गरुडः
मन्त्राणां किं शिवो वाच्यः शक्तिर्वाच्याणवोऽथवा
त्रयमेकत्र वाच्यं वा तन्त्रान्तरविरोधि तत १
भगवान्
शिवो निमित्तभूतस्तु शक्त्यासौ प्रेरयत्यनून्
तृतीयं वाच्यमप्यत्र न ह्येकेन विनेतरम् २
यथौदनं पचस्वेति केनाप्युक्तोऽन्य एव तत्
करोति पचनं सोऽपि काष्ठादिकरणैर्युतः ३
शिवस्य हेतुकर्तृत्वं करणत्वमथाणुषु
कारणत्वं तथा शक्तेरेवमेषामिह स्थितिः ४
यथा तन्त्रीगतं गेयं पौरुषं व्यज्यते स्फुटम्
शैवी शक्तिस्तथानुस्था व्यनक्ति सकलां क्रियाम् ५
गरुडः
यद्येवं संस्थितः सोऽणुः शिवो वाच्यत्वमागतः
शक्तेरप्यविनाभावात्कल्पितैरणुभिश्च किम् ६
मन्त्राणां छेदनं प्रोक्तं बन्धनं कीलनं वधः
ताडनं भेदनं तृप्तिः शोषणं निगलार्गलम् ७
एवमेतानि चान्यानि तेन तेषां किमात्मनः
शक्तिर्नियामिका तेषामणूनामतिबोधिनी ८
तस्मात्कस्याणवस्तार्क्ष्य मुक्त्वा शिवपरिग्रहम्
गरुडः
सर्व एवोदिता मन्त्रा यत्कृत्यमिह कुर्वते ९
कर्मापेक्ष्य प्रकुर्वन्ति नेति वा वद मे स्फुटम्
भगवान्
न हि तेषां निमित्तं तु निरपेक्ष्याणवो मताः १०
ज्ञानोक्त्याप्यनुमन्तव्या दष्टदेहविधारणात्
कर्मणश्छेदकाः प्रोक्ता दीक्षासमयसंस्थिताः ११
विषादिकृत्यकर्तारस्तेन ते निरपेक्षिणः
विधिमेकमपेक्षन्ते सम्पूर्णावयवं शिवम् १२
गरुडः
एकस्योत्थापनं दृष्टं दष्टस्यान्यस्य नैव तत्
व्यभिचाराच्च मन्त्राणां स्थितं कर्म कथं न तत् १३
भगवान्
मन्त्राणां नियता शक्तिर्विधानं नियतं यतः
कृत्स्नकर्मकरा येऽत्र वैकल्यान्न हि तत्फलम् १४
सामग्रीविकलो यस्मिन्कुरुते कर्म साधकः
तत्रापि शक्तिमात्मीयां मन्त्राः प्रख्यापयन्ति हि १५
तेन विद्यास्तु ते प्रोक्ता — ऐरपि
सर्वज्ञा नित्यरूपास्तु इच्छारूपविधायिनः १६
गरुडः
नित्यत्वं यदि मन्त्राणां रूपभेदः कथं स्थितः
रूपभेदो यदा तेषामनित्यत्वं प्रसज्यते १७
भगवान्
कामदास्ते तथैवोक्ता रुचिरूपानुकारिणः
यादृशी साधकस्येच्छा तथात्मानं प्रकुर्वते १८
या सा तेषां च चिच्छक्तिः सान्यथा नैव जायते
स्वभावोऽयं बहिर्दृष्टो मन्त्राणां नटवत्खग १९
कृकलासो महान्यद्वद्दृष्टोऽस्ति बहुरूपधृक्
केनापि हेतुना तद्वच् न च शक्तिर्विनाशिता २०
एवं मन्त्रास्तु वाक्येन श्रद्धेयास्ते यथोदिताः
विचरन्ति शिवेच्छातश्चोदिता निखिलेऽध्वनि २१
गरुडः
अध्वा मार्गः समाख्यातो व्यापकत्वाच्छिवस्य न
यद्यध्वा कल्प्यते तस्य व्यापकत्वं तदा हतम् २२
भगवान्
येयं परिणतिर्योनेर्पशूनां बन्धकारणम्
विभूतिर्मोहिनी त्याज्या तदतीतः शिवो यतः २३
सर्वगोऽपि यथा वृक्षस्कन्धादूर्ध्वं शिखी स्थितः
दृष्टोऽत्र तद्वदेवायं शुद्धत्वादत्र वा परः २४
गुणाधिक्यात्परः प्रोक्ते विभुत्वेऽप्युपचर्यते
पृथिव्यादीनि तत्त्वानि भोगस्थानानि देहिनाम् २५
भुवनैः सह शोध्यानि क्रमयुक्त्या यथा तथा
एकस्माद्यत्परं स्थानं तस्मादन्यत्परात्परम् २६
यावत्तावच्छिवस्थानं लीयतेऽयं शिवे लयः
लये न गमनं पुंसः प्रोक्तं तस्य विभुत्वतः २७
यथा शुल्बं सुवर्णत्वं गतं तद्व्यपदिश्यते
तद्वत्प्रत्यपदिश्येत तत्सोऽपि शिवतां गतः २८
इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे मन्त्रपटलः सप्तमः
८