रागुक्तात्स्वभावविरुद्धकार्योपलम्भान्मायाव्यतिरिक्त एव मलः सिद्ध्यतीत्यलमागमार्थबहिष्कृतैः सह विवादेनेति।
तदेवं प्रमाणतो मायाव्यतिरिक्तस्य मलस्य सिद्धस्य संहितान्तरैरभिख्यानप्रदर्शनाय पर्यायान्तराण्युच्यन्ते।
मलो ऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः ॥ किर्त्_२।१९ ॥
अविद्या ह्यावृतिर्मूर्छा पर्यायास्तस्य चोदिताः ।
स चाविद्यादिपर्याय- भेदैः सिद्धो मते मते ॥ किर्त्_२।२० ॥
रामकठः
अथ किमसौ मलः संहितान्तरेष्विव दर्शनान्तरेषु प्रसिद्धः। नेत्युच्यते
रामकठः
तत्सद्भावात्पशुः पाश्यः शोध्यो बोध्यो मतस्त्विह ।
रामकठः
तस्यास्य मलस्य सद्भावादिहेत्यस्मिन्नेव पारमेश्वरे दर्शने पशुः प्रेर्यः पाश्यश्च कलादिना शोध्यश्च दीक्षया बोध्यश्च शास्त्रात्मना ज्ञानेनाभिमतो न तथा दर्शनान्तरेषु।
ततश्च दर्शनान्तरमुक्ताः पशव एव मलस्य तैरज्ञातत्वेन विच्छेत्तुमशक्यत्वादित्युक्तं भवति। यद्येवमात्मनः पाश्यादिवृत्तिभेदा अप्यनादिस्थिता एव। ततस्तेषामपि बन्धान्तरत्व प्रसङ्गः। तदयुक्तम्। यतः
पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः ॥ किर्त्_२।२१ ॥
मले सति भवन्त्येता भोक्तृत्वं च न केवलम् ।
रामकठः
एषां पाश्यादिवृत्तीनां मलनिवृत्तौ निवृत्तिसिद्धेर्मलनिमित्तत्वं सिद्ध्यति प्रदीपनिमित्तत्वमिव प्रभाया इति।
न पृथग्बन्धान्तरत्वमिति। तदियता मलस्यावस्तुत्वे मायास्वभावत्वे च निषिद्धे अधुना आत्मनो ऽपि वा गुण
।क़ुओते{आत्मनो ऽपि वा गुणः
।किर्। २:११ब्च्।}
इति पूर्वोक्ततृतीयप्रश्नान्तरानुवादेन पूर्वः पक्षः।
गरुड उवाच
यद्येवं संस्थितः पाश्यो मलो ऽस्य पशुसङ्गतः ॥ किर्त्_२।२२ ॥
आत्मनः किं न धर्मो ऽसौ युक्तितः कल्प्यते मलः ।
रामकठः
यद्येवं चिद्रूप एवात्मा पाश्यो व्यवस्थित इति किञ्चिज्ज्ञत्वान्यथानुपपत्त्यास्यावारको ऽपि मलः कल्प्यते।
हन्त तर्हि आत्मन एवासौ अज्ञानात्मा मलो धर्मत्वेन युक्तितो ऽनुमानेन कल्प्यताम्। यदाहुर्नैयायिकवैशेषिकाः—यद्यत्र कारणान्तरेण क्रियते तत्तत्र नास्त्येवान्धकार इव प्रदीपादिना क्रियमाणः प्रकाशः।
क्रियते च कार्यकरणादिभिरात्मनि विज्ञानम्। ततस्तदपि तत्र नास्तीत्यज्ञस्वभाव एवात्मा सिध्यति कुतो व्यतिरिक्तमलसिद्धिः।
अत्र सिद्धान्तः
भगवान् उवाच
आत्मनो ऽनादिसम्बन्धाद् धर्म इत्युपचर्यते ॥ किर्त्_२।२३ ॥
कथं तज्ज्ञानयुक्तत्वाद् अज्ञानगुणतां गतः ।
रामकठः
भवेदेवं यद्ययं हेतुरस्मान्प्रति सिद्धः स्यात्। असिद्धस्तु कार्यकरणादीनां तत्रास्माभिर्ज्ञानव्यञ्जकत्वेनाभ्युपगमात्।
ननु तद्भावतदभावयोर्दर्शनादर्शनाभ्यां ज्ञानस्य कार्यकरणादिकारणत्वं सिध्यति। न तयोर्व्यञ्जकत्वेनापि सम्भवेनानैकान्तिकत्वादिति नानेना सिद्धेन हेतुनात्मन्यज्ञत्वसिद्धिः।
ततश्चावश्यं तस्याशुद्धात्मनो ऽनादिसम्बन्धेनावरणेन व्यतिरिक्तेन भवितव्यमिति।
तद्योगादशुद्ध इत्युपचारादागमे कथितो द्रष्टव्यो नाज्ञस्वभावत्वादेवेति।
तर्ह्यत एव तत्राज्ञत्वसंशयो युक्तो न तज्ज्ञत्व निश्चयो येन व्यतिरिक्तमलसिद्धिरिति। तत्रोच्यते
तस्य धर्मो न धर्मत्वे परिणामः स्फुटो भवेत् ॥ किर्त्_२।२४ ॥
रामकठः
न तस्यात्मनो धर्मः स्वभावो वाज्ञानात्मा मलो घटादिवदनात्मत्वप्रसङ्गात्। अथ यत्र ज्ञानं समवेतमुत्पद्यते स आत्मेति। तदप्ययुक्तम्।
तस्य पूर्वमज्ञानं प्रति धर्मित्वे घटादेरिव पश्चादपि ज्ञानसमवायो नोपपद्यत एव।
अथाज्ञानात्मनस्तु तस्य ज्ञानाभ्युपगमे स्फुटमेव रूपान्तरपरिणामः स्यादामलकादेः पीततोत्पत्त्यात्मक इवेति वक्ष्यमाणो दोषः।
।क़ुओते{वक्ष्यमाणो दोषः
सेए ।किर्। २:२६अब्।}
ननु ज्ञानं तावदस्मदादिप्रत्यक्षत्वे सत्यचाक्षुषप्रत्यक्षत्वाद्रसादिवद्गुणः।
गुणेन च द्रव्याश्रितेन भवितव्यमिति यस्तस्याश्रयः स तद्विलक्षणत्वादज्ञानरूप एवात्मा सिद्ध्यति। तदप्ययुक्तम्। यतः।
चिद्धर्मे पुंसीत्यादि।
रामकठः
चिद्धर्मे पुंसि नो धर्मो यदि स्यात्परिणामवान् ।
रामकठः
चित् ज्ञानमेव धर्मः स्वभावो यस्य
स तथाभूतः ।च्रुx पुमित्यनुभवति सर्वमिति
पुमान्।च्रुx।
आत्मा स्वसंवेदनेन स्वपरात्मप्रकाशतया प्रतिपुरुषं सिद्ध्यति किमन्येन साधनेन।
ननु ज्ञानस्य रसादेरिव गुणत्वे हेतुरुक्त एव।
सो ऽप्ययुक्तः दृष्टान्तस्यास्मान्प्रति साध्यधर्मा सिद्धत्वात्। रसादयो हि भावाः संहता एव जायमानाः संहता एव निरुद्धाश्च साङ्ख्यसौगतादिभिरिवास्माभिरपि प्रमाणसिद्धत्वादर्थक्रियाकरणाः कथ्यन्ते।
न त्वन्यः कश्चित्तेषामाश्रयभूतस्तद्व्यतिरेकेण तस्यानुपलम्भनादिति।
कथं तर्हि पृथिव्यां गन्ध इत्यादिव्यवहारः।
कुदर्शनाभ्यासमूलो भ्रान्त एव। यदि वा विशिष्टसमुदायैकदेशप्रतिपादनाय वनस्य धवः शोभन
।क़ुओते{वनस्य धवः शोभनः
च्फ़्।। ।नर्प्। अद् १:४, प्।११।}
इतिवद्युक्त एवेति। अतश्च ज्ञानस्यापि गुणत्वासिद्धेस्तद्रूप एवात्मा सिद्ध इत्युक्तम्।
तर्हि ज्ञानस्यानित्यत्वेन संवेदनाद नित्यत्वमस्य। तदयुक्तम्।
द्विविधं हि ज्ञानमध्यवसायात्मकमितरच्च। तत्र यदध्यवसायात्मकं तद्बुद्धिधर्मत्वेनास्माभिरप्यनित्यमिष्यत एव।
यदनध्यवसायात्मकं पौरुषं संवेदनात्मकं ज्ञानं तस्य न कदाचिदप्यभावः संवेद्यते सर्वदैव ग्राहकरूपतयैकरूपेण संवेदनात्।
नापि तस्य क्रमेणार्थक्रियानुपपत्तिरित्यादि सर्वं दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे विस्तरेणेति तत एवावधार्यम्।
।क़ुओते{दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे
अद् १:२२, प्।५२।}
तस्मिञ्ज्ञानात्मकत्वाच्चित्स्वभावे पुंसि नाज्ञानं मलो धर्मो युक्तः। आमलकादीनामिव रूपान्तरपरिणाम प्रसङ्गात्। तथा हि
एकस्मिन्व्यज्यते ज्ञानम् अन्यस्मिंस्तत्तिरोहितम् ॥ किर्त्_२।२५ ॥
रामकठः
एकस्मिन्रूपादौ विषये ज्ञानमुत्पद्यते अन्यस्मिंस्तु रसादावुत्पन्नमपि नष्टं भवद्भिरिष्यते यतस्ततश्च रूपान्तरपरिणामो ऽस्यात्मनः। को दोष इत्युच्यते।
रामकठः
परिणामो ऽचेतनस्य चेतनस्य न युज्यते ।
रामकठः
यः परिणामी सो ऽचेतनः सिद्धो यथामलकादिरर्थ इति परिणामित्वादात्मनो ऽप्यचेतनत्वप्रसङ्ग इत्यवश्यं तत्प्रसङ्गपरिहारायात्मा नैवाज्ञानस्वभावो ऽभ्युपगन्तव्यः।
अपि तु विज्ञानस्वभाव एवेति। तस्यावारकस्वभावो व्यतिरिक्तो मलः सिद्धः।
अन्यथा सर्वज्ञत्वप्रसङ्गादिति तृतीयस्यापि प्रश्नस्य निरासः।
यद्येवं व्यतिरिक्तमलपक्षे ऽप्येष एव दोष इति समुच्चयेन चोदकः।
गरुड उवाच
तयोश्चानादिसम्बन्धाद् विश्लेषो न विभुत्वतः ॥ किर्त्_२।२६ ॥
सहजप्रक्षये प्राप्ते तस्य नाशो न किं भवेत् ।
रामकठः
तयोरात्ममलयोर्यो ऽनाद्यावार्यावारकलक्षणः सम्बन्धः स स्वभावविशेष एव तस्मान्न विश्लेषो निवृत्तिरनादित्वादेव यथा चेतनाज्जडाद्वा स्वभावादित्यनिर्मोक्षः।
अथ तस्माद्विश्लेष इष्यते। यद्येवं सहजस्य स्वभावस्य प्रक्षये सति तस्यापि नाशः स्वभावान्तरोत्पादरूपः परिणामो भवेदिति स एव तदवस्थो दोषो यः प्रागव्यतिरिक्त मलपक्षे प्रोक्तः।
अथ न तयोः स्वभावाद्विश्लेषः अपि तु परस्परसंश्लेषान्नेत्रतदावरणयोरिव ततो नैष दोष इत्युच्यते सो ऽपि न युक्तः।
विभुत्वत इति व्यापकत्वात्। अव्यापकस्य ह्यव्यापकाद्देशान्तरनयने विश्लेषः। व्यापकस्य तु सर्वत्रावस्थानान्न कुतश्चिद्विश्लेषः सम्भवतीत्यनिर्मोक्षः।
अथ तथाभूतस्यापि विश्लेष इष्यते। यद्येवं सहजस्य सहभाविन आवरकस्य प्रक्षये तस्याप्यावार्यत्वस्य स्वभावस्य नाशो रूपान्तरपरिणाम इति स दोषस्तदवस्थ एव।
अत्र सिद्धान्तः
भगवान् उवाच
विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः ॥ किर्त्_२।२७ ॥
उपायाच्छक्तिसंरोधः कथञ्चित्क्रियते मले ।
यथाग्नेर्दाहिका शक्तिर् मन्त्रेणाशु निरुद्ध्यते ॥ किर्त्_२।२८ ॥
तद्वत्तच्छक्तिसंरोधाद् विश्लिष्ट इति कथ्यते ।
रामकठः
अत्र मलविषयस्तावदयमदोषः। यतो न केवलमस्यैवाव्यापकस्य मोहात्मनः प्राकृतस्य मलस्य यावद्व्यापकस्याप्याणवमलस्योपायेन मन्त्रदीक्षात्मना शक्तेरावारकस्वभावस्याग्नेर्दाहकत्वस्येव वधो ऽन्यथाभावः क्रियत एव।
कथञ्चिदित्यारब्धकार्यकर्मभोगोपरोधेनासर्वात्मना तदनुपरोधेन तु सद्योनिर्वाणदीक्षया सर्वात्मनेति।
ततश्च मलस्य परिणामिनित्यत्वाभ्युपगमान्नैष स्वभावान्तरपरिणामसाधनप्रसङ्गो युक्तः सिद्धसाधनादित्युक्तं भवति।
अत एव मलस्य स्वभावान्तरपरिणतेः स्वरूपसत्त्वे ऽप्यामयाद्विश्लिष्टः पुरुष इतीव मलशक्तिरोधादपि विश्लिष्टः कथ्यते।
ततो विश्लेषो न विभुत्वादित्ययमप्यदोषः।
इदानीं पुरुषविषयो ऽपि दोषः प्रतिक्षिप्यते।
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ॥ किर्त्_२।२९ ॥
रामकठः
शक्तेः संरोधः शक्तिसंरोधः। तस्य मलस्य तं कृत्वा भवनिःस्पृहः क्रोधरागादिरहितः पुरुषः क्रियते परमेश्वरेण।
अत एव शक्तिपातनिश्चयायाक्रोधरागादीनि लिङ्गानि दीक्षाधिकारार्थं गुरुभिः शिष्याणां परीक्ष्यन्त इत्युक्तम्।
।क़ुओते{।देव्दोत् इत्युक्तम् सेए १:२२।१०–१५।}
ततश्च मलस्य रूपान्तरापत्तिमात्रमेव तदानीं न त्वात्मनः स्वभावान्तरपरिणामः। तस्मान्न पूर्वोक्तदोष इत्युक्तं भवति।
सति हि मले यस्तस्य मलानपेक्षयार्थग्राहकस्वभावः स एवासत्यपि यतः।
कथं तर्हि सति मले ऽर्थं न गृह्णाति। बालभाषितमेतत्।
यो हि मलानपेक्षयार्थग्राहकः स कथं तत्सन्निधाने भवेत्।
नन्वधुनास्यार्थः प्रकाशते प्राक्तु नेति कथं न स्वभावान्तरपरिणामः।
तदप्ययुक्तम्। तद्विषयीकरणमेवार्थानां प्रकाशो नान्यः।
न तु मलानपेक्षयात्मनि सर्वदास्तीत्युक्तम्।
अतो न स्वभावभेदालम्बनगतत्वादित्येवमादि विस्तरेण स्वभावान्तरत्वापादको विरुद्धधर्माध्यासप्रकारो नरेश्वरपरीक्षाप्रकाशे पराकृतो ऽस्माभिरिति
।क़ुओते{नरेश्वरपरीक्षाप्रकाशे पराकृतः
इत् इस् नोत् चेर्तैन् तो wहिछ् पस्सगे थिस् रेफ़ेर्स्।}
तत एवावधार्यम्।
यो ऽपि सहभाव्यावरणनिवृत्तित आत्मनो ऽप्यावार्यत्वनिवृत्तिलक्षणस्वभावान्तरपरिणामदोष उक्तः तत्राप्युच्यते
सहजा कालिका ताम्रे तत्क्षयान्न च तत्क्षयः ।
यद्वत्ताम्रे क्षयस्तद्वत् पुरुषस्य मलक्षयः ॥ किर्त्_२।३० ॥
यथा तण्डुलकम्बूके प्रक्षीणे ऽपि न तत्क्षयः ।
वृत्ति:
सहचरकालिकानिवृत्त्या न ताम्रस्य कश्चिद्विकारो दृश्यते यथा तथा मलनिवृत्त्याप्यात्मनो न विकार इत्येतावतांशेन दृष्टान्तत्वं नान्यथा ताम्रस्य परिणतिधर्मत्वेनाभ्युपगमादिति।
एतदुक्तं भवति—औपाधिको ऽयं मलसन्निधानासन्निधानकृतो भेदः।
न त्वात्मनो मलानपेक्षयार्थग्रहणैकस्वभावस्यान्यो ऽनावार्यस्वभावो यो भेदं विदध्यादिति स्वभावान्तरपरिणामाभावान्न पूर्वोक्तदोषप्रसङ्गः।
अयमेव पक्षः प्रमाणसिद्ध इत्यनुमानसिद्धेनापि दृष्टान्तान्तरेण पोष्यते
विषसम्बन्धिनी शक्तिर् यथा मन्त्रैर्निरुद्ध्यते ॥ किर्त्_२।३१ ॥
तथा न तद्विषं क्षीणम् एवं पुंसो मलक्षयः ।
वृत्ति:
मोहमारणहेतुत्वान्मलस्थानीयायां सहजायामपि शक्तौ पुरुषस्थानीयस्य विषस्यनिवृत्तायां न कदाचिद्वर्णाकृत्यादिस्वरूपनाशो यथा तथा पुंसो मलक्षय इति।
अंशेन दृष्टान्तत्वादधुना प्रत्यक्षसिद्धदृष्टान्तान्तरेण प्रकरणोपसंहारः
फलं कतकवृक्षस्य क्षिप्तं सकलुषे जले ॥ किर्त्_२।३२ ॥
कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात् ।
शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् ॥ किर्त्_२।३३ ॥
वृत्ति:
यथा हि कतकाभिधानस्य वृक्षविशेषस्य फलम् ।च्रुx मेघजादि सहजकलुषयुक्त।च्रुx। एव जले प्रक्षिप्तं तस्याः कलुषलक्षणायाः शक्तेः संरोधं विदधल्लक्ष्यते। न तु जलात्किञ्चिदपि स्वभावान्तरमन्यतो ऽन्यत्र क्षिपेदिति कालुष्यमात्रमेव तस्य निवर्तयति नान्यत्किञ्चिदित्यर्थः।
तथा शिव एव ज्ञानं सर्वेषां चिच्छक्तिव्यञ्जकत्वेन ज्ञानहेतुत्वात्तस्येति मलस्य शक्तिसंरोधकारकं दीक्षया तदधिकारोत्पादनाय वा शक्तिपातेनेत्युक्तम्।
यदि वा शिवस्य ज्ञेयतया सम्बन्धि यद्दीक्षितानां नित्यकर्तव्यतया
वक्ष्यमाणज्ञानं तदारब्धकार्यकर्मभोगोपरोधेनाक्षपितस्य दीक्षया सर्वात्मना मलस्यैव प्रत्यहमपचयात् क्रमेण शक्तिसंरोधकारकं न तु पुरुषस्येति। ततश्च तस्यांशे ऽपि स्वभावान्तरपरिणामाभावान्न पूर्वोक्तमचेतनत्वं दूषणं मलस्य त्वेतद्भूषणमेवेति न व्यतिरिक्तमलपक्षे कश्चिद्दोष इति।
।चोलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृतौ द्वितीयं प्रकरणम्