१२ यन्त्रोद्धारपटलः

गरुडः मातृका यदि संसिद्धा सर्वमन्त्रालया परा
विहितास्त्वीश ये मन्त्रास्तेषां मे लक्षणं वद १ समे मध्ये धराभागे सुगन्धकुसुमाकुले
क्रमाच्छक्तिं न्यसेत्तत्र नवखण्डविभागशः २ शक्तिमुद्धृत्य तामेव पूज्य पुष्पैः सुगन्दिभिः
उद्धरेच्छम्बरान्पश्चादाचार्यो मन्त्रविग्रहः ३ षोडशाच्छदकं पद्मं सहस्रात्तदलं तु वा
कर्णिकायां न्यसेत्कूटं कालयुग्मान्तसंस्थितम् ४ रुद्रबीजसमायुक्तं खण्डचन्द्रसमन्वितम्
न्यसेत्कूटं च तन्मध्ये भुक्तिमुक्तिफलप्रदम् ५ न्यसेत्क्रमाद्दलेष्वेव स्वरषोडशकं पुनः
क्रमादग्रारकेष्वर्णान्व्यापकं तु न्यसेत्परि ६ एतच्छक्रं यजेद्यस्तु सततं मासि मासि वा
गन्धाद्यैर्भक्तितः सोऽपि कालमुक्तः शिवं व्रजेत् ७ द्वितीयेन चतुर्थेन षष्ठद्वादशकेन तु
षोडशेन विभिन्नोऽयम्भवेत्कूटोऽङ्गपञ्चकम् ८ ह्रस्वा ब्रह्माणि विज्ञेया द्वियुक्तास्तु गणेश्वराः
त्रियुक्ता लोकपालाः स्युश्चतुर्थेऽष्ट्राणि कल्पयेत् ९ विद्येशानां शृणुष्वान्यल्लक्षणं मातृकात्मकम्
व्यापकं रेफसंयुक्तं चतुर्थस्वरसंयुतम् १० बिन्दुयुक्तमनन्तस्य वाचकत्वेन संस्थितम्
रेफवर्णयुतं शान्तं षष्ठस्वरसमन्वितम् ११ बिन्दुदेहसमायुक्तं सूक्ष्मदेवस्य वाचकम्
मकारं विभुसंयोगाद्विसर्गाच्च शिवोत्तमः १२ शान्तवर्णान्तिमो वर्णो रेफयुक्तः सबिन्दुकः
षष्ठस्वरसमायुक्तः प्रोक्तो नेत्रैकनामनि १३ शवर्णान्तान्तिमो वर्णो रान्तान्तेन समायुतः
द्वितीयस्वरसंयुक्त एकरुद्रः सबिन्दुकः १४ भान्तान्ताधः स्थितो रान्तो द्वादशान्तेन भेदितः
बिन्दुना भूषितो मूर्ध्नि त्रिमूर्तेर्वाचको मतः १५ षष्ठस्वरयुतः शान्तः सबिन्दुः सान्ततः स्थितः
श्रीकण्ठ एष विख्यातस्ततः शृणु शिखण्डिनः १६ लान्तान्तिमश्चतुर्थेन भूषितो बिन्दुसंयुतः
समासेन मया तार्क्ष्य विद्येशाः परिकीर्तिताः १७ कूटमीकारसंयुक्तं बिन्दुनादविभूषितम्
गयत्री चैव सावित्री किं तु रेफविशेषणम् १८ ॐकारादिनमोन्तांश्च ज्ञात्वा मन्त्रान्प्रयोजयेत्
स्नात्वा शुद्धः पठेन्मन्त्राञ्छुचिः प्राग्भोजनात्परः १९ द्वयोरप्यन्यथा दोषो भवेदुच्छिष्टसम्भवः २० इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे यन्त्रावतारो द्वादशः पटलः समाप्तः विद्यापादः समाप्तः