११ मातृकोत्पत्तिपटलः

गरुडः ज्ञानमेकं कथं भिन्नं न ज्ञातं तत्स्फुटं मया
एतद्ब्रूहि महादेव ज्ञानमूलं यतोऽखिलम् १ एकं नादात्मकं ज्ञानमोमित्येव स्थितं परम्
सा शिखा बिन्दुवक्त्रस्य गलाङ्गस्य महात्मनः २ प्रोक्तं श्रुतौ परं ब्रह्म चोदितोऽत्राक्षरालयः
स्थितोऽव्यक्तः स वाग्रूपः पुनर्भिन्नस्तु खण्डशः ३ नवखण्डयुतश्चाद्यः पुनः षोडशभिः स्वरैः
दशार्धाक्षरनिष्णाताः पञ्चखण्डा व्यवस्थिताः ४ खण्डद्वयं चतुर्वर्णं शेषं कूताख्यया स्थितम्
एवं ज्ञेयं शतार्धात्म वर्णशक्तिविभेदतः ५ मातेव मातृका सैव सङ्ख्याज्ञानादिभेदगा
तर्ककाव्येतिहासस्था सर्वं व्याप्य व्यवस्थिता ६ शिवज्ञानप्रभेदेन स्थितैका नामभेदतः
बिसिनी यद्यथा भिन्ना रुद्रभेदात्परा सती ७ तद्भेदाज्ज्ञानभेदोऽपि भाक्तः प्रोक्तोऽर्थतो नहि
गद्यपद्यादिकाव्या ये गेया देशानुगाश्च ये ८ बीजपिण्डकलाकूटमन्त्रशक्तिविनिर्गता
शक्तिर्वागीश्वरी तस्य वाङ्मयं व्याप्य संस्थिता ९ विज्ञेया मातृका सैव सर्वमन्त्रालया परा
एवमस्य विभेदोऽयं ज्ञानस्योक्तो मया तव १० इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे मातृकोत्पत्तिपटल एकादशः

१२