०३ कर्मपटलः

गरुडः भोक्तृत्वं मलतः प्रोक्तमभिलाषान्न किं भवेत्
स च रागादतो रागो वक्तव्योऽत्र मलेन किम् १ भगवान् भोक्तृत्वं नाम यत्प्रोक्तमनादि मलकारणम्
अभिलाषस्तनौ सत्यां सा तनुः केन हेतुना २ रागोऽपि तन्निमित्तत्वात्प्रवृत्तः पुरुषस्य तु
चौर्यं हि बीजमापेक्ष्य यथा निगलबन्धनम् ३ तथा पशुत्वमापेक्ष्य रागतत्त्वं प्रवर्तते
एतस्मादस्य भोक्तृत्वं तनुर्भोगोऽन्यहेतुजः ४ पशुत्वेन हि भोक्तृत्वं मायाबन्धस्तनन्स्थितः
सुखदुःखात्मको भोगः कर्मणः संस्थितः पशोः ५ नान्यथास्य विनिर्दिष्टं भोगभोक्तृत्वबन्धनम्
गरुडः
यदेतत्कर्म देवेश प्रोक्तं भोगनिबन्धनम् ६ कर्मार्जनं तनौ सत्यां सृष्टिकाले तनुः कृता
भगवान् यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् ७ यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना
तस्मादनादिकं कर्म मायाप्येवं भवेत्तथा ८ तथानादिः शिवः कर्ता सर्वस्य जगतः स्थितः
गरुडः शिवः कर्ता त्वया प्रोक्तः स कथं गम्यते प्रभो ९ वैकरण्यादमूर्तत्वात्कर्तृत्वं युज्यते कथम्
भगवान् यथा कालो ह्यमूर्तोऽपि दृश्यते फलसाधकः १० एवं शिवो ह्यमूर्तोऽपि कुरुते कार्यमिच्छया
इच्छैव करणं तस्य यथा सद्योगिनो मता ११ शल्याकृष्टिकरो दृष्टो ह्यक्षहीनोऽपि कर्षकः
न दृश्यतेऽस्य व्यापारः कार्यमेव प्रतीयते १२ स्थूलं विचित्रकं कार्यं नान्यथा घटवद्भवेत्
अस्ति हेतुरतः कश्चित्कर्म चेन्न ह्यचेतनम् १३ प्रोक्तः स निष्कलः स्थूलस्तथा सकलनिष्कलः
इशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते १४ गरुडः निष्कलः स कथं ज्ञेयः सकलोऽपि पुमान्भवेत्
द्विधाभावगतो योऽन्यो विरुद्धः स परस्परम् १५ भगवान् पशोः शक्तिनिपातेन मन्त्रशक्त्या च सर्वदा
निष्कलो लक्ष्यते शक्त्या सूक्ष्मविषविकारवत् १६ सकलोऽपि पुमान्नैव मायावयववर्जनात्
निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः १७ मन्त्रात्मिकाः कलास्तस्य ते च मन्त्राः शिवात्मकाः
तैः प्रकल्प्य शरीरं स्वं शुद्धाक्षाध्यसितं महत् १८ यावदेवं न कुरुते तावन्नो गुरुपद्धतिः
कुरुतेऽनुग्रहं देही सर्वेषामेव देहिनाम् १९ यथैव योगिनः शक्तिर्ग्रहणे मोचनेऽपि हि
तद्वदेवात्र बोद्धव्यं ग्रहनं मोचनं विभोः २० मुद्रामण्डलमन्त्रैश्च त्रिधासिद्धिविचेष्टितैः
लक्ष्यते सकलं ध्यानात्सर्वज्ञानप्रवृत्तितः २१ द्विस्वभावगतो योऽन्यो देहः प्रोक्तो न निष्कलः
बृहच्छरीरमापेक्ष्य कलाहीनमिति स्मृतम् २२ एवमीशः स्थितः सक्षाद्योगिनां योगकारणम्
योगो न लक्ष्यहीनत्वान्न नाडी न च धारणम् २३ पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः
नादबिन्दुखमन्त्राणुशक्तिबीजकलान्तगः २४ योगि यथोपकारज्ञः सर्वज्ञत्वात्फलप्रदः
इच्छानुग्रगकर्तृत्वाल्लयभोगाधिकारवान् २५ त्रिविधः कृत्यभेदेन दर्शितो नामभेदतः
ईश्वरोऽधस्तु विद्यानां पतीन्सम्प्रेरयत्यसौ २६ तेन प्रेरितमात्रास्ते कुर्वतेऽधस्तनं जगत्
शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः २७ यथा भूमण्डलेशेन नियुक्तः स्वयमप्रभुः
तथासौ कुरुते सर्वं तच्छक्तिप्रतिबोधितः २८ सर्वज्ञः शुद्धदेहस्तु सर्वज्ञानप्रकाशकः २९ इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे कर्मपटलस्तृतीयः