गरुडः
किमर्थं तानि वक्तीशः कस्मिन्काले कियन्ति वा
के ते केषाम्ब्रवित्येवं सर्वमेतद्ब्रवीहि मे १
भगवान्
तानि वक्ति स मुक्त्यर्थं न मुक्तिः साधनादृते
साधनं तत्र संसिद्धं तदर्थं तानि सोऽब्रवीत् २
सृष्ट्यनन्तरमेवेशः शिवान्सृष्ट्वा दशात्मजान्
ज्ञानमेकं विभज्याशु तेषां तत्सङ्ख्ययावदत् ३
कामिकं प्रनवाख्यस्य सुधाख्यस्य च योगजम्
दीप्ताख्यस्याप्यचिन्त्यं तु कारणाख्यस्य कारणम् ४
अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम्
सूक्ष्मन्तु सूक्ष्मसञ्ज्ञस्य कालस्यापि सहस्रकम् ५
सुप्रभं यद् दशेशस्य अंशुसञ्ज्ञस्य चांशुमत्
एवं प्राथमिकः प्रोक्तः पुनरन्यो गुरुक्रमः ६
प्रणवात्त्रिकलः प्राप कामिकं त्रिकलाद्धरः
सुधाख्याद्योगजं तन्त्रं भस्मसञ्ज्ञस्ततः प्रभुः ७
दीप्तरुद्रादचिन्त्यं तु गोपतिश्च ततोऽम्बिका
कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः ८
अजितं सुशिवात्प्राप्तमुमेशो ह्यच्युतस्ततः
ईशाद्दीप्तं त्रिमूर्तिस्तु ततः प्राप्तो हुताशनः ९
सूक्ष्मं सूक्ष्माद्भवः प्राप्तस्ततः प्राप्तः प्रभञ्जनः
कालसञ्ज्ञात्सहस्राख्यं भीमो धर्मस्ततः खग १०
दशेशात्सुप्रभाख्यं तु विग्रहेशस्ततः शशी
अंशुमच्चांशुसञ्ज्ञात्तु प्राप्तो ह्युग्रस्ततो रविः ११
एवमेते समाख्याताः शिवभेदा दशाद्य ते
दशाष्टसङ्ख्यया रुद्रान्पूर्वमुत्पाद्य बुद्धिमान् १२
शिवस्तत्सङ्ख्ययैवेह पुनस्तान्बोधयेत्खग
रुद्रस्यानादिसञ्ज्ञस्य विजयं तन्त्रमुत्तमम् १३
पारमेशं महातन्त्रं श्रीपूपस्य प्रभाषितम्
निश्वासं यद्दशार्णस्य प्रोद्गीतं नाम शूलिनः १४
मुखबिम्बं प्रशान्तस्य बिन्दोः सिद्धमतो मतम्
शिवनिष्ठस्य सन्तानं सिंहं सौम्येशचोदितम् १५
चन्द्रभासमनन्तस्य भद्रं सर्वात्मनो मतम्
निधनस्य स्वयम्भूतं वीरजं तेजसः स्मृतम् १६
रौरवं ब्रह्मणेशस्य शिवाख्यस्य च मकुटम्
इदं देवपितुः ख्यातं ललितं चालयस्य तु १७
आग्नेयं यच्च तद्व्योमनः शिवस्यापि पुनः परम्
एते जाताः सह ज्ञानैः रुद्रभेदान्पुनः शृणु १८
प्राप्तश्चानादिसञ्ज्ञात्तु विजयं परमेश्वरः
श्रीरूपात्पारमेशं तु सम्प्राप्तो ह्युशना मुनिः १९
दशाक्षराच्च निश्वासं सम्प्राप्ता शैलसम्भवा
प्रोद्गीतं रुद्रसञ्ज्ञात्तु कचाख्यो मुनिसत्तमः २०
प्रशान्तान्मुखबिम्बं तु दधीचो नाम यो मुनिः
बिन्दुसञ्ज्ञात्तु यत्सिद्धं प्राप्तश्चण्डेश्वरो गणः २१
शिवनिष्ठाच्च सन्तानं सम्प्राप्तः शंशपायनः
नारसिंहं तु यत्सौम्यान्नृसिंहः प्राप्तवान्महान् २२
अनन्ताच्चन्द्रभासं तु प्राप्तो देवपुरोहितः
भद्रं सर्वात्मदेवाच्च वीरभद्रो गणो महान् २३
स्वायम्भुवं तु निधनात्सम्प्राप्तः पद्मसम्भवः
वीरजं तेजसः प्राप्तः प्रजारक्षणतत्परः २४
रौरवं ब्रह्मणेशात्तु सम्प्राप्तो नन्दिकेश्वरः
ईशानान्मकुटं प्राप्तो महादेवो बिलाश्रयः २५
किरणं देवपितृतः प्राप्तः संवर्तको मुनिः
आलयाल्ललितं प्राप्तो रुद्रो भैरवरूपवान् २६
आग्नेयं व्योमसञ्ज्ञात्तु सम्प्राप्तो हुतभुक्पुनः
शिवाख्यात्स महाकालः सौरभेयं पराह्वयम् २७
तन्त्रभेदो मया प्रोक्तो द्विविधाक्षिप्तलक्षणः
एषु भेदेषु यो भेद उपभेदः स उच्यते २८
अतिसङ्क्षिप्तविस्तीर्ण ऋषिदेवगणात्मकः
गरुडः
कस्मात्ख्यातोऽत्र भेदश्च भेदोऽयं चित्तभेदतः २९
पुम्प्रवृत्तेरयम्भेदः श्रोतॄणां तु विभेदतः
भगवान्
भेदोऽयमुपचारेण कल्पितः स यतस्ततः ३०
फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते ३१
इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे तन्त्रावतारपटलो दशमः
११