गरुडः
शक्तिपाताद्भवेद्दीक्षा निपातो न विभुत्वतः
शिवस्य समावेतत्वात्सर्वदैव स्थिता पशौ १
स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेत्
कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम् २
भगवान्
उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते
यथा पुमान्विभुर्गन्ता नित्योऽप्युक्तो विनश्वरः ३
पासच्छेदो यथा प्रोक्तो मन्त्रराड्भगवाञ्छिवः
एवं शक्तिनिपातोऽपि भाक्तः प्रोक्तः शिवागमे ४
निपातो भयदो यद्वद्वस्तुनः सहसा भवेत्
तद्वच्छक्तिनिपातोऽपि प्रोक्तो भवभयप्रदः ५
तस्मादन्यत्र सा चैवं तथात्मा देशिकं प्रति
गुरुर्यथाग्रतः शिष्यान्सुप्तान्दण्डेन बोधयेत् ६
शिवोऽपि मोहनिद्रायां सुप्तान्शक्त्या प्रबोधयेत्
यदा स्वरूपविज्ञानं पतितेति तदोच्यते ७
तस्माद्भक्तेर्निपातस्य निपातश्छिन्नवाचकः
तन्निपातस्य तत्कालः कर्मणस्तुल्यतैव च ८
समत्वं तत्कथं गम्यं न्यूनाधिकत्रुटिः कथम्
एवं सूक्ष्मसमत्वं हि यस्मिन्काले तदैव सा ९
स्वरूपं बोधयत्याशु बोधचिह्नबलेन वै
कर्मांशो योऽधिकः पूर्वभोगदस्त्वितरः पुनः १०
समत्वे सति यो भोगः कथं तस्य प्रजायते
मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि ११
वक्तव्यश्चाधिकः कश्चिदन्यथा न सुखेतरम्
अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायते १२
अधिकन्यूनशून्यत्वाच्छक्तिमात्मा स गच्छति
स पात इति मन्तव्यस्तस्य भक्तिर्विलक्षणा १३
काल एव स निष्णातः शक्तेरात्मपरिग्रहात्
अनादिकर्मसम्बन्धाच्छिवः कालमपेक्षते १४
कालश्छिद्र इति प्रोक्तस्तज्ज्ञश्च भगवाञ्छिवः
यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते १५
तज्ज्ञोऽपि स शिवस्तद्वत्समकालमपेक्षते
अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा १६
नोपायसाधनापेक्षा क्रमो यदि स नेष्यते
प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं त्रुटेर्मतम् १७
प्रभुत्वं ज्ञस्वभावत्वादज्ञत्वान्न त्रुटिः प्रभुः
सति काले प्रभुत्वं यत्पद्मबोधे यथा रवेः १८
न च कालादृते तत्र विकासः प्रतिपद्यते
तथापि भास्करः प्रोक्तो लोकेऽस्मिन्पद्मबोधकः १९
एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः
तथापि प्रभुरत्रेशः शक्तिपातस्य हेतुतः २०
एका सती बहूनां सा कथं बोधं करोति चेत्
बहूनामप्यदोषः स्याद्विभुत्वान्न निवार्यते २१
एवं शक्तिसमायोगः प्रोक्तो ह्युद्देशतो मया
गरुडः
एवं तच्छक्तिसंयोगाद्दीक्षा यदि च संस्थिता २२
दीक्षितोत्तरकालेऽपि तिरोभावः प्रदृश्यते
तिरोभावकरी शक्तिर् यदि तस्य न निर्वृतिः २३
तथा करोतु स स्वामी यथासौ नान्यथा भवेत्
भगवान्
तिरोभावगतानां सा पुरुषाणां शिवेच्छया २४
न तिरोभावकर्तृत्वादुच्यते सा तिरोहिका
तिरोभवाय पातो न यतोऽनुग्रहधर्मिणी २५
येनासन्न असौ कालस्तेनात्मानं प्रकाशयेत्
प्रकाश्य याति विद्युत्वत्सा शक्तिः पुम्प्रबोधिनी २६
यदि सर्वात्मनैवायं दीक्षितोऽपि तिरोहितः
द्विविधेऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत् २७
तत्र स्थितस्य तस्येह वासना सैव जायते
तद्युक्तस्य विमोक्षः स्यादात्मनो निर्विकल्पकः २८
अनेन क्रमयोगेन तिरोभावगतो भवेत्
आनर्थक्यप्रसङ्गः स्याद्यदि मुक्तिर्न सा भवेत् २९
मन्दमन्दतरशक्तिकर्मसाम्यविवक्षया
न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी ३०
यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा
द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम् ३१
इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे शक्तिपातपटलः पञ्चमः
६