गरुडः
शिवतत्त्वं कथं शून्यं यच्छून्यं नाक्षगोचरम्
प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किञ्चन १
भगवान्
माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः
मायाधर्मैः शिवः शून्यः पशुमलवियोगतः २
नाभावाच्छून्यमित्युक्तमन्यापेक्षतयात्र तु
गृहमीशादृते यद्वत्तथासौ सात्विकैर्गुणैः ३
बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः
चेतसः स्थितिहेत्वर्थं पुनर्नित्ये स्थिरं भवेत् ४
अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मशक्तिलयं गतः
ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ५
अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम्
अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृत् ६
गरुडः
अनुभावो विकल्पार्थे विकल्पो मनसः स च
समनस्कमतो ज्ञेयममनस्कमरूपकम् ७
अज्ञात्वा देशिकस्तत्त्वं कथं दीक्षां करोत्यसौ
ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ८
भगवान्
क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत्
वस्त्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ९
विकल्पो मनसः सूक्ष्मः शून्यशक्तिलयं गतः
तद्गतस्त्वन्यविच्छिन्नस्तेनोक्तश्चित्तवर्जितः १०
ज्ञानं चात्मेन्द्रियश्लेषात्कर्ता त्वात्मा मनः क्रिया
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ११
प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते
रसादयो गृहीता नो तथेशो ज्ञानशक्तितः १२
गृह्यते तत्त्वभावेन वस्तुभावविवर्जनात्
तद्युक्तस्य प्रभुतत्त्वं भविष्यत्युदकैलवत् १३
शून्यमेवंविधं ज्ञेयं गुरुतः शास्त्रतः स्वतः
गरुडः
शास्त्रं च स कथं वक्ति निष्कलो वाग्विवर्जितः १४
सकलो वक्ति वा तन्त्रं स्वरूपेन तदाबलः
भगवान्
निष्कलः किं न कल्पोऽसौ यद्यकल्पः कथं जगत् १५
यथा तत्कुरुते शक्त्या तथा शास्त्रं न किं प्रभुः
किं नोपदेशदातृत्वात्सकलस्तेन स शिवः १६
यद्येवं न भवेत्तार्क्ष्य तदा न स्याद्गुरुक्रमः
पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः १७
बोध्यबोधकसम्बन्धाद्वक्ति तन्त्राण्यनेकधा १८
इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे शिवतत्त्वपटलो नवमः
१०