०६ दीक्षाकर्मपटलः

गरुडः

सर्वानुग्राहकः प्रोक्तः शिवः परमकारणः
द्विजादयस्तु ये वर्णा न्यूनाधिकतया स्थिताः १ संस्कारोऽपि यदैवं स्यात्फलमत्र न किं भवेत्
संस्कारो वा समस्तेषां न्यूनाधिकगतिः कथम् २

भगवान्

न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः
यदि जातेर्तदेकस्मिन्दीक्षितेऽखिलदीक्षणम् ३ तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः
सर्वानुग्रहकर्तृत्वाद्बालबालिशभोगिनाम् ४ कर्तव्योऽनुग्रहो देव स च संस्कारपूर्वकः
संस्कारेणैव मुक्तिः स्यात्प्रोक्ता तन्त्रे यदा तदा ५ क्रियाज्ञानव्रतादीनामुपायानामहेतुता

भगवान्

ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत् ६ केचिच्चात्र क्रियायोग्यास्तेषां मुक्तिस्तथैव हि
ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे ७ एवं येषां यथा प्रोक्तो मोक्षस्तेनेशयोजनात्
ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते ८ दीक्षयैवाविमोक्षः स्यादुपायः स नियामकः
एकः कस्मादुपायो यः प्रोक्तस्तेन यदन्यथा ९ समयं चाङ्गनादीनामशक्तत्वाद्विशोधयेत्
अज्ञत्वान्न च दोषोऽस्ति ज्ञात्वा दोषो महान्भवेत् १० तेन तेषां विमुक्तिः स्याद्भक्तियोगे शिवागमे
ये तु शक्ता न तेषां तु शोध्यास्तेषां प्रकाशयेत् ११ एवं ज्ञानादिकं सर्वं तच्छक्तस्य प्रकाशयेत्
अन्यथा स्थितिभङ्गः स्यात्स्थितिश्चोक्ता शिवागमे १२ तदभावे न किञ्चित्स्यात्तेनायं नियमः स्थितः
सर्वानुग्राहकत्वेन स्थित्युपायविवक्षया १३

गरुडः

पाशविश्लेषनादेव दीक्षापि क्रियते किल
विश्लेषोऽपि न दृश्येत न दृष्टत्वात्कथं वद १४

भगवान्

पाशस्तोभात्क्षयः सिद्धः संसिद्धैः सोऽपि शम्बरैः
शम्बरानामचिन्त्यत्वाद्यथा मूर्तविषक्षयः १५ नामसङ्कीर्तणादेव यथा कश्चित्प्रसाध्यते
दूरस्थैर्मन्त्रमुख्यैस्तु तद्वत्कर्मक्षयस्त्विह १६

गरुडः

अशेषपाशविश्लेषो यदि देव स दीक्षया
जातायामर्थनिष्पत्तौ कथं स्याद्वपुषः स्थितिः १७

भगवान्

जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् १८ अनेकभविकं कर्म दग्धं बीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः १९

गरुडः

पाशमुक्तस्य यच्चिह्नं स्वल्पमप्यत्र किं न तत्
दृश्यते भक्तिचिह्नेन न च चिह्नं क्वचित्स्फुटम् २० स्फुटं यत्र क्वचिद्दृष्टं तत्रापि व्यभिचारिता
प्रागुक्तं योजनं तस्य तद्युक्त्या ग्राहपूर्वकम् २१ विभुत्वात्तस्य नो ग्राहस्तथामूर्ततयापि च
महानत्र विरोधः स्यात्कथं तद्ब्रूहि मे शिव २२

भगवान्

तच्चिह्नं वासनानिष्ठा तत्कर्मण्यविकल्पनम्
तनुस्थं हि कथं चैतत्स्पन्देनाप्यनुमीयते २३ तच्चिह्नमादवन्ते च यदि तस्य सुपुष्कलम्
व्यभिचारः कथं तस्य वासनाहितचेतसः २४ वासनापि क्रियामूला सापि मन्त्रानुगा भवेत्
विभुत्वं खे यथा शब्दादमूर्तं हि विषं यथा २५ गृह्यते मन्त्रशक्त्यासौ वाच्यस्तच्छक्तिको गुणः
वाच्यवाचकयोगेन ज्ञेया मन्त्राणवः खग २६ इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे दीक्षाकर्मपटलः षष्ठः