गरुडः
योऽसावात्मा त्वया प्रोक्तः किञ्चिज्ज्ञः सर्वविच्छिवः
निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः १
त्वयात्मा मलिनः प्रोक्तो निर्मलः किल शङ्करः
निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः २
भगवान्
अनादिमलसम्बन्धान्मलिनत्वमणोः स्थितम्
अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे ३
आदिमत्वं यदा सिद्धं निमित्तं कल्प्यते तदा
ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः ४
विशुद्धः स्फटिकः कस्मात्कस्मात्ताम्रं सकलिकम्
यथास्मिन्न निमित्तं हि तथा नैव शिवात्मनोः ५
गरुडः
किं निमित्तं पुनर्बद्धो बन्धेनात्मा कलादिना
स मायान्तर्गतः प्रोक्तो व्यापकश्च त्वया विभो ६
व्यापकत्वात्स सर्वत्र स्थितो मायोदरे कथम्
परस्परविरुद्धत्वात्कथमेतद्भविष्यति ७
भगवान्
मुक्त्यर्थं स पशुर्बद्धो नान्यथा सास्य जायते
यावच्छरीरसंश्लेषो न सञ्जातो न भोगभुक् ८
मायेयं तद्वपुस्तस्य तदभावान्न निर्वृतिः
तेन तेनास्वतन्त्रत्वान्मलिनो मलिनीकृतः ९
यथा वस्त्रं सदोषत्वान्मलान्तःस्थं विशुद्ध्यति
अशुद्धः पुद्गलो बद्धो मायोदरगतोऽपि सन् १०
मायोदरं हि यत्प्रोक्तं कलाद्यवनिलक्षितम्
तस्मिन्यश्च लयः प्रोक्तः सूक्ष्मदेहविवक्षया ११
गरुडः
त्वयानादिर्मलः प्रोक्तो मायेयोऽस्यात्मनोऽपि वा
गुणस्तद्व्यतिरिक्तो वा मलो ब्रूहि किमात्मनः १२
सहजोऽणोर्मलो मायाकार्यमागमिको मलः
माया नो मोहिनी प्रोक्ता यतः कार्यात्प्रकाशिका १३
यतः स्वकार्यसंश्लेषाच्चैतन्यद्योतिकात्मनः
मलं विदार्य चिद्व्यक्तिमेकदेशे करोत्यसौ १४
स्थिता प्रकाशिका कार्यान्मोहकत्वे न संस्थिता
प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः १५
व्यक्तिर्याणोर्मलः प्रोक्तः स्फुटं दीपान्धकारवत्
मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः १६
यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः
मयोत्थं बन्धनं तस्य सनिमित्तं प्रवर्तते १७
अनादिमलमुक्तस्य शिवस्यापि न किं भवेत्
तस्मान्मायामलो नैव व्यतिरिक्तः सयुक्तितः १८
मायाकार्यं समस्तं स्यात्कुतोऽन्यः सहजो मलः
आत्मस्थं तत्पशुत्वं स्यात्पशुरप्यध्वमध्यगः १९
प्रोक्तो येन मतस्तेन मलस्तद्भिन्नलक्षणः
मलोऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः २०
अविद्यावृतिमूर्छाश्च पर्यायास्तस्य चोदिताः
स चाविद्यादिपर्यायभेदैः सिद्धो मते मते २१
तत्सद्भावात्पशुः पश्यः शोध्यो बोध्यो मतस्त्विह
पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः २२
मले सति भवन्त्येता भोक्तृत्वं च न केवलम्
गरुडः
यद्येवं संस्थितः पाश्यो मलोऽस्य पशुसङ्गतः २३
आत्मनः किं न धर्मोऽसौ युक्तितः कल्प्यते मलः
भगवान्
आत्मनोऽनादिसम्बन्धाद्धर्म इत्युपचर्यते २४
कथं तज्ज्ञानयुक्तत्वादज्ञानगुणतां गतः
तस्य धर्मो न धर्मत्वे परिणामः स्फुटो भवेत् २५
चिद्धर्मे पुंसि नो धर्मो यदि स्यात्परिणामवान्
एकस्मिन्पूर्यते ज्ञानमन्यस्मिन्तत्तिरोहितम् २६
परिणामोऽचितः प्रोक्तश्चेतनस्य न युज्यते
गरुडः
तयोश्चानादिसम्बन्धाद्विश्लेषो न विभुत्वतः २७
सहजप्रलये प्राप्ते तस्य नाशो भवेन्न किम्
भगवान्
विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः २८
उपायाच्छक्तिसंरोधः कथञ्चित्क्रियते मले
यथाग्नेर्दहिका शक्तिर्मन्त्रैरशु निरुद्ध्यते २९
तद्वत्तच्छक्तिसंरोधाद्विश्लिष्ट इति कथ्यते
तं कृत्वा शक्तिसंरोधं क्रियते भवनिस्पृहः ३०
सहजा कालिका ताम्रे तत्क्षयान्न च तत्क्षयः
यद्वत्ताम्रे क्षयस्तद्वत्पुरुषस्य मलक्षयः ३१
यथा तण्डुलकम्बूके प्रक्षीणेऽपि न तत्क्षयः
विषसम्बन्धिनी शक्तिर्यथा मन्त्रैर्निरुद्ध्यते ३२
तथा न तद्विषं क्षीणमेवं पुंसो मलक्षयः
फलं कतकवृक्षस्य प्रक्षिप्तं कलुषे जले ३३
कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात्
शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् ३४
सोऽपि भोक्तृत्वभावेन लक्ष्यते पशुसङ्गतः
तदभावे न भोक्तृत्वमात्मनः प्रतिपद्यते ३५
इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे मायापटलो द्वितीयः