०४ पतिपटलः

गरुडः शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यति
प्रबोधिका तु सा शक्तिः सर्वगा परिपथ्यते १ अन्येषां सन्निकृष्टापि बोधं सा कुरुते न किम्
योग्यानामुपकारी चेद्रागवान्स्यात् शिवस्तदा २ भगवान् यथार्करश्मिसम्पर्कात्पद्मबोधः समो न किम्
कानिचित्प्रतिबुध्यन्ति तथान्यानि न जातुचित् ३ रागद्वेषौ न चार्कस्य तथेशस्य न तौ यतः
अधिकारान्नियोगोऽस्य न नियोगं विना स्थितिः ४ तत्सामर्थ्यादनन्तस्य सर्वज्ञत्वं भवेत्खग
गरुडः सर्वज्ञत्वं तनौ सत्यामनन्तस्य न युज्यते ५ नियतानि यतोऽक्षाणि नियतग्राहकानि च
मायात्मकं शरीरं तच्छिष्टकर्मनिमित्तकम् ६ यदि नाम विशेषः स्यात्सुदूरश्रवणादिकम्
भगवान्
शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् ७ तस्यैव पाशमुक्तत्वात् ज्ञानं केन निवार्यते
तत्स्थं सर्पविषं यद्वत्तद्गतं तं न बाधते ८ बाधतेऽनन्तमेवं न तद्गतः पाशसञ्चयः
छिन्ना छिन्नोद्भवा यद्वत्स्थानाश्रयवशाद्भवेत् ९ स्थानयोगेन मन्त्रेशे हठवत्तनुधारणम्
मन्त्रशक्त्या यथा देहो धृतस्तिष्ठति सर्वदा १० प्राप्नोत्यभीप्षितं स्थानं कालदष्टोऽपि शक्तितः
एवं तच्छक्तिसामर्थ्यादास्ते तस्य वपुर्यतः ११ असंस्पृष्टं मलैर्ज्ञेयं पद्मपत्त्रमिवाम्भसा
तन्त्रैरुपकृतः कल्यो यथा देहगतो रसः १२ स तिष्ठति शरीरेऽस्मिन्तद्वद्बोधो महाबलः
यथा भेषजसामर्थ्यादशक्तानां परं बलम् १३ एवं तच्छक्तिसामर्थ्यादनन्तस्य परं बलम्
तेन सामर्थ्ययोगेन योनिं सम्प्रेरयेत्क्षणात् १४ गरुडः प्रेरकोऽधस्तने मार्गे मायायाः प्रेरकेण किम्
स्वत एव विकारिण्या जगत्यस्मिन्विकारिणि १५ जगद्योनिर्यतः प्रोक्ता तद्विकारः कलादयः
विकारात्सर्वनाशः स्याद्विकारो न जगत्कथम् १६ भगवान् अचेतनत्वात्प्रेर्या सा पुरुषार्थेन हेतुना
स्वतो न विकृतिस्तस्मादनन्तोऽस्याः प्रचोदकः १७ वायुवेगाद्यथोदन्वानुपर्येव विकारभाक्
अक्षोभ्यत्वात्तथा माया तद्विकारः कलादयाः १८ नाक्षुब्धा कार्यकर्त्री चेत्क्षोभोऽस्याः स्यात्तदीरणम्
सा शक्तिः प्रेरिता तेन नित्यं कार्यकरी भवेत् १९ उक्ताक्षोभ्या विभुत्वात्सा कारणं जगतः स्थिता
भावान्कलादिकान्व्याप्य स्थिता क्षोभ्या ततः स्मृता २० तत्कार्यकरिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी
स्थूलकार्यासु सूक्ष्मापि स्थिता न्यग्रोधबीजवत् २१ कारणं तेन सा ज्ञेया स्थूलस्यास्य समन्ततः
तस्मात्कला त्रुटिः संस्था बोधिनी ह्यभिलाषकृत् २२ सूक्ष्मं चातो गुणास्तेभ्यो बुद्धिर्बुद्धेरहङ्कृतिः
तस्मादेकादशाक्षाणि पञ्चतन्मात्रकाणि च २३ तेभ्यो भूतानि जातानि सर्वमीशः सृजत्यधः
एवं तद्भिन्नसंस्थानं शुद्धाशुद्धाङ्गसंयुतम् २४ ज्ञेयं कारणशक्त्युत्थं कार्यं बीजनिमित्तकम्
एवमेतत्समुद्दिष्टं तत्कार्यं विग्रहाश्रयम् २५ यद्यप्येतन्मिथः कार्यं विरुद्धमसितात्मकम्
तथाप्येतत्सुसंश्लिष्टमेकस्मिन्वस्तुनि स्फुटम् २६ नरार्थं साधयेद्भिन्नं नरस्य शकताङ्गवत्
तस्मादेतदनन्तेन सृष्टं देहनिबन्धनम् २७ न देहेन विना मुक्तिर्न भोगश्चित्क्रिया गुरुः
एतच्च कुरुते शम्भुः स्वतन्त्रत्वाद्विभुत्वतः २८ सर्वानुग्राहकः शान्तः शक्तिपाताच्च दीक्षया २९ इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे पतिपटलस्तुरीयः