०८ भुवनपटलः

गरुडः अध्वा नः सूचितो देव न त्वयोक्तः स्फुटं मम
ब्रूहि तं येन विज्ञानं प्रक्रियातः परं भवेत् १ भगवान् अधः कालोऽन्तगो रुद्रो दशेशस्थानमध्यगः
पद्मश्चोर्ध्वमधोऽनन्तस्तथान्ये क्रमवर्तिनः २ ईश्वरः पिङ्गलः कालः क्रोदेशो जलदो बलः
धनदः शङ्करश्चैते रुद्रकोट्या समावृताः ३ यद्रूपो भगवान्कालस्तद्रूपा ऋद्धिसंयुताः
तद्रूपास्तीव्रतः तीक्ष्णाः कालोऽप्येवं विभूतिमान् ४ तद्गृहं कोटिसङ्ख्यातं तज्ज्वला दशकोटयः
निरालम्बं तदूर्ध्वं तु पञ्चकोटिमितं तमः ५ तदूर्ध्वं नरका घोराः क्षीणजन्तुसमाश्रयाः
चत्वारिंशत्समधिकं शतं तेषां प्रचोदितम् ६ द्वात्रिंशत्तत्र राजानो राजराजेश्वरास्त्रयः
रौरवोऽपि रुरुश्चान्यस्तमः शीतोष्णतापनाः ७ सन्तापः कमलाख्यश्च कम्बलो नीलसूत्रकः
सूचीमुखः क्षुरश्चैव खड्गतालवणोऽपरः ८ कुम्भीपाकोऽम्बरीशश्च तप्ताङ्गारः सुदाहकृत्
तप्तलाक्षारसो यश्च त्रपुलेपः पलाशनः ९ उच्छ्वासश्च निरुच्छ्वासस्तथा युग्ममहीधरः
शाल्मली क्षुत्पीपासाख्यः क्रिमीणां निचयोऽपरः १० लोहस्तम्भश्च विष्पूर्णो घोरो वैतरणी नदी
अवीची चोर्ध्वतः सर्वे चतुभेदगतास्त्विमे ११ अष्टभेदास्त्रयो ज्ञेयाः कुम्भीपाकश्च रौरवः
अवीची चैव पिण्डस्थं चत्वारिंशच्छतं मतम् १२ एकैकस्यान्तरं ज्ञेयं लक्षं नवतिसङ्ख्यया
एकलक्षोच्छ्रयाः सर्वे प्राणिनां बाधनाश्रयाः १३ तेभ्यस्त्रिंशत्सहस्राणि निरालम्बं स्थितं तमः
ऊर्ध्वे च नवनवतिलक्षं कुष्माण्डमन्दिरम् १४ नवलक्षोच्छ्रितादूर्ध्वं कुष्माण्डस्तत्र तिष्ठति
दिव्यस्त्रीभिर्वृतो घोरै रुद्रैश्चातिबलोट्कतैः १५ नवलक्षान्तरं गत्वा सप्तपातालकं भवेत्
त्रिखण्डं त्रिजनाकीर्णं हाठकाधिष्ठितं भवेत् १६ आदावाभासतालाख्यं जम्बूनदमयं महत्
क्रूरा नागाः सुरास्तत्र निवसन्ति सुभोगिनः १७ शङ्कुकर्णो महानादो नमुचिश्चेति दानवाः
अनन्तः कुलिकश्चैव एलापत्रश्च भोगिनः १८ नागकन्यासमायुक्तान्निवसन्ति न दुःखिताः
विकटः शूलदन्तश्च लोहिताक्षः पलाशनः १९ प्राक्खण्डे दानवा नागा द्वितीये राक्षसाः परे
निवसन्ति जनाकीर्णा दिव्यस्त्रीभोगसंयुताः २० दशलक्षोच्छ्रयं ज्ञेयं सहस्रदशविस्तृतम्
नवसहस्रकं तेषामन्तरालं सहस्रकम् २१ वरतालं भवेदूर्ध्वं पद्मरागधरालयम्
तत्र प्रह्लादोऽनुह्लादो वह्निजिज्वश्च दानवाः २२ असुरीभिः समायुक्ता मध्यतो नागनायकाः
वासुकिः शङ्खपालश्च धृतरष्ट्रो भुजङ्गमः २३ दिव्यैश्वर्ययुता व्याला भीमास्तस्मिन्सुखाः स्थिताः
विद्युन्माली तटिजिह्वो हिरण्याक्षश्च ते मताः २४ नितलं नाम पातालमिन्द्रनीलमयं ततः
शिशुपालोऽन्धकारश्च तारकाख्यश्च दानवाः २५ अत्यन्तबलभोगाढ्याः सर्वे तस्मिन्तथा स्थिताः
कम्बलश्चेतरस्तत्र पद्मश्चान्यो भुजङ्गमः २६ यमदंष्ट्रोग्रदंष्ट्रौ च विशालाक्षश्च भीषणः
तिष्ठन्ति भोगसम्पन्नाः स्त्रीसहस्रसमायुताः २७ सुभगं त्रितलं नाम ततोऽन्यं पुष्पभूमिकम्
महिषः कालपृष्टश्च दैत्यो नाम मयोऽपरः २८ कार्कोटपद्मनाभौ च घन्तानादः पलाशनः
महोदरो महाकायो महाबाहुर्बलोत्कटः २९ तत्र तिष्ठन्ति निर्दुःखा निर्द्वन्द्वा निर्भया मताः
महातलं तु यन्नाम रूप्यभूमिमयं ततः ३० दुन्दुभिस्तारकाख्यश्च सुपर्णोऽथ बलान्वितः
धनञ्जयः सुमाली च भद्रो नाम हि नायकः ३१ ज्वालास्यो वामनेत्रश्च वसत्युग्रो रतिप्रियः
पातालं नाम यच्चान्यत्सर्वरत्नाञ्चितं भवेत् ३२ शङ्कोदरो बृहद्भोगो ज्वालामाली महासुरः
दुर्दर्शनो दुर्मुखश्च श्वेतभद्रो महोरगः ३३ मेघनादोऽट्टहासश्च भीमो भीमपराक्रमः
विचित्रैश्वर्यसम्पन्नाः सुधान्नरससंयुताः ३४ अन्यद्रसातलं नाम सर्वेषामुपरि स्थितम्
मुक्ताफलमयी भूमिस्तस्मिन्भुवनभूषिता ३५ दीर्घिकोद्यानपुष्पाढया हेमप्राकारतोरणा
रसायनान्नस्त्रीयुक्ता सिद्धद्रव्यसमाकुला ३६ तत्रास्ते शबली बद्धो हरिणा वामनेन तु
तक्षको नागराजश्च रोहिताक्षश्च राक्षसः ३७ पातालकन्यकाश्चोर्ध्वमष्टलक्षमिताः स्थिताः
निहता दानवा यत्र पुनः प्रतियुगे युगे ३८ तास्तु तेभ्यः समाक्षृय स्थापिता हाथकाग्रतः
पातालकन्यकोर्ध्वे तु दशलक्षमितं तमः ३९ तस्योर्ध्वं नवलक्षैस्तु स्थितो वै हाठकेश्वरः
तद्गृहं हेमरत्नाढ्यं दिव्यस्त्रीभोगसंयुतम् ४० तद्ध्यानजपयुक्ता ये तद्भोगं प्राप्नुवन्ति ते
पातालद्वारपालित्वं तच्छिवेनास्य कीर्तितम् ४१ हठाद्भिनत्ति यन्त्राणि तेनायं हाठको मतः
पूर्वोदितप्रमाणेन स्थितः पातालसङ्ग्रहः ४२ ततोऽष्टशीतिलक्षाणि द्वे च कोटी प्रमाणतः
भूपृष्ठं सकटाहेन कोटिमानेन तत्समम् ४३ एवमेकीकृतं सर्वं पञ्चाशत्कोटयः स्थिताः
भूलोकस्तत्र विख्यातः सप्तद्वीपार्णवान्वितः ४४ जम्बूः शाकः कुशः क्रौञ्चः शाल्मली च तथा परः
गोमेदः पुष्कराख्यश्च सप्तद्वीपाः प्रकीर्तिताः ४५ क्षारः क्षीरो दधिः सर्पिरिक्षुर्मद्यपयोनिधिः
ततः स्वादूदकोदन्वान्तस्माद्द्विगुणतः स्थिताः ४६ लक्षयोजनविस्तीर्णं जम्बूद्वीपं समन्ततः
नवखण्डं च तज्ज्ञेयं मेरुमध्यं सपर्वतम् ४७ स मेरुर्हेमसम्भूतिः शरावाकृतिमस्तकः
प्रविष्टः षोडशाधस्तात्सहस्राणि सवर्तुलः ४८ उच्छ्रयेण सहस्राणामशीतिश्चतुरन्यथा
त्रिभिः सृङ्गैः समायुक्तो रुक्मकाञ्चनरत्नजैः ४९ कृष्णस्य राजतं शृङ्गं सौवर्णं ब्रह्मणो मतम्
रत्नजं शाङ्करं स्थानं तदधोऽमरसंस्थितिः ५० स्थितामरवती पूर्वे पुरी चेन्द्रस्य हेमजा
तेजोवती स्थिताग्नेय्यां वह्नेः कमललोहिता ५१ वैवस्वती यमस्यापि दक्षिणेऽञ्जनसन्निभा
रक्षोवती च नैरृत्यां निरृतेः कृष्णलोहवत् ५२ वारुण्यां शुद्धवत्याख्या वरुणस्येन्दुसन्निभा
वायव्ये गन्धवत्याख्या वायोर्मरकतात्मिका ५३ उत्तरे सर्वरत्नाढ्या कुबेरस्य महोदया
यशोवती स्थिता शुक्ला हरस्येशानगोचरे ५४ मेरोश्चैव चतुर्दिक्षु स्थितास्त्वन्ये महानगाः
पूर्वस्मिन्मन्दरो नाम दक्षिणे गन्धमादनः ५५ विपुलः पश्चिमे ज्ञेयः सुपार्श्वश्चोत्तरे स्थितः
कदम्बो मन्दरे ज्ञेयो जम्बूः स्याद्गन्धमादने ५६ अश्वत्थो विपुले ज्ञेयः सुपार्श्वे च वटो मतः
सरांस्युपवनान्यत्र पूर्वतश्चारुणोदकम् ५७ मानसं दक्षिणे ज्ञेयं शीतोदं पश्चिमे ततः
महाह्रादमुत्तरतस्ततश्चैत्ररथं वनम् ५८ मन्दनं तु सवैभ्राजं धृतसञ्ज्ञं क्रमात्स्थितम्
तत्र दक्षिणतो मेरोः स्थितमेतन्नगत्रयम् ५९ निषधो हेमकूटश्च हिमवानिति विश्रुतः
मेरोरुत्तरतोऽद्रीणां त्रितयं चापि संस्थितम् ६० नीलः श्वेतो गिरिश्चैव शृङ्गवान्नाम चापरः
सहस्रद्वयविस्तीर्णाः समुद्रावधयो मताः ६१ मल्यवान्पूर्वतो मेरोर्स्थितो योजनसङ्ख्यया
सहस्रविस्तृतस्तार्क्ष्य गन्धाख्यः पश्चिमे ततः ६२ नगान्नगान्तरं यच्च तद्देशो वर्ष उच्यते
हिमवत्सिन्धुमध्यस्थं भारतं चापवत्स्थितम् ६३ सहस्रनवसङ्ख्यातं वर्षं किम्पुरुषं पुनः
तदवाग्घेमकूटस्योत्तरतो हिमवद्गिरेः ६४ दीर्घं तच्च समाख्यातं ततस्तु हरिसञ्ज्ञकम्
उत्तरे हेमकूटस्य दक्षिणे निषधस्य च ६५ प्राक्प्रमाणं तु तन्मेरोः भद्राश्वं पूर्वतो भवेत्
अब्धिमाल्यवतोर्मध्ये द्वात्रिंशत्कसहस्रकम् ६६ मेरोः पश्चिमतो ज्ञेयं केतुमलं तु तादृशम्
गन्धाख्यस्य समुद्रस्य मध्ये मध्य इलावृतम् ६७ सुमेरोश्च चतुर्दिक्षु नवसहस्रविस्तृतम्
सुमेरोः पार्श्वतोऽत्राष्टौ सहस्राणि तथा पुनः ६८ सुमेरोरुत्तरे काम्यो नीलश्वेताद्रिमध्यगः
परं हिरण्यकं तस्माद्दीर्घं किम्पुरुषं यथा ६९ शृङ्गाद्रिश्वेतयोर्मध्ये श्वेतादूर्ध्वं हिरण्यकम्
शृङ्गाद्रेरुत्तरे ज्ञेयो जलधेर्दक्षिणे कुरुः ७० चन्द्रार्धवच्च तज्ज्ञेयं भारतं कीर्तितं यथा
भारतं तत्पुनर्ज्ञेयं नवखण्डयुतं ततः ७१ इन्द्रसञ्ज्ञः कशेरुश्च ताम्रवर्णो गभस्तिमान्
नागः सौम्यश्च गान्धर्वो वारुणश्च कुमारिका ७२ सुदीर्घे तत्र कन्याख्ये द्वीपे वर्णचतुष्टयम्
शेषाणि म्लेच्छयुक्तानि शतपञ्चायुतं च तत् ७३ तद्योजनसहस्राणि संलेच्छानीतराणि तु
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ७४ विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
अर्वाग् हिमवतः क्षारः शतानि नव तस्य हि ७५ अतिक्रम्य षडन्यानि द्वीपानि सुखदानि तु
अङ्गद्वीपं यमाख्यं च मलयं शङ्खसञ्ज्ञकम् ७६ कुमुदं वराहसञ्ज्ञां मलये मलयाचलः
तत्पादे हेमजा लङ्का पुरी क्रूरालया मता ७७ एवं समासतः प्रोक्तं जम्बूद्वीपमिदं खग
तस्यैव लक्षमात्रस्य क्षारोदस्तत्समो भवेत् ७८ क्षारोदाद्द्विगुणः क्षीरः क्षीरोदाद्दधिसञ्ज्ञकः
दध्नश्च सर्पिसञ्ज्ञश्च तस्माच्च द्विगुणो रसः ७९ रसात्तद्द्विगुनं मद्यं तस्मात्स्वादूदकं तथा
जम्बूद्वीपात्तथा शाकः शाकाच्च कुशसञ्ज्ञकः ८० कुशात्क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्तच्छाल्मलीति च
तस्माद्गोमेदसञ्ज्ञश्च गोमेदात्पुष्करं पुनः ८१ ज्ञेयं स्वादूदकं तत्र ततो भूमिर्हिरण्मयी
दशकोटिमिता ज्ञेया क्रीडार्थं स्याद्दिवौकसाम् ८२ तस्यां चाद्रिः परो ज्ञेयो लोकालोक इति श्रुतः
सहस्रदशविस्तीर्णो देशानामाश्रयो भुवि ८३ अर्वाग्लोको न लोकोर्ध्वं लोकालोकस्ततस्तु सः
तस्यापि परतो ज्ञेयो गन्धोदस्तु समुद्ररात् ८४ यत्प्रमाणं तु सर्वेषां तत्प्रामाणं ततस्तमः
सप्तत्यर्धेन कोटीनां लक्षान्येकोनविंशतिः ८५ चत्वारिंशत्सहस्राणि कोटिस्थौल्यात्कटाहकम्
तिर्यद्मेदिनीपर्यन्तं शतकोट्यर्धविस्तृतम् ८६ भूर्भुवः स्वर्ध्रुवान्तं स्याल्लक्षपञ्चदशान्वितम्
पञ्चाशीतिश्च लक्षानं कोटिद्वयमहो भवेत् ८७ कोट्यष्टकं जनो ज्ञेयस्तपो द्वादशकोटिकम्
दशषट्कोटयः सत्यं तस्मादूर्ध्वं प्रतिष्ठितम् ८८ तस्मादूर्ध्वं भवेद्ब्रह्मा कोटित्रयमितः खग
त्रिभिश्च कोटिभिर्विष्णुश्चतुर्भिश्च हरः स्थितः ८९ ब्रह्माण्डमूर्ध्वतः कोटिः स्थौल्यत्वेन व्यवस्थितम्
एषु लोकेषु तिष्ठन्ति भास्कराद्या ग्रहाः शुभाः ९० निवसन्ति सुराः सिद्धा विमानस्था महौजसः
भूलोकाद्यावदण्डं तु पञ्चशत्कोटयो मताः ९१ कालाग्निमादितः कृत्वा तद्वत्सङ्ख्योर्ध्वतः स्थिता
ब्रह्माण्डधारका रुद्राः शतसङ्ख्या विकल्पिताः ९२ एकैकस्मिन्दिशां भागे दशसङ्ख्या स्थितास्त्विमे
कपालिशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः ९३ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः
इन्द्रवीर्यं समाक्रम्य संस्थिताश्च सुपूजिताः ९४ अग्नी रुद्रो हुताशी च पिङ्गलः खादको हरः
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकौ ९५ अग्नेयां संस्थितास्त्वेते पूजितास्तेन रुद्रवत्
याम्यो मृत्युर्हरो धाता विधाता कर्तृसञ्ज्ञकः ९६ संयोक्ता च वियोक्ता च कालो धर्मपतिः स्मृतः
यमस्य बलमाक्रम्य यमेनैव सुपूजिताः ९७ निरृतिर्मरणो हन्ता क्रूरदृष्टिर्भयानकः
ऊर्ध्वशेफो विरूपाक्षो धूम्रो लोहितदंष्ट्रवान् ९८ निरृतेर्बलमाक्रम्य स्थितास्तेनैव पूजिताः
बलश्चातिबलश्चैव पाशहस्तो महाबलः ९९ श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः
बडबामुखभीमौ च वरुणेन सुपूजिताः १०० शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः १०१ वायोः प्रियाःसदा ह्येते दशरुद्रा महाबलाः
जटामकुटधारी च नानारत्नधरोऽपरः १०२ निधीशो रूपवान्धन्यः सौम्यदेहः प्रसादकृत्
प्रकाशकोऽथ लक्ष्मीवान्प्रकाशः सोमदेवताः १०३ विद्येशो ज्ञानवान्तज्ज्ञो वेदज्ञो मातृपिङ्गलः
भूतपालो बलिर्मित्रः सर्वविद्याधिपः सुधीः १०४ दुःखहृच्च ततो रुद्र ईशमित्रा इमे दश
अनन्तः पालको वीरः कपालीशो वृषध्वजः १०५ सुधीश्चैवोग्रशर्वौ च शुभ्रो वै लोहितोऽपरः
विष्ण्विशान महात्मानः सुखिनो मृत्युवर्जिताः १०६ शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः
संवाहश्च विवाहश्च नभो लिप्सुर्विचक्षणः १०७ एवं ते दशसङ्ख्योक्ता रुद्रा ब्रह्माधिदेवताः
ब्रह्माण्डं समतिक्रम्य जलं दशगुणं भवेत् १०८ अमरेशं प्रभासं च नैमिशं पुष्करं तथा
आषाढिं चैव दिण्डिं च भारभूतिं च लकुलि १०९ अतिगुह्याष्टकं ह्येतज्जलावरणसंस्थितम्
तेजस्तत्त्वं तदूर्ध्वं तु तेजोरूपजनाकुलम् ११० हरिश्चन्द्रं च श्रीशैलं जल्पमम्रातिकेश्वरम्
मध्यमं च महाकालं केदरं भैरवं तथा १११ अतिगुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम्
वायुतत्त्वं स्थितं तस्माद्दशधावृत्य तैजसम् ११२ गया तथा कुरुक्षेत्रं नाखलं नखलं तथा
विमलं चाट्टहासं च महेन्द्रं भीममष्टमम् ११३ गुह्याद्गुह्यतरं ह्येतद्वाय्वावरणमास्थितम्
तदूर्ध्वं भवति व्योम पञ्चमं रूपवर्जितम् ११४ वस्त्रपादं रुद्रकोटिमविमुक्तं महालयम्
गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थानुसञ्ज्ञकम् ११५ पवित्राष्टकमेतद्धि व्योमतत्त्वे प्रतिष्ठितम्
दशधा तदतिक्रम्य स्यादहङ्कारसञ्ज्ञकम् ११६ छगलण्डं द्विरण्डं च मकोटं मण्डलेश्वरम्
कालाञ्जरं परं चैव शङ्कुकर्णं स्थलेश्वरम् ११७ स्थूलेश्वरं च विख्यातमहङ्कारे प्रतिष्ठितम्
स्थान्वष्टकमिति ख्यातं तदूर्ध्वं बुद्धिसञ्ज्ञकम् ११८ पैशाचं राक्षसं याक्षं गन्धर्वं चैन्द्रं सौम्यकम्
प्रजेशम्ब्राह्मसञ्ज्ञं च देवयोन्यष्टकं मतम् ११९ बुद्धितत्त्वात्ततो गौणं तत्रादौ चाकृतं भवेत्
कृतं च भैरवं ब्राह्म्यं वैष्णवं च कुमारकम् १२० औमं श्रीकण्ठसञ्ज्ञं च गौणं योगाष्टकं मतम्
ततोऽव्यक्तं प्रधानं च महादेवाष्टकालयम् १२१ क्रोधेशश्चण्डसंवर्तो ज्योतिः पिङ्गलसूरकौ
पञ्चान्तकैकवीरश्च शिखेदश्च स्थितास्त्विह १२२ अव्यक्ताद्रागतत्त्वं तु शतधा व्याप्य संस्थितम्
महातेजो वामदेवो भवश्चोधव एव च १२३ एकपिङ्गेक्षनेशानौ भुवनेश्वर एव च
अङ्गुष्ठमात्रसहिता रागस्था वीर्यसंयुताः १२४ तत्रैव पुरुषो ज्ञेयः प्रधानगृहपालकः
रागतत्त्वात्तु विद्याख्यमशुद्धं पशुमोहकम् १२५ वामदेवोऽथ भीमश्च उग्रश्च भवसञ्ज्ञकः
सर्वेशानैकवीरश्च प्रचण्डश्चेश्वरः प्रभुः १२६ उमाभर्ता ह्यजोऽनन्त एकश्चैव शिवः पुनः
विद्यातत्त्वे स्थिता ह्येते रुद्राश्चातिबलोत्कटाः १२७ ततः कालनियत्याख्यौ सम्पुटौ व्याप्य लक्षधा
वामो हलाहलश्चैव क्रोधनो बडबामुखः १२८ उच्छुष्मः शम्बरश्चण्डा मतङ्गो घोररूपिणाः
अधस्तात्संस्थिता ह्येते तेभ्यः स्थूलगणोऽपरः १२९ वटरुद्रस्ततश्चान्यो हुलुलश्च ततोऽपरः
कालतत्त्वात्कला ज्ञेया लक्षायुतपरिच्छदा १३० वामो ज्येष्ठश्च रुद्रश्च कालश्चैव कलस्तथा
बलविकरणश्चान्यो बलप्रमथनोऽपरः १३१ दमनः सर्वभूतानां मनश्चोन्मन एव च
विग्रहेशसमायुक्ताः कलातत्त्वे व्यवस्थिताः १३२ तदूर्ध्वं तु भवेन्माया कोटिम्व्याप्य स्थिता ह्यधः
गहनोऽसाध्यनामा च तथा हरिहरावुभौ १३३ दशेशानश्च देवेशस्त्रिगलो गोपतिः पुनः
ते ह्यधः पुटसंस्थानादूर्ध्वं क्षेमीश उच्यते १३४ ब्रह्मस्वामी च विद्येशो विश्वेशश्च शिवस्तथा
अनन्तसहिता ह्येते मायातत्त्वनिवासिनः १३५ ततो विद्या च या शुद्धा कोट्ययुतगता मता
अनन्तश्च तथा सूक्ष्मः शिवश्चोत्तमसञ्ज्ञकः १३६ एकनेत्रैकरुद्रौ च त्रिमूर्तिरपरस्तथा
श्रीकण्ठश्च शिखण्डी च वामाद्या नवशक्तयः १३७ धर्माद्याश्चरणास्तत्र ततश्चेश्वरसञ्जकः
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च १३८ ईश्वरे तु स्थिता ह्येतास्ततस्तत्त्वं सदाशिवम्
तत्र ब्रह्माङ्गसङ्घातः पुनः शक्तिद्ययं भवेत् १३९ ततस्तन्निष्कलं तत्त्वं निर्गुणं निर्मलं शिवम्
अतीन्द्रियं स्थितं शुद्धं व्यापकं शून्यलक्षणम् १४० एवमध्वा समाख्यातः शिवान्तस्तार्क्ष्य ते मया १४१ इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे भुवनपटलोऽष्टमः