रामकठः

पुरा किल भगवतोमापतिना गरुत्मतो ऽनुग्रहं कुर्वता यथा यादृग्रूपं च शास्त्रमुपदिष्टं तथा तादृग्रूपं च कश्चित्तच्छिष्यः प्रशिष्यो वा स्वशिष्येभ्यः कथयति


कैलासशिखरासीनं सोमं सोमार्धशेखरम् ।
हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः ॥ किर्त्_१।१ ॥


रामकठः

यत्तु प्रथममेवोत्सूत्रं कैश्चिच्छास्त्रस्वरूपं तत्सम्बन्धाभिधेयादि चात्र वर्ण्यते तत्सूत्रैरेव तेषां वक्ष्यमाणत्वादयुक्तमेव।
अथादौ प्रवृत्तिहेतुत्वेनावश्यं तद्वक्तव्यमिति चेत्।
शास्त्रान्तराणामिवात्र तदभिधानेन प्रवृत्त्ययोगात्।
अत्र हि गुरूपसदनात्प्रभृति गुरुवाक्यादेव सर्वत्र प्रवर्तितव्यं नान्यत इति
दर्शयिष्यामः।

तत्र कैलासस्य शिखरमग्रप्रदेशः। तस्मिन्नासीनं तं दृष्ट्वेत्यनेन योगिमध्यस्थितत्वेन वक्ष्यमाणादस्य ब्रह्मविष्णुलोकाभ्यामूर्ध्वमण्डलमध्ये वक्ष्यमाणस्य देवस्य विशेषः।
सहोमया वर्तते यस्तमित्यनेन कैलासशिखरासीनान्तराच्छ्रीमन्नन्दिकेश्वरादेर्विशेषः॥

अथ रूढिर्योगमपहरतीति न्यायतो ऽत्र सोमशब्देन कश्चिच्चन्द्रमेव प्रत्येष्यतीति तदर्थमेतत्सोमार्धं शेखरे शिरसि यस्य तं दृष्ट्वेति।
किञ्च हरति बन्धनानि पुम्भ्यः पुंसो ऽप्यूर्ध्वं पदमिति हरः तं स्वगुरुं तार्क्ष्यो दृष्ट्वेत्यर्थः।
अत एवास्य निर्वाणदीक्षा सम्पन्नेति प्रतीयते।
नादीक्षितानां श्रवणाधिकार इति वक्ष्यति यतः।
हरशब्दस्य रूढ्यैवोमापत्यर्थत्वे व्याख्यायमाने गतार्थत्वं व्यवच्छेदान्तराभावादिति विशिष्टक्रियायोगाभिधानेनैव व्याख्यानं ज्यायः।
अत्र च प्रणामसामर्थ्यादेव दर्शनस्य सिद्धेर्नायमर्थो हरं दृष्ट्वेति।
अपि तु स्तुतिपूर्वं दृष्ट्वेति स्तुतिपूर्वमिति पदमत्र क्रियाविशेषणत्वेन व्याख्येयम्। न तु वचोविशेषणत्वेन।
ततश्च वक्ष्यमाणान्धकमथनादिकर्मस्तुत्या विशिष्टकर्मयुक्तं भगवन्तमाराध्येदं वचनं वैनतेयो ऽब्रवीदित्यत्रार्थः। तन्न दोषः कश्चिदिति॥

अथ कासौ स्तुतिर्यत्पूर्वं दृष्ट्वेत्युक्तम्। तत्रोच्यते


जयान्धकपृथुस्कन्ध- बन्धभेदविचक्षण ।
जय प्रवरवीरेश- संरुद्धपुरदाहक ॥ किर्त्_१।२ ॥
जयाखिलसुरेशान- शिरश्छेदभयानक ।
जय प्रथितसामर्थ्य- मन्मथस्थितिनाशन ॥ किर्त्_१।३ ॥
जयाच्युततनुध्वंस- कालकूटबलापह ।
जयावर्तमहाटोप- सरिद्वेगविधारण ॥ किर्त्_१।४ ॥
जय दारुवनोद्यान- मुनिपत्नीविमोहक ।
जय नृत्तमहारम्भ- क्रीडाविक्षोभदारुण ॥ किर्त्_१।५ ॥
जयोग्ररूपसंरम्भ- त्रासितत्रिदशासुर ।
जय क्रूरजनेन्द्रास्य- दर्शितासृक्सुनिर्झर ॥ किर्त्_१।६ ॥
जय वीरपरिस्पन्द- दक्षयज्ञविनाशन ।
जयाद्भुतमहालिङ्ग- संस्थानबलगर्वित ॥ किर्त्_१।७ ॥
जय श्वेतनिमित्तोग्र- मृत्युदेहनिपातन ।
जयाशेषसुखावास- काममोहितशैलज ॥ किर्त्_१।८ ॥
जयोपमन्युसन्ताप- मोहजालतमोहर ।
जय पातालमूलोर्ध्व- लोकालोकप्रदाहक ॥ किर्त्_१।९ ॥


रामकठः

अन्धकस्य महासुरस्य यौ विस्तीर्णौ स्कन्धौ तयोर्बन्धो विचित्रः सन्निवेशः तस्य भेदो विदारणम्। तस्मिन्यो विचक्षणः पण्डितस्त्वमेव, नान्यः। तस्यामन्त्रणं हे तथाभूत भगवन् जयेति।
किञ्च प्रकृष्टो वरो ब्रह्मदत्तो येषां ते प्रवराश्च वीराश्च प्रवरवीरेशाः। तैरेव समुपरुद्धं यत्त्रिपुरं तस्य दाहक हे भगवञ्जयेति।
तथाखिलानां सुराणामीशानो ब्रह्मा तस्य यच्छिरः तस्य च्छेदः पुराणेतिहासादिभिरुक्तस्तेन भयानको रौद्रमूर्तिः तस्य सम्बोधनम्।
किं च सकलत्रैलोक्यमोहकत्वेन यः प्रथितसामर्थ्यो मन्मथः कामस्तस्य भोगादिस्थितिहेतुत्वात्स्थितिः शरीरं तस्य नाशन हे भगवन् जयेति।
अपि चाच्युतस्य विष्णोस्तनुध्वंसनहेतुत्वात्तनुध्वंसः कालकूटस्तस्य वेगस्तमपहरतीति। यदुक्तं वायुपुराणे

विषेणोद्भूतमात्रेण तेन कालानलत्विषा।
।क़ुओते{विषेणोद्भूत@।देव्दोत् जनार्दनः

वायुपुराण ५४:५८।}
निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः॥ इति

तस्य बलान्यपहरतीति बलापहो यस्तस्य सम्बोधनम्।
किञ्च आवर्तः परिभ्रमस्तेनात्यन्तभीषणाटोपो वेगवत्प्रवाहः स यस्याः सरितः प्रकरणाज्जाह्णव्याः सावर्तमहाटोपसरित्। तस्या वेगो बलं तद्विधारण। किल शिरसि तथाभूता महानदी भगवतैव धार्यते नान्येनेत्यतिशयस्तुतिः॥ २–४॥

किञ्च दारूणि देवदारूणि तेषां वने यदुद्यानमाश्रमस्तस्मिन्ये मुनयस्तेषां तेषां च याः पत्न्यस्तासां विमोहक। अविजितकामक्रोधादीन्मुनीन्पत्नीश्च केनापि प्रयोजनेन विमोहयतीत्यत्र प्रशंसार्थो ऽन्यथा कुत्सैवेयं कुतः स्तुतिरिति।
तथा नृत्तं विचित्राभिनयाद्यात्मको गात्रविक्षेपस्तस्य महारम्भलक्षणा क्रीडा। अस्य वैलक्षण्येन ताण्डवरूपं विहरणम्। तया विक्षोभो ऽनवस्थितिर्जगतस्तेन दारुण भीषण हे भगवञ्जयेति। तदिदमुक्तम्।

चलति मही दलन्ति गिरयः स्खलन्त्युदधयो नमन्ति खेचरा इत्यादि
त्रिभुवनमस्वतन्त्रमिह यस्य नृत्तसमये स पातु नो हर इत्यन्तम्।

किञ्च उग्रं भीषणं यद्भैरवाकारं रूपमुमासन्त्रासदानाय घटत इतीतिहासपुराणादिगीतं तस्य संरम्भो जगत्त्रासलक्षणाभिनयानुकारस्तेन त्रासिता देवासुरा येन तस्य सम्बोधनम्।
किञ्च क्रूरजनानां रक्षसामिन्द्रो रावणस्तस्यास्येषु दर्शितो ऽसृगेव सुनिर्झरः प्रपातो येन तस्यामन्त्रणम्।
किञ्च वीरो वीरभद्रः तस्य परिस्पन्दः प्रेषणं तेन दक्षस्य प्रजापतेर्यज्ञविनाशन हे भगवञ्जयेति प्रशंसार्थो ऽन्यथा निन्दैव कुत्सितत्वादस्येति।
किञ्च अद्भुतमाश्चर्यभूतं यन्महालिङ्गं सकलत्रैलोक्यस्य व्यापकं तस्य संस्थानमाकारविशेषो ज्वालात्मकः तस्य बलं तेजसो ऽसह्यत्वं तेन गर्वित ब्रह्मविष्ण्वादिभ्यो ऽपि सातिशय हे भगवञ्जयेति। यदुक्तं वायुपुराणादौ

अकस्माद्ब्रह्मविष्ण्वाद्यैर्ज्वालालिङ्गं तदद्भुतम्।
दृष्टमभ्युद्गतं येन व्याप्तं सर्वं चराचरम्॥ इति॥ ५–७॥

किञ्च श्वेतो महामुनिः तन्निमित्तमुग्रस्य मृत्युदेहस्य निपातन हे भगवञ्जयेति।
अपि चाशेषस्य सुखस्याभिरतेरावासः स्थानं कामस्तेन मोहिता शैलजा गौरी येनेति कामो ऽपि यस्य वशे गौरी वा सर्वलोकेश्वरी यं प्रति साभिलाषेति प्रशंसार्थः।
किञ्च उपमन्योर्यः सन्ताप स्तपोजनितशरीरक्लमः यच्च मोहजालमेव पञ्चविधविपर्ययात्मकं तमोवृत्ति त्वात्तमस्तद्धरति यस्तस्य सम्बोधनम्।
किञ्चान्यत्। पातालानां मूलं कालाग्निभुवनं तत ऊर्ध्वं लोकः स्थावरादिमनुष्यान्तः षड्विधो भूतसमूहः। अलोकस्तु तद्विलक्षणः पिशाचादिपिता महान्तो ऽष्टविधो दैवसर्गः। यदुक्तं साङ्ख्यैः

अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति।
।क़ुओते{अष्ट।देव्दोत् सर्गः

।सन्ख्। ५३।}

मानुष्यस्त्वेकविधः समासतो भौतिकः सर्गः॥ इति।

तस्य दाहकेत्युपलक्षणम्। स्थितिसंरक्षणदानभवानुग्रहकर्तः हे भगवन् जय। जयेति जयत्येवास्य श्रीकण्ठनाथस्याधिकारात्।
तदेवमपदान षोडशकात्मिकया स्तुत्या भगवतः श्रीकण्ठनाथस्यास्यैव दर्शनम्, न योगिनां विद्येशानां वा मध्यपठितस्येति दर्श्यते।
तथैतावद्भिरेवापदानैरियं स्तुतिर्दृष्टा नापदानान्तरैश्चक्रप्रसाददेहार्धगौरीधारणादिभिरपीति।

अन्धयतीत्यन्धको मलः तस्य पृथुस्कन्धावूर्ध्वाधोदृक्प्रतिरोधशक्ती ताभ्यां बन्धनं पुंसां दृक्क्रियावरोधः। तस्य भेदे दीक्षाद्वारेण यो विचक्षणस्तस्य सम्बोधनम्। इत्येवं सर्वथेयमत्र दीक्षानिर्वर्त्यकार्यस्तुतिर्गौणलाक्षणिकया वृत्त्येति व्याचक्षते।
तेषां प्रसिद्धस्यार्थस्य परित्यागे ऽत्रासिद्धस्य च कल्पने किं कारणमिति वक्तव्यम्। कारणं विनैव हि तथात्वे सर्वत्र गौणमुख्यार्थाव्यवस्थितिः पदवाक्ययोरप्रतिप त्तिरेव। तदुक्तम्।

नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थ लङ्घनम्। इति।
।क़ुओते{नर्ते।देव्दोत् लङ्घनम्

सोउर्चे उन्क्नोwन्।
क़ुओतेद् अल्सो अद् ।मत्।व्प्। ३:२० अन्द् ओन् प्।१२
ओफ़् थे {हेतुबिन्दुटीका}।}

श्रीमद्रौरवाददौ परमशिवविषयत्वात्स्तोत्रस्य परमशिवे चाशरीरत्वेन शशाङ्कार्धशेखरत्वाद्यसम्भवाद्युक्तैवाप्रसिद्धार्थकल्पनेत्यविरोधः॥८–९॥

अथ किं तद्वचो यदब्रवीत्तार्क्ष्यः स्तुतिपूर्वं दृष्ट्वेत्युक्तम्। तत्रोच्यते


भक्तस्य मम भीतस्य शिवज्ञानं परं वद ।
यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् ॥ किर्त्_१।१० ॥


रामकठः

भजतीति भक्तः सेवकः बिभे तीति च भीतः।
तस्य यद्यपि दीक्षया संसारभीतत्वमपाकीर्णं तथापि नित्यनैमित्तिकादिकर्म चोदितत्वादनुष्ठेय म्।
तदननुष्ठाने विपरीतानुष्ठाने वा पुनरपि संसाराद्भीतत्वमस्त्येव। यदुक्तम्

आज्ञाविलङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः।
।क़ुओते{आज्ञा@।देव्दोत् समाः

अत्त्रिबुतेद् wइथ् थे एxप्रेस्सिओन् {पौष्करादौ}
ब्य् ।रम्। अद् ।मत्। ।व्प्। ५:६, प्।१०८।}
इत्यदोषः।
ततश्च यथा पूर्वं मम भक्तस्य सतो भीतस्य दययैव दीक्षाख्यो ऽनुग्रहस्त्वया कृतस्तथैवाधुना शिवस्य सर्वज्ञस्य श्रेयोहेतोर्भगवतः कार्यरूपतया प्राप्यत्वेन च सम्बन्धि ज्ञानं शास्त्रं वदेति।
शिवज्ञानपदेन कौलमहाव्रतादिनिरासस्तेषामसर्वविषयत्वेन वैशेषिकादेरिव सर्वज्ञकृतत्वाभावात्।
परमित्यनेन स्रोतोन्तरेभ्यो वामदक्षिण गारुडभूततन्त्रेभ्यो ऽस्य विशेषस्तेषां शिवकृतत्वे ऽपि सिद्धिप्रधानत्वेनापरत्वात्।

ननु वेदादिज्ञानान्येवं हरिहरहिरण्यगर्भाद्यात्मकप्रसिद्धशिवकृतानि पराणि भविष्यन्तीति। तदयुक्तं तेषामशिवत्वरूपमुक्त्युपदेशकत्वेन शिवकृतत्वासिद्धेः। समलत्वमेव ह्यात्मनामशिवता। तद्विरहः केवलित्वं शिवतेति। मलकैवल्यं च तैर्मुक्तावुपदिष्टं मलस्वरूपस्यापरिच्छेदात्। अपरिच्छिन्नस्य हर्तुमशक्यत्वादिति। यज्ज्ञानं प्राप्य नरा मुक्तिमायान्ति केवलां तद्वदेति वेदादिशास्त्रनिषेधः
। ।च्रुx सर्व इति
।क़ुओते{तेस्तिमोनिउम्:

तथा किरणवृत्तौ भगवता
रामकण्ठाचार्येण।देव्दोत् (सेए
१:१।११–१२) यदवाप्य नरास्सर्व इत्यत्र
ऽसर्व इति ऽऽब्राह्मणाः क्षत्रिया
वैश्याश्शूद्रा म्लेच्छाद्यो पि हीऽऽति
श्रुत्यधिकारिण एव गरुत्मतो
धिकारप्रक्रमतस्सर्वपदस्यानियतार्थत्वाद्ऽ इति
व्याख्यातम्। {शैवागमादिमाहात्म्य}
इफ़्प् त्।३७२, प्।१२२५, लिनेस् ११–१६।}

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो ऽपि हि। इति

श्रुत्यधिकारिण एव। गरुत्मतो ऽधिकारः प्रकृतं सर्वपदस्य नियतार्थत्वात्।च्रुx । यदुक्तम्

अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।
।क़ुओते{अर्थः।देव्दोत् हेतवः

{वाक्यपदीय} २:३१५च्द् अन्द् ३१६च्द्।}

प्रोक्ताः सामान्यशब्दानां विशेषस्थितिहेतवः॥ इति।

एवं च दीक्षितत्वे ऽप्यविदितशास्त्रविवेकस्य तार्क्ष्यस्यायं प्रश्नस्तथाभू
तशास्त्राधिगमायेति प्रतीयते न तु ज्ञस्येति॥

अथ प्रतिवचनम्

एवमुक्तो हरः प्राह विस्फुरच्चन्द्रशेखरः ।


रामकठः

एवं स्तुतिपूर्वदर्शनपूर्वकं शास्त्रवि षयाविवेकप्रदर्शनतः शास्त्रं वैनतेयेन पर्यनुयुक्तः सन् सविस्मयत्वे सत्युत्पन्नशिरःकम्पत्वाद्विशेषेण स्फुरच्चन्द्रशेखरः श्रीकण्ठदेवः प्राह।
किञ्च प्राहेत्युच्यते।


भगवान् उवाच
भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम् ॥ किर्त्_१।११ ॥
किरणाख्यं महातन्त्रं परामृतसुखप्रदम् ।
सर्वानुग्राहकं शुभ्रं पदार्थोद्द्योतकं स्फुटम् ॥ किर्त्_१।१२ ॥


रामकठः

यदेतद्भद्रं सकलान्यशास्त्रफलविलक्ष णश्रेयःसाधकं शास्त्रं वदेति त्वया पृ ष्टं तच्छृणूच्यत इति प्रतिज्ञा। अत एवात्र भद्रपदस्यैव मङ्गलाद्यर्थत्वादादिसूत्रत्वे ऽपि नाथशब्दानुपादानादेर्दोषः।
महांश्च दर्शनान्तरसिद्ध्यानभिभाव्य उदयः सिद्धिलक्षणो यस्मादित्यनेनास्य शास्त्रस्य प्रयोज नमुक्तम्।
अत एव तथाभूतार्थप्रकाशकत्वात् किरणाख्यमेतदुक्तम्।
महच्च तत्परमेश्वरप्रयुक्तत्वात्। तन्त्रमित्यनेनास्य प्रामाण्यमुक्तम्।
ईश्वरकृतत्वेनैव शास्त्र स्य प्रामाण्यात्, नाकृतकत्वेनासम्भवात्। रचना कर्तारं नव्यभिचरतीति यतः।
परं च तत्सर्वार्थव्यापकत्वादमृतं चाविनश्वरमिति परामृतं यत्सुखं परा परिपूर्णता सर्वज्ञत्वकर्तृत्वाभिव्यक्तिः।
तद्ददातीत्युपायत्वेनाभिव्यनक्तीत्यर्थः।
।क़ुओते{तेस्तिमोनिउम्:

श्रीमता रामकण्ठेन किरणवृत्तौ किरणाख्यं महातन्त्रं
परामृतसुखप्रदम्। इत्यत्र परञ्च तत्
सर्वार्थव्यापकत्वादमृतञ्चाविनश्वरम्।
यत्सुखम्। परा परिपूर्णता
सर्वज्ञत्वसर्वकर्त्तृत्वाभिव्यक्तिः
तद्ददात्युपायत्वेनाभिव्यनक्तीति
परामृतसुखप्रदमिति।
ज्।ञानप्रकाशऽस् {शिवज्।ञानबोधवृत्ति}, प्प्।२३–४।}
तदेतन्मुक्तिलक्षणं प्रयोजनान्तरम्। सम्बन्धस्तूपायोपेयत्वादिलक्षणो ऽत्रार्थसिद्धः। सर्वेषां तु भक्तानां ब्राह्मणादीनामनु पश्चात् शक्तिनिपातात्
ग्राहकं स्वीकारकम्। न तु शक्तिपातं विना
ब्राह्मणजातिमात्रस्यापि विशिष्टतराधिकारविषयत्वमित्यर्थः।

शुभ्रमिति वक्ष्यमाणपादचतुष्टयशोभायुक्तत्वात्। न त्वानर्थक्यलूनविशीर्णात्मकमिति विशि ष्टस्वरूपकथनम्। पदार्था अर्थराशयः षट् पश्वादयो वक्ष्यमाणास्तेषामुद्द्योतकमित्यनेनास्याभिधेयकथ
नम्। स्फुटमित्यनेन संहितान्तरेभ्यो ऽस्य विशेषः।
तानि ह्यस्फुटं कृत्वा पदार्थानामुद्द्योतकान्यतस्तैरगतार्थत्वमित्यर्थः।
एवं च स्वरूपागतार्थत्वप्रामाण्याधिकारिसम्बन्धाभिधेयप्रयोजनानि शास्त्रस्योक्तानीति प्रतिज्ञारूप मेतदेवादिसूत्रम्
अथातो ऽनादि मध्यान्तेत्यादि श्रीमद्रौरव
।क़ुओते{अथातो ऽनादिमध्यान्तं

{रौरवसूत्रसङ्ग्रह} १:१अ।}
इव अथाणोर्बन्धसोपान
।क़ुओते{अथाणोर्बन्धसोपान@
।मत्।व्प्। २:१अ।}
इत्यादि श्रीमन्मतङ्ग इव चैवंरूपत्वादादिसूत्रस्य।
न तु पशुपाशेत्यादि तस्यैतत्सूचितार्थान्तरप्रतिज्ञारूपत्वेनोत्तरसूत्रत्वादिति दर्शयिष्यामः।
यत्त्वत्र सम्बन्धादीनामेतदभिधानं प्रमाणत्वादकर्तव्यमिति चोदयित्वा लोक इव संशयहेतुत्वेनापि कर्तव्यमिति केनापि प्रतिविहितं तदयुक्तमेव।
तर्कशास्त्राणामिव लौकिकवाक्यस्येव चास्य सूत्रस्याभिधानमात्रत्वासिद्धेः।
परमेश्वरप्रणीतं ह्येतदागमरूपं प्रमाणमिति कथं सन्दिग्धविषयं स्यात् प्रमाणस्य स्वप्रमेयनिश्चयरूपत्वेन तद्विषयसंशयनिवृत्तिफलत्वादिति
सम्बन्धादिनिश्चयत्वेनैवात्र प्रतिविधेयमिति॥

अथ किं तस्य शुभ्रत्वम्। कीदृशाश्च ते पदार्था येषामेतद्द्योतकमुक्तम्।
कियत्सङ्ख्याश्चे ति तदर्थमेतत्प्रतिज्ञासूत्रान्तरम्॥


पशुपाशपतिज्ञान- विचारप्रतिपादकम् ।
क्रियाचर्यासमोपेतं योगभूतिभरावहम् ॥ किर्त्_१।१३ ॥


रामकठः

पशुशब्दो निर्मलानामप्रयोगात्समलानामेवात्मनामभिधायकः।
ते च बहवो ऽपि सकलाकलभेदेन द्विरूपाः। तत्र सकला द्विरूपाः सूक्ष्मदेहाः स्थूलदेहाश्च।
अकला अपि विज्ञानाकलाः प्रलयाकलाश्चेति द्विरूपा एव। ते सर्व एव पशवः पशुशब्दवाच्याः तावदत्रैकः पदार्थः पशुरित्युच्यते।

पाशास्तु
।क़ुओते{तेस्तिमोनिउम्:

पाशस्तु मलकर्ममाययोस्तेषां पशूनां
त्रिविधा। इति रामकण्ठे (सिच्)
।इसन। वोल्।इइइ, प्।२३।}
मलकर्ममायीयाः ते षां पशूनां त्रिविधाः।
तथा हि विज्ञानकेवलिनो मल एव। प्रलयकेवलिनो मलः कर्म च।
सकलस्य तु मलकर्ममायीयाः पाशाः।
कस्यचिच्च विज्ञानयोगसन्न्यासैर्भोगाद्वा कर्मक्षयतः संस्कारवशेनैव
।क़ुओते{विज्ञानयोगसन्न्यासैर्भोगाद्वा कर्मक्षयतः
च्फ़्। {परमोक्षनिरासकारिका} ५५च्द्,
wहिछ् रेअद्स् भोगाद्वा कर्मणः
क्षयात् तो गिवे अ मेत्रिचल् लस्त् {पाद}।}
चक्रभ्रमणवद्धृतशरीरत्वान्मलमायीयावेवेति सर्वमेतद्वक्ष्यामः।
तत्र मल एक एवानेकपुरुषावारकानेकशक्तिः।
न पशुतत्त्वात्तत्त्वान्तरं तेन विना पशुत्वायोगात्।
वस्त्वन्तरं तु भवत्येव। कर्मापि न तत्त्वान्तरं धर्मादिभावाष्टकभेदेन प्रकृतिसंस्काररूपत्वात्तेन विना प्रकृतेर्बन्धत्वायोगात्।
प्रतिपुरुषमनुष्ठेयत्वेन भिन्नत्वात् विचित्रत्वादनेकप्रत्ययात्मनोपभोग्यमनन्तमेव।

मायीयस्तु कलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः प्रतिपुरुषं सूक्ष्मदेहात्मना भिन्नो नवत्यधिकशतत्रयभुवनात्मना चाभिन्नः प्रतिभुवनं भूतात्मक स्थूलदेहत्वेन भिन्नश्चाभिन्नश्च स्थूलदेहस्यात्मान्तरैरपि भोग्यत्वादित्यपि निवेदयिष्यामः। मायापि पाशयोनित्वात्पाशः। तिरोभावनशक्तिरपि मायागर्भाधिकारीश्वराभिव्यक्ता पाश एवेत्येतावदर्थजातमत्र द्वितीयः पदार्थः पाश इत्युच्यते।

पतिस्तु भगवान् शिवसदाशिवरूपतत्त्वद्वयभेदेन भुवनपञ्चकभेदेन
।क़ुओते{भुवनपञ्चकभेदेन वक्ष्यमाणः

।किर्। ८:१३९–४१।}
वक्ष्यमाणः परमेश्वरः सह मुक्तैस्तृतीयः पदार्थः कथ्यते। ज्ञानपदेन च ज्ञायते ऽनेनेति कृत्वा शक्तिपदार्थो ऽत्रेश्वरतत्त्वत्वेन वक्ष्यमाणभुवनचतुष्टययुक्तश्चतुर्थो ऽभिधीयते।
।क़ुओते{वक्ष्यमाणभुवनचतुष्टययुक्तः
।किर्। ८:१३८च्–१३९अ।}
तदधिष्ठानं विना पुंसां ज्ञानानुत्पादात्।
तथा च श्रुतिरपि धियो यो नः प्रचोदयादिति।
।क़ुओते{धियो यो नः प्रचोदयात्
{Ṛग्वेद} ३।६२।१०।}

विचारयति पुरुषकर्मानुसारेण जगतः साधारणासाधारणात्मनः सृष्टिसंहारादिकमिति विचारो ऽत्र पञ्चमपदार्थतया विद्या विद्येशात्मकतत्त्वद्वयरूपषड्विंशतिभुवनभेदभिन्नो ऽर्थराशिः प्रतिपाद्यते।
एषां पञ्चानां पदार्थानां प्रतिपादकं शास्त्रं विद्यापादात्मकं शृण्विति प्रतिज्ञातार्थानुषङ्गः। न तु पशुपाशपतीनां यत् ज्ञानं यश्च विचारो ऽनुमानं तयोः प्रतिपादकमेतच्छास्त्रं शृण्विति व्याख्येयम्।
शास्त्रस्य शब्दात्मकत्वेनानन्वयात्। न हि शब्दात् ज्ञानं प्रतीयते। ।च्रुx वाचकत्वेनास्य वाच्यसङ्केतित्वात्।च्रुx । अपि त्वर्थ एव। ज्ञानं तु ततो ऽनुमेयम्।

अथ ज्ञानशब्दो ऽत्रार्थात्पश्वादिज्ञानहेतौ वाक्ये प्रयुक्तो विचारशब्दो ऽपि तदनुमानहेतौ लिङ्ग इति व्याख्यायते।
।च्रुx एवमपि रूढार्थत्यागेनानयोरत्र प्रवृत्तेरविशेषाद्वरं।च्रुx।
पदार्थ विषयतैव युक्तेति। पदार्थानां पञ्चत्वसिद्धिः। यदुक्तं श्रीमद्रौरवे

पदार्थाः पञ्च विख्याता विद्येशवदनोद्भवाः।
।क़ुओते{पदार्थाः।देव्दोत् समासतः

।रौस्। ४:४८; च्फ़्।
विधिः क्रिया कला योगः शिवश्चेति समासतः।
पदार्थाः पञ्च विज्ञेयाः शैवशास्त्रे ह्यनुत्तरे
क़ुओतेद् ब्य् अलक अद् {हरविजय} ६:१४७।}

विधिः क्रिया कलायोगौ शिवश्चेति समासतः।

इति पूर्वैव व्याख्या युक्ता। क्रिया करणं संस्करणं दीक्षेति। चर्या चरणं नित्यादिकर्मानुष्ठानं ताभ्यां समं तुल्यत्वेनोपेतं क्रियाचर्यात्मकपादद्वय युक्तमप्येतच्छास्त्रं शृण्वित्यर्थः।
यो योगश्चेतसो ध्येयेनार्थेन सम्बन्धस्तद्विषयः समाधिरेकाग्रतारूपो वा
तस्य भूतिः प्रत्याहाराद्यङ्गावैकल्येन भवनं तस्याभरो ऽनन्तफलाविर्भावः
तमावहति यच्छास्त्रं तच्छृण्विति चतुर्थस्य पादस्य प्रतिज्ञेत्यर्थादत्र पादसङ्ख्यापि प्रतीता। क्रियादिपादत्रयप्रतिपाद्यश्चार्थः
षष्ठः पदार्थः कथ्यते यः श्रीमतङ्गादावुपायपदार्थत्वेनोक्तः।
अर्थतथात्वस्थितिश्च संहितान्तरात्संहितान्तर संशयविषयेषु युक्तैककर्तृकत्वाच्छ्रुत्यादिशास्त्रेष्विवेत्य दोषः।
तदेवं

चतुष्पादमिदं शास्त्रं षट्पदार्थाभिधायि च।

इत्य स्यानुषङ्गिकस्य प्रतिज्ञासूत्रस्यार्थः॥

अत्र पूर्वः पक्षः


गरुड उवाच
यद्येवं स पशुस्तावत्- कीदृशो बध्यते कथम् ।
मुच्यते कथमाख्याहि सन्देहविनिवृत्तये ॥ किर्त्_१।१४ ॥


रामकठः

यद्येवं पश्वादयः षट्पदार्थास्त्वया व्याख्येयत्वेनोद्दिष्टाः।
तत्र यः प्रथमपदार्थत्वेन सङ्गृहीतः पशुः स कीदृश इति तस्य तावल्लक्षणं वक्तव्यं यतः
सौगतैरसौ प्रतिक्षणं ध्वंसित्वेन विज्ञानसन्तानात्मकः।
वेदान्तविद्भिश्च कैश्चिद्ब्रह्मकार्यत्वेनानित्य इष्यते।
नैयायिकादिभिस्तु नित्यः। तथा चार्वाकैश्चतुर्महाभूतात्मकः।
वैशेषिकादिभिस्तु तद्विलक्षणः। तथा साङ्ख्यैस्तु बद्धावस्थायां मुक्त्यवस्थायामिव ज्ञत्वस्वभावश्चाकर्ता च।
जैमिनीयादिभिस्तु ज्ञः कर्ता चेति।
नैयायिकादिभिश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारैर्नवभिर्गुणैर्युक्तः।
साङ्ख्यैस्तु निर्गुणः। एवं पुरुषकारवादिभिः प्रभुः स्वतन्त्रः । दैववादिभिश्चास्वतन्त्रः। तथा दिगम्बरैर्जीवोत्पत्तिवादिभिश्च वेदान्तविद्भिरव्यापकः। नैयायिकादिभिश्च व्यापक इत्येवमनेकाप्रतिष्ठितकुयुक्त्यधिगमात्संशयो ऽस्माकम्।
ततस्तन्निवृत्त्यर्थमाख्यातव्यं भवता को ऽत्र पक्षः सर्वज्ञेनानेन दर्शनेनानुगृहीतो य आगमसंवादित्वात्प्रमाणं
को वाननुगृहीतो य आगमविरुद्धत्वादप्रमाणमिति।
किञ्च बध्यते कथमिति केन प्र कारेण। किं नैयायिकादीनामिव शरीरेन्द्रियैरेवाथ साङ्ख्यादीनामिव बुद्ध्यादिभिरपीति संशयः।
किञ्च मुच्यते कथमिति किं ज्ञानेनैव साङ्ख्यादीनामिव। किं योगेन पातञ्जलादीनामिव सन्न्यासेन वा वेदान्तवादिनामिव क्रियया वा जैमिनीया नामिव।
यदाहुः

नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया।
।क़ुओते{नित्यनैमित्तिके।देव्दोत् काम्यनिषिद्धयोः

।स्लोक। {सम्बन्धाक्षेपपरिहार} ११०।}

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः॥ इति।

एवमत्रापि सन्देहो ऽतस्तन्निवृत्तये वक्तव्यमिति॥

अथ सन्देहाष्टकनिवृत्तये सिद्धान्तः॥


भगवान् उवाच
पशुर्नित्यो ह्यमूर्तो ऽज्ञो निष्क्रियो निर्गुणो ऽप्रभुः ।
व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः ॥ किर्त्_१।१५ ॥


रामकठः

नित्यत्वश्रुत्यात्र सौगतादिमततिरस्कारेण नैयायिकादिदृष्टहेतूनामनुग्रहः।
किं चामूर्त इति। मूर्तिः काठिन्यं विद्यते यस्य स मूर्तः स्पर्शवदर्थः
महाभूतचतुष्टयात्मक उच्यते तद्रूपो न भवतीति भूतचैतन्यवादितिरस्कारेण तद्वैलक्षण्यप्रतिपादकसौगतादिदृष्टहेतूनामनुग्रहः।
अपि चाज्ञो निष्क्रिय इत्यकलावस्थायां
ज्ञानक्रियारहित एव सक लावस्थायां
चालवणः सूप इतिवदल्पज्ञो ऽल्पक्रियश्चेति साङ्ख्यादि प्रतिक्षेपेण
जैमिनीयादिपक्षानुग्रहः।
निर्गुण इत्यनेन तु नैयायिकादिदृष्टबुद्धिसुखदुःखादिनवात्मगुणप्रतिक्षेपेण साङ्ख्यादिदृष्टस्य निर्गुणत्वस्यानुग्रहः।
अप्रभुरित्यने नाप्यल्पप्रभुत्वं प्राग्वदुच्यते।
इदानीमर्जनीयदृष्टादृष्टफलविचित्राग्निष्टोमादिकर्मविषय एव प्रभुः प्राग र्जितकर्मभोगे त्वप्रभुरेवेति पुरुषकारदैववादिनोर्द्वयोरप्येकांशितयानुग्रहः।
व्यापीत्यनेनाव्यापकजीवपुद्गलवादिप्रतिक्षेपेण तद्व्यापकवादिनैयायिकाद्यनुग्रहः। इत्यत एव सर्वान्यागमदर्शनज्ञत्वात् गरुत्मतो नात्रात्मनित्यत्वादिसिद्धौ हेतवः कथिताः।
तैर्विनापि स्थाणुपुरुष विषयसंशयस्य स्थाणुरयमित्याप्तवाक्यादि वास्यापि संशयस्य चक्रस्यान्यतरपक्षानुग्रहेण तदुक्तहेत्वनुग्रहेण वा निवृत्तिसिद्धेस्तेषामल नुपयोगात्।
यदिवानुभवसिद्धत्वमने नात्मनः प्रतिपाद्यते अनुभवसिद्धौ हेतूनामनुपयोगात् यथा घटो ऽयं लोहितः परिवर्तुल इत्यत्रानुभवसिद्धत्वान्नास्य हेतुः सम्भवति।
तथा ग्राहकात्मन्यपि परात्मप्रकाशकतयानुभवसिद्धेः स्थैर्यमनुभवसिद्धमेव तथावगमात्। इति किमत्र हेतुना कार्यम्।
न च क्षणिके तस्मिन्कालादाविव विभ्रमात् स्थैर्यमध्यारोपितमिति वाच्यम्।
स्वात्मनि क्रियाविरोधेनाविकल्पत्वाद्विकल्पानामध्यारोपासम्भवादिति दर्शितमस्माभिर्मतङ्गवृत्तौ
।क़ुओते{दर्शितमस्माभिर्मतङ्गवृत्तौ अद्

।मत्। ।व्प्। ६:२४अब्।}
तत एवावधार्यम् । न च स्थिरस्यार्थक्रियानुपपत्तिलक्षणेनानुमानेनात्र क्षणिकत्वं साधयितुं शक्यम् तस्याप्यसिद्धत्वादि दोषदुष्टत्वादित्यपि दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे।
।क़ुओते{दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे
अद् ।नर्। १:२२, प्प्।५२–५६।}
ततो ऽवधेयम्।

किञ्च अमूर्तत्वमस्य प्राग्वदेव मूर्तोपलक्षितस्पर्शयुक्तमहाभूताकारशरीरादन्यत्वं तद्ग्राहकतया प्रकाशनादित्यनुभवेनैव
भूतात्मनिषेधः।
अत एव भूतोद्भूताच्चास्य विलक्षणत्वेनानुभवान्न भूतेभ्यः समुत्पत्तिः।
प्रतिजन्म पूर्वतरजन्मानुभवसंस्कारोत्पन्नस्मरणपूर्वचेष्टादर्शनतो ऽनादित्वेन नित्यत्वेन सिद्धेश्चेति प्रदर्शितं रौरववृत्तिविवेके
।क़ुओते{इति प्रदर्शितं रौरववृत्तिविवेके परमोक्षनिरासकारिकासु

अद् ।परमोक्स। ४४–६।}
परमोक्षनिरासकारिकास्वस्माभिः। प्रोक्तञ्चान्यैः

आद्यः करणविन्यास ः प्राणस्योर्द्ध्वं समीरणम्।
।क़ुओते{आद्यः।देव्दोत् पूर्ववेदनाम्

।वक्य। १:१३०। क़ुओतेद् अद् ।परमोक्स। ४४ अन्द् ।नर्। १:१९, प्।४५।}

स्थानानामभिघातश्च न विना पूर्ववेदनाम्॥ इति।

तथास्य किञ्चिज्ज्ञत्वकर्तृत्वाल्पप्रभुत्वम् प्राग्वदनुभवसिद्धमेव। एवं निर्गुणत्वमपि बुद्धिसुखदुःखादीनां कादाचित्कत्वेनानुभवतो घटादेरिव ग्राह्यत्वेन तद्विरुद्धधर्मतयानुभवात्।
सर्वदैव हि क्रमेण युगपद्वानेकग्राह्यविषय ग्राहकरूपमप्यभिन्नमेवात्मतत्त्वमनुभवसिद्धमिति दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे।
।क़ुओते{इति

दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे
अद् १:२२, प्प्।५२–६।}
व्यापित्वमप्यस्य दिक्कालानवच्छेदेन तद्ग्रहीतृतया
प्रत्यग्रूपेण भासनात् न च ग्राह्येण घटादिनेव ग्राहकस्यावच्छेदो युक्तः। तदिदमाहुः

अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः।
।क़ुओते{अनवच्छिन्नसद्भावं।देव्दोत् विभुनित्यते

{तन्त्रवार्त्तिक} २।१।५।}

तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यते॥ इति।

अनुभवत एव सर्वधर्मयुक्तस्यास्य सिद्धिरिति दर्शयितुं नात्र हेतवः कथिताः। श्रुतिरप्येवमाह

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।
।क़ुओते{तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति

{कठोपनिषत्} ५:१५च्द्,
{श्वेताश्वतरोपनिषत्} ६:१४च्द्
अन्द् {मुण्डकोपनिषत्} २।२।११च्द्।}

इत्यविरोधः। तदेवं परस्परविरुद्धार्थानेकपशुदर्शनजनितं पशुविषयसंशयषट्कं तावदपाकृत्य स्वदर्शनप्रसिद्धमेवास्यावस्थाभेदेन स्थानवैचित्र्यमुच्यते।
मायाया उदरञ्चान्तश्च तयोः स्थित इति।
तत्र मायोदरे प्रलयकेवली स्थितः। मायाप्रान्ते तन्मस्तके तु विज्ञानकेवलीति भेदः। मायोदरमेवान्त इति तु व्याख्यायमाने विशेषणमफलमेव।
अत एव प्रलयकेवलिगतत्वेन प्रश्नो भविष्यति।
स्थितो मायोदरे कथमिति।
।क़ुओते{स्थितो मायोदरे कथम्

।किर्। २:६ब्।}
न तु मायोदरान्त इति। सकलस्तु भोगोपायः कार्यकरणादिस्तत्र चिन्तको ऽनुभवितेति तत्रस्थ उच्यते। यद्वक्ष्यति एवं तत्त्वकलाबद्धस्तन्मय इति
।क़ुओते{एवं तत्त्वकलाबद्धस्तन्मयः ।किर्।
१:१९अद्।}

अधुना बध्यते कथमित्यस्य संशयस्य निरासः॥


रामकठः

तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला ।


वृत्ति:
तस्येत्यनेन प्रकृतस्य पशोरेव परामर्शः।
नात्राशुद्धस्य मलयुक्तस्येति व्याख्येयम्।
नापि कलादियुक्तस्य सकलस्य अनुक्रमेण वक्ष्यमाणत्वात्।
अपि तु मलकर्मयुक्तस्येति ततो ऽयमर्थः — तस्य पशोर्मलकर्मयुक्तस्यैव कला सम्बन्धमायाति न तु कर्मरहितस्य विज्ञानकेवलिनः। यद्वक्ष्यति
भोगं भुङ्क्ते स्वकर्मत इति।
।क़ुओते{भोगं भुङ्क्ते स्वकर्मतः

।किर्। १:२०ब्।}
विशेषणोपादानसामर्थ्यादेवात्र विज्ञानकेवलिस्वरूपनिश्चयः।
कलायाञ्च भोग्यत्वं परिमितत्वमुच्यते। अत एव घटादिवदस्याः कार्यत्वाचेतनत्वयोः सिद्धिरिति।
कारणमस्याश्चतुर्थे ऽध्याये वक्ष्यति।
।क़ुओते{चतुर्थे ऽध्याये वक्ष्यति सेए ।किर्।
४:१७–२२।}
इह तु पुरुषं प्रति बन्धकत्वमात्रमेव प्रतिपाद्यते।
सा च शिवात्तेन सह सम्बन्धमायाति।
अत एवाचेतनत्वादस्वातन्त्र्येणेति एतच्च तत्त्वान्तराणां वक्ष्यमाणानामपि मन्तव्यं तेषामपि परिमितत्वात्। यद्वक्ष्यति
एवं तत्त्वकलाबद्ध इति।
।क़ुओते{एवं तत्त्वकलाबद्धः
।किर्। १:१९अ।}
ततो ऽयमर्थः—यद्यदचेतनं तत्तद्विशिष्टज्ञानक्रियायुक्तकर्तृप्रेरितमेवान्येन सह सम्बन्धमुपयाति घटादिवत्।
अचेतनं च कलाद्यतस्तदपि विशिष्टज्ञानक्रियायुक्तकर्तृ प्रेरितमेव पुंसा सम्बध्यत इति।
यश्चासौ कर्ता स शिव इति पतिपदार्थस्याप्यत्रैव निर्णयः।
न च वाय्वादिभिरनेकान्तः तेषामपि पक्षीकृतत्वात्।
स्थूलं विचित्रकं कार्यमित्यादिना
।क़ुओते{स्थूलं विचित्रकं कार्यम्
।किर्। ३:१२अ।}
तु तस्य कार्यत्वहेतुतो ऽपि निर्णयो भविष्यतीत्यविरोधः॥

ननु कलैव तावदसिद्धेति कुतस्तस्याः प्रेरणतः कर्ता सिध्यतीति। तत्रोच्यते

तयोद्बलितचैतन्यो विद्याख्यापितगोचरः ॥ किर्त्_१।१६ ॥
रागेण रञ्जितश्चापि प्रधानं च गुणात्मना ।
बुद्ध्यादिकरणानीक- सम्बन्धाद्बध्यते पशुः ॥ किर्त्_१।१७ ॥


रामकठः

तया कलयोद्बलितं मलनिवृत्तिद्वारेण समर्थीकृतं चैतन्यं यस्य पुंसः स तथोक्तः। एतदुक्तं भवति — वक्ष्यमाणस्य युक्तिसिद्धस्य पुंसो दृक्क्रियावरणात्मनो मलस्यावश्यं सकलावस्थायां कश्चित्परिमितो ऽर्थो निवर्त्तको ऽभ्युपगन्तव्यः।
अन्यथा प्रलय केवलिनां मुक्तानामिव संवेदनस्य किञ्चिद्विषयस्यानुभूयमानस्यानुपपत्तिः।
स च न तावत्पुरुषः प्राग्वदशक्तेः। नापि कर्म अत एव भोगान्यथानुपपत्तिसिद्धेश्च।
न हि यत्कार्यान्तरान्यथानुपपत्त्या संसिद्धसत्ताकमत्यन्तातीन्द्रियं
वस्तु तत्कार्यान्तरकारणत्वेन शक्यमध्यवसातुमनेकेन्द्रियादिकारणान्तरकॢप्तेरप्यभावप्रसङ्गात्।
अत एव नेन्द्रियादि नेश्वरो वेति यस्तस्य निवर्तकः सा कलेति कलालक्षणेन तावद्बन्धेन प्रथमं बध्यत इति।
तदनु विद्याख्यापितो गोचरो विषयो यस्य स तथोक्तः। विनिवृत्तमलस्यापि हि पुंसः स्मृतिप्रतिभाविकल्पादिवक्ष्यमाणबुद्धिवृत्त्यात्मकसंवित्तौ अवश्यं करणान्तरेण भवितव्यं संवित्तित्वादिन्द्रियार्थसंवित्तिवत्।
न चात्र बुद्धिः करणं कर्मत्वात्तस्याः।
न चाप्यहङ्कारादयः तेषां शरीरधारणादिक्रियान्तर करणत्वेन वक्ष्यमाणत्वादत्रापि करणत्वासिद्धेर् ।च्रुx इत्युक्तम्।च्रुx ।
अतो यत्तत्र करणं सा विद्येति बन्धान्तरसिद्धिः।
किञ्च रागेणाभिष्वङ्गात्मना रञ्जितो बद्धः।
अयमर्थः — यो ऽयं विषय विषयो रागो ऽभिष्वङ्गात्मको नायं विषयधर्मो ऽध्यात्मन्येव परिस्पन्द्दात्मकत्वाद्वीतरागाभावप्रसङ्गाच्च।
नाप्यवैराग्यलक्षणो बुद्धिधर्मः।
तस्य भावात्मकतया वासनारूपत्वेनावस्थितेरसंवेद्यत्वात्।
नापि तद्वृत्त्यात्मकः अभिलषणीयतानुसन्धाने ऽपि वीतरागस्य तददर्शनात्।
नापि कर्मादीनां मलनिवृत्त्यादिवदित्युक्तम्।
पारिशेष्याद्यस्य धर्मः स रागो ऽन्यो बन्धः।

ततः प्रधानं सत्त्वादिगुणाकारेण स्थूलभुवनाकारेण च
सम्बध्यते। चशब्दात्कालादीन्यपि वक्ष्यमाणपृथिव्यन्ततत्त्वसहितानि स्वस्वगुणात्मना भुवनाकारेण च सम्बध्यन्त इति।
तत्त्वसर्गवद्भुवनसर्गो ऽप्यत्र बन्धत्वेनोक्तः।
ततश्च बुद्ध्यादीनि यानि साङ्ख्यादिप्रसिद्धानि बुद्ध्यहङ्कारमनोलक्षणानि करणानि च यानि च पञ्चबुद्धीन्द्रियपञ्चकर्मेन्द्रियरूपाण्यनीकं च यत्समूहात्मकं भूततन्मात्रात्मकं दशविधं कार्यान्तरं तत्सम्बन्धात् बद्ध्यत इति साङ्ख्यादिप्रसिद्धस्य बुद्ध्यादेर्वक्ष्यमाणप्रकारेण बन्धस्यानुग्रहः न तु वैशेषिकादिदृष्टस्य देहेन्द्रियात्मन एवेति।
अत एव चात्र दर्शनान्तराप्रसिद्धानां कलादीनामेव बन्धानां कार्यद्वारेणोपन्यासो ऽप्रसिद्धत्वादेव तत्प्रसिद्धानां चानुवादमात्रमेवेति न तेषां लक्षणानभिधानादव्याप्तिदोष इति।
अत एव नियत्यात्मनो ऽपि बन्धस्य कार्यद्वारेण स्वरूपम् उपन्यस्यते
ततो नियतीत्यादि


रामकठः

ततो नियतिसंश्लेषात् स्वार्जिते ऽपि नियम्यते ।


रामकठः

ततः कार्यकरणसम्बन्धादनन्तरं नियत्या यः संश्लेषः सम्बन्धस्ततो हेतोः प्रागर्जिते कर्मफले नियम्यते पुरुषः।
अयमर्थः—कर्मफलं प्रति नियमः पुंसां न कर्महेतुकः तस्य कृष्यादिकर्मवत् स्वफलजननमात्र एवोपयोगात्।
नापि तत्त्वान्तरहेतुः स्वकार्यैरेव तेषां सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावादित्युक्तम्।
अतः कृष्यादौ राजनियुक्तेनेवात्रापि केनचिन्नियामकेन भवितव्यम्।
यो ऽसौ नियामकः स नियत्याख्यो ऽपरो बन्धः।
अत एवास्य मायाकार्यत्वेन वक्ष्यमाणस्यापि कार्यकरणसम्बन्धोत्तरकालं व्यापार इति पश्चादत्र निर्देशः। तथा कालस्यापीत्यदोषः।

अथ कीदृशो नियत्या नियम्यत इत्युच्यते।


कालेन कालसङ्ख्यान- कार्यभोगविमोहितः ॥ किर्त्_१।१८ ॥


रामकठः

कालस्य सम्बन्धि यत्सङ्ख्यानलक्षणं कार्यं चिरक्षिप्रादि न तु दिशः क्रोशयोजनादि नापि सङ्ख्यायाः शतसहस्रादि तेन हेतुना कालेन भोगे मोहितो यः स नियत्या नियम्यते। कालस्यापि भोगहेतुत्वात्। यदाहुः

चिरेण बत लब्धासि न जाने करवाणि किम्।
।क़ुओते{चिरेण बत।देव्दोत् निगिरामि किम्

सोउर्चे उन्क्नोwन्। अल्सो क़ुओतेद् wइथ्
भवन्तीं फ़ोर् पिबामि अद् ।मत्।व्प्। १२:२०–१, प्।३४६।}

प्रविशामि किमङ्गेषु पिबामि निगिरामि किम्॥ इति।

स च भोगहेतुत्वेनाप्रसिद्धत्वादत्र कार्यद्वारेणोपन्यस्तः। स्वरूपेण वैशेषिकादिसिद्धो ऽपि। यदाहुः

कालश्चिरक्षिप्रप्रत्ययलिङ्ग इति।
।क़ुओते{कालश्चिरक्षिप्रप्रत्ययलिङ्गः

च्फ़्। {पदार्थधर्मसङ्ग्रह} प्।६३, लिनेस् १५–१६।}
ओर् अ परफ्रसे ओफ़् {वैशेषिकसूत्र} २।२।७।}

यत्तु तस्य नित्यत्वादि तैर्गीयते यदाहुः
नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम्।
।क़ुओते{नित्यमेकं।देव्दोत् कालविदो विदुः

।वक्य। ३।९।१। अल्सो क़ुओतेद् अद् ।मत्।व्प्। १२:३–४, प्।३३७।}

व्यापारव्यतिरेकेण कालं कालविदो विदुः॥ इति।

तन्मायाकार्यत्वेन वक्ष्यमाणत्वात्
।क़ुओते{मायाकार्यत्वेन वक्ष्यमाणत्वात्

।किर्। ४:२२।}
भूतभविष्यद्वर्तमानभेदेन च भेदाद्यथेह नेष्यते तथोक्तं मतङ्गवृत्तावस्माभिस्तत एवावधार्यमिति॥
।क़ुओते{तथोक्तं मतङ्गवृत्तौ
छप्तेर् १२ ओफ़् थे ।व्प्।}

अथैषां कलादीनां तत्त्वरूपत्वमव्यापकत्वं स्थूलदेहपूर्वकत्वं चोच्यते


एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः ।
मायाभोगपरिष्वक्तस् तन्मयः सहजावृतः ॥ किर्त्_१।१९ ॥


रामकठः

तत्त्वानि चैतानि कलादिक्षित्यन्तानि प्रागुक्तानि कलाश्च ता इति
कार्यत्वेन वक्ष्यमाणत्वाद्व्यक्तत्वे सत्यव्यापकत्वात्।
।क़ुओते{कार्यत्वेन वक्ष्यमाणत्वात्

।किर्। ४:२२–३।}
यदुक्तं साङ्ख्यैः

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
।क़ुओते{हेतुमदनित्यम्।देव्दोत् विपरीतमव्यक्तम्

।सन्ख्। १०।}

सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥ इति।

ताभिरेवमुक्तप्रकारेण बद्धः सकल एवाप्राप्तबाह्यशरीरः प्रणष्टबाह्यशरीरो वा सूक्ष्मदेहतयेत्यर्थः।
व्यापकत्वे ह्येषां सूक्ष्मदेहत्वानुपपत्तिः। यदुक्तम्

अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिनेति।
।क़ुओते{अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना

।स्लोक। {आत्मवाद} ६२अब्।}

तत्त्वकलाबद्धः सन्स्थूलदेहसंयुक्तः किञ्चिज्ज्ञो भवति न तु तदबद्ध इति सकलस्य भेदान्तरप्रतिपादनेन भूतसृष्टेरपि बन्धत्वमुक्तम्।
स्थूलदेहयुक्तश्च पुमान्—मायायाः सम्बन्धी भुज्यते अनुभूयत इति मायाभोगो ऽनात्मन्यात्माभिमानरूपो यो मोहस्तेन परिष्वक्तो व्याप्तः सन् तन्मयो ऽनात्मन्यात्माभिमानमयो भवति।
न कार्यकरणेभ्यो व्यतिरिक्तमात्मानं मन्यत इति।
इदमेव तन्मायाया मोहकत्वमिति वक्ष्यामः।
।क़ुओते{वक्ष्यामः

।किर्व्। अद् २:१५।}
प्रोक्तं च श्रीमत्स्वायम्भुवे

इत्थं मायाञ्जनस्थो ऽणुर्निजदोषतिरस्कृतः।
।क़ुओते{इत्थं।देव्दोत् रञ्जितः

।स्वयम्। १:१४।}

याति तन्मयतां तेषु मायाभोगेषु रञ्जितः॥ इति।

मलस्य त्वावारकत्वमेव बन्धकत्वं चक्षुषः पटलादेरिव प्रलयकेवलाद्यवस्थायां सिद्धमित्युक्तम् सहजेन मलेनावृत इति॥

अथ कर्मबन्धः।


रामकठः

ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः ।


रामकठः

ततः स्थूलदेहसम्बन्धादनन्तरं प्रागर्जित शुभाशुभकर्मजनितभावप्रत्ययात्मना सुखदुःखादिकं फलं भुङ्क्त इति भावसृष्टेः कर्मबन्धरूपत्वमुक्तम्।
तथा कृत्स्नं निरवशेषं सर्वकर्मक्षये ऽपि तत्संस्कारशेषेण चक्रभ्रमवद्धृतशरीरत्वात्तत्संवेदनमात्रं भोगं भुङ्क्त इति सकलस्यावस्थान्तरं बन्धत्वेनोक्तम्।
तदियता बध्यते कथमित्येतत्प्रश्नस्य निरासाय पाशपदार्थः सर्वो ऽभिहितः॥

अधुना मुच्यते कथमित्येतस्य समाधिः।


समे कर्मणि सञ्जाते कालान्तरवशात्ततः ॥ किर्त्_१।२० ॥
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा ।
सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः ॥ किर्त्_१।२१ ॥
शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा ।


रामकठः

कालयति कृष्णतां नयति मलिनी करोतीति कालो मलः।
कालनीलादीनां पदानां वर्णविशेषाभिधायकत्वात्। यदाहुः

यन्न किञ्चिदपि तन्महात्मनः सङ्गमेन परभावमश्नुते।
।क़ुओते{यन्न किञ्चिदपि।देव्दोत् यन्नभः

सोउर्चे उन्क्नोwन्।}

चन्द्रमःकरनिपीतकालिम क्षीरसिन्धुरिव भाति यन्नभः॥ इति।

तस्यान्तरं परिणामस्तस्य वशः सामर्थ्यं तस्मात् कालान्तरवशात् यस्तीव्रः शक्तिपातो न त्वस्माद्भूतभविष्यदादिकालान्तरवशादिति ततःशब्दस्यार्थः।
मलपरिपाकस्यैव शक्तिपातहेतुत्वात्। यद्वक्ष्यति

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।क़ुओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः

।किर्। २:२९च्द्।}

श्रीमत्स्वायम्भुवे ऽपि

क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति॥ इति।
।क़ुओते{क्षीणे तस्मिन्यियासा स्यात्परं

निःश्रेयसं प्रति ।स्वयम्। १:१७च्द्।}

तेन यदस्य सममिष्टनिमित्तमनिष्टनिमित्तं च कर्म।
यदाहुः

न हृष्यत्युपकारेण नापकारेण कुप्यति।
।क़ुओते{न हृष्यत्युपकारेण।देव्दोत् उच्यते

सोउर्चे उन्क्नोwन्, बुत् फ़्रेक़ुएन्त्ल्य् चितेद्, ए।ग्।,
ब्य् ।अघ्। अद् ।रत्।
३१३–४ अन्द् इन् {सर्वज्।ञानोत्तरवृत्ति}, इफ़्प् त्। ९८५,
प्।३; ब्य् ।नरयन। अद् ।म्र्ग्।व्प्। ५:५, प्।१३६,
अन्द् इन् थे {अनुबन्ध} तो वोल्।१ ओफ़्
थे ।मत्। ओन् प्।५७९ अन्द् इन् थे {शतरत्नोल्लेखनी} प्।८२।}

यः समः सर्वभूतेषु जीवन्मुक्तः स उच्यते॥ इति।

तस्मिन् सञ्जाते सति गुरुणा मन्त्रगणेनेश्वरेणाचार्याधिकरणेन दीक्ष्यते नान्यथा।
तथाभूतकर्मसमत्वं विनाचार्यस्य शक्तिपातानिश्चयात्।
न त्वत्र कर्मणां विरुद्धफलानां साम्यं युगपत्परिपाकात्तीव्रवेगत्वेन वा व्याख्येयम्।
तन्निमित्तस्य शक्तिपातस्य मोक्षहेतुत्वाभावात्।
अत एवासौ विरुद्धकर्मद्वयापेक्ष सङ्कटात् पुंसां मोक्षहेतुः न बन्धान्तरात्तस्य प्राग्वदविशेषादिति दर्शयिष्यामः।
।क़ुओते{इति दर्शयिष्यामः

अद् ।किर्। ५:१२च्द् अन्द् एल्सेwहेरे इन्
थे चोम्मेन्तर्य् ओन् थे फ़िफ़्थ् {पटल}।}

स चैवं दीक्षितः सद्योनिर्वाणदीक्षया यदा भवति तदा शिववत्सर्वज्ञः सर्वकर्ता च किञ्चिज्ज्ञत्वहेतुभिर्बन्धैर्विवर्जितश्च भवति।
यदा त्वसद्योनिर्वाणदीक्षया दीक्षितो न पुनः संसारी यदा
पतितशरीरो भवति तदा शिवत्वव्यक्तिसम्पूर्णो भवति न प्रागारब्धकार्यकर्मभोगोपरोधे न सर्वात्मना बन्धक्षयस्य शिवत्वस्य व्यक्तेश्चाकरणादिति वक्ष्यामो येनेदं तद्धि भोगत इत्यत्र।
।क़ुओते{येनेदं तद्धि भोगतः

।किर्। ६:२०द्।}
शिवत्वस्य व्यक्तिरिह मोक्षः न तु सिद्धे सङ्क्रान्तिरावेशः समुत्पत्तिर्वेत्येतदप्यतः सिद्धम्।
एवं चेह दीक्षयैवेश्वरव्यापारात्मिकया पुंसां विमोक्षः न विज्ञानयोगसन्न्यासैः
।क़ुओते{विज्ञानयोगसन्न्यासैः
।परमोक्स। ५५च्।}
द्रव्यत्वाद्बन्धस्य चक्षुषः पटलादेरिव तेषां निवृत्तिहेतुत्वासिद्धेः।
अपि तु पटलादेश्चक्षुर्वैद्यव्यापारेणेवेश्वरव्यापारेण मन्त्रकरणेन दीक्षाख्येनैवेति ज्ञानविचारोपायपदार्थानामप्यत्रैव निर्णयः
सिद्धः।

अथ सर्वेषां प्रश्नसमाधानानामुपसंहारः।


एवं क्रमाद्विबद्धः सन् मुच्यते क्रमयोगतः ॥ किर्त्_१।२२ ॥
केवलः सकलः शुद्धस् त्र्यवस्थः पुरुषः स्मृतः ।


रामकठः

यदुक्तं बध्यते कथं मुच्यते कथमिति
।क़ुओते{।देव्दोत् बध्यते कथम्। मुच्यते कथम्

।किर्। १:१४ब्च्।}
च तत्रोक्तमेवं कलादिना क्रमेण विशेषतः सर्वबन्धेन बद्धः सकलीभूतो यः स मलपरिपाकशक्तिपातकर्मसाम्यतदनुमानदीक्षाक्रमेणैव मुच्यते।
ततश्च यो ऽक्रमेण बद्धो विज्ञानकेवली प्रलयकेवली वा स मलपरिपाकादनन्तरं शक्तिपातमात्रादक्रमेणैव मुच्यत इत्युक्तं भवति।
यदप्युक्तं स पशुः कीदृश इति तस्याप्युपसंहारः। केवलः कलादिरहितत्वाविशेषाद्विज्ञानाकलप्रलया कलभेदभिन्नो ऽप्येक एवोक्तः।
सकलस्तु कलादियोगाविशेषात्पूर्वं त्र्यवस्थो ऽपि प्रतिपादितो ऽत्रैकत्वेनोपसंहृतः।
शुद्धस्तु दीक्षितत्वाविशेषात्प्राक् सदेहादेहभेदेन द्विविधो ऽप्यत्रैकत्वेनोपसंहृत इति मुक्त्यवस्थाव्यतिरेकेणावस्थान्तरभेदतः संस्कार्याः षडत्र श्रीमद्रौरवादाविव त्रित्वेनोपसंहृताः। शुद्धस्यापि विद्यापदादूर्ध्वं संस्कार्यत्वात्। यदुक्तं श्रीमद्रौरवे

चेतनस्यापि शुद्धस्य क्षेत्रज्ञस्य शरीरिणः।
।क़ुओते{चेतनस्यापि।देव्दोत् इष्यते

नोत् त्रचेद्।}

ज्ञस्वभावात्मनो ऽकर्तुस्तस्य संस्कार इष्यते॥

इति सङ्क्षेपेण त्र्यवस्थः पुरुषो नित्यत्वादिध र्मयुक्त उपसंहृत इति।

यस्तु त्र्यवस्थः पुरुष इत्येतत्सूत्रमवस्थान्तरव्युदासपरत्वेन नियमार्थ इति व्याचष्टे तेन सकलस्य तावदवस्थाभेदेन भेदः प्रागुक्तः शुद्धस्य तु युक्तिसिद्धत्वादवश्याभ्युपगमनीय इत्यज्ञानत एव नियमः प्रदर्शितः।
यदपि विज्ञानकेवलिनो ऽसम्भवात् केवलावस्थाभेदो नोपपन्न इत्युक्तं तदप्य युक्तम्, तस्या सम्भवासिद्धेः।
तथा हि यो यद्बन्धव्यतिरिक्तो यस्य बन्धः स तद्व्यतिरेकेण तस्य सम्भवतीति निगडव्यतिरेकेणेव वैरदण्डादि कर्ममायीयबन्धव्यतिरिक्तश्च मलो भवद्भिरपि पुंसो बन्ध इष्यते।
न तदव्यतिरिक्तो नैयायिकादिभिरिवेति।
ततः केवलमलबद्धः पुरुषः सम्भवति। यो ऽपि तन्निराकरणाय प्रयोगो रचितो मलकेवलिनो कर्मबन्धेनापि बद्धा अनादिमलसम्बन्धित्वात्प्रलयकेवलिवदिति।
तत्र पक्षस्तावन्माता मे वन्ध्येतिवत्।
केवलमलबन्धत्वे कर्मणो ऽपि बन्धत्वानुपपत्तेः।
तदुपपत्तौ वा केवलार्थानुपपत्तितः स्ववचननिराकृतत्वाद्दुष्ट इत्ययुक्त एव।
यदाहुः

न तस्य हेतुभिस्त्राणमुत्पत्स्यन्नेव यो हतः। इति।
।क़ुओते{न तस्य।देव्दोत् हतः

सोउर्चे उन्क्नोwन्।}

आगमनिराकृतश्च। यदुक्तं श्रीमन्मालिनीविजयादौ

विज्ञानकेवलानष्टौ सर्गादाविच्छया पतिः।
।क़ुओते{विज्ञानकेवलानष्टौ ।मलिनि।

१:१९अ।}
।क़ुओते{सर्गादाविच्छया पतिः
।मोक्स। ७२द्।}

अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः॥ इति।
।क़ुओते{अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः

।मोक्स। ७८अब्।}

किञ्च यावत्प्रोक्तयुक्तिसिद्ध्यसम्भवात् विज्ञानकेवलिनो न निराकृतास्तावदयं
हेतुः सन्दिग्धविपक्षव्यावृत्तत्वात् अहेतुरेव।
यावच्चास्य हेतुत्वं न विनिश्चितं तावन्न ते निराकर्तुं शक्या इति इतरेतराश्रयाद्व्याप्त्यसिद्धेर्नास्य हेतुत्वम्। अत्र च हेतुत्वे प्रलयकेवलिनिरासे ऽपि हेतुत्वमेव। तेषामपि कलादिबन्धैर्भवितव्यम्। अनादिमलसम्बन्धित्वात्सकलवदिति।
साधु समर्थितः स्वनय इत्यलं स्वशास्त्रवेतालोत्थापकैः सह निर्बन्धेनेति।

अथ समस्तस्यास्य प्रकरणस्योपसंहारः।


पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि ॥ किर्त्_१।२३ ॥


वृत्ति:
पशुपदार्थो ऽत्रैवंविधः पश्वादिपदार्थपञ्चकयुक्तः प्रकर्षतो लक्षणेनोक्तः।
वस्तुतः पदार्थान्तराणां तादर्थ्येनैव प्रवृत्तिरिति किमन्यत्परिपृच्छसि।
सर्वं प्रागुद्दिष्टमत्रैव मया लक्षणेन
प्रतिपादितमित्यर्थः॥

।चोलो
इति श्रीनारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ प्रथमं प्रकरणम्॥